॥ श्रीमद् अध्यात्मरामायण ॥

॥ किष्किन्धाकाण्ड ॥

॥ चतुर्थः सर्ग: ॥

तत्र वार्षिकदिनानि राघवो
लीलया मणिगुहासु सञ्चरन् ।
पक्वमूलफलभोगतोषितो
लक्ष्मणेन सहितोऽवसत्सुखम् ॥ १ ॥
वातनुन्नजलपुरितमेघान्-
अन्तरस्तनितवैद्युतगर्भान् ।
वीक्ष्य विस्मयमगाद्‍गजयूथान्-
यद्वदाहितसुकाञ्चनकक्षान् ॥ २ ॥
नवघासं समास्वाद्य हृष्टपुष्टमृगद्विजाः ।
धावन्तो परितो रामं वीक्ष्य विस्फारितेक्षणाः ॥ ३ ॥
न चलन्ति सदाध्यान-निष्ठा इव मुनीश्वराः ।
रामं मानुषरूपेण गिरिकाननभूमिषु ॥ ४ ॥
चरन्तं परमात्मानं ज्ञात्वा सिद्धगणा भुवि ।
मृगपक्षिगणा भूत्वा राममेवानुसेविरे ॥ ५ ॥
सौमित्रिरेकदा रामं एकान्ते ध्यानतत्परम् ।
समाधिविरमे भक्‍त्या प्रणयाद्विनयान्वितः ॥ ६ ॥
अब्रवीद्देव ते वाक्यात् पूर्वोक्ताद्विगतो मम ।
अनाद्यविद्यासम्भूतः संशयो हृदि संस्थितः ॥ ७ ॥
इदानीं श्रोतुमिच्छामि क्रियामार्गेण राघव ।
भवदाराधनं लोके यथा कुर्वन्ति योगिनः ॥ ८ ॥
इदमेव सदा प्राहुः योगिनो मुक्तिसाधनम् ।
नारदोऽपि तथा व्यासो ब्रह्मा कमलसम्भवः ॥ ९ ॥
ब्रह्मक्षत्रादिवर्णानां आश्रमाणां च मोक्षदम् ।
स्त्रीशूद्राणां च राजेन्द्र सुलभं मुक्तिसाधनम् ।
तव भक्ताय मे भ्रात्रे ब्रूहि लोकोपकारकम् ॥ १० ॥
श्रीराम उवाच
मम पूजाविधानस्य नान्तोऽपि रघुनन्दन ।
तथापि वक्ष्ये सङ्‌क्षेपात् यथावदनुपूर्वशः ॥ ११ ॥
स्वगृह्योक्तप्रकारेण द्विजत्वं प्राप्य मानवः ।
सकाशात् सत्‍गुरोर्मंत्रं लब्ध्वा मद्‌भक्तिसंयुतः ॥ १२ ॥
तेन सन्दर्शितविधिः मां एव आराधयेत्सुधीः ।
हृदये वानले वा अर्चेत् प्रतिमादौ विभावसौ ॥ १३ ॥
शालग्रामशिलायां वा पूजयेत् मां अतन्द्रितः ।
प्रातःस्नानं प्रकुर्वीत प्रथमं देहशुद्धये ॥ १४ ॥
वेदतन्त्रोदितैर्मंत्रैः मृल्लेपनविधानतः ।
सन्ध्यादि कर्म यन्नित्यं तत्कुर्याद् विधिना बुधः ॥ १५ ॥
सङ्पल्पमादौ कुर्वीत सिद्ध्यर्थं कर्मणां सुधीः ।
स्वगुरुं पूजयेद्‌भक्‍त्या मद्‌बुद्ध्या पूजको मम ॥ १६ ॥
शिलायां स्नपनं कुर्यात् प्रतिमासु प्रमार्जनम् ।
प्रसिद्धैर्गन्धपुष्पाद्यैः मत्पूजा सिद्धिदायिका ॥ १७ ॥
अमायिकोऽनुवृत्त्या मां पूजयेत् नियतव्रतः ।
