॥ श्रीवाल्मीकिमहामुनिकृत शतकोटिरामचरितान्तर्गतं ॥

॥ आनन्दरामायणम् ॥

सारकाण्डम्

॥ दशमः सर्गः ॥
[ राम-रावणसेना संघर्ष ]

॥ श्रीसद्‌गुरु रामचंद्राय नमः ॥

अथाह मारुतिं रामो मां वदस्व सविस्तरम् ।
लंकास्वरूपं ज्ञात्वा च प्रतीकारं करोम्यहम् ॥ १ ॥
तद्‍रामवचनं श्रुत्वा कथयामास मारुतिः ।
लंका दिव्यपुरी देव त्रिकूटशिखरे स्थिता ॥ २ ॥
स्वर्णप्राकारसहिता स्वर्णाट्टालकसंयुता ।
परिखाभिः परिवृता पूर्णाभिर्निमलोदकैः ॥ ३ ॥
नानोपवनशोभाढ्या दिव्यवापीभिरावृता ।
गृहैर्विचित्र शोभाढ्यैः मणिस्तंभमयैः शुभैः ॥ ४ ॥
पश्चिमद्वारमासाद्य गजवाहा सहस्रशः ।
उत्तरद्वारि तिष्ठन्ति वाजिवाहाः सपत्तयः ॥ ५ ॥
दशकोटिमिता सेना विविधायुधमण्डिता ।
लंकायाः परितो व्याप्ता सतर्का रक्षते पुरीम् ॥ ६ ॥
तिष्ठत्यर्बुदसख्म्ह्याता गजाश्वरथपत्तयः ।
रक्षयंति सदा लंकां नानास्त्रकुशलाः प्रभो ॥ ७ ॥
संक्रमैर्विविधैर्लङ्का शतघ्नीभिश्च संयुता ।
एवं स्थितायां देवेश शृणु त्वद्दासचेष्टितम् ॥ ८ ॥
दशाननबलौघस्य चतुर्थांशो मया हतः ।
दग्धा लंकापुरी स्वर्ण-प्राकारा धर्षिता मया ॥ ९ ॥
शतघ्न्यः संक्रमाश्चैव नाशिता मे रघ्ऊद्वह ।
देव त्वद्दर्ह्स्नादेव लंका भस्मीभवेत्पुनः ॥ १० ॥
सुवेलाश्चित्तरेऽस्ति परलंकाऽस्ति पश्चिमे ।
निकुंभिला दक्षिणेऽस्ति तत्रास्ते योगिनीवटः ॥ ११ ॥
पूर्वे च लघुलंकास्ति सा मध्ये कांतिमंडिता ।
त्रिकूटशिखरे रम्ये मत्पुच्छानलधर्षिता ॥ १२ ॥
प्रस्थानं कुरु देवेश गच्छामो लवणार्णवम् ।
तन्मारुतेर्वचः श्रुत्वा सुग्रीवं प्राह राघवः ॥ १३ ॥
सुग्रीवसैनिकान् सर्वान् प्रस्थानामाभिनोदय ।
इदानीमेव विजयोप् मुहूर्तस्त्वद्य वर्तते ॥ १४ ॥
अश्विनी शुक्लदशमी श्रवण्र्क्षसमन्विता ।
शुभाद्य वानरश्रेष्ठ गच्छामो लवणार्णवम् ॥ १५ ॥
रक्षन्तु यूथपाः सेनां अग्रे पृष्ठे च पार्श्वयोः ।
नलो भवत्वग्र पृष्ठे नीलोऽथ रक्षतु ॥ १६ ॥
सुषेणः सव्यपार्श्वे मे जांबवानितरे मम ।
गजो गवाक्षो गवयो मैंदश्चैतेऽद्य वानराः ॥ १७ ॥
वह्निनेरितवाय्वीश चतुर्दिक्षु समन्ततः ।
रक्षन्तु वानरीं सेनां द्विविