॥ श्रीमद् अध्यात्मरामायण ॥

॥ उत्तरकाण्ड ॥

॥ पंचमः सर्ग: ॥

श्रीमहादेव उवाच

ततो जगन्मङ्‍गलमङ्‍गलात्मना
विधाय रामायणकीर्तिमुत्तमाम् ।
चचार पूर्वाचरितं रघुत्तमो
राजर्षिवर्यैः अभिसेवितं यथा ॥ १ ॥
सौमित्रिणा पृष्ट उदारबुद्धिना
रामः कथाः प्राह पुरातनीः शुभाः ।
राज्ञः प्रमत्तस्य नृगस्य शापतो
द्विजस्य तिर्यक्‍त्वमथाह राघवः ॥ २ ॥
कदाचिदेकान्त उपस्थितं प्रभुं
रामं रमालालित पादपङ्‍कजम् ।
सौमित्रिरासादितशुद्धभावनः
प्रणम्य भक्त्या विनयान्वितोऽब्रवीत् ॥ ३ ॥
त्वं शुद्धबोधोऽसि हि सर्वदेहिनां-
आत्मास्यधीशोऽसि निराकृतिः स्वयम् ।
प्रतीयसे ज्ञानदृशां महामते
पादाब्जभृङ्‍गाहित सङ्‍गसङ्‌गिनाम् ॥ ४ ॥
अहं प्रपन्नोऽस्मि पदाम्बुजं प्रभो
भवापवर्गं तव योगिभावितम् ।
यथाञ्जसाज्ञानमपारवारिधिं
सुखं तरिष्यामि तथानुशाधि माम् ॥ ५ ॥
श्रुत्वाथ सौमित्रिवचोऽखिलं तदा
प्राह प्रान्नार्तिहरः प्रसन्नधीः ।
विज्ञानमज्ञानतमःप्रशान्तये
श्रुतिप्रपन्नं क्षितिपालभूषणः ॥ ६ ॥
आदौ स्ववर्णाश्रमवर्णिताः क्रियाः
कृत्वा समासादितशुद्धमानसः ।
समाप्य तत्पूर्वमुपात्तसाधनः
समाश्रयेत् सद्‍गुरुमात्मलब्धये ॥ ७ ॥
क्रिया शरीरोद्‌भवहेतुरादृता
प्रियाप्रियौ तौ भवतः सुरागिणः ।
धर्मेतरौ तत्र पुनः शरीरकं
पुनः क्रिया चक्रवदीर्यते भवः ॥ ८ ॥
अज्ञानमेवास्य हि मूलकारणं
तद्धानमेवात्र विधौ विधीयते ।
विद्यैव तन्नाशविधौ पटीयसी ।
न कर्म तज्जं सविरोधमीरितम् ॥ ९ ॥
नाज्ञानहानिर्न च रागसंक्षयो
भवेत्ततः कर्म सदोषमुद्‌भवेत् ।
ततः पुनः संसृतिरप्यवारिता
तस्माद्‌बुधो ज्ञानविचारवान्भवेत् ॥ १० ॥
ननु क्रिया वेदमुखेन चोदिता
तथैव विद्या पुरुषार्थसाधनम् ।
कर्तव्यता प्राणभृतः प्रचोदिता
विद्यासहायत्वमुपैति सा पुनः ॥ ११ ॥
कर्माकृतौ दोषमपि श्रुतिर्जगौ
तस्मात्सदा कार्यमिदं मुमुक्षुणा ।
ननु स्वतन्त्रा ध्रुवकार्यकारिणी
विद्या न किञ्चिन्मनसाप्यपेक्षते ॥ १२ ॥
न सत्यकार्योऽपि हि यद्वदध्वरः
प्रकाङ्‍क्षतेऽन्यानपि कारकादिकान्
तथैव विद्या विधितः प्रकशितै-
र्विशिष्यते कर्मभिरेव मुक्तये ॥ १३ ॥
केचिद्वदन्तीति वितर्कवादिनः-
तदप्य सद्‍दृष्टविरोधकारणात्
देहाभिमानादभिवर्धते क्रिया
विद्या गताहङ्‍कृतितः प्रसिद्धयति ॥ १४ ॥
विशुद्धविज्ञानविरोचनाञ्चिता
विद्यात्मवृत्तिश्चरमेति भण्यते ।
उदेति कर्माखिलकारकादिभिः
निहन्ति विद्याखिलकारकादिकम् ॥ १५ ॥
तस्मात्त्यजेत्कार्यमशेषतः सुधीः-
