॥ श्रीमद् अध्यात्मरामायण ॥

॥ अरण्यकाण्ड ॥

॥ अष्टमः सर्ग: ॥

श्रीमहादेव उवाच
रामो मायाविनं हत्वा राक्षसं कामरूपिणम् ।
प्रतस्थे स्वाश्रमं गन्तुं ततो दूराद्ददर्श तम् ॥ १ ॥
आयान्तं लक्ष्मणं दीनं मुखेन परिशुष्यता ।
राघवश्चिन्तयामास स्वात्मन्येव महामतिः ॥ २ ॥
लक्ष्मणस्तन्न जानाति माया सीतां मया कृताम् ।
ज्ञात्वाप्येनं वञ्चयित्वा शोचामि प्राकृतो यथा ॥ ३ ॥
यद्यहं विरतो भूत्वा तूष्णीं स्थास्यामि मन्दिरे ।
तदा राक्षसकोटीनां वधोपायः कथं भवेत् ॥ ४ ॥
यदि शोचामि तां दुःख सन्तप्तः कामुको यथा ।
तदा क्रमेणानुचिन्वन् सीतां यास्येऽसुरालयम् ।
रावणं सकुलं हत्वा सीतामग्नौ स्थितां पुनः ॥ ५ ॥
मयैव स्थापितां नीत्वा यातायोध्यामतन्द्रितः ॥ ६ ॥
अहं मनुष्यभावेन जातोऽस्मि ब्रह्मणार्थितः ।
मनुष्यभावं आपन्नः किञ्चित्कालं वसामि कौ ।
ततो मायामनुष्यस्य चरितं मेऽनुशृण्वताम् ॥ ७ ॥
मुक्तिः स्यादप्रयासेन भक्तिमार्गानुवर्तिनाम् ।
निश्चित्यैवं तदा दृष्ट्वा लक्ष्मणं वाक्यमब्रवीत् ॥ ८ ॥
किमर्थमागतोऽसि त्वं सीतां त्यक्त्वा मम प्रियाम् ।
नीता वा भक्षिता वापि राक्षसैर्जनकात्मजा ॥ ९ ॥
लक्ष्मणः प्रञ्जलिः प्राह सीताया दुर्वचो रुदन् ।
ह्या लक्ष्मणेति वचनं राक्षसोक्तं श्रुतं तया ॥ १० ॥
त्वद्वाक्यसदृशं श्रुत्वा मां गच्छेति त्वराब्रवीत् ।
रुदन्ती सा मया प्रोक्ता देवि राक्षसभाषितम् ।
नेदं रामस्य वचनं स्वस्था भव शुचिस्मिते ॥ ११ ॥
इत्येवं सान्विता साध्वी मया प्रोवाच मां पुनः ।
यदुक्तं दुर्वचो राम न वच्यं पुरतस्तव ॥ १२ ॥
कर्णौ पिधाय निर्गत्य यातोऽहं त्वां समीक्षितुम् ॥ १३ ॥
रामस्तु लक्ष्मणं प्राह तथापि अनुचितं कृतम् ।
त्वया स्त्रीभाषितं सत्यं कृत्वा त्यक्ता शुभानना ।
नीता वा भक्षिता वापि राक्षसैर्नात्र संशयः ॥ १४ ॥
इति चिन्तापरो रामः स्वाश्रमं त्वरितो ययौ ।
तत्रादृष्ट्वा जनकजां विललापातिदुःखितः ॥ १५ ॥
हा प्रिये क्व गतासि त्वं नासि पूर्ववदाश्रमे ।
अथवा मद्विमोहार्थं लीलया क्व विलीयसे ॥ १६ ॥
इत्याचिन्वन्वनं सर्वं नापश्यज्जानकीं तदा ।
वनदेव्यः कुतः सीतां ब्रुवन्तु मम वल्लभाम् ॥ १७ ॥
मृगाश्च पक्षिणो वृक्षा दर्शयन्तु मम प्रियाम् ।
इत्येवं विलपन्नेव रामः सीतां न कुत्रचित् ॥ १८ ॥
