॥ श्रीमद् अध्यात्मरामायण ॥

॥ अरण्यकाण्ड ॥

॥ सप्तमः सर्ग: ॥

श्रीमहादेव उवाच
अथ रामोऽपि तत्सर्वं ज्ञात्वा रावणचेष्टितम् ।
उवाच सीतामेकान्ते शृणु जानकि मे वचः ॥ १ ॥
रावणो भिक्षुरूपेण आगमिष्यति तेऽन्तिकम् ।
त्वं तु छायां त्वदाकारां स्थापयित्वोटजे विश ॥ २ ॥
अग्नौ अदृश्यरूपेण वर्षं तिष्ठ ममाज्ञया ।
रावणस्य वधान्ते मां पूर्ववत् प्राप्स्यसे शुभे ॥ ३ ॥
श्रुत्वा रामोदितं वाक्यं सापि तत्र तथाकरोत् ।
मायासीतां बहिः स्थाप्य स्वयं अन्तर्दधेऽनले ॥ ४ ॥
मायासीता तदापश्यन् मृगं मायाविनिर्मितम् ।
हसन्ती राममभ्येत्य प्रोवाच विनयान्विता ॥ ५ ॥
पश्य राम मृगं चित्रं कानकं रत्‍नभूषितम् ।
विचित्रबिन्दुभिर्युक्तं चरन्तं अकुतोभयम् ।
बद्ध्वा देहि मम क्रीडा मृगो भवतु सुन्दरः ॥ ६ ॥
तथेति धनुरादाय गच्छन् लक्ष्मणमब्रवीत् ।
रक्ष त्वमतियत्‍नेन सीतां मत्प्राणवल्लभाम् ॥ ७ ॥
मायिनः सन्ति विपिने राक्षसा घोरदर्शनाः ।
अतोऽत्रावहितः साध्वीं रक्ष सीतां अनिन्दिताम् ॥ ८ ॥
लक्ष्मणो राममाहेदं देवायं मृगरूपधृक् ।
मारीचोऽत्र न सन्देह एवंभूतो मृगः कुतः ॥ ९ ॥
श्रीराम उवाच
यदि मारीच एवायं तदा हन्मि न संशयः ।
मृगश्चेदानयिष्यामि सीताविश्रमहेतवे ॥ १० ॥
गमिष्यामि मृगं बद्ध्वा ह्यानयिष्यामि सत्वरः ।
त्वं प्रयत्‍नेन सन्तिष्ठ सीता संरक्षणोद्यतः ॥ ११ ॥
इत्युक्त्वा प्रययौ रामो मायामृगमनुद्रुतः ।
माया यदाश्रया लोक मोहिनी जगदाकृतिः ॥ १२ ॥
निर्विकारश्चिदात्मापि पूर्णोऽपि मृगमन्वगात् ।
भक्तानुकम्पी भगवान् इति सत्यं वचो हरिः ॥ १३ ॥
कर्तुं सीताप्रियार्थाय जानन्नपि मृगं ययौ ।
अन्यथा पूर्णकामस्य रामस्य विदितात्मनः ॥ १४ ॥
मृगेण वा स्त्रिया वापि किं कार्यं परमात्मनः ॥ १५ ।
कदाचिद्दृश्यतेऽभ्याशे क्षणं धावति लीयते ।
दृश्यते च ततो दूरात् एवं रामं अपाहरत् ।
ततो रामोऽपि विज्ञाय राक्षसोऽयमिति स्फुटम् ॥ १६ ॥
विव्याध शरमादाय राक्षसं मृगरूपिणम् ।
पपात रुधिराक्तास्या मारीचः पूर्वरूपधृक् ॥ १७ ॥
हा हतोऽस्मि महाबाहो त्राहि लक्ष्मण मां द्रुतम् ।
इत्युक्त्वा रामवत् वाचा पपात रुधिराशनः ॥ १८ ॥
यन्नामाज्ञोऽपि मरणे स्मृत्वा तत्साम्यमाप्नुयात् ।
किमुताग्रे हरिं पश्यन् तेनैव निहतोऽसुरः ॥ १९ ॥
तद्देहादुत्थितं तेजः सर्वलोकस्य पश्यतः ।
राममेवाविशद्देवा विस्मयं परमं ययुः ॥ २० ॥
किं कर्म कृत्वा किं प्राप्तः पातकी मुनिहिंसकः ।
अथवा राघवस्यायं महिमा नात्र संशयः ॥ २१ ॥
रामबाणेन संविद्धः पूर्वं रामं अनुस्मरन् ।
भयात्सर्वं परित्यज्य गृहवित्तादिकं च यत् ॥ २२ ॥
हृदि रामं सदा ध्यात्वा निर्धूताशेषकल्मषः ।
अन्ते रामेण निहतः पश्यन् राममवाप सः ॥ २३ ॥
द्विजो वा राक्षसो वापि पापी वा धार्मिकोऽपि वा ।
त्यजन्कलेवरं रामं स्मृत्वा याति परं पदम् ॥ २४ ॥
इति तेऽन्योन्यमाभाष्य ततो देवा दिवं ययुः ।
रामस्तच्चिन्तयामास म्रियमाणोऽसुराधमः ॥ २५ ॥
हा लक्ष्मणेति मद्वाक्यं अनुकुर्वन् ममार किम् ।
श्रुत्वा मद्वाक्यसदृशं वाक्यं सीतापि किं भवेत् ॥ २६ ॥
इति चिन्तापरीतात्मा रामो दूरान्न्यवर्तत ।
सीता तद्‌भाषितं श्रुत्वा मारीचस्य दुरात्मनः ॥ २७ ॥
भीतातिदुःखसंविग्ना लक्ष्मणं त्विदमब्रवीत् ।
गच्छ लक्ष्मण वेगेन भ्राता तेऽसुरपीडितः ॥ २८ ॥
हा लक्ष्मणेति वचनं, भ्रातुस्ते न शृणोषि किम् ।
तामाह लक्ष्मणो देवि रामवाक्यं न तद्‌भवेत् ॥ २९ ॥
यः कश्चित् राक्षसो देवि म्रियमाणोऽब्रवीद्वचः ।
रामस्त्रैलोक्यमपि यः, क्रुद्धो नाशयति क्षणात् ॥ ३० ॥
स कथं दीनवचनं भाषितेऽमरपूजितः ।
क्रुद्धा लक्ष्मणमालोक्य सीता बाष्पविलोचना ॥ ३१ ॥
प्राह लक्ष्मण दुर्बुद्धे भ्रातुर्व्यसनमिच्छसि ।
प्रेषितो भरतेनैव रामनाशाभिकाङ्‌क्षिणा ॥ ३२ ॥
मां नेतुमागतोऽसि त्वं, रामनाश उपस्थिते ।
न प्राप्स्यसे त्वं मामद्य पश्य प्राणांस्त्यजाम्यहम् ॥ ३३ ॥
न जानातीदृशं रामः त्वां भार्याहरणोद्यतम् ।
रामादन्यं न स्पृशामि त्वां वा भरतमेव वा ॥ ३४ ॥
इत्युक्त्वा वध्यमाना सा स्वबाहुभ्यां रुरोद ह ।
तत्श्रुत्वा लक्ष्मणः कर्णौ पिधायातीव दुःखितः ॥ ३५ ॥
मामेवं भाषसे चण्डि धिक्त्वां नाशमुपैष्यसि ।
इत्युक्त्वा वनदेवीभ्यः समर्प्य जनकात्मजाम् ॥ ३६ ॥
ययौ दुःखातिसंविग्नो राममेव शनैः शनैः ।
ततोऽन्तरं समालोक्य रावणो भिक्षुवेषधृक् ॥ ३७ ॥
सीतासमीपं अगमत् स्फुरद् दण्डकमण्डलुः ।
सीता तं अवलोक्याशु नत्वा सम्पूज्य भक्तितः ॥ ३८ ॥
कन्दमूलफलादीनि दत्त्वा स्वागतमब्रवीत् ।
मुने भुङ्‌क्ष्व फलादीनि विश्रमस्व यथासुखम् ॥ ३९ ॥
इदानीमेव भर्ता मे ह्यागमिष्यसि ते प्रियम् ।
करिष्यति विशेषेण तिष्ठ त्वं यदि रोचते ॥ ४० ॥
भिक्षरुवाच
का त्वं कमलपत्राक्षि को वा भर्ता तवानघे ।
किमर्थमत्र ते वासो वनि राक्षससेविते ।
ब्रूहि भद्रे ततः सर्वं स्ववृत्तान्तं निवेदये ॥ ४१ ॥
सीतोवाच
अयोध्याधिपतिः श्रीमान् राजा दशरथो महान् ।
तस्य ज्येष्ठः सुतो रामः सर्वलक्षणलक्षितः ॥ ४२ ॥
तस्याहं धर्मतः पत्‍नी सीता जनकनन्दिनी ।
तस्य भ्राता कनीयांश्च लक्ष्मणो भ्रातृवत्सलः ॥ ४३ ॥
पितुराज्ञां पुरस्कृत्य दण्डके वस्तुमागतः ।
चतुर्दश समास्त्वां तु ज्ञातुमिच्छामि मे वद ॥ ४४ ॥
