॥ श्रीमद् अध्यात्मरामायण ॥

॥ किष्किन्धाकाण्ड ॥

॥ तृतीयः सर्ग: ॥

निहते वालिनि रणे रामेण परमात्मना ।
दुद्रुवुर्वानराः सर्वे किष्किन्धां भयविह्वलाः ॥ १ ॥
तारामूचुर्महाभागे हतो वाली रणाजिरे ।
अङ्‌गदं परिरक्षाद्य मन्‍त्रिणः परिणोदय ॥ २ ॥
चतुर्द्वारकपाटादीन् बद्‍ध्वा रक्षामहे पुरीम् ।
वानराणां तु राजानं अङ्‌गदं कुरु भामिनि ॥ ३ ॥
निहतं वालिनं श्रुत्वा तारा शोकविमूर्छिता ।
अताडयत्स्वपाणिभ्यां शिरो वक्षश्च भूरिशः ॥ ४ ॥
किमङ्‌गदेन राज्येन नगरेण धनेन वा ।
इदानीमेव निधनं यास्यामि पतिना सह ॥ ५ ॥
इत्युक्‍त्वा त्वरिता तत्र रुदती मुक्तमूर्धजा ।
ययौ तारातिशोकार्ता यत्र भर्तृकलेवरम् ॥ ६ ॥
पतितं वालिनं दृष्ट्वा रक्तैः पांसुभिरावृतम् ।
रदती नथनाथेति पतिता तस्य पादयोः ॥ ७ ॥
करुणं विलपन्ती सा ददर्श रघुनन्दनम् ।
राम मां जहि बाणेन येन वाली हतस्त्वया ॥ ८ ॥
गच्छामि पतिसालोक्यं पतिर्मामभिकाङ्‌क्षते ।
स्वर्गेऽपि न सुखं तस्य मां विना रघुनन्दन ॥ ९ ॥
पत्‍निवियोगजं दुःखं अनुभूतं त्वयानघ ।
वालिने मां प्रयच्छाशु पत्‍नीदानफलं भवेत् ॥ १० ॥
सुग्रीवं त्वं सुखं राज्यं दापितं वालिघातिना ।
रामेण रुमया सार्धं भुङ्‌क्ष्व सापत्‍नवर्जितम् ॥ ११ ॥
इत्येवं विलपन्तीं तां तारां रामो महामनाः ।
सान्त्वयामास दयया तत्त्वज्ञानोपदेशतः ॥ १२ ॥
किं भीरु शोच्यसि व्यर्थं शोकस्याविषयं पतिम् ।
पतिस्तवायं देहो वा जीवो वा वद तत्त्वतः ॥ १३ ॥
पङ्चात्मको जडो देहः त्वङ्‌मांसरुधिरास्थिमान् ।
कालकर्मगुणोत्पन्नः सोऽप्यास्तेऽद्यापि ते पुरः ॥ १४ ॥
मन्यसे जीवमात्मानं जीवस्तर्हि निरायमः ।
न जायते न म्रियते न तिष्ठति न गच्छति ॥ १५ ॥
न स्त्री पुमान्वा षण्ढो वा जीवः सर्वगतोऽव्ययः ।
एक एवाद्वितीयोऽयं आकाशवदलेपकः ।
नित्यो ज्ञानमयः शुद्धः स कथं शोकमर्हति ॥ १६ ॥
तारोवाच
देहोऽचित्काष्ठवद्‍राम जीवो नित्यश्चिदात्मकः ।
सुखदुःखादिसम्बन्धः कस्य स्याद्‍राम मे वद ॥ १७ ॥
श्रीराम उवाच
अहङ्‌कारादिसम्बन्धो यावद्देहेन्द्रियैः सह ।
संसारस्तावदेव स्यात् आत्मनस्त्वविवेकिनः ॥ १८ ॥
