॥ श्रीमद् अध्यात्मरामायण ॥

॥ अयोध्याकाण्ड ॥

॥ चतुर्थः सर्ग: ॥

ततः सुमित्रा दृष्ट्वैनं रामं राज्ञीं ससम्भ्रमा ।
कौसल्यां बोधयामास रामोऽयं समुपस्थितः ॥ १ ॥
श्रुत्वैव रामनामैषा बहिर्दृष्टिप्रवाहिता ।
रामं दृष्ट्वा विशालाक्षं आलिङ्‌ग्याङ्‌के न्यवेशयत् ॥ २ ॥
मूर्ध्न्यवघ्राय पस्पर्श गात्रं नीलोत्पलच्छवि ।
भुङ्‌क्ष्व पुत्रेति च प्राह मिष्टमन्नं क्षुधार्तितः ॥ ३ ॥
रामः प्राह न मे मातः भोजनावसरः कुतः ।
दण्डकागमने शीघ्रं मम कालोऽद्य निश्चितः ॥ ४ ॥
कैकेयीवरदानेन सत्यसन्धः पिता मम ।
भरताय ददौ राज्यं ममाप्यारण्यमुत्तमम् ॥ ५ ॥
चतुर्दश समास्तत्र ह्युषित्वा मुनिवेषधृक् ।
आगमिष्ये पुनः शीघ्रं न चिन्तां कर्तुमर्हसि ॥ ६ ॥
तत् श्रुत्वा सहसोद्विग्ना मूर्च्छिता पुनरुत्थिता ।
आह रामं सुदुःखार्ता दुःखसागरसंप्लुता ॥ ७ ॥
यदि राम वनं सत्यं यासि चेन्नय मामपि ।
त्वद्विहीना क्षणादर्थं वा जीवितं धारये कथम् ॥ ८ ॥
यथा गौर्बालकं वत्सं त्यक्त्वा तिष्ठेन्न कुत्रचित् ।
तथैव त्वां न शक्नोमि त्यक्तुं प्राणात्प्रियं सुतम् ॥ ९ ॥
भरताय प्रसन्नश्चेत् राज्यं राजा प्रयच्छतु ।
किमर्थं वनवासाय, त्वां आज्ञापयति प्रियम् ॥ १० ॥
कैकेय्या वरदो राजा सर्वस्वं वा प्रयच्छतु ।
त्वया किमपराद्धं हि कैकेय्या वा नृपस्य वा ॥ ११ ॥
पिता गुरुर्यथा राम तवाहमधिका ततः ।
पित्राऽऽज्ञप्तो वनं गन्तुं वारयेयमहं सुतम् ॥ १२ ॥
यदि गच्छसि मद्वाक्यं उल्लङ्‌घ्य नृपवाक्यतः ।
तदा प्राणान् परित्यज्य गच्छामि यमसादनम् ॥ १३ ॥
लक्ष्मणोऽपि ततः श्रुत्वा कौसल्यावचनं रुषा ।
उवाच राघवं वीक्ष्य दहन्निव जगत्-त्रयम् ॥ १४ ॥
उन्मत्तं भ्रान्तमनसं कैकेयीवशवर्तिनम् ।
बद्ध्वा निहन्मि भरतं तद्‌बन्धून् मातुलानपि ॥ १५ ॥
अद्य पश्यन्तु मे शौर्यं लोकान् प्रदहतः पुरा ।
राम त्वं अभिषेकाय कुरु यत्‍नं अरिन्दम ॥ १६ ॥
धनुष्पाणिरहं तत्र निहन्त्य विघ्नकारिणः ।
इति ब्रुवन्तं सौमित्रिं आलिङ्‌ग्य रघुनन्दनः ॥ १७ ॥
शूरोऽसि रघुशार्दूल ममात्यन्तहिते रतः ।
जानामि सर्वं ते सत्यं किन्तु तत्समयो न हि ॥ १८ ॥
यदिदं दृश्यते सर्वं राज्यं देहादिकं च यत् ।
यदि सत्यं भवेत्तत्र आयासः सफलश्च ते ॥ १९ ॥
भोगा मेघवितानस्थ विद्युल्लेखेव चञ्चलाः ।
आयुरप्यग्निसन्तप्त लोहस्य जलबिन्दुवत् ॥ २० ॥
यथा व्यालगलस्योऽपि भेको दंशानपेक्षते ।
तथा कालाहिना ग्रस्तो लोको भोगान् अशाश्वतान् ॥ २१
करोति दुःखेन हि कर्मतन्त्रं
शरीरभोगार्थमहर्निशं नरः ।
देहस्तु भिन्नः पुरुषात्समीक्ष्यते