विद्याविरोधान्न समुच्चयो भवेत् ।
आत्मानुसन्धानपरायणः सदा
निवृत्तसर्वेन्द्रियवृत्तिगोचरः ॥ १६ ॥
यावच्छरीरादिषु माययात्मधीः
तावद्विधेयो विधिवादकर्मणाम् ।
नेतीति वाक्यैरखिलं निषिध्य तत्-
ज्ञात्वा परात्मानमथ त्यजेत्क्रियाः ॥ १७ ॥
यदा परात्मामविभेदभेदकं
विज्ञानमात्मन्यवभाति भास्वरम् ।
तदैव माया प्रविलीयतेऽञ्जसा
सकारका कारणमात्मसंसृतेः ॥ १८ ॥
श्रुतिप्रमाणाभिविनाशिता च सा
कथं भविष्यत्यपि कार्यकारिणी ।
विज्ञानमात्रादमलाद्वितीयतः
तस्मादविद्या न पुनर्भविष्यति ॥ १९ ॥
यदि स्म नष्टा न पुनः प्रसूयते
कर्ताहमस्येति मतिः कथं भवेत् ।
तस्मात्स्वतन्‍त्रा न किमप्यपेक्षते
विद्या विमोक्षाय विभाति केवला ॥ २० ॥
सा तैत्तिरीयश्रुतिराह सादरं
न्यासं प्रशस्ताखिलकर्मणां स्फुटम् ।
एतावदित्याह च वाजिनां श्रुतिः
ज्ञानं विमोक्षाय न कर्म साधनम् ॥ २१ ॥
विद्यासमत्वेन तु दर्शितस्त्वया
क्रतुर्न दृष्टान्त उदाहृतः समः ।
फलैः पृथक्‍त्वाद्‌बहुकारकैः क्रतुः
संसाध्यते ज्ञानमतो विपर्ययम् ॥ २२ ॥
सप्रत्यवायो ह्यहमित्यनात्मधीः-
अज्ञप्रसिद्धा न तु तत्त्वदर्शिनः ।
तस्माद्‌बुधैस्त्याज्यमविक्रियात्मभिः
विधानतः कर्म विधिप्रकाशितम् ॥ २३ ॥
श्रद्धान्वितस्तत्त्वमसीति वाक्यतो
गुरोः प्रसादादपि शुद्धमानसः ।
विज्ञाय चैकात्म्यमथात्मजीवयोः
सुखी भवेन्मेरुरिवाप्रकम्पनः ॥ २४ ॥
आदौ पदार्थावगतिर्हि कारणं
वाक्यार्थविज्ञानविधौ विधानतः ।
तत्त्वम्पदार्थो परमात्मजीवकौ-
असीति चैकात्म्यमथानयोर्भवेत् ॥ २५ ॥
प्रत्यक्‍परोक्षादिविरोधमात्मनोः
विहाय सङ्‍गृह्य तयोश्चिदात्मताम् ।
संशोधितां लक्षणया च लक्षितां
ज्ञात्वा स्वमात्मानमथाद्वयो भवेत् ॥ २६ ॥
एकात्मकत्वाज्जहती न सम्भवेत्-
तथाजहल्लक्षणता विरोधतः ।
सोऽयं पदार्थाविव भालक्षणा
युज्येत तत्त्वं पदयोरदोषतः ॥ २७ ॥
रसादिपञ्चीकृतभूतसम्भवं
भोगालयं दुःखसुखादिकर्मणाम् ।
शरीरमाद्यन्तवदादिकर्मजं
मायामयं स्थूलमुपाधिमात्मनः ॥ २८ ॥
सूक्ष्मं मनोबुद्धिदशेन्द्रियैर्युतं
प्राणैरपञ्चीकृतभूतसम्भवम् ।
भोक्तुः सुखादेरनुसाधनं भवेत्-
शरीरमन्यद्विदुरात्मनो बुधाः ॥ २९ ॥
अनाद्यनिर्वाच्यमपीह कारणं
मायाप्रधानं तु परं शरीरकम् ।
उपाधिभेदात्तु यतः पृथक् स्थितं
स्वात्मानमात्मन्यवधारयेत्क्रमात् ॥ ३० ॥
क्रोशेष्वयं तेषु तु तत्तदाकृतिः
विभाति सङ्‍गात्स्फटिकोपलो यथा ।
असङ्‍गरूपोऽयमजो यतोऽद्वयो
