॥ श्रीमद् अध्यात्मरामायण ॥

॥ युद्धकाण्ड ॥

॥ दशमः सर्गः ॥

श्रीमहादेव उवाच

स विचार्य सभामध्ये राक्षसैः सह मंत्रिभिः ।
निर्ययौ येऽवशिष्टास्तै राक्षसैः सह राघवम् ॥ १ ॥
शलभः शलभैर्युक्तः प्रज्वलन्तमिवानलम् ।
ततो रामेण निहताः सर्वे ते राक्षसा युधि ॥ २ ॥
स्वयं रामेण निहताः तीक्ष्णबाणेन वक्षसि ।
व्यथितस्त्वरितं लङ्‌कां प्रविवेश दशाननः ॥ ३ ॥
दृष्ट्वा रामस्य बहुशः पौरुषं चाप्यमानुषम् ।
रावणो मारुतेश्चैव शीघ्रं शुक्रान्तिकं ययौ ॥ ४ ॥
नमस्कृत्य दशग्रीवः शुक्रं प्राञ्जलिरब्रवीत् ।
भगवन् राघवेणैवं लङ्‌का राक्षसयुथपैः ॥ ५ ॥
विनाशिता महादैत्या निहताः पुत्रबान्धवाः ।
कथं मे दुःखसन्दोहः त्वयि तिष्ठति सद्‍गुरौ ॥ ६ ॥
इति विज्ञापितो दैत्य-गुरुः प्राह दशाननम् ।
होमं कुरु प्रयत्‍नेन रहसि त्वं दशानन ॥ ७ ॥
यदि विघ्नो न चेत् होमे तर्हि होमानलोत्थितः ॥ ८ ॥
महान् रथश्च वाहाश्च चापतूणीरसायकाः ।
सम्भविष्यन्ति तैर्युक्तः त्वं अजेयो भविष्यसि ॥ ९ ॥
गृहाण मंत्रान् मद्दत्तान् गच्छ होमं कुरु द्रुतम् ।
इत्युक्तस्त्वरितं गत्वा रावणो राक्षसाधिपः ॥ १० ॥
गुहां पातालसदृशीं मन्दिरे स्वे चकार ह ।
लङ्‌काद्वारकपाटादि बद्‍ध्वा सर्वत्र यत्‍नतः ॥ ११ ॥
होमद्रव्याणि सम्पाद्य यान्युयुक्तान्याभिचारिके ।
गुहां प्रविश्य चैकान्ते मौनी होमं प्रचक्रमे ॥ १२ ॥
उत्थितं धूममालोक्य महान्तं रावणानुजः ।
रामाय दर्शयामास होमधूमं भयाकुलः ॥ १३ ॥
पश्य राम दशग्रीवो होमं कर्तुं समारभत् ।
यदि होमः समाप्तः स्यात् तदा अजेयो भविष्यति ॥ १४ ॥
अतो विघ्नाय होमस्य प्रेषयाशु हरीश्वरान् ।
तथेति रामः सुग्रीव सम्मतेनाङ्‌गदं कपिम् ॥ १५ ॥
हनूमत्प्रमुखान्वीरान् आदिदेश महाबलान् ।
प्राकारं लङ्‌घयित्वा ते गत्वा रावणमन्दिरम् ॥ १६ ॥
दशकोट्यः प्लवङ्‌गानां गत्वा मन्दिररक्षकान् ।
चूर्णयामासुरश्वांश्च गजांश्च न्यहनन् क्षणात् ॥ १७ ॥
ततश्च सरमा नाम प्रभाते हस्तसंज्ञया ।
विभीषस्य भार्या सा होमस्थानम् असूचयत् । ॥ १८ ॥
गुहापिधानपाषाणं अङ्‌गदः पादघट्टनैः ।
चूर्णयित्वा महासत्त्वः प्रविवेश महागुहाम् ॥ १९ ॥
दृष्ट्वा दशाननं तत्र मीलिताक्षं दृढासनम् ।
ततोऽङ्‌गदाज्ञया सर्वे वानरा विविशुर्द्रुतम् ॥ २० ॥
तत्र कोलाहलं चक्रुः ताडयन्तश्च सेवकान् ।