को वात्र भोगः पुरुषेण भुज्यते ॥ २२ ॥
पितृमातृसुतभ्रातृ दारबन्ध्वादिसंगमः ।
प्रपायामिव जन्तूनां नद्यां काष्ठौद्यवच्चलः ॥ २३ ॥
छायेव लक्ष्मीश्चपला प्रतीता
तारुण्यमम्बूर्मिवदध्रुवं च ।
स्वप्नोपमं स्त्रीसुखमायुरल्पं
तथापि जन्तोरभिमान एषः ॥ २४ ॥
संसृतिः स्वप्नसदृशी सदा रोगादिसङ्‌कुला ।
गन्धर्वनगरप्रख्या मूढस्तां अनुवर्तते ॥ २५ ॥
आयुष्यं क्षीयते यस्माद् आदित्यस्य गतागतैः ।
दृष्ट्वान्येषां जरामृत्यू कथञ्चित् नैव बुध्यते ॥ २६ ॥
स एव दिवसः सैव रात्रिरित्येव मूढधीः ।
भोगाननुपतत्येव कालवेगं न पश्यति ॥ २७ ॥
प्रतिक्षणं क्षरत्येतद् आयुरामघटाम्बुवत् ।
सपत्‍ना इव रोगौघाः शरीरं प्रहरन्त्यहो ॥ २८ ॥
जरा व्याघ्रीव पुरतः तर्जयन्त्यवतिष्ठते ।
मृत्युः सहैव यात्येष समयं सम्प्रतीक्षते ॥ २९ ॥
देहेऽहंभावमापन्नो राजाहं लोकविश्रुतः ।
इत्यस्मिन्मनुते जन्तुः कृमिविड्भस्मसंज्ञिते ॥ ३० ॥
त्वग् अस्थिमांसविण्मूत्र रेतोरक्तादिसंयुतः ।
विकारी परिणामी च देह आत्मा कथं वद ॥ ३१ ॥
यमास्थाय भवांल्लोके दग्धुमिच्छति लक्ष्मण ।
देहाभिमानिनः सर्वे दोषाः प्रादुर्भवन्ति हि ॥ ३२ ॥
देहोऽहमिति यो बुद्धिः अविद्या सा प्रकीर्तिता ।
नाहं देहश्चिदात्मेति बुद्धिर्विद्येति भण्यते ॥ ३३ ॥
अविद्या संसृतेर्हेतुः विद्या तस्या निवर्तिका ।
तस्मात् यत्‍नः सदा कार्यो विद्याभ्यासे मुमुक्षुभिः ।
कामक्रोधादयस्तत्र शत्रवः शत्रुसूदन ॥ ३४ ॥
तत्रापि क्रोध एवालं मोक्षविघ्नाय सर्वदा ।
येनाविष्टः पुमान् हन्ति पितृभ्रातृसुहृत् सखीन् ॥ ३५ ॥
क्रोधमूलो मनस्तापः क्रोधः संसारबन्धनम् ।
धर्मक्षयकरः क्रोधः तस्मात्क्रोधं परित्यज ॥ ३६ ॥
क्रोध एष महान् शत्रुः तृष्णा वैतरणी नदी ।
सन्त्तोषो नन्दनवनं शान्तिरेव हि कामधुक् ॥ ३७ ॥
तस्माच्छान्तिं भजस्वाद्य शत्रुरेवं भवेन्न ते ।
देहेन्द्रियमनःप्राण बुद्ध्यादिभ्यो विलक्षणः ॥ ३८ ॥
आत्मा शुद्धः स्वयंज्योतिः अविकारी निराकृतिः ।
यावत् देहेन्द्रियप्राणैः भिन्नत्वं नात्मनो विदुः ॥ ३९ ॥
तावत्संसारदुःखौघैः पीड्यन्ते मृत्युसंयुताः ।
तस्मात्त्वं सर्वदा भिन्नं आत्मानं हृदि भावय ॥ ४० ॥
बुद्ध्यादिभ्यो बहिः सर्वं अनुवर्तस्व मा खिदः ।
भुञ्जन् प्रारब्धमखिलं सुखं वा दुःखमेव वा ॥ ४१ ॥
प्रवाहपतितं कार्यं कुर्वन्नपि न लिप्यसे ।
बाह्ये सर्वत्र कर्तृत्वं आवहन्नपि राघव ॥ ४२ ॥
अन्तःशुद्धस्वभावस्त्वं लिप्यसे न च कर्मभिः ।
एतन्मयोदितं कृत्स्नं हृदि भावय सर्वदा ॥ ४३ ॥
संसारदुःखैरखिलैः बाध्यसे न कदाचन ।