प्रतिमादिष्वलङ्‌कारः प्रियो मे कुलनन्दन ॥ १८ ॥
अग्नौ यजेत हविषा भास्करे स्थण्डिले यजेत् ।
भक्तेनोपहृतं प्रीत्यै श्रद्धया मम वार्यपि ॥ १९ ॥
किं पुनर्भक्ष्यभोज्यादि गन्धपुष्पाक्षतादिकम् ।
पूजाद्रव्याणि सर्वाणि सम्पाद्यैवं समारभेत् ॥ २० ॥
चैलाजिनकुशैः सम्यक् आसनं परिकल्पयेत् ।
तत्रोपविश्य देवस्य सम्मुखे शुद्धमानसः ॥ २१ ॥
ततो न्यासं प्रकूर्वीत मातृकाबहिरान्तरम् ।
केशवादि ततः कूर्यात् तत्त्वन्यासं ततः परम् ॥ २२ ॥
मन्मूर्तिपञ्जरन्यासं मंत्रन्यासं ततो न्यसेत् ।
प्रतिमादावपि तथा कुर्यात् नित्यमतन्द्रितः ॥ २३ ॥
कलशं स्वपुरो वामे क्षिपेत्पुष्पादि दक्षिणे ।
अर्घ्यपाद्यप्रदानार्थं मधुपर्कार्थमेव च ॥ २४ ॥
तथैव आचमनार्थं तु न्यसेत्पात्रचतुष्टयम् ।
हृत्पद्मे भानुविमले मत्कलां जीवसंज्ञिताम् ॥ २५ ॥
ध्यायेत्स्वदेहमखिलं तया व्याप्तमरिन्दम ।
तामेव आवाहयेन्नित्यं प्रतिमादिषु मत्कलाम् ॥ २६ ॥
पाद्यार्घ्याचमनीयाद्यैः स्नानवस्त्राविभूषणैः ।
यावच्छक्योपचारैर्वा त्वर्चयेन्माममायया ॥ २७ ॥
विभवे सति कर्पूर कुङ्‌कुमागरुचन्दनैः ।
अर्चयेन्मंत्रवन्नित्यं सुगन्धकुसुमैः शुभैः ॥ २८ ॥
दशावरणपूजां वै ह्यागमोक्तां प्रकारयेत् ।
नीराजनैर्धूपदीपैः नैवेद्यैर्बहुविस्तरैः ॥ २९ ॥
श्रद्धयोपहरेन्नित्यं श्रद्धाभुगहमीश्वरः ।
होमं कुर्यात्प्रयत्‍नेन विधिना मंत्रकोविदः ॥ ३० ॥
अगस्त्येनोक्तमार्गेण कुण्डेनागमवित्तमः ।
जुहुयात् मूलमंत्रेण पुंसूक्तेनाथवा बुधः ॥ ३१ ॥
अथवौपासनाग्नौ वा चरुणा हविषा तथा ।
तप्तजाम्बूनदप्रख्यं दिव्याभरणभूषितम् ॥ ३२ ॥
ध्यायेदनलमध्यस्थं होमकाले सदा बुधः ।
पार्षदेभ्यो बलिं दत्त्वा होमशेषं समापयेत् ॥ ३३ ॥
ततो जपं प्रकूर्वीत ध्यायेन्मां यतवाक् स्मरन् ।
मुखवासं च ताम्बूलं दत्त्वा प्रीतीसमन्वितः ॥ ३४ ॥
मदर्थे नृत्यगीतादि स्तुतिपाठादि कारयेत् ।
प्रणमेद्दण्डवद्‌भूमौ हृदये मां निधाय च ॥ ३५ ॥
शिरस्याधाय मद्दत्तं प्रसादं भावनामयम् ।
पाणिभ्यां मत्पदे मूर्ध्नि गृहीत्वा भक्तिसंयुतः ॥ ३६ ॥
रक्ष मा घोरसंसारात् इत्युक्‍त्वा प्रणमेत्सुधीः ।