मिथ्यारोपितसंसारो न स्वयं विनिवर्तते ।
विषयान्ध्यायमानस्य स्वप्ने मिथ्यागमो यथा ॥ १९ ॥
अनाद्यविद्यासम्बन्धात् तत्कार्याहङ्‌कृतेस्तथा ।
संसारोऽपार्थकोऽपि स्यात् रागद्वेषादिसङ्‌कुलः ॥ २० ॥
मन एव हि संसारो बन्धश्चैव मनः शुभे ।
आत्मा मनः समानत्वं एत्य तद्‍गतबंधभाक् ॥ २१ ॥
यथा विशुद्धः स्फटिको अलक्तकादिसमीपगः ।
तत्तद्वर्णयुगाभाति वस्तुतो नास्ति रञ्जनम् ॥ २२ ॥
बुद्धीन्द्रियादिसामीप्यात् आत्मनः संसृतिर्बलात् ।
आत्मा स्वलिङ्‌गं तु मन परिगृह्य तदुद्‌भवान् ॥ २३ ॥
कामान् जुषन् गुणैर्बद्धः संसारे वर्ततेऽवशः ।
आदौ मनोगुणान् सृष्ट्वा ततः कर्माण्यनेकधा ॥ २४ ॥
शुक्ललोहितकृष्णानि गतयस्तत्समानतः ।
एवं कर्मवशाज्जिवो भ्रमत्याभूतसम्प्लवम् ॥ २५ ॥
सर्वोपसंहृतौ जीवो वासनाभिः स्वकर्मभिः ।
अनाद्यविद्यावशगः तिष्ठत्यभिनिवेशतः ॥ २६ ॥
सृष्टिकाले पुनः पूर्व वासनामानसैः सह ।
जायते पुनरप्येवं घटीयन्त्रमिवावशः ॥ २७ ॥
यदा पुण्यविशेषेण लभते सङ्‌गतिं सताम् ।
मद्‌भक्तानां सुशान्तानां तदा मद्विषया मतिः ॥ २८ ॥
मत्कथाश्रवणे श्रद्धा दुर्लभा जायते ततः ।
ततः स्वरूपविज्ञानं अनायासेन जायते ॥ २९ ॥
तदाचार्यप्रसादेन वाक्यार्थज्ञानतः क्षणात् ।
देहेन्द्रियमनः प्राण अहङ्‌कृतिभ्यः पृथक्स्थितम् ॥ ३० ॥
स्वात्मानुभवतः सत्यं आनन्दात्मानमद्वयम् ।
ज्ञात्वा सद्यो भवेन्मुक्तः सत्यमेव मयोदितम् ॥ ३१ ॥
एवं मयोदितं सम्यक् आलोचयति योऽनिशम् ।
तस्य संसारदुःखानि न स्पृश्यन्ति कदाचन ॥ ३२ ॥
त्वमप्येतन्मया प्रोक्तं आलोचय विशुद्धधीः ।
न स्पृश्यसे दुःखजालैः कर्मबन्धाद्विमोक्ष्यसे ॥ ३३ ॥
पूर्वजन्मनि ते सुभ्रु कृता मद्‌भक्तिरुत्तमा ।
अतस्तव विमोक्षाय रूपं मे दर्शितं शुभे ॥ ३४ ॥
ध्यात्वा मद्‌रूपमनिशं आलोचय मयोदितम् ।
प्रवाहपतितं कार्यं कुर्वत्यपि न लिप्यसे ॥ ३५ ॥
श्रीरामेणोदितं सर्वं श्रुत्वा तारातिविस्मिता ।
देहाभिमानजं शोकं त्यक्‍त्वा नत्वा रघूत्तमम् ॥ ३६ ॥
आत्मानुभवसंतुष्टा जीवन्मुक्ता बभूव ह ।
क्षणसङ्‌गममात्रेण रामेण परमात्मना ॥ ३७ ॥
अनादिबन्धं निर्धूय मुक्ता सापि विकल्मषा ।