विज्ञायतेऽस्मिन्परितो विचारिते ॥ ३१ ॥
बुद्धेस्त्रिधा वृत्तिरपीह दृश्यते
स्वप्नादिभेदेन गुणत्रयात्मनः ।
अन्योन्यतोऽस्मिन् व्यभिचारतो मृषा
नित्ये परे ब्रह्मणि केवले शिवे ॥ ३२ ॥
देहेन्द्रियप्राण मनश्चिदात्मनां
सङ्‍घादजस्रं परिवर्तते धियः ।
वृत्तिस्तमोमूलतयाज्ञलक्षणा
यावद्‌भवेत्तावदसौ भवोद्‌भवः ॥ ३३ ॥
नेतिप्रमाणेन निराकृताखिलो
हृदा समास्वादितचिद्‍घनामृतः ।
त्यजेदशेषं जगदात्तसद्रसं
पीत्वा यथाम्भः प्रजहाति तत्फलम् ॥ ३४ ॥
कदाचिदात्मा न मृतो न जायते
न क्षीयते नापि विवर्धतेऽनवः ।
निरस्तसर्वातिशयः सुखात्मकः
स्वयम्प्रभः सर्वगतोऽयमद्वयः ॥ ३५ ॥
एवंविधे ज्ञानमये सुखात्मके
कथं भवो दुःखमयः प्रतीयते ।
अज्ञानतोऽध्यासवशात् प्रकाशते
ज्ञाने विलीयेत विरोधतः क्षणात् ॥ ३६ ॥
यदन्यदन्यत्र विभाव्यते भ्रमाद्
अध्यासमित्याहुरमुं विपश्चितः ।
असर्पभूतेऽहिविभावनं यथा
रज्ज्वादिके तद्वदपीश्वरे जगत् ॥ ३७ ॥
विकल्पमायारहिते चिदात्मके-
अहङ्‍कार एष प्रथमः प्रकल्पितः ।
अध्यास एवात्मनि सर्वकारणे
निरामये ब्रह्मणि केवले परे ॥ ३८ ॥
इच्छादिरागादिसुखादिधर्मिकाः
सदा धियः संसृतिहेतवः परे ।
यस्मात् प्रसुप्तौ तदभावतः परः
सुखस्वरूपेण विभाव्यते हि नः ॥ ३९ ॥
अनाद्यविद्योद्‌भवबुद्धिबिम्बितो
जीवः प्रकाशोऽयमितीर्यते चितः ।
आत्मा धियः साक्षितया पृथक् स्थितो
बुद्ध्यापरिच्छिन्नपरः स एव हि ॥ ४० ॥
चिद्‌विम्बसाक्ष्यात्मधियां प्रसङ्‍गतः
त्वेकत्र वासादनलाक्तलोहवत् ।
अन्योन्यमध्यासवशात् प्रतीयते
जडाजडत्वं च चिदात्मचेतसोः ॥ ४१ ॥
गुरोः सकाशादपि वेदवाक्यतः ।
सञ्जातविद्यानुभवो निरीक्ष्य तम् ।
स्वात्मानमात्मस्थमुपाधिवर्जितं
त्यजेदशेषं जडमात्मगोचरम् ॥ ४२ ॥
प्रकाशरूपोऽहमजोऽहमद्वयो-
असकृद्विभातोऽहमतीव निर्मलः ।
विशुद्ध विज्ञानघनो निरामयः
सम्पूर्ण आनन्दमयोऽहमक्रियः ॥ ४३ ॥
सदैव मुक्तोऽहमचिन्त्यशक्तिमान्-
अतीन्द्रियज्ञानमविक्रियात्मकः ।
अनन्तपारोऽहमहर्निशं बुधैः
विभावितोऽहं हृदि वेदवादिभिः ॥ ४४ ॥
एवं सदात्मानमखण्डितात्मना
विचारमाणस्य विशुद्धभावना ।
हन्यादविद्यामचिरेण कारकै
रसायनं यद्वदुपासितं रुजः ॥ ४५ ॥
विविक्त आसीन उपारतेन्द्रियो
विनिर्जितात्मा विमलान्तराशयः ।
विभावयेदेकमनन्यसाधनो
विज्ञानदृक् केवल आत्मसंस्थितः ॥ ४६ ॥
विश्वं यदेतत्परमात्मदर्शनं
विलापयेदात्मनि सर्वकारणे ।
पूर्णश्चिदानन्दमयोऽवतिष्ठते
