॥ श्रीमद् अध्यात्मरामायण ॥

॥ बालकाण्ड ॥

॥ चतुर्थः सर्गः ॥

श्रीमहादेव उवाच
कदाचित्कौशिकोऽभ्यागाद् अयोध्यां ज्वलनप्रभः ।
द्रष्टुं रामं परात्मानं जातं ज्ञात्वा स्वमायया ॥ १ ॥
दृष्ट्‍वा दशरथो राजा प्रत्युत्थायाचिरेण तु ।
वसिष्ठेन समागम्य पूजयित्वा यथाविधि ॥ २ ॥
अभिवाद्य मुनिं राजा प्राञ्जलिर्भक्तिनम्रधीः ।
कृतार्थोऽस्मि मुनीन्द्राहं त्वद् आगमनकारणात् ॥ ३ ॥
त्वद्विधा यद्‍गृहं यान्ति तत्रैवायान्ति संपदः ।
यदर्थं आगतोऽसि त्वं ब्रूहि सत्यं करोमि तत् ॥ ४ ॥
विश्वामित्रोऽपि तं प्रीतः प्रत्युवाच महीपतिः ।
अहं पर्वणि संप्राप्ते दृष्ट्वा यष्टुं सुरान् पितॄन् ॥ ५ ॥
यदाऽरभे तदा दैत्या विघ्नं कुर्वन्ति नित्यशः ।
मारीचश्च सुबाहुश्च अपरे चानुचरास्तयोः ॥ ६ ॥
अतस्तयोर्वधार्थाय ज्येष्ठं रामं प्रयच्छ मे ।
लक्ष्मणेन सह भ्राता तव श्रेयो भविष्यति ॥ ७ ॥
वसिष्ठेन सहामंत्र्य दीयतां यदि रोचते ।
पप्रच्छ गुरुमेकान्ते राजा चिन्तापरायणः ॥ ८ ॥
किं करोमि गुरो रामं त्यक्तुं नोत्सहते मनः ।
बहुवर्षसहस्रान्ते कष्टेनोत्पादिताः सुताः ॥ ९ ॥
चत्वारोऽमस्तुल्यास्ते तेषां रामोऽतिवल्लभः ।
रामस्त्वितो गच्छति चेत् न जीवामि कथञ्चन ॥ १० ॥
प्रत्याख्यातो यदि मुनिः शापं दास्यत्यसंशयः ।
कथं श्रेयो भवेन्मह्यं असत्यं चापि न स्पृशेत् ॥ ११ ॥
वसिष्ठ उवाच
शृणु राजन् देवगुह्यं गोपनीयं प्रयत्‍नतः ।
रामो न मानुषो जातः परमात्मा सनातनः ॥ १२ ॥
भूमेर्भारावताराय ब्रह्मणा प्रार्थितः पुरा ।
स एव जातो भवने कौसल्यायां तवानघ ॥ १३ ॥
त्वं तु प्रजापतिः पूर्वं कश्यपो ब्रह्मणः सुतः ।
कौसल्या चादितिर्देव माता पूर्वं यशस्विनी ।
भवन्तौ तप उग्रं वै तेपाथे बहुवत्सरम् ॥ १४ ॥
अग्राम्यविषयौ विष्णु पूजाध्यानैकतत्परौ ।
तदा प्रसन्नो भगवान् वरदो भक्तवत्सलः ॥ १५ ॥
वृणीष्व वरमित्युक्ते त्वं मे पुत्रो भवामल ।
इति त्वया याचितोऽसौ भगवान् भूतभावनः ॥ १६ ॥
तथेत्युक्त्वाद्य पुत्रस्ते जातो रामः स एव हि ।
शेषस्तु लक्ष्मणो राजन् राममेवान्वपद्यत ॥ १७ ॥
जातौ भरतशत्रुघ्नौ शङ्‌खचक्रे गदाभृतः ।
योगमायापि सीतेति जाता जनकनन्दिनी ॥ १८ ॥
विश्वामित्रोऽपि रामाय तां योजयितुमागतः ।
एतद्‍गुह्यतमं राजन् न वक्तव्यं कदाचन ॥ १९ ॥
अतः प्रीतेन मनसा पूजयित्वाथ कौशिकम् ।
प्रेषयस्व रमानाथं राघवं सहलक्ष्मणम् ॥ २० ॥
वसिष्ठेनैवमुक्तस्तु राजा दशरथस्तदा ।
कृतकृत्यं इवात्मानं मेने प्रमुदितान्तरः ॥ २१ ॥
आहूय रामरामेति लक्ष्मणेति च सादरम् ।
आलिङ्‍ग्य मूर्ध्नवघ्राय कौशिकाय समर्पयत् ॥ २२ ॥
ततोऽतिहृष्टो भगवान् विश्वामित्रः प्रतापवान् ।
आशीर्भिरभिनन्द्याथ आगतौ रामलक्ष्मणौ ॥ २३ ॥
गृहीत्वा चापतूणीर बाणखड्गधरौ ययौ ।
किञ्चिद् देशं अतिक्रम्य राममाहूय भक्तितः ॥ २४ ॥
ददौ बलां चातिबलां विद्ये द्वे देवनिर्मिते ।
ययोर्ग्रहणमात्रेण क्षुत्क्षामादि न जायते ॥ २५ ॥
तत उत्तीर्य गङ्‌गां ते ताटकावनमागमन् ।
विश्वामित्रस्तदा प्राह रामं सत्यपराक्रमम् ॥ २६ ॥
अत्रास्ति ताटका नाम राक्षसी कामरूपिणी ।
बाधते लोकमखिलं जहि तां अविचारयन् ॥ २७ ॥
तथेति धनुरादाय सगुणं रघुनन्दनः ।
टङ्‌कारं अकरोत्तेन शब्देनापूरयद् वनम् ॥ २८ ॥
तच्छृत्वासहमाना सा ताटका घोररूपिणी ।
क्रोधसंमूर्च्छिता रामं अभिदुद्राव मेघवत् ॥ २९ ॥
तामेकेन शरेणाशु ताडयामास वक्षसि ।
पपात विपिने घोरा वमन्ती रुधिरं बहु ॥ ३० ॥
ततोऽतिसुन्दरी यक्षी सर्वाभरणभूषिता ।
शापात् पिशाचतां प्राप्ता मुक्ता रामप्रसादतः ॥ ३१ ॥
नत्वा रामं परिक्रम्य गता रामाज्ञया दिवम् ॥ ३२ ॥
ततोऽतिहृष्टः परिरभ्य रामं
मूर्धन्यवघ्राय विचिन्त्य किञ्चित् ।
सर्वास्त्रजालं सरहस्यमंत्रं
प्रीत्याभिरामाय ददौ मुनीन्द्रः ॥ ३३ ॥
इति श्रीमद् अध्यात्मरामयणे उमामहेश्वरसंवादे
बालकाण्डे चतुर्थः सर्गः ॥ ४ ॥

GO TOP