सुग्रीवोऽपि च तच्छ्रुत्वा रामवक्‍त्रात्समीरितम् ॥ ३८ ॥
जहावज्ञानमखिलं स्वस्थचित्तोऽभवत्तदा ।
ततः सुग्रीवमादेहं रामो वानरपुङ्‌गवम् ॥ ३९ ॥
भ्रातुर्ज्येष्ठस्य पुत्रेण यदुक्तं साम्परायिकम् ।
कुरु सर्वं यथान्यायं संस्कारादि ममाज्ञया ॥ ४० ॥
तथेति बलिभिर्मुख्यैः वानरै परिणीय तम् ।
वालिनं पुष्पके क्षिप्त्वा सर्वराजोपचारकैः ॥ ४१ ॥
भेरीदुन्दुभिनिर्घोषैः ब्राह्मणैर्मंत्रिभिः सह ।
यूथपैर्वानरै पौरैः तारया चाङ्‌गदेन च ॥ ४२ ॥
गत्व चकार तत्सर्वं यथाशास्त्रं प्रयत्‍नतः ।
स्नात्वा जगाम रामस्य समीपं मंत्रिभिः सह ॥ ४३ ॥
नत्वा रामस्य चरणौ सुग्रीवः प्राह हृष्टधीः ।
राज्यं प्रशाधि राजेन्द्र वानराणां समृद्धिमत् ॥ ४४ ॥
दासोऽहं ते पादपद्मं सेवे लक्ष्मणवच्चिरम् ।
इत्युक्तो राघवः प्राह सुग्रीवं सस्मितं वचः ॥ ४५ ॥
त्वमेवाहं न सन्देहः शीघ्रं गच्छ ममाज्ञया ।
पुरराज्याधिपत्ये त्वं स्वात्मानमभिषेचय ॥ ४६ ॥
नगरं न प्रवेक्ष्यामि चतुर्दश समाः सखे ।
आगमिष्यति मे भ्राता लक्ष्मणः पत्तनं तव ॥ ४७ ॥
अङ्‌गदं यौवराज्ये त्वं अभिषेचय सादरम् ।
अहं समीपे शिखरे पर्वतस्य सहानुजः ॥ ४८ ॥
वत्स्यामि वर्षदिवसान् ततस्त्वं यत्‍नवान् भव ।
किञ्चित्कालं पुरे स्थित्वा सीतायां परिमार्गणे ॥ ४९ ॥
साष्टाङ्‌गं प्रणिपत्याह सुग्रीवो रामपादयोः ।
यदाज्ञापयसे देव तत्तथैव करोम्यहम् ॥ ५० ॥
अनुज्ञानश्च रामेण सुग्रीवस्तु सलक्ष्मणः ।
गत्वा पुरं तथा चक्रे यथा रामेण चोदितं ॥ ५१ ॥
सुग्रिवेण यथान्यायं पूजितो लक्ष्मणस्तदा ।
आगत्य राघवं शीघ्रं प्रणिपत्योपतस्थिवान् ॥ ५२ ॥
ततो रामो जगामाशु लक्ष्मणेन समन्वितः ।
प्रवर्षणगिरेरूर्ध्वं शिखरं भूरिविस्तरम् ॥ ५३ ॥
तत्रैक गह्वरं दृष्ट्वा स्फाटिकं दीप्तिमच्छुभम् ।
वर्षवातातपसहं फलमूलसमीपगम् ।
वासाय रोचयामास तत्र रामः सलक्ष्मणः ॥ ५४ ॥
दिव्यमूलफलपुष्पसंयुते
मौक्तिकोपमजलौघपल्वले ।
चित्रवर्णमृगपक्षिशोभिते
पर्वते रघुकुलोत्तमोऽवसत् ॥ ५५ ॥
इति श्रीमद् अध्यात्मरामायणे उमामहेश्वरसंवादे
किष्किन्धाकाण्डे तृतीयः सर्गः ॥ ३ ॥

GO TOP