न वेद बाह्यं न च किञ्चिदान्तरम् ॥ ४७ ॥
पूर्वं समाधेरखिलं विचिन्तयेत्
ओङ्‍कारमात्रं सचराचरं जगत् ।
तदेव वाच्यं प्रणवो हि वाचको
विभाव्यतेऽज्ञानवशान्न बोधतः ॥ ४८ ॥
अकारसंज्ञः पुरुषो हि विश्वको
ह्युकारकस्तैजस ईर्यते क्रमात् ।
प्राज्ञो मकारः परिपठ्यतेऽखिलैः
समाधिपूर्वं न तु तत्त्वतो भवेत् ॥ ४९ ॥
विश्वं त्वकारं पुरुषं विलापयेत्
उकारमध्ये बहुधा व्यवस्थितम् ।
ततो मकारे प्रविलाप्य तैजसं
द्वितीयवर्णं प्रणवस्य चान्तिमे ॥ ५० ॥
मकारमप्यात्मनि चिद्‍घने परे
विलापयेद्प्राज्ञमपीह कारणम् ।
सोऽहं परं ब्रह्म सदा विमुक्तिमत्
विज्ञानदृङ्‍मुक्त उपधितोऽमलः ॥ ५१ ॥
एवं सदा जातपरात्मभावनः
स्वानन्दतुष्टः परिविस्मृताखिलः ।
आस्ते स नित्यात्मसुखप्रकाशकः
साक्षात् विमुक्तोऽचलवारिसिन्धुवत् ॥ ५२ ॥
एवं सदाभ्यस्तसमाधियोगिनो
निवृत्तसर्वेन्द्रियगोचरस्य हि ।
विनिर्जिताशेषरिपोरहं सदा
दृश्यो भवेयं जितषड्‌गुणात्मनः ॥ ५३ ॥
ध्यात्वैवमात्मानमहर्निशं मुनिः
तिष्ठेत्सदा मुक्तसमस्तबन्धनः ।
प्रारब्धमश्नन्नभिमानवर्जितो
मय्येव सक्षात् प्रविलीयते ततः ॥ ५४ ॥
आदौ च मध्ये च तथैव चान्ततो
भवं विदित्वा भयशोककारणम् ।
हित्वा समस्तं विधिवादचोदितं
भजेत् स्वमात्मानमथाखिलात्मनाम् ॥ ५५ ॥
आत्मन्यभेदेन विभावयन्निदं
भवत्यभेदेन मयात्मना तदा ।
यथा जलं वारिनिधौ यथा पयः
क्षीरे वियद्‍व्योम्न्यनिले यथानिलः ॥ ५६ ॥
इत्थं यदीक्षेत हि लोकसंस्थितो
जगन्मृषैवेति विभावयन्मुनिः ।
निराकृतत्वात् श्रुतियुक्तिमानतो
यथेन्दुभेदो दिशि दिग्भ्रमादयः ॥ ५७ ॥
यावन्न पश्येदखिलं मदात्मकं
तावन्मदाराधनतत्परो भवेत्
श्रद्धालुरत्यूर्जितभक्तिलक्षणो
यस्तस्य दृश्योऽहमहर्निशं हृदि ॥ ५८ ॥
रहस्यमेतत् शृतिसारसङ्‍ग्रहं
मया विनिश्चित्य तवोदितं प्रिय ।
यस्त्वेतदालोचयतीह बुद्धिमान्
स मुच्यते पातकराशिभिः क्षणात् ॥ ५९ ॥
भ्रातर्यदीदं परिदृश्यते जगत्
मायैव सर्वं परिहृत्य चेतसा ।
मद्‌भावनाभावितशुद्धमानसः
सुखी भवानन्दमयो निरामयः ॥ ६० ॥
यः सेवते मामगुणं गुणात्परं
हृदा कदा वा यदि वा गुणात्मकम् ।
सोऽहं स्वपादाञ्चितरेणुभिः स्पृशन्
पुनाति लोकत्रितयं यथा रविः ॥ ६१ ॥
विज्ञामेतदखिलंश्रुतिसारमेकं
वेदान्तवेद्यचरणेन मयैव गीतम् ।
यः श्रद्धया परिपठेद् गुरुभक्तियुक्तो
मद्‌रूपमेति यदि मद्‌वचनेषु भक्तिः ॥ ६२ ॥
इति श्रीमद् अध्यात्मरामायणे उमामहेश्वरसंवादे
उत्तरकाण्डे पञ्चमः सर्गः ॥ ५ ॥

GO TOP