॥ अद्‌भुत रामायणम् ॥

प्रथमः सर्गः

श्रीरामसीतामाहात्म्यकथनोपक्रमः -

तमसातीरनिलयं निलयं तपसा गुरुम् ।
वचसां प्रथमं स्थानं वाल्मीकिं मुनिपुङ्गवम् ॥ १ ॥
विनयावनतोभूत्वा भारद्वाजो महामुनिः ।
अपृच्छत्सम्मतः शिष्यः कृताञ्जलिपुटो वशी ॥ २ ॥
रामायणमिति ख्यातं शतकोटिप्रविस्तरम् ।
प्रणीतं भवता यच्च ब्रह्मलोके प्रतिष्ठितम् ॥ ३ ॥
श्रूयते ब्रह्मणा नित्यमृषिभिः पित्तृभिः सुरैः ।
पञ्चविंशतिसाहस्रं रामायणमिदं भुवि ॥ ४ ॥
तदाकर्णितमस्माभिः सविशेषं महामुने ।
शतकोटिप्रविस्तारे रामायणमहार्णवे ॥ ५ ॥
किं गीतमिह मुष्णाति तन्मे कथय सुव्रत ।
आकर्ण्यादरिणः पृष्ठं भारद्वाजस्य वै मुनिः ॥ ६ ॥
हस्तामलकवत्सर्वं सस्मार शतकोटिकम् ।
ओमित्युक्त्वा मुनिः शिष्यं प्रोवाच वदतां वरम् ॥ ७ ॥
भारद्वाज ! चिरञ्जीव साधु स्मारितमद्य नः ।
शतकोटिप्रविस्तारे रामायणमहार्णवे ॥८ ॥
रामस्य चरितं सर्वमाश्चर्यं सम्यगीरितम् ।
पञ्चविंशतिसाहस्रं भूलोके यत्प्रतिष्ठितम् ॥ ९ ॥
नृणां हि सदृशं रामचरितं वर्णितं ततः ।
सीतामाहात्म्यसारं यद्‌विशेषादत्र नोक्तवान् ॥ १० ॥
शृणुष्वावाहितो ब्रह्मन् ! काकुत्स्थचरितं महत् ।
सीताया मूलभूतायाः प्रकृतेश्चरितञ्च यत् ॥ ११ ॥
आश्चर्यमाश्चर्यमिदं गोपितं ब्रह्मणोगृहे ।
हिताय प्रियशिष्याय तुभ्यमावेदयामि तत् ॥ १२ ॥
जानकी प्रकृतिः सृष्टेरादिभूता महागुणा ।
तपःसिद्धिस्स्वर्गसिद्धिर्भूतिमूर्तिमतां सती ॥ १३ ॥
विद्याविद्या च महती गीयते ब्रह्मवादिभिः ।
ऋद्धिः सिद्धिर्गुणमयी गुणातीता गुणात्मिका ॥ १४ ॥
ब्रह्मब्रह्माण्डसम्भूता सर्वकारणकारणम् ।
प्रकृतिर्विकृतिर्देवी चिन्मयी चिद्‌विलासिनी ॥ १५ ॥
महाकुण्डलिनी सर्पानुस्यूता ब्रह्मसंज्ञिता ।
यस्या विलसितं सर्वं जगदेतच्चराचरम् ॥ १६ ॥
यामाधाय हृदि ब्रह्मन् ! योगिनस्तत्त्वदर्शिनः ।
विघट्टयन्ति हृद्‌ग्रन्थिं भवन्ति सुखमूर्त्तिकाः ॥ १७ ॥
यदा यदा हि धर्मस्य ग्लानिर्भवति सुव्रत ।
अभ्युत्थानमधर्मस्य तदा प्रकृतिसम्भवः ॥ १८ ॥
रामः साक्षात्परं ज्योतिः परं धाम परः पुमान् ।
आकृतौ परमो भेदो न सीतारामयोर्यतः ॥ १९ ॥
रामः सीता जानकी रामभद्रो
     नाणुर्भेदो नैतयोरस्ति कश्चित् ।
सन्तो बुद्‌धातत्त्वमेतद्विबुद्धाः
     पारं याताः संसृतेर्मृत्युवक्त्रात् ॥ २० ॥
रामोऽचिन्त्यो नित्यचित्सर्वसाक्षी
     सर्वान्तःस्थः सर्वलोकैककर्त्ता ।
भर्त्ताहर्त्ताऽऽनन्दमूर्त्तिर्विभूमा
     सीतायोगाच्चिन्त्यते योगिभिः सः ॥ २१ ॥
अपाणिपादो जवनोग्रहीता
     पश्यत्यचक्षुः सशृणोत्यकर्णः ।
स वेत्ति विश्वं नहि तस्य वेत्ता
     तमाहुरन्यं पुरुषं पुराणम् ॥ २२ ॥
तयोः परं जन्म उदाहरिष्ये
     ययोर्यथाकारणदेहधारिणोः ।
अरूपिणो रूपविधारणं पुन-
     र्नृणां महानुग्रह एव केवलम् ॥ २३ ॥
पठन्द्विजोवागृषमत्वमीया-
     त्क्षत्रान्वयो भूमिपतित्वमीयात् ।
वणिग्जनःपण्यफलत्वमीया-
     च्छृण्वन्हि शूद्रोहि महत्त्वमीयात् ॥ २४ ॥
इत्यार्षे श्रीमद्‌रामायणे वाल्मीकीये आदिकाव्ये अद्‌भुतोत्तरकाण्डे
श्रीरामसीतामाहात्म्यकथनोपक्रमो नाम प्रथमः सर्गः ॥ १ ॥

GO TOP