॥ श्रीमद् अध्यात्मरामायण ॥

॥ युद्धकाण्ड ॥

॥ पंचमः सर्गः ॥

श्रीमहादेव उवाच

श्रुत्वा शुकमुखोद्‍गीतं वाक्यमज्ञाननाशनम् ।
रावणः क्रोधताम्राक्षो दहन्निव तमब्रवीत् ॥ १ ॥
अनुजीव्य सुदुर्बुद्धे गुरुवद्‌भाषसे कथम् ।
शासिताहं त्रिजगतां त्वं मां शिक्षन्न लज्जसे ॥ २ ॥
इदानीमेव हन्मि त्वां किन्तु पूर्वकृतं तव ।
स्मरामि तेन रक्षामि त्वां यद्यपि वधोचितम् ॥ ३ ॥
इतो गच्छ विमूढ त्वं एवं श्रोतुं न मे क्षमम् ।
महाप्रसाद इत्युक्‍त्वा वेपमानो गृहं ययौ ॥ ४ ॥
शुकोऽपि ब्राह्मणः पूर्वं ब्रह्मिष्ठो ब्रह्मवित्तमः ।
वानप्रस्थाविधानेन वने तिष्ठन् स्वकर्मकृत् ॥ ५ ॥
देवानां अभिवृद्ध्यर्थं विनाशाय सुरद्विषाम् ।
चकार यज्ञविततिं अविच्छिन्नां महामतिः ॥ ६ ॥
राक्षसानां विरोधोऽभूत् शुको देवहितोद्यतः ।
वज्रदंष्ट्र इति ख्यातः तत्रैको राक्षसो महान् ॥ ७ ॥
अन्तरं प्रेप्सुरातिष्ठत् शुकापकरणोद्यतः ।
कदाचित् आगतोऽगस्त्यः तस्याश्रमपदं मुनेः ॥ ८ ॥
तेन सम्पूजितोऽगस्त्य भोजनार्थं निमंत्रितः ।
गते स्नातुं मुनौ कुम्भ-सम्भवे प्राप्य चान्तरम् ॥ ९ ॥
आगस्त्यरूपधृक् सोऽपि राक्षसः शुकमब्रवीत् ।
यदि दास्यसि मे ब्रह्मन् भोजनं देहि सामिषम् ॥ १० ॥
बहुकालं न भुक्तं मे मांसं छागाङ्‌गसम्भवम् ।
तथेति कारयामास मांसभोज्यं सविस्तरम् ॥ ११ ॥
उपविष्टे मुनौ भोक्तुं राक्षसोऽतीव सुन्दरम् ।
शुकभार्यावपुर्धृत्वा तां चान्तर्मोहयन् खलः ॥ १२ ॥
वरमांसं ददौ तस्मै सुपक्वं बहुविस्तरम् ।
दत्त्वैवान्तर्दधे रक्षः ततो दृष्ट्वा चुकोप सः ॥ १३ ॥
अमेध्यं मानुषं मांसं अगस्त्यः शुकमब्रवीत् ।
अभक्ष्यं मानुषं मांसं दत्तवानसि दुर्मते ॥ १४ ॥
मह्यं त्वं राक्षसो भूत्वा तिष्ठ त्वं मानुषाशनः ।
इति शप्तः शुको भीत्या प्राहागस्त्यं मुने त्वया ॥ १५ ॥
इदानीं भाषितं मेऽद्य मांसं देहीति विस्तरम् ।
तथैव दत्तं भो देव किं मे शापं प्रदास्यसि ॥ १६ ॥
श्रुत्वा शुकस्य वचनं मुहूर्तं ध्यानमास्थितः ।
ज्ञात्वा रक्षःकृतं सर्वं ततः प्राह शुकं सुधीः ॥ १७ ॥
तवापकारिणा सर्वं राक्षसेन कृतं त्विदम् ।
अविचार्यैव मे दत्तः शापस्ते मुनिसत्तम ॥ १८ ॥
तथापि मे वचोऽमोघं एवमेव भविष्यति ।
राक्षसं वपुरास्थाय रावणस्य सहायकृत् ॥ १९ ॥
तिष्ठ तावद्यदा रामो दशाननवधाय हि ।
आगमिष्यति लङ्‌कायाः समीपं वानरैः सह ॥ २० ॥
प्रेषितो रावणेन त्वं चारो भूत्वा रघूत्तमम् ।
दृष्ट्वा शापात् विनिर्मुक्तो बोधयित्वा च रावणम् ॥ २१ ॥