त्वमप्यम्ब ममाऽऽदिष्टं हृदि भावय नित्यदा ॥ ४४ ॥
समागमं प्रतीक्षम्ब न दुःखैः पीड्यसे चिरम् ।
न सदैकत्र संवासः कर्ममार्गानुवर्तिनाम् ॥ ४५ ॥
यथा प्रवाहपतित प्लवानां सरितां तथा ।
चतुर्दशसमासङ्‌ख्या क्षणार्धं इव जायते ॥ ४६ ॥
अनुमन्यस्व मामम्ब दुःखं सन्त्यज्य दूरतः ।
एवं चेत्सुखसंवासो भविष्यति वने मम ॥ ४७ ॥
इत्युक्त्वा दण्डवन्मातुः पादयोः अपतत् चिरम् ।
उत्थाप्याङ्‌केसमावेश्य आशीर्भिरभ्यनन्दयत् ॥ ४८
सर्वे देवाः सगन्धर्वा ब्रह्मविष्णुशिवादयः ।
रक्षन्तु त्वां सदा यान्तं तिष्ठन्तं निद्रयायुतम् ॥ ४९ ॥
इति प्रस्थापयामास समालिङ्‌ग्य पुनः पुनः ।
लक्ष्मणोऽपि तदा रामं नत्वा हर्षाश्रुगद्‍गदः ॥ ५० ॥
आह राम ममान्तःस्थः संशयोऽयं त्वया हृतः ।
यास्यामि पृष्ठतो राम सेवां कर्तुं तदादिश ॥ ५१ ॥
अनुगृह्णीष्व मां राम नोचेत् प्राणांस्त्यजाम्यहम् ।
तथेतिराघवोऽप्याह लक्ष्मणं याहि मा चिरम् ॥ ५२ ॥
प्रतस्थे तां समाधातुं गतः सीतापतिर्विभुः ।
आगतं पतिमालोक्य सीता सुस्मितभाषिणी ॥ ५३ ॥
स्वर्णपात्रस्थसलिलैः पादौ प्रक्षाल्य भक्तितः ।
पप्रच्छ पतिमालोक्य देव किं सेनया विना ॥ ५४ ॥
आगतोऽसि गतः कुत्र श्वेतच्छत्रं च ते कुतः ।
वादित्राणि न वान्द्यते किरीटादिविवर्जितः ॥ ५५ ॥
सामन्तराजसहितः सम्भ्रमान्नागतोऽसि किम् ।
इति स्म सीतया पृष्टो रामः सस्मितमब्रवीत् ॥ ५६ ॥
राज्ञा मे दण्डकारण्ये राज्यं दत्तं शुभेऽखिलम् ।
अतस्तत्पालनार्थाय शीघ्रं यास्यामि भामिनि ॥ ५७ ॥
अद्यैव यास्यामि वनं त्वं तु श्वश्रूसमीपगा ।
शुश्रूषां कुरु मे मातुः न मिथ्यावादिनो वयम् ॥ ५८ ॥
इति ब्रुवन्तं श्रीरामं सीता भीताऽब्रवीद्वचः ।
किमर्थं वनराज्यं ते पित्रा दत्तं महात्मना ॥ ५९ ॥
तामाह रामः कैकेय्यै राजा प्रीतो वरं ददौ ।
भरताय ददौ राज्यं वनवासं ममानघे ॥ ६० ॥
चतुर्दश समास्तत्र वासो मे किल याचितः ।
तया देव्या ददौ राजा सत्यवादी दयापरः ॥ ६१ ॥
अतः शीघ्रं गमिष्यामि मा विघ्नं कुरु भामिनि ।
श्रुत्वा तद्‍रामवचनं जानकी प्रीतिसंयुता ॥ ६२ ॥
अहमग्रे गमिष्यामि वनं पश्चात्त्वमेष्यसि ।
इत्याह मां विना गन्तुं तव राघव नोचितम् ॥ ६३ ॥
तामाह राघवः प्रीतः स्वप्रियां प्रियवादिनीम् ।
कथं वनं त्वां नेष्येऽहं बहुव्याघ्रमृगाकुलम् ॥ ६४ ॥
राक्षसा घोररूपाश्च सन्ति मानुषभोजिनः ।
सिंहव्याघ्रवराहाश्च सञ्चरन्ति समन्ततः ॥ ६५ ॥
कट्वम्लफलमूलानि भोजनार्थं सुमध्यमे ।
अपूपानपि व्यञ्जनानि विद्यन्ते न कदाचन ॥ ६६ ॥
काले काले फलं वापि विद्यते कुत्र सुन्दरि ।
