॥ श्रीमद् अध्यात्मरामायण ॥

॥ युद्धकाण्ड ॥

॥ द्वितीयः सर्गः ॥

श्रीमहादेव उवाच

लङ्‌कायां रावणो दृष्ट्वा कृतं कर्म हनूमता ।
दुष्करं दैवतैर्वापि ह्रिया किञ्चिदवाङ्‌मुखः ॥ १ ॥
आहूय मंत्रिणः सर्वान् इदं वचनमब्रवीत् ।
हनूमता कृतं कर्म भवद्‌भिर्दृष्टमेव तत् ॥ २ ॥
प्रविश्य लङ्‌कां दुर्धर्षां दृष्ट्वा सीतां दुरासदाम् ।
हत्वा च राक्षसीन्वीरान् अक्षं मन्तोदरीसुतम् ॥ ३ ॥
दग्ध्वा लङ्‌कां अशेषेण लङ्‌घयित्वा च सागरम् ।
युष्मान सर्वान् अतिक्रम्य स्वस्थोऽगात्पुनरेव सः ॥ ४ ॥
किं कर्तव्यमितोऽस्माभिः युयं मंत्रविशारदाः ।
मंत्रयध्वं प्रयत्‍नेन यत्कृतं मे हितं भवेत् ॥ ५ ॥
रावणस्य वचःश्रुत्वा राक्षसास्तमथाब्रुवन् ।
देव शङ्‌का कुतो रामात् तव लोकजितो रणे ॥ ६ ॥
इन्द्रस्तु बद्‍ध्वा निक्षिप्तं पुत्रेण तव पत्तने ।
जित्वा कुबेरमानीय पुष्पकं भुज्यते त्वया ॥ ७ ॥
यमो जितः कालदण्डाद् भयं नाभूत्तव प्रभो ।
वरुणो हुङ्‍कृतेनैव जितः सर्वेऽपि राक्षसाः ॥ ८ ॥
मयो महासुरो भीत्या कन्यां दत्त्वा स्वयं तव ।
त्वद्वशे वर्ततेऽद्यापि किमुतान्ये महासुराः ॥ ९ ॥
हनूमद्धर्षणं यत्तु तदवज्ञानकृतं च नः ।
वानरोऽयं किमस्माकं अस्मिन् पौरुषदर्शने ॥ १० ॥
इत्युपेक्षितमस्माभिः धर्षणं तेन किं भवेत् ।
वयं प्रमत्ता किं तेन वञ्चिताः स्मो हनूमता ॥ ११ ॥
जानीमो यदि तं सर्वे कथं जीवन् गमिष्यति ।
आज्ञापय जगत्कृत्स्नं अवानरं अमानुषम् ॥ १२ ॥
कृत्वायास्यामहे सर्वे प्रत्येकं वा नियोजय ।
कुम्भकर्णस्तदा प्राह रावणं राक्षसेश्वरम् ॥ १३ ॥
आरब्धं यत्त्वया कर्म स्वात्मनाशाय केवलम् ।
न दृष्टोऽसि तदा भाग्यात् त्वं रामेण महात्मना ॥ १४ ॥
यदि पश्यति रामस्त्वां जीवन्नायासि रावण ।
रामो न मानुषो देवः साक्षात् नारयणोऽव्ययः ॥ १५ ॥
सीता भगवति लक्ष्मी रामपत्‍नी यशस्विनी ।
राक्षसानां विनाशाय त्वयानीता सुमध्यमा ॥ १६ ॥
विषपिण्डमिवागीर्य महामीनो यथा तथा ।
आनीता जानकी पश्चात् त्वया किं वा भविष्यति ॥ १७ ॥
यद्यप्यनुचितं कर्म त्वया कृतमजानता ।
सर्वं समं करिष्यामि स्वस्थचित्तो भव प्रभो ॥ १८ ॥
कुम्भकर्णवचः श्रुत्वा वाक्यमिन्द्रजिदब्रवीत् ।
देहि देव ममानुज्ञां हत्वा रामं सलक्ष्मणम् ।
सुग्रीवं वानरांश्चैव पुनर्यास्यामि तेऽन्तिकम् ॥ १९ ॥
तत्रागतो भागवतप्रधानो
विभीषणो बुद्धिमतं वरिष्ठः ।
श्रीरामपादद्वय एकतानः ।
प्रणम्य देवारिमुपोपविष्टः ॥ २० ॥
विलोक्य कुम्भश्रवणादिदैत्यान्-
मत्तप्रमत्तान् अतिविस्मयेन ।
विलोक्य कामातुरमप्रमत्तो
दशाननं प्राह विशुद्धबुद्धिः ॥ २१ ॥
न कुम्भकर्णेन्द्रजितौ च राजन्-
तथा महापार्श्वमहोदरौ तौ ।
निकुम्भकुम्भौ च तथातिकायः
स्थास्तु न शक्ता युधि राघवस्य ॥ २२ ॥
सीताभिधानेन महाग्रहेण
ग्रस्तोऽसि राजन् न च ते विमोक्षः ।
तामेव सत्कृत्य महाधनेन