तत्त्वज्ञानं ततो मुक्त परं पदमवाप्स्यसि ।
इत्युक्तोऽगस्त्यमुनिना शुको ब्रह्मणसत्तम ॥ २२ ॥
बभूव राक्षसः सद्यो रावणं प्राप्य संस्थितः ।
इदानीं चाररूपेण दृष्ट्वा रामं सहानुजम् ॥ २३ ॥
रावणं तत्त्वविज्ञानं बोधयित्वा पुनर्द्रुतम् ।
पूर्ववद्‌ब्राह्मणो भूत्वा स्थितो वैखानसैः सह ॥ २४ ॥
ततः समागमद्‍वृद्धो माल्यवान् राक्षसो महान् ।
बुद्धिमान् नीतिनिपुणो राज्ञो मातुः प्रियः पिता ॥ २५ ॥
प्राह तं राक्षसं वीरं प्रशान्तेनान्तरात्मना ।
शृणु राजन्वचो मेऽद्य श्रुत्वा कुरु यथेप्सितम् ॥ २६ ॥
यदा प्रविष्टा नगरीं जानकी रामवल्लभा ।
तदादि पुर्यां दृश्यन्ते निमित्तनि दशानन ॥ २७ ॥
घोराणि नाशहेतूनि तानि मे वदतः शृणु ।
खरस्तनितनिर्घोषा मेघा अतिभयङ्‌कराः ॥ २८ ॥
शोणितेनाभिवर्षन्ति लङ्‌कां उष्णेन सर्वदा ।
रुदन्ति देवलिङ्‌गानि स्विद्यन्ति प्रचलन्ति च ॥ २९ ॥
कालिका पाण्डुरैर्दन्तैः प्रहसत्यग्रतः स्थिता ।
खरा गोषु प्रजायन्ते मूषका नकुलैः सह ॥ ३० ॥
मार्जारेण तु युद्ध्यन्ति पन्नगा गरुडेन तु ।
करालो विकटो मुण्डः पुरुषः कृष्णपिङ्‌गलः ॥ ३१ ॥
कालो गृहाणि सर्वेषां काले काले त्ववेक्षते ।
एतान्यन्यानि दृश्यन्ते निमित्तान्युद्‌भवन्ति च ॥ ३२ ॥
अतः कुलस्य रक्षार्थं शान्तिं कुरु दशानन ।
सीतां सत्कृत्य सधनां रमायाशु प्रयच्छः भोः ॥ ३३ ॥
रामं नारायणं विद्धि विद्वेषं त्यज राघवे ।
यत्पादपोतमाश्रित्य ज्ञानिनो भवसागरम् ॥ ३४ ॥
तरन्ति भक्तिपूतान्ताः ततो रामो न मानुषः ।
भजस्व भक्तिभावेन रामं सर्वहृदालयम् ॥ ३५ ॥
यद्यपि त्वं दुराचारो भक्त्या पुतो भविष्यसि ।
मद्वाक्यं कुरु राजेन्द्र कुलकौशलहेतवे ॥ ३६ ॥
तत्तु माल्यवतो वाक्यं हितमुक्तं दशाननः ।
न मर्षयति दुष्टात्मा कालस्य वशमागतः ॥ ३७ ॥
मानवं कृपणं रामं एकं शाखामृगाश्रयम् ।
समर्थं मन्यसे केन हीनं पित्रा मुनिप्रियम् ॥ ३८ ॥
रामेण प्रेषितो नूनं भाषसे त्वमनर्गलम् ।
गच्छ वृद्धोऽसि बन्धुस्त्वं सोढं सर्वं त्वयोदितम् ॥ ३९ ॥
इतो मत्कर्णपदवीं दहत्येतद्वचस्तव ।
इत्युक्‍त्वा सर्वसचिवैः सहितः प्रस्थितस्तदा ॥ ४० ॥
प्रासादग्रे समासीनः पश्यन्वानरसैनिकान् ।
युद्धायायोजयत् सर्व राक्षसान् समुपस्थितान् ॥ ४१ ॥
रामोऽपि धनुरादाय लक्ष्मणेन समाहृतम् ।
दृष्ट्वा रावणमासीनं कोपेन कलुषीकृतः ॥ ४२ ॥
किरीटिनं समासीनं मंत्रिभिः परिवेष्टितम् ।
शशाङ्‌कार्धनिभेनैव बाणेनैकेन राघवः ॥ ४३ ॥