उद्वासयेद्यथापूर्वं प्रत्यग्ज्योतिषि संस्मरन् ॥ ३७ ॥
एवं उक्तप्रकारेण पूजयेत् विधिवद्यदि ।
इहामूत्र च संसिद्धिं प्राप्नोति मदनुग्रहात् ॥ ३८ ॥
मद्‌भक्तो यदि मामेवं पूजां चैव दिने दिने ।
करोति मम सारूप्यं प्राप्नोत्येव न संशयः ॥ ३९ ॥
इदं रहस्यं परमं च पावनं
मयैव साक्षात्कथितं सनातनम् ।
पठत्यजस्रं यदि वा शृणोति यः
स सर्वपूजाफलभाङ् न संशयः ॥ ४० ॥
एवं परात्मा श्रीरामः क्रियायोगमनुत्तमम् ।
पृष्टः प्राह स्वभक्ताय शेषांशाय महात्मने ॥ ४१ ॥
पुनः प्राकृतवद्‍रामो मायामालम्ब्य दुःखितः ।
हा सीतेति वदन्नैव निद्रां लेभे कथञ्चन ॥ ४२ ॥
एतस्मिन्नन्तरे तत्र किष्किन्धायां सुबुद्धिमान् ।
हनूमान्प्राह सुग्रीवं एकान्ते कपिनायकम् ॥ ४३ ॥
शृणु राजन् प्रवक्ष्यामि तवैव हितमुत्तमम् ।
रामेण ते कृतः पूर्वं उपकारो ह्यनुत्तमः ॥ ४४ ॥
कृतघ्नवत्त्वया नूनं विस्मृतः प्रतिभाति मे ।
त्वत्कृते निहितो वाली वीरस्त्रैलोक्यसम्मतः ॥ ४५ ॥
राज्ये प्रतिष्ठितोऽसि त्वं तारां प्राप्तोऽसि दुर्लभाम् ।
स रामः पर्वताग्रे भ्राता सह वसन्सुधीः ॥ ४६ ॥
त्वदागमनमेकाग्रं ईक्षते कार्यगौरवात् ।
त्वं तु वानरभावेन स्त्रीसक्तो नावबुद्ध्यसे ॥ ४७ ॥
करोमीति प्रतिज्ञाय सीतायाः परिमार्गणम् ।
न करोषि कृतघ्नस्त्वं हन्यसे वालिवद्‍द्रुतम् ॥ ४८ ॥
हनूमद्वचनं श्रुत्वा सुग्रीवो भयविह्वलः ।
प्रत्युवाच हनूमन्तं सत्यमेव त्वयोदितम् ॥ ४९ ॥
शीघ्रं कुरु ममाज्ञां त्वं वानराणां तरस्विनाम् ।
सहस्राणि दशेदानीं प्रेषयाशु दिशो दश ॥ ५० ॥
सप्तद्वीपगतान्सर्वान् वानरान् आनयन्तु ते ।
पक्षमध्ये समायान्तु सर्व वानरपुङ्‌गवा ॥ ५१ ॥
ये पक्षमतिवर्तन्ते ते वध्या मे न संशयः ।
इत्याज्ञाप्य हनूमन्तं सुग्रीवो गृहमाविशत् ॥ ५२ ॥
सुग्रीवाज्ञां पुरस्कृत्य हनूमान् मंत्रिसत्तमः ।
तत्क्षणे प्रेषयामास हरीन्दश दिशः सुधीः ॥ ५३ ॥
अगणितगुणसत्त्वान् वायुवेगप्रचारान्
वनचरगणमुख्यान् पर्वताकाररूपान् ।
पवनहितकुमारः प्रेषयामास दूतान् -
अतिरभसतरात्मा दानमानादितृप्तान् ॥ ५४ ॥
इति श्रीमद् अध्यात्मरामायणे उमामहेश्वरसंवादे
किष्किन्धाकाण्डे चतुर्थः सर्गः ॥ ४ ॥

GO TOP