सर्वज्ञः सर्वथा क्वापि नापश्यद् रघुनन्दनः ।
आनन्दोऽपि अन्वशोचत्तां अचलोऽपि अनुधावति ॥ १९ ॥
निर्ममो निरहङ्‌कारोऽपि अखण्डानन्दरूपवान् ।
मम जायेति सीतेति विललापातिदुःखितः ॥ २० ॥
एवं मायामनुचरन् असक्तोऽपि रघूत्तमः ।
आसक्त एव मूढानां भाति तत्त्वविदां न हि ॥ २१ ॥
एवं विचिन्वन् सकलं वनं रामः सलक्ष्मणः ।
भग्नं रथं छत्रचापं कूबरं पतितं भुवि ॥ २२ ॥
दृष्ट्वा लक्ष्मणमाहेदं पश्य लक्ष्मण केनचित् ।
नीयमानां जनकजां तं जित्वान्यो जहार ताम् ॥ २३ ॥
ततः कञ्चिद्‌भुवो भागं गत्वा पर्वतसन्निभम् ।
रुधिराक्तवपुः दृष्ट्वा रामो वाक्यमथाब्रवीत् ॥ २४ ॥
एष वै भक्षयित्वा तां जानकीं शुभदर्शनाम् ।
शेते विविक्तेऽतितृप्तः पश्य हन्मि निशाचरम् ॥ २५ ॥
चापमानय शीघ्रं मे बाणं च रघुनन्दन ।
तत्छ्रुत्वा रामवचनं जटायुः प्राह भीतवत् ॥ २६ ॥
मां न मारय भद्रं ते म्रियमाणं स्वकर्मणा ।
अहं जटायुस्ते भार्या हारिणं समनुद्रुतः ॥ २७ ॥
रावणं तत्र युद्धं मे बभूवारिविमर्दन ।
तस्य वाहान् रथं चापं छित्त्वाहं तेन घातितः ॥ २८ ॥
पतितोऽस्मि जगन्नाथ प्राणान् स्त्यक्ष्यामि पश्य माम् ॥ २९ ॥
तत्श्रुत्वा राघवो दीनं कण्ठप्राणं ददर्श ह ।
हस्ताभ्यां संस्पृशन् रामो दुःखाश्रुवृतलोचनः ॥ ३० ॥
जटायो ब्रूहि मे भार्या केन नीता शुभानना ।
मत्कार्यार्थं हतोऽसि त्वं अतो मे प्रियबान्धवः ॥ ३१ ॥
जटायुः सन्नया वाचा वक्त्राद् रक्तं समुद्वमन् ।
उवाच रावणो राम राक्षसो भीमविक्रमः ॥ ३२ ॥
आदाय मैथिलीं सीतां दक्षिणाभिमुखो ययौ ।
इतो वक्तुं न मे शक्तिः प्राणान् त्यक्ष्यामि तेऽग्रतः ॥ ३३ ॥
दिष्ट्या दृष्टोऽसि राम त्वं म्रियमाणेन मेऽनघ ।
परमात्मासि विष्णुस्त्वं मायामनुजरूपधृक् ॥ ३४ ॥
अन्तकालेऽपि दृष्ट्वा त्वां मुक्तोऽहं रघुसत्तम ।
हस्ताभ्यां स्पृश मां राम पुनर्यास्यामि ते पदम् ॥ ३५ ॥
तथेति रामः पस्पर्श तदङ्‌गं पाणिना स्मयन् ।
ततः प्राणान् परित्यज्य जटायुः पतितो भुवि ॥ ३६ ॥
रामस्तमनुशोचित्वा बन्धुवत्साश्रुलोचनः ।
लक्ष्मणेन समानाय्य काष्ठानि प्रददाह तम् ॥३७ ॥
स्नात्वा दुःखेन रामोऽपि लक्ष्मणेन समन्वितः ।
हत्वा वने मृगं तत्र मांसखण्डान् समन्ततः ॥ ३८ ॥
शाद्वले प्राक्षिपद्‍रामः पृथक्‌पृथगनेकधा ।
भक्षन्तु पक्षिणः सर्वे तृप्तो भवतु पक्षिराट् ॥ ३९ ॥