सम्भारांश्चिक्षिपुस्तस्य होमकुण्डे समन्ततः ॥ २१ ॥
स्रुवमाच्छिद्य हस्ताच्च रावणस्य बलाद्रुषा ।
तेनैव सञ्जघानाशु हनूमान् प्लवगाग्रणीः ॥ २२ ॥
घ्नन्ति दन्तैश्च काष्टैश्च वानरास्तमितस्ततः ।
न जहौ रावणो ध्यानं हतोऽपि विजिगीषया ॥ २३ ॥
प्रविश्यान्तःपुरे वेश्मनि अङ्‌गदो वेगवत्तरः ।
समानयत्केशबन्धे धृत्वा मन्दोदरीं शुभाम् ॥ । २४ ॥
रावणस्यैव पुरतो विलपन्तीमनाथवत् ।
विददाराङ्‌गदस्तस्याः कञ्चुकं रत्‍नभूषितम् ॥ २५ ॥
मुक्ता विमुक्ताः पतिताः समन्ताद् रत्‍नसञ्चयैः ।
श्रोणिसूत्रं निपतितं त्रुटितं रत्‍नचित्रितम् ॥ २६ ॥
कटिप्रदेशाद् विस्रस्ता नीवी तस्यैव पश्यतः ।
भूषणानि च सर्वाणि पतितानि समन्ततः ॥ २७ ॥
देवगन्धर्वकन्याश्च नीता हृष्टैः प्लवङ्‌गमैः ।
मन्दोदरी रुरोदाथ रावणस्याग्रतो भृशम् ॥ २८ ॥
क्रोशन्ती करुणं दीना जगाद दशकन्धरम् ।
निर्लज्जोऽसि परैरेवं केशपाशे विकृष्यते ॥ २९ ॥
भार्या तवैव पुरतः किं जुहोषि न लज्जसे ।
हन्यते पश्यतो यस्य भार्या पापैश्च शत्रुभिः ॥ ३० ॥
मर्तव्यं तेन तत्रैव जीवितान्मरणं वरम् ।
हा मेघनाद ते माता क्लिश्यते बत वानरैः ॥ ३१ ॥
त्वयि जीवति मे दुःखं ईदृश्यं च कथं भवेत् ।
भार्या लज्जा च सन्त्यक्ता भर्त्रा मे जीविताशया ॥ ३२ ॥
श्रुत्वा तद्देवितं राजा मन्दोदर्या दशाननः ।
उत्तस्थौ खड्‌गमादाय त्यज देवीं इति ब्रुवन् ॥ ३३ ॥
जघानाङ्‌गदमव्यग्रः कटिदेशे दशाननः ।
तदोत्सृज्य ययुः सर्वे विध्वंस्य हवनं महत् ॥ ३४ ॥
रामपार्श्वमुपागम्य तस्थुः सर्वे प्रहर्षिताः ॥ ३५ ॥
रावणस्तु ततो भार्यां उवाच परिसान्त्वयन् ।
दैवाधीनमिदं भद्रे जीवता किं न दृश्यते ।
त्यज शोकं विशालाक्षि ज्ञानमालम्ब्य निश्चितम् ॥ ३६ ॥
अज्ञानप्रभवः शोकः शोको ज्ञानविनाशकृत् ।
अज्ञानप्रभवाहन्धीः शरीरादिष्वनात्मसु ॥ ३७ ॥
तन्मूलः पुत्रदारादि संबन्धः संसृतिस्ततः ।
हर्षशोकभयक्रोध लोभमोह स्पृहादयः ॥ ३८ ॥
अज्ञानप्रभवा ह्येते जन्ममृत्युजरादयः ।
आत्मा तु केवलं शुद्धो व्यतिरिक्तो ह्यलेपकः ॥ ३९ ॥
आनन्दरूपो ज्ञानात्मा सर्वभावविवर्जितः ।
न संयोगो वियोगो वा विद्यते केनचित्सतः ॥ ४० ॥
एवं ज्ञात्वा समात्मानं त्यज शोकमनिन्दिते ।
इदानीमेव गच्छामि हत्वा रामं सलक्ष्मणम् ॥ ४१ ॥
आगमिष्यामि नोचेन्मां दारयिष्यति सायकैः ।