दत्त्वाभिरामाय सुखी भव त्वम् ॥ २३ ॥
यावन्न रामस्य शिताः शिलीमुखा
लङ्‌कामभिव्याप्य शिरांसि रक्षसाम् ।
छिन्दन्ति तावद्रघुनायकस्य भो-
स्तां जानकीं त्वं प्रतिदातुमर्हसि ॥ २४ ॥
यावन्नगाभाः कपयो महाबला
हरिन्द्रतुल्या नखदंष्ट्रयोधिनः ।
लङ्‌कां समाक्रम्य विनाशयन्ति ते
तावद् द्रुतं देहि रघूत्तमाय ताम् ॥ २५ ॥
जीवन्न रामेण विमोक्ष्यसे त्वं
गुप्तः सुरेन्द्रैरपि शङ्‌करेण ।
न देवराजाङ्‌कगतो न मृत्योः
पाताललोकानपि सम्प्रविष्टः ॥ २६ ॥
शुभं हितं पवित्रं च विभीषणवचः खलः ।
प्रतिजग्राह नैवासौ म्रियमाण इवौषधम् ॥ २७ ॥
कालेन नोदितो दैत्यो विभीषणमथाब्रवीत् ।
मद्दत्तभोगैः पुष्टाङ्‌गो मत्समीपे वसन्नपि ॥ २८ ॥
प्रतीपमाचरत्येष ममैव हितकारिणः ।
मित्रभावेन शत्रुर्मे जातो नास्त्यत्र संशयः ॥ २९ ॥
अनार्येण कृतघ्नेन सङ्‌गतिर्मे न युज्यते ।
विनाशमभिकाङ्‌क्षन्ति ज्ञातीनां ज्ञातयः सदा ॥ ३० ॥
योऽन्यस्त्वेवंविधं ब्रूयाद् वाक्यमेकं निशाचरः ।
हन्मि तस्मिन् क्षणे एव धिक् त्वां रक्षः कुलाधमम् ॥ ३१ ॥
रावणेनैवमुक्तः सन् परुषं स विभीषणः ।
उत्पपात सभामध्याद् गदापाणिर्महाबलः ॥ ३२ ॥
चतुर्भिर्मंत्रिभिः सार्धं गगनस्थोऽब्रविद्वचः ।
क्रोधेन महताविष्टो रावणं दशकन्धरम् ।
मा विनाशमुपैहि त्वं प्रियवादिनमेव माम् ॥ ३३ ॥
धिक्करोषि तथापि त्वं ज्येष्ठो भ्राता पितुः समः ।
कालो राघवरूपेण जातो दशरथालये ॥ ३४ ॥
काली सीताभिधानेन जाता जनकनन्दिनी ।
तावुभावागतावत्र भूर्मेभारापनुत्तये ॥ ३५ ॥
तेनैव प्रेरितस्त्वं तु न शृणोषि हितं मम ।
श्रीरामः प्रकृतेः साक्षात् परस्तात्सर्वदा स्थितः ॥ ३६ ॥
बहिरन्तश्च भूतानां समः सर्वत्र संस्थितः ।
नामरूपादिभेदेन तत्तन्मय इवामलः ॥ ३७ ॥
यथा नानाप्रकारेषु वृक्षेष्वेको महानलः ।
तत्तदाकृतिभेदेन भिद्यतेऽज्ञानचक्षुषाम् ॥ ३८ ॥
पञ्चकोशादिभेदेन तत्तन्मय इवाबभौ ।
नीलपीतादियोगेन निर्मलः स्फटिको यथा ॥ ३९ ॥
स एव नित्यमुक्तोऽपि स्वमायागुणबिम्बितः ।
कालः प्रधानं पुरुषोऽव्यक्तं चेति चतुर्विधः ॥ ४० ॥
प्रधानपुरुषाभ्यां स जगत्कृत्स्नं सृजत्यजः ।
कालरूपेण कलनां जगतः कुरुतेऽव्ययः ॥ ४१ ॥
कालरूपी स भगवान् रामरूपेण मायया ॥ ४२ ॥
ब्रह्मणा प्रार्थितो देवः त्वद्वधार्थमिहागतः ।
तदन्यथा कथं कुर्यात् सत्यसंकल्प ईश्वरः ॥ ४३ ॥
हनिष्यति त्वां रामस्तु सपुत्रबलवाहनम् ।
हन्यमानं न शक्नोमि द्रष्टुं रामेण रावण ॥ ४४ ॥
त्वां राक्षसकुलं कृत्स्नं ततो गच्छामि राघवम् ।
मयि याते सुखीभूत्वा रमस्व भवने चिरम् ॥ ४५ ॥
विभीषणो रावणवाक्यतः क्षणा-
द्विसृज्य सर्वं सपरिच्छदं गृहम् ।
जगाम रामस्य पदारविन्दयोः
सेवाभिकाङ्‌क्षी परिपूर्णमानसः ॥ ४६ ॥
इति श्रीमद् अध्यात्मरामायणे उमामहेश्वरसंवादे
युद्धकाण्डे द्वितीयः सर्गः ॥ २ ॥

GO TOP