मार्गो न दृश्यते क्वापि शर्कराकण्टकान्वितः ॥६७
गुहागह्वरसम्बाधं झल्लीदंशादिभिर्युतम् ।
एवं बहुविधं दोषं वनं दण्डकसज्ञितम् ॥ ६८ ॥
पादचारेण गन्तव्यं शीतवातातपादिमत् ।
राक्षसादीन्वने दृष्ट्वा जीवितं हास्यसेऽचिरात् ॥६९
तस्माद्‌भद्रे गृहे तिष्ठ शीघ्रं द्रक्ष्यसि मां पुनः ।
रामस्य वचनं श्रुत्वा सीता दुःखसमन्विता ॥ ७० ॥
प्रत्युवाच स्फुरद्-वक्त्रा किञ्चित् कोपसमन्विता ।
कथं मामिच्छसे त्यक्तुं धर्मपत्‍नीं पतिव्रताम् ॥ ७१ ॥
त्वदनन्यामदोषां मां धर्मज्ञोऽसि दयापरः ।
त्वत्समीपे स्थितां राम को वा मां धर्षयेद्वने ॥ ७२ ॥
फलमूलादिकं यद्यत् तव भुक्तावशेषितम् ।
तदेवामृततुल्यं मे तेन तुष्टा रमाम्यहम् ॥ ७३ ॥
त्वया सह चरन्त्या मे कुशाः काशाश्च कण्टकाः ।
पुष्पास्तरणतुल्या मे भविष्यन्ति न संशयः ॥ ७४ ॥
अहं त्वां क्लेशये नैव भवेयं कार्यसाधिनी ।
बाल्ये मां वीक्ष्य कश्चिद्वै ज्योतिःशास्त्रविशारदः ॥ ७५ ॥
प्राह ते विपिने वासः पत्या सह भविष्यति ।
सत्यवादी द्विजो भूयाद् गमिष्यामि त्वया सह ॥ ७६ ॥
अन्यत्किञ्चित् प्रवक्ष्यामि श्रुत्वा मां नय काननम् ।
रामायणानि बहुशः श्रुतानि बहुभिर्द्विजैः ॥ ७७ ॥
सीतां विना वनं रामो गतः किं कुत्रचिद्वद ।
अतस्त्वया गमिष्यामि सर्वथा त्वत्सहायिनी ॥ ७८ ॥
यदिगच्छसि मां त्यक्त्वा प्राणांस्त्यक्ष्यामि तेऽग्रतः ।
इति तं निश्चयं ज्ञात्वा सीताया रघुनन्दनः ॥ ७९ ॥
अब्रवीत् देवि गच्छ त्वं वनं शीघ्रं मया सह ।
अरुन्धत्यै प्रयच्छाशु हारान् आभरणानि च ॥ ८० ॥
ब्राह्मणेभ्यो धनं सर्वं दत्त्वा गच्छामहे वनम् ।
इत्युक्त्वा लक्ष्मणेनाशु द्विजान् आहूय भक्तितः ॥ ८१ ॥
ददौ गवां वृन्दशतं धनानि
वस्त्राणि दिव्यानि विभूषणानि ।
कुटुम्बवद्‌भ्यः श्रुतशीलवद्‌भ्यो
मुदा द्विजेभ्यो रघुवंशकेतुः ॥ ८२ ॥
अरुन्धत्यै ददौ सीता मुख्यान्याभरणानि च ।
रामो मातुः सेवकेभ्यो ददौ धनमनेकधा ॥ ८३ ॥
स्वकान्तःपुरवासिभ्यः सेवकेभ्यस्तथैव च ।
पौरजानपदेभ्यश्च ब्राह्मणेभ्यः सहस्रशः ॥ ८४ ॥
लक्ष्मणोऽपि सुमित्रां तु कौसल्यायै समर्पयत् ।
धनुष्पाणिः समागत्य रामस्याग्रे व्यवस्थितः ॥ ८५ ॥
रामः सीता लक्ष्मणश्च जग्मुः सर्वे नृपालयम् ॥ ८६ ॥
श्रीरामः सह सीतया नृपपथे गच्छन् शनैः सानुजः
पौरान् जानपदान्कुतूहलदृशः सानन्दमुद्वीक्षयन् ।
श्यामः कामसहस्रसुन्दरवपुः कान्त्या दिशो भासयन् ।
पादन्यास पवित्रिताखिलजगत् प्रापालयं तत्पितुः ॥ ८७
इति श्रीमद् अध्यात्मरामयणे उमामहेश्वरसंवादे
अयोध्याकाण्डे चतुर्थः सर्गः ॥ ४ ॥

GO TOP