भिक्षरुवाच
पौलस्त्यतनयोऽहं तु रावणो राक्षसाधिपः ।
त्वत्कामपरितप्तोऽहं त्वां नेतुं पुरमागतः ॥ ४५ ॥
मुनिवेषेण रामेण किं करिष्यसि मां भज ।
भुङ्‌क्ष्व भोगान्मया सार्धं त्यज दुःखं वनोद्‌भवम् ॥४६
श्रुत्वा तद्वचनं सीता भीता किञ्चिदुवाच तम् ।
यद्येवं भाषसे मां त्वं नाशमेष्यसि राघवात् ॥ ४७ ॥
आगमिष्यति रामोऽपि क्षणं तिष्ठ सहानुजः ।
मां को धर्षयितुं शक्तो हरेर्भार्यां शशो यथा ॥ ४८ ॥
रामबाणैर्विभिन्नस्त्वं पतिष्यसि महीतले ॥ ४९ ॥
इति सीतावचः श्रुत्वा रावणः क्रोधमूर्च्छितः ।
स्वरूपं दर्शयामास महापर्वतसन्निभम् ।
दशास्यं विंशतिभुजं कालमेघसमद्युतिम् ॥ ५० ॥
तद्दृष्ट्वा वनदेव्यश्च भूतानि च वितत्रसुः ।
ततो विदार्य धरणीं नखैरुद्धृत्य बाहुभिः ॥ ५१ ॥
तोलयित्वा रथे क्षिप्त्वा ययौ क्षिप्रं विहायसा ।
हा राम हा लक्ष्मणेति रुदती जनकात्मजा ॥ ५२ ॥
भयोद्विग्नमना दीना पश्यन्ती भुवमेव सा ।
श्रुत्वा तत्क्रन्दितं दीनं सीतायाः पक्षिसत्तमः ॥ ५३ ॥
जटायुरुत्थितः शीघ्रं नगाग्रात् तीक्ष्णतुण्डकः ।
तिष्ठ तिष्ठेति तं प्राह को गच्छति ममाग्रतः ॥ ५४ ॥
मुषित्वा लोकनाथस्य भार्यां शून्यात् वनालयात् ।
शुनको मंत्रपूतं त्वं पुरोडाशं इवाध्वरे ॥ ५५ ॥
इत्युक्त्वा तीक्ष्णतुण्डेन चूर्णयामास तद् रथम् ।
वाहान् बिभेद पादाभ्यां चूर्णयामास तद् धनुः ॥ ५६ ॥
ततः सीतां परित्यज्य रावणः खड्गमाददे ।
चिच्छेद पक्षौ सामर्षः पक्षिराजस्य धीमतः ॥ ५७ ॥
पपात किञ्चिच्छेषेण प्राणेन भुवि पक्षिराट् ।
पुनरन्यरथेनाशु सीतामादाय रावणः ॥ ५८ ॥
क्रोशन्ती रामरामेति त्रातारं नाधिगच्छति ।
हा राम हा जगन्नाथ मां न पश्यसि दुःखिताम् ॥ ५९ ॥
रक्षसा नीयमानां स्वां भार्यां मोचय राघव ।
हा लक्ष्मण महाभाग त्राहि मामपराधिनीम् ॥ ६० ॥
वाक् शरेण हरस्त्वं मे क्षन्तुमर्हसि देवर ।
इत्येवं क्रोशमानां तां रामागमनशङ्‌कया ॥ ६१ ॥
जगाम वायुवेगेन सीतामादाय सत्वरः ।
विहायसा नीयमाना सीतापश्यत् अधोमुखी ॥ ६२ ॥
पर्वताग्रे स्थितान् पञ्च वानरान् वारिजानना ।
उत्तरीयार्धखण्डेन विमुच्याभरणादिकम् ॥ ६३ ॥
बद्ध्वा चिक्षेप रामाय कथयन्त्विति पर्वते ॥ ६४ ॥
ततः समुद्रं उल्लङ्‌घ्य लङ्‌कां गत्वा स रावणः ।
स्वान्तःपुरे रहस्येतां अशोकविपिनेऽक्षिपत् ।
राक्षसीभिः परिवृतां मातृबुद्ध्यान्वपालयत् ॥ ६५ ॥
कृशातिदीना परिकर्मवर्जिता
दुःखेन शुष्यत् वदनातिविह्वला ।
हा राम रामेति विलप्यमाना
सीता स्थिता राक्षसवृन्दमध्ये ॥ ६६ ॥
इति श्रीमद् अध्यात्मरामयणे उमामहेश्वरसंवादे
अरण्यकाण्डे सप्तमः सर्गः ॥ ७ ॥

GO TOP