श्वेतच्छत्रसहस्राणि किरीटदशकं तथा ।
चिच्छेद निमिषार्धेन तदद्‌भुतमिवाभवत् ॥ ४४ ॥
लज्जितो रावणस्तूर्णं विवेश भवनं स्वकम् ।
आहूय राक्षसान् सर्वान् प्रहस्तप्रमुखान् खलः ॥ ४५ ॥
वानरैः सह युद्धाय नोदयामास सत्वरः ।
ततो भेरीमृदङ्‌गाद्यैः पणवानकगोमुखैः ॥ ४६ ॥
महिषौष्ट्रैः खरैः सिंहैः द्वीपिभिः कृतवाहनाः ।
खड्गशूलधनुःपाश यष्टितोमरशक्तिभिः ॥४७ ॥
लक्षिताः सर्वतो लङ्‌कां प्रतिद्वारमुपाययुः ।
तत्पूर्वमेव रामेण नोदिता वानरर्षभाः ॥ ४८ ॥
उद्यम गिरिशृङ्‌गाणि शिखराणि महान्ति च ।
तरूंश्च उत्पाट्य विविधान् युद्धाय हरियूथपाः ॥ ४९ ॥
प्रेक्षमाणा रावणस्य तान्यनीकानि भागशः ।
राघवप्रियमाकार्थं लङ्‌कामारुरुहुस्तदा ॥ ५० ॥
ते द्रुमैः पर्वताग्रैश्च मुष्टिभिश्च प्लवङ्‌गमाः ।
ततः सहस्रयूथाश्च कोटियूथाश्च यूथपाः ॥ ५१ ॥
कोटिशतयुताश्चान्ये रुरुधुर्नगरं भृशम् ।
आप्लवन्तः प्लवन्तश्च गर्जन्तश्च प्लवङ्‌गमाः ॥ ५२ ॥
रामो जयत्यतिबलो लक्ष्मणश्च महाबलः ।
राजा जयति सुग्रीवो राघवेणानुपालितः ॥ ५३ ॥
इत्येवं घोषयन्तश्च समं युयुधिरेऽरिभिः ।
हनूमान् अं‌गदश्चैव कुमुदो नील एव च ॥ ५४ ॥
नलश्च शरभश्चैव मैन्दो द्विविद एव च ।
जाम्बवान् दधिवक्‍त्रश्च केसरी तार एव च ॥ ५५ ॥
अन्ये च बलिनः सर्वे यूथपाश्च प्लवङ्‌गमाः ।
द्वाराण्युत्प्लुत्य लङ्‌कायाः सर्वतो रुरुधुर्भृशम् ।
तदा वृक्षैर्महाकायाः पर्वताग्रैश्च वानराः ॥ ५६ ॥
निजघ्नुस्तानि रक्षांसि नखैर्दन्तैश्च वेगिताः ।
राक्षसाश्च तदा भीमा द्वारेभ्यः सर्वतो रुषा ॥ ५७ ॥
निर्गत्य भिन्दिपालैश्च खड्गैः शूलैः परश्वधैः ।
निजघ्नुर्वानरानीकं महाकाया महाबलाः ॥ ५८ ॥
राक्षसांश्च तथा जघ्नुः वानरा जितकाशिनः ।
तदा बभूव समरो मांसशोणितकर्दमः ॥ ५९ ॥
रक्षसां वानराणां च सम्बभूवाद्‌भुतोपमः ।
ते हयैश्च गजैश्चैव रथैः काञ्चनसन्निभैः ॥ ६० ॥
रक्षो व्याघ्रा युयुधिरे नादयन्तो दिशो दश ।
राक्षसाश्च कपीन्द्राश्च परस्परजयैषिणः ॥ ६१ ॥
राक्षसान् वानरा जघ्नुः वानरांश्चैव राक्षसां ।
रामेण विष्णुना दृष्टा हरयो दिविजांशजाः ॥ ६२ ॥
बभूवुर्बलिनो हृष्टाः तदा पीतामृता इव ।
सीताभिमर्शपापेन रावणेनाभिपालितान् ॥ ६३ ॥
हतश्रीकान् हतबलान् राक्षसान् जघ्नुरोजसा ।
चतुर्थांशावशेषेण निहतं राक्षसं बलम् ॥ ६४ ॥
स्वसैन्य निहतं दृष्ट्वा मेघनादोऽथ दुष्टधीः ।
ब्रह्मदत्तवरः श्रीमान् अन्तर्धानं गतोऽसुरः ॥ ६५ ॥
सर्वास्त्रकुशलो व्योम्नि ब्रह्मास्त्रेण समन्ततः ।
