॥ श्रीमद् अध्यात्मरामायण ॥

॥ अरण्यकाण्ड ॥

॥ द्वितीयः सर्ग: ॥

श्रीमहादेव उवाच
विराधे स्वर्गते रामो लक्ष्मणेन च सीतया ।
जगाम शरभङ्‌गस्य वनं सर्वसुखावहम् ॥ १ ॥
शरभङ्‌गस्ततो दृष्ट्वा रामं सौमित्रिणा सह ।
आयान्तं सीतया सार्धं सम्भ्रमादुत्थितः सुधीः ॥ २ ॥
अभिगम्य सुसम्पूज्य विष्टरेषूपवेशयत् ।
आतिथ्यं अकरोत्तेषां कन्दमूलफलादिभिः ॥ ३ ॥
प्रीत्याह शरभङ्‌गोऽपि रामं भक्तिपरायणम् ।
बहुकालमिहैवासं तपसे कृतनिश्चयः ॥ ४ ॥
अद्य मत्तपसा सिद्धं यत्पुण्यं बहु विद्यते ।
तत्सर्वं तव दास्यामि ततो मुक्तिं व्रजाम्यहं ॥ ५ ॥
समर्प्य रामस्य महत्सुपुण्य
फलं विरक्तः शरभङ्‌गयोगी ।
चितिं समारोहयदप्रमेयं
रामं ससीतं सहसा प्रणम्य ॥ ६ ॥
ध्यायंश्चिरं राममशेषहृत्स्थं
दूर्वादल श्यामलमम्बुजाक्षम् ।
चीराम्बरं स्निग्धजटाकलापं
सीतासहायं सहलक्ष्मणं तम् ॥ ७ ॥
को वा दयालुः स्मृतकामधेनुः
अन्यो जगत्यां रघुनायकादहो ।
स्मृतो मया नित्यमनन्यभाजा
ज्ञात्वा स्मृतिं मे स्वयमेव यातः ॥ ८ ॥
पश्यत्विदानीं देवेशो रामो दाशरथिः प्रभुः ।
दग्ध्वा स्वदेहं गच्छामि ब्रह्मलोकमकल्मषः ॥ ९ ॥
अयोध्याधिपतिर्मेऽस्तु हृदये राघवः सदा ।
यद्वामाङ्‌के स्थिता सीता मेघस्येव तडिल्लता ॥ १० ॥
इति रामं चिरं ध्यात्वा दृष्ट्वा च पुरतः स्थितम् ।
प्रज्वाल्य सहसा वह्निं दग्ध्वा पञ्चात्मकं वपुः ॥ ११ ॥
दिव्यदेहधरः साक्षात् ययौ लोकपतेः पदम् ।
ततो मुनिगणाः सर्वे दण्डकारण्यवासिनः ।
आजग्मू राघवं द्रष्टुं शरभङ्‌गनिवेशनम् ॥ १२ ॥
दृष्ट्वा मुनिसमूहं तं जानकीरामलक्ष्मणाः ।
प्रणेमुः सहसा भूमौ मायामानुषरूपिणः ॥१३ ॥
आशीर्भिरभिनन्द्याथ रामं सर्वहृदि स्थितम् ।
ऊचुः प्राञ्जलयः सर्वे धनुर्बाणधरं हरिम् ॥ १४ ॥
भूमेर्भारावताराय जातोऽसि ब्रह्मणार्थितः ।
जानीमस्त्वां हरिं लक्ष्मीं जानकीं लक्ष्मणं तथा ॥ १५ ॥
शेषांशं शङ्‌खचक्रे द्वे भरतं सानुजं तथा ।
अतश्चादौ ऋषीणां त्वं दुःखं भोक्तुमिहार्हसि ॥ १६ ॥
आगच्छ यामो मुनिसेवितानि
वनानि सर्वाणि रघूत्तम क्रमात् ।
द्रष्टुं सुमित्रासुतजानकीभ्यां
तदा दयास्मासु दृढा भविष्यति ॥ १७ ॥
इति विज्ञापितो रामः कृताञ्जलिपुटैर्विभुः ।
जगाम मुनिभिः सार्धं द्रष्टुं मुनिवनानि सः ॥ १८ ॥
ददर्श तत्र पतितानि अनेकानि शरांसि सः ।
अस्थिभूतानि सर्वत्र रामो वचनमब्रवीत् ॥ १९ ॥
अस्थीनि केषां एतानि किमर्थं पतितानि वै ।
तमूचुर्मुनयो राम ऋषीणां मस्तकानि हि ॥ २० ॥
राक्षसैर्भक्षितानीश प्रमत्तानां समाधितः ॥
अन्तरायं मुनीनां ते पश्यन्तोऽनुचरन्ति हि ॥ २१ ॥
श्रुत्वा वाक्यं मुनीनां स भयदैन्यसमन्वितम् ।
प्रतिज्ञां अकरोद्‍रामो वधायाशेषरक्षसाम् ॥ २२ ॥
पूज्यमानः सदा तत्र मुनिभिर्वनवासिभिः ।
