॥ श्रीमद् अध्यात्मरामायण ॥

॥ युद्धकाण्ड ॥

॥ नवमः सर्गः ॥

श्रीमहादेव उवाच

विभीषणवचः श्रुत्वा रामो वाक्यमथाब्रवीत् ।
जानामि तस्य रौद्रस्य मायां कृत्स्नां विभीषणः ॥ १ ॥
स हि ब्रह्मास्त्रविच्छूरो मायावी च महाबलः ।
जानामि लक्ष्मणस्यापि स्वरूपं मम सेवनम् ॥ २ ॥
ज्ञात्वैवासमहं तूष्णीं भविष्यत्कार्यगौरवात् ।
इत्युक्‍त्वा लक्ष्मणं प्राह रामो ज्ञानवतां वरः ॥ ३ ॥
गच्छ लक्ष्मण सैन्येन महता जहि रावणिम् ।
हनूमत्प्रमुखैः सर्वैः यूथपैः सह लक्ष्मण ॥ ४ ॥
जाम्बवान् ऋक्षराजोऽयं सह सैन्येन संवृतः ।
विभीषणश्च सचिवैः सह त्वामभियास्यति ॥ ५ ॥
अभिज्ञस्तस्य देशस्य जानाति विवराणि सः ।
रामस्य वचनं श्रुत्वा लक्ष्मणः सविभीषणः ॥ ६ ॥
जग्राह कार्मुकं श्रेष्ठं अन्यद्‌भीमपराक्रमः ।
रामपादाम्बुजं स्पृष्ट्वा हृष्टः सौमित्रिरब्रवीत् ॥ ७ ॥
अद्य मत्कार्मुकान्मुक्ताः शरा निर्भिद्य रावणिम् ।
गमिष्यन्ति हि पातालं स्नातुं भोगवतीजले ॥ ८ ॥
एवमुक्‍त्वा स सौमित्रिः परिक्रम्य प्रणम्य तम् ।
इन्द्रजिन्निधनाकाङ्‌क्षी ययौ त्वरितविक्रमः ॥ ९ ॥
वानरैर्बहुसाहस्रैः हनूमान् पृष्ठतोऽन्वगात् ।
विभीषणश्च सहितो मंत्रिभिस्त्वरितं ययौ ॥ १० ॥
जाम्बवत्प्रमुखा ऋक्षाः सौमित्रिं त्वरयान्वयुः ।
गत्वा निकुम्भिलादेशं लक्ष्मणो वानरैः सह ॥ ११ ॥
अपश्यद्‌बलसंङ्‌घातं दूरात् राक्षससङ्‌कुलम् ।
धनुरायम्य सौमित्रिः यत्तोऽभूद्‌भूरिविक्रमः ॥ १२ ॥
अङ्‌गदेन च वीरेण जाम्बवान् राक्षसाधिपः ।
तदा विभीषणः प्राह सौमित्रिं पश्य राक्षसान् ॥ १३ ॥
यदेतद् राक्षसानीकं मेघश्यामं विलोक्यते ।
अस्यानीकस्य महतो भेदने यत्‍नवान् भवे ॥ १४ ॥
राक्षसेन्द्रसुतोऽप्यस्मिन् भिन्ने दृश्यो भविष्यति ।
अभिद्रवाशु यावद्वै नैतत्कर्म समाप्यते ॥ १५ ॥
जही वीर दुरात्मानं हिंसापरमधार्मिकम् ।
विभीषणवचः श्रुत्वा लक्ष्मणः शुभलक्ष्मणः ॥ १६ ॥
ववर्ष शरवर्षाणि राक्षसेन्द्रसुतं प्रति ।
पाषाणैः पर्वताग्रैश्च वृक्षैश्च हरियूथपाः ॥ १७ ॥
निर्जघ्नुः सर्वतो दैत्यांस्तेऽपि वानरयूथपान् ।
परश्वधैः शितैर्बाणैरसिभिर्यष्टितोमरैः ॥ १८ ॥
निर्जघ्नुर्वानरानीकं तदा शब्दो महानभूत् ।
स सम्प्रहारस्तुमुलः संजज्ञे हरिरक्षसाम् ॥ १९ ॥
इन्द्रजित्स्वबलं सर्वं अर्द्यमानं विलोक्य सः ।
निकुम्भिलां च होमं च त्यक्‍त्वा शीघ्रं विनिर्गतः ॥ २० ॥
रथमारुह्य सधनुः क्रोधेन महतागमत् ।
समाह्वयन् स सौमित्रिं युद्धाय रणमूर्धनि ॥ २१ ॥
सौमित्रे मेघनादोऽहं मया जीवन्न मोक्ष्यसे ।
तत्र दृष्ट्वा पितृव्यं स प्राह निष्ठुरभाषणम् ॥ २२ ॥
इहैव जातः संवृद्धः साक्षाद् भ्राता पितुर्मम ।
यस्त्वं स्वजनमृत्सृज्य परभृत्यत्वमागतः ॥ २३ ॥
कथं द्रुह्यसि पुत्राय पापीयानसि दुर्मतिः ।
इत्युक्‍त्वा लक्ष्मणं दृष्ट्वा हनूमत्पृष्ठतः स्थितम् ॥ २४ ॥
उद्यदायुधनिस्त्रिंशे रथे महति संस्थितः ।
महाप्रमाणमुद्यम्य घोरं विस्फारयन्धनुः ॥ २५ ॥
अद्य वो मामका बाणाः प्राणान्पास्यन्ति वानराः ।
ततः शरं दाशरथिः सन्धायामित्रकर्षणः ॥ २६ ॥
ससर्ज राक्षसेन्द्राय क्रुद्धः सर्प एव श्वसन् ।
इन्द्रजित् रक्तनयनो लक्ष्मणं समुदैक्षत ॥ २७ ॥
शक्राशनिसमस्पर्शैः लक्ष्मणेनाहतः शरैः ।
मुहूर्तमभवन्मूढः पुनः प्रत्याहृतेन्द्रियः ॥ २८ ॥
ददर्शावस्थितं वीरं वीरो दशरथात्मजम् ।
सोऽभिचक्राय सौमित्रिं क्रोधसंरक्तलोचनः ॥ २९ ॥
शरान्धनुषि सन्धाय लक्ष्मणं चेदमब्रवीत् ।
यदि ते प्रथमे युद्धे न दृष्टो मे पराक्रमः ॥ ३० ॥
अद्य त्वां दर्शयिष्यामि तिष्ठेदानीं व्यवस्थितः ।
इत्युक्‍त्वा सप्तभिर्बाणैः अभिविव्याध लक्ष्मणम् ॥ ३१ ॥
दशभिश्च हनूमन्तं तीक्ष्णधारैः शरोत्तमैः ।
ततः शरशतेनैव सम्प्रयुक्तेन वीर्यवान् ॥ ३२ ॥
क्रोधद्विगुणसंरब्धो निर्बिभेद विभीषणम् ।
लक्ष्मणोऽपि तथा शत्रुं शरवर्षैरवाकिरत् ॥ ३३ ॥
तस्य बाणैः सुसंविद्धं कवचं काञ्चनप्रभम् ।
व्यशीर्यत रथोपस्थे तिलशः पतितं भुवि ॥ ३४ ॥
ततः शरसहस्रेण सङ्‌क्रुद्धो रावणात्मजः ।
बिभेद समरे वीरं लक्ष्मणं भीमविक्रमम् ॥ ३५ ॥
व्यशीर्यतापतद्दिव्यं कवचं लक्ष्मणस्य च ।
कृतप्रतिकृतान्योन्यं बभूवतुरभिद्रुतौ ॥ ३६ ॥
अभीक्ष्णं निःश्वसन्तौ तौ युध्येतां तुमुलं पुनः ।
शरसंवृतसर्वाङ्‌गौ सर्वतो रुधिरोक्षितौ ॥ ३७ ॥
सुदीर्घकालं तौ वीरौ अन्योन्यं निशितैः शरैः ।
अयुध्येतां महासत्त्वौ जयाजयविवर्जितौ ॥ ३८ ॥
एतस्मिन्नन्तरे वीरो लक्ष्मणः पञ्चभिः शरैः ।
रावणेः सारथिं साश्वं रथं च समचूर्णयत् ॥ ३९ ॥
चिच्छेद कार्मुकं तस्य दर्शयन् हस्तलाघवम् ।
सोऽन्यत्तु कार्मुकं भद्रं सज्यं चक्रे त्वरान्वितः ॥ ४० ॥
तच्चामपि चिच्छेद लक्ष्मणस्त्रिभिराशुगैः ।
तमेव छिन्नधन्वानं विव्याधानेकसायकैः ॥ ४१ ॥
पुनरन्यत्समादय कार्मुकं भीमविक्रमः ।
इन्द्रजिल्लक्ष्मणं बाणैः शितैरादित्यसन्निभैः ॥ ४२ ॥
बिभेद वानरान्सर्वान् बाणैरापूरयन्दिशः ।
तत ऐन्द्रं समादाय लक्ष्मणो रावणिं प्रति ॥ ४३ ॥
सन्धायाकृष्य कर्णान्तं कार्मुकं दृढनिष्ठुरम् ।
उवाच लक्ष्मणो वीरः स्मरन् रामपदाम्बुजम् ॥ ४४ ॥
धर्मात्मा सत्यसन्धश्च रामो दाशरथिर्यदि ।
त्रिलोक्यामप्रतिद्वन्द्वः तदेनं जहि रावणिम् ॥ ४५ ॥
इत्युक्‍त्वा बाणमाकर्णाद् विकृष्य तमजिह्यगम् ।
लक्ष्मणः समरे वीरः ससर्जेन्द्रजितं प्रति ॥ ४६ ॥