नानाविधानि शस्त्राणि वानरानीकमर्दयन् ॥ ६६ ॥
ववर्ष शरजालानि तदद्‌भुतमिवाभवत् ।
रामोऽपि मानयन्ब्राह्मं अस्त्रं अस्त्रविदां वरः ॥ ६७ ॥
क्षणं तूष्णीमुवासाथ ददर्श पतितं बलम् ।
वानराणां रघुश्रेष्ठश्चुकोपानलसन्निभः ॥ ६८ ॥
चापमानय सौमित्रे ब्रह्मास्त्रेणासुरं क्षणात् ।
भस्मीकरोमि मे पश्य बलमद्य रघूत्तम ॥ ६९ ॥
मेघनादोऽपि तच्छ्रुत्वा रामवाक्यमतन्द्रितः ।
तूर्णं जगाम नगरं मायया मायिकोऽसुरः ॥ ७० ॥
पतितं वानरानीकं दृष्ट्वा रामोऽतिदुःखितः ।
उवाच मारुतिं शीघ्रं गत्वा क्षीरमहोदधिम् ॥ ७१ ॥
तत्र द्रोणगिरिर्नाम दिव्यौषधिसमुद्‌भवः ।
तमानय द्रुतं गत्वा सञ्जीवय महामते ॥ ७२ ॥
वानरौघान् महासत्त्वान् कीर्तिस्ते सुस्थिरा भवेत् ।
आज्ञा प्रमाणमित्युक्‍त्वा जगामानिलनन्दनः ॥ ७३ ॥
आनीय च गिरिं सर्वान् वानरान्वानरर्षभः ।
जीवयित्वा पुनस्तत्र स्थापयित्वाययौ द्रुतम् ॥ ७४ ॥
पूर्ववद्‌भैरवं नादं वानराणां बलौघतः ।
श्रुत्वा विस्मयमापन्नो रावणो वाक्यमब्रवीत् ॥ ७५ ॥
राघवो मे महान् शत्रुः प्राप्तो देवविनिर्मितः ।
हन्तुं तं समरे शीघ्रं गच्छन्तु मम यूथपाः ॥ ७६ ॥
मंत्रिणो बान्धवाः शूरा ये च मत्‌प्रियकाङ्‍क्षिणः ।
सर्वे गच्छन्तु युद्धाय त्वरितं मम शासनात् ॥ ७७ ॥
ये न गच्छन्ति युद्धाय भीरवः प्राणविप्लवात् ।
तान् हनिष्याम्यहं सर्वान् मच्छासनपराङ्‌मुखान् ॥ ७८ ॥
तच्छ्रुत्वा भयसन्त्रस्ता निर्जग्मू रणकोविदाः ।
अतिकायः प्रहस्तश्च महानादमहोदरौ ॥ ७९ ॥
देवशत्रुर्निकुम्भश्च देवान्तक नरान्तकौ ।
अपरे बलिनः सर्वे ययुः युद्धाय वानरैः ॥ ८० ॥
एते चान्ये च बहवः शूराः शतसहस्रशः ।
प्रविश्य वानरं सैन्य ममन्थुर्बलदर्पिताः ॥ ८१ ॥
भुशुण्डिभिन्दिपालैश्च बाणैः खड्गैः परश्वधैः ।
अन्यैश्च विविधैः अस्त्रैः निजघ्नुर्हरियूथपान् ॥ ८२ ॥
ते पादपैः पर्वताग्रैः नखदंष्ट्रैश्च मुष्टिभिः ।
प्राणैर्विमोचयामासुः सर्वराक्षसयूथपान् ॥ ८३ ॥
रामेण निहताः केचित् सुग्रीवेण तथापरे ।
हनूमता चाङ्‌गदेन लक्ष्मणेन महात्मना ।
यूथपैर्वानराणां ते निहताः सर्वराक्षसाः ॥ ८४ ॥
रामतेजः समाविश्य वानरा बलिनोऽभवन् ।
रामशक्तिविहीनानां एवं शक्तिः कुतो भवेत् ॥ ८५ ॥
सर्वेश्वरः सर्वमयो विधाता
मायामनुष्यत्वविडम्बनेन ।
सदा चिदानन्दमयोऽपि रामो
युद्धादिलीलां वितनोति मायाम् ॥ ८६ ॥
इति श्रीमद् अध्यात्मरामायणे उमामहेश्वरसंवादे
युद्धकाण्डे पञ्चमः सर्गः ॥ ५ ॥

GO TOP