इत्युक्त्वा राघवः प्राह जटायो गच्छ मत्पदम् ।
मत्सारूप्यं भजस्वाद्य सर्वलोकस्य पश्यतः ॥ ४० ॥
ततोऽनन्तरमेवासौ दिव्यरूपधरः शुभः ।
विमानवरमारुह्य भास्वरं भानुसन्निभम् ॥ ४१ ॥
शङ्‌खचक्रगदापद्म किरीटवरभूषणैः ।
द्योतयन् स्वप्रकाशेन पीताम्बरधरोऽमलः ॥ ४२ ॥
चतुर्भिः पार्षदैर्विष्णोः तादृशैरभिपूजितः ।
स्तूयमानो योगिगणैः राममाभाष्य सत्वरः ।
कृताञ्जलिपुटो भूत्वा तुष्टाव रघुनन्दनम् ॥ ४३ ॥
जटायु उवाच
अगणितगुणमप्रमेयमाद्यं
सकलजगत्स्थितिसंयमादिहेतुम् ।
उपरमपरं परात्मभूतं
सततमहं प्रणतोऽस्मि रामचन्द्रम् ॥ ४४ ॥
निरवधिसुखमिन्दिराकटाक्षं
क्षपितसुरेन्द्रचतुर्मुखादिदुःखम् ।
नरवरमनिशं नतोऽस्मि रामं
वरदमहं वरचापबाणहस्तम् ॥ ४५ ॥
त्रिभुवनकमनीयरूपमीड्यं
रविशतभासुरमीहितप्रदानम् ।
शरणदमनिशं सुरागमूले
कृतनिलयं रघुनन्दनं प्रपद्ये ॥ ४६ ॥
भवविपिनदवाग्निनामधेयं
भवमुखदैवतदैवतं दयालुम् ।
दनुजपतिसहस्रकोटिनाशं
रवितनयासदृशं हरिं प्रपद्ये ॥ ४७ ॥
अविरतभवभावनातिदूरं
भवविमुखैर्मुनिभिः सदैव दृश्यम् ।
भवजलधिसुतारणाङ्‌घ्रिपोतं
शरणमहं रघुनन्दनं प्रपद्ये ॥ ४८ ॥
गिरिशगिरिसुतामनोनिवासं
गिरिवरधारिणमीहिताभिरामम् ।
सुरवरदनुजेन्द्रसेविताङ्‌घ्रिं
सुरवरदं रघुनायकं प्रपद्ये ॥ ४९ ॥
परधनपरदारवर्जितानां
परगुणभूतिषु तुष्टमानसानाम् ।
परहितनिरतात्मनां सुसेव्यं
रघुवरमम्बुजलोचनं प्रपद्ये ॥ ५० ॥
स्मितरुचिरविकासिताननाब्जम्
अतिसुलभं सुरराजनीलनीलम् ।
सितजलरुहचारुनेत्रशोभं
रघुपतिमीशगुरोर्गुरुं प्रपद्ये ॥ ५१ ॥
हरिकमलजशम्भुरूपभेदात्
त्वमिह विभासि गुणात्रयानुवृत्तः ।
रविरिव जलपूरितोदपात्रेषु
अमरपतिस्तुतिपात्रमीशमीडे ॥ ५२ ॥
रतिपतिशतकोटिसुन्दराङ्‌गं
शतपथगोचरभावनाविदूरम् ।
यतिपतिहृदये सदा विभातं
रघुपतिमार्तिहरं प्रभुं प्रपद्ये ॥ ५३ ॥
इत्येवं स्तुवतस्तस्य प्रसन्नोऽभूद्रघूत्तमः ।
उवाच गच्छ भद्रं ते मम विष्णोः परं पदम् ॥ ५४ ॥
शृणोति य इदं स्तोत्रं लिखेद्वा नियतः पठेत् ।
स याति मम सारूप्यं मरणे मत्स्मृतिं लभेत् ॥ ५५ ॥
इति राघवभाषितं तदा
श्रुतवान् हर्षसमाकुलो द्विजः ।
रघुनन्दनसाम्यमास्थितः
प्रययौ ब्रह्मसुपूजितं पदम् ॥ ५६ ॥
इति श्रीमद् अध्यात्मरामयणे उमामहेश्वरसंवादे
अरण्यकाण्डे अष्टमः सर्गः ॥ ८ ॥

GO TOP