स शरः सशिरस्त्राणं श्रीमज्ज्वलितकुण्डलम् ।
प्रमथ्येन्द्रजितः कायात् पातयामास भूतले ॥ ४७ ॥
ततः प्रमुदिता देवाः कीर्तयन्तो रघूत्तमम् ।
ववर्षु पुष्पवर्षाणि स्तुवन्तश्च मुहुर्मुहुः ॥ ४८ ॥
जहर्ष शक्रो भगवान् सह देवैर्महर्षिभिः ।
आकाशेऽपि च देवानां शुश्रुवे दुन्दुभिस्वनः ।
विमलं गगनं चासीत् स्थिराभूत् विश्वधारिणी ।
निहतं रावणिं दृष्ट्वा जयजल्पसमन्वितः ॥ ५० ॥
गतश्रमः स सौमित्रिः शङ्‌खमापूरयद्रणे ।
सिंहनादं ततः कृत्वा ज्याशब्दं अकरोद्विभुः ।
तेन नादेन संहृष्टा वानराश्च गतश्रमाः ।
वानरेन्द्रैश्च सहितः स्तुवद्‌भिर्हृष्टमानसैः ॥ ५२ ॥
लक्ष्मणः परितुष्टात्मा ददर्शाभ्येत्य राघवम् ।
हनूमद् राक्षसाभ्यां च सहितो विनयान्वितः ॥ ५३ ॥
ववन्दे भ्रातरं रामं ज्येष्ठं नारायणं विभुम् ।
त्वत्प्रसादात् रघुश्रेष्ठ हतो रावणिराहवे ॥ ५४ ॥
श्रुत्वा तल्लक्ष्मणाद्‌भक्त्या तमालिङ्‌ग्य रघूत्तमः ।
मूर्ध्न्यवघ्राय मुदितः सस्नेहमिदमब्रवीत् ॥ ५५ ॥
साधु लक्ष्मण तुष्टोऽस्मि कर्म ते दुष्करं कृतम् ।
मेघनादस्य निधने जितं सर्वमरिन्दम ॥ ५६ ॥
अहोरात्रैस्त्रिभिर्वीरः कथञ्चिद्‌विनिपातितः ।
निःसपत्‍नः कृतोऽस्मद्य निर्यास्यति हि रावणः ॥ ५७ ॥
पुत्रशोकान्मया योद्धुं तं हनिष्यामि रावणम् ॥ ५८ ॥
मेघनादं हतं श्रुत्वा लक्ष्मणेन महाबलम् ।
रावणः पतितो भुमौ मूर्च्छितः पुनरुत्थितः ।
विललापातिदीनात्मा पुत्रशोकेन रावणः ॥ ५९ ॥
पुत्रस्य गुणकर्माणि संस्मरन्पर्यदेवयत् ।
अद्य देवगणाः सर्वे लोकपाला महर्षयः ॥ ६० ॥
हतं इन्द्रजितं ज्ञात्वा सुखं स्वप्स्यन्ति निर्भयाः ।
इत्यादि बहुशः पुत्र-लालसो विललाप ह ॥ ६१ ॥
ततः परमसंक्रुद्धो रावणो राक्षसाधिपः ।
उवाच राक्षसान्सर्वान् निनाशयिषुराहवे ॥ ६२ ॥
स पुत्रवधसन्तप्तः शूरः क्रोधवशं गतः ।
संवीक्ष्य रावणो बुद्ध्या हन्तुं सीतां प्रदुद्रुवे ॥ ६३ ॥
खड्गपाणिमथायान्त्तं क्रुद्धं दृष्ट्वा दशाननम् ।
राक्षसामध्यगा सीता भयशोकाकुलाभवत् ॥ ६४ ॥
एतस्मिन्नन्तरे तस्य सचिवो बुद्धिमान् शुचिः ।
सुपार्श्वो नाम मेधावी रावणं वाक्यमब्रवीत् ॥ ६५ ॥
ननु नाम दशग्रीव साक्षात् वैश्रवणानुजः ।
वेदविद्याव्रतस्नातः स्वकर्मपरिनिष्ठितः ॥ ६६ ॥
अनेकगुणसम्पन्नः कथं स्त्रीवधमिच्छसि ।
अस्माभिः सहितो युद्धे हत्वा रामं च लक्ष्मणम् ।
प्राप्स्यसे जानकीं शिघ्रं इत्युक्तः स न्यवर्तत ॥ ६७ ॥
ततो दुरात्मा सुहृदा निवेदितं
वचः सुधर्म्यं प्रतिगृह्य रावणः ।
गृहं जगामाशु शुचा विमूढधीः
पुनः सभां च प्रययौ सुहृद्‍वृतः ॥ ६८ ॥

इति श्रीमद् अध्यात्मरामायणे उमामहेश्वरसंवादे
युद्धकाण्डे नवमः सर्गः ॥ ९ ॥

GO TOP