श्रीरामो वज्रकल्पैश्च ततो गच्छामि तत्पदम् ॥ ४२ ॥
तदा त्वया मे कर्तव्या क्रिया मच्छासनात्प्रिये ।
सीतां हत्वा मया सार्धं त्वं प्रवेक्ष्यसि पावकम् ॥ ४३ ॥
एवं श्रुत्वा वचस्तस्य रावणस्यातिदुःखिता ।
उवाच नाथ मे वाक्यं शृणु सत्यं तथा कुरु ॥ ४४ ॥
शक्यो न राघवो जेतुं त्वया चान्यैः कदाचन ।
रामो देववरः साक्षात् प्रधानपुरुषेश्वरः ॥ ४५ ॥
मत्स्यो भूत्वा पुरा कल्पे मनुं वैवस्वतं प्रभुः ।
ररक्ष सकलापद्‌भ्यो राघवो भक्तवत्सलः ॥ ४६ ॥
रामः कूर्मोऽभवत्पूर्वं लक्षयोजनविस्तृतः ।
समुद्रमथने पृष्ठे दधार कनकाचलम् ॥ ४७ ॥
हिरण्याक्षोऽतिदुर्वृत्तो हतोऽनेन महात्मना ।
क्रोडरूपेण वपुषा क्षोणीं उद्धरता क्वचित् ॥ ४८ ॥
त्रिलोककण्टकं दैत्यं हिरण्यकशिपुं पुरा ।
हतवान् नारसिंहेन वपुषा रघुनन्दनः ॥ ४९ ॥
विक्रमैस्त्रिभिरेवासौ बलिं बद्‍ध्वा जगत्त्रयम् ।
आक्रम्यादात्सुरेन्द्राय भृत्याय रघुसत्तमः ॥ ५० ॥
राक्षसाः क्षत्रियाकारा जाता भूमेर्भरावहाः ।
तान्हत्वा बहुशो रामो भुवं जित्वा ह्यदान्मुनेः ॥ ५१ ॥
स एव साम्प्रतं जातो रघुवंशे परात्परः ।
भवदर्थे रघुश्रेष्ठो मानुषत्वमुपागतः ॥ ५२ ॥
तस्य भार्या किमर्थं वा हृता सीता वनाद्‌बलात् ।
मम पुत्रविनाशार्थं स्वस्यापि निधनाय च ॥ ५३ ॥
इतः परं वा वैदेहीं प्रेषयस्व रघूत्तमे ।
विभीषणाय राज्यं तु दत्त्वा गच्छामहे वनम् ॥ ५४ ॥
मन्दोदरीवचः श्रुत्वा रावणो वाक्यमब्रवीत् ।
कथं भद्रे रणे पुत्रान् भ्रातॄन् राक्षसमण्डलम् ॥ ५५ ॥
घातयित्वा राघवेण जीवामि वनगोचरः ।
रामेण सह योत्स्यामि रामबाणैः सुशीघ्रगैः ॥ ५६ ॥
विदार्यमाणो यास्यामि तद्विष्णोः परमं पदम् ।
जानामि राघवं विष्णुं लक्ष्मीं जानामि जानकीम् ।
ज्ञात्वैव जानकी सीता मयानीता वनाद्‌बलात् ॥ ५७ ॥
रामेण निधनं प्राप्य यास्यामीति परं पदम् ।
विमुच्य त्वां तु संसाराद् गमिष्यामि सह प्रिये ॥ ५८ ॥
परानन्दमयी शुद्धा सेव्यते या मुमुक्षुभिः ।
तां गतिं तु गमिष्यामि हतो रामेण संयुगे ॥ ५९ ॥
प्रक्षाल्य कल्मषाणीह मुक्तिं यास्यामि दुर्लभाम् ॥ ६० ॥
क्लेशादिपञ्चतरङ्‌गयुतं भ्रमाढ्यं
दारात्मजाप्तधनबन्धुझषाभियुक्तम् ।
और्वानलाभनिजरोषमनङ्‌गजालं
संसारसागरमतीत्य हरिं व्रजामि ॥ ६१ ॥

इति श्रीमद् अध्यात्मरामायणे उमामहेश्वरसंवादे
युद्धकाण्डे दशमः सर्गः ॥ १० ॥

GO TOP