जानक्या सहितो रामो लक्ष्मणेन समन्वितः ॥ २३ ॥
उवास कतिचित्तत्र वर्षाणि रघुनन्दनः ।
एवं क्रमेण संपश्यन् ऋषीणामाश्रमान्विभुः ॥ २४ ॥
सुतीक्ष्णस्याश्रमं प्रागात् प्रख्यातं ऋषिसङ्‌कुलम् ।
सर्वर्तुगुणसम्पन्नं सर्वकालसुखावहम् ॥ २५ ॥
राममागतमाकर्ण्य सुतीक्ष्णः स्वयमागतः ।
अगस्त्यशिष्यो रामस्य मंत्रोपासनतत्परः ।
विधिवत्पूजयामास भक्त्युत्कण्ठितलोचनः ॥ २६ ॥
सुतीक्ष्ण उवाच
त्वन्मंत्रजाप्यहमनन्तगुणाप्रमेय
सीतापते शिवविरिञ्चिसमाश्रिताङ्‌घ्रे ।
संसारसिन्धुतरणामलपोतपाद
रामाभिराम सततं तव दासदासः ॥ २७ ॥
मामद्य सर्वजगतां अविगोचरस्त्वं
त्वन्मायया सुतकलत्रगृहान्धकूपे ।
मग्नं निरीक्ष्य मलपुद्‍गलपिण्डमोह
पाशानुबद्धहृदयं स्वयमागतोऽसि ॥ २८ ॥
त्वं सर्वभूतहृदयेषु कृतालयोपि
त्वन्मंत्रजाप्यविमुखेषु तनोषि मायाम् ।
त्वन्मंत्रसाधनपरेष्वपयाति माया
सेवानुरूपफलदोऽसि यथा महीपः ॥२९ ॥
विश्वस्य सृष्टिलयसंस्थितिहेतुरेकः
त्वं मायया त्रिगुणया विधिरीशविष्णू ।
भासीश मोहितधियां विविधाकृतिस्त्वं
यद्वद् ‍रविः सलिलपात्रगतो ह्यनेकः ॥ ३० ॥
प्रत्यक्षतोऽद्य भवतश्चरणारविन्दं
पश्यामि राम तमसः परतः स्थितस्य ।
दृग् रूपतस्त्वमसतामविगोचरोऽपि
त्वन्मंत्रपूतहृदयेषु सदा प्रसन्नः ॥ ३१ ॥
पश्यामि राम तव रूपमरूपिणोऽपि
मायाविडम्बनकृतं सुमनुष्यवेषम् ।
कन्दर्पकोटिसुभगं कमनीयचाप
बाणं दयार्द्रहृदयं स्मितचारुवक्त्रं ॥ ३२ ॥
सीतासमेतमजिनाम्बरमप्रधृष्यं
सौमित्रिणा नियतसेवितपादपद्मं ।
नीलोत्पलद्युतिमनन्तगुणं प्रशान्तं
मद्‌भागधेयमनिशं प्रणमामि रामं ॥ ३३ ॥
जानन्तु राम तव रूपमशेषदेश
कालाद्युपाधिरहितं घनचित्प्रकाशं ।
प्रत्यक्षतोऽद्य मम गोचरमेतदेव
रूपं विभातु हृदये न परं विकाङ्‌क्षे ॥ ३४ ॥
इत्येवं स्तुवस्तस्य रामः सुस्मितमब्रवीत् ।
मुने जानामि ते चित्तं निर्मलं मदुपासनात् ॥ ३५ ॥
अतोऽहमागतो द्रष्टुं मदृते नान्य साधनं ।
मन्मंत्रोपासका लोके मामेव शरणं गताः ॥ ३६ ॥
निरपेक्षानान्यगताः तेषां दृश्योऽहमन्वहं ।
स्तोत्रमेतत्पठेद्यस्तु त्वत्कृतं मत्प्रियं सदा ॥ ३७ ॥
सद्‌भक्तिर्मे भवेत्तस्य ज्ञानं च विमलं भवेत् ।
त्वं मामोपासनादेव विमुक्तोऽसीह सर्वतः ॥ ३८ ॥
देहान्ते मम सायुज्यं लप्स्यसे नात्र संशयः ।
गुरुं ते द्रष्टुमिच्छामि ह्यगस्त्यं मुनिनायकं ।
किञ्चित्कालं तत्र वस्तुं मनो मे त्वरयत्यलं ॥ ३९ ॥
सुतीक्ष्णोऽपि तथेत्याह श्वो गमिष्यसि राघव ।
अहमप्यागमिष्यामि चिराद् दृष्टो महामुनिः ॥ ४० ॥
अथ प्रभाते मुनिना समेतो
रामः ससीतः सह लक्ष्मणेन ।
अगस्त्यसम्भाषणलोलमानसः
शनैरगस्त्यानुजमन्दिरं ययौ ॥ ४१ ॥
इति श्रीमद् अध्यात्मरामायणे उमामहेश्वरसंवादे
अरण्यकाण्डे द्वितीयः सर्गः ॥ २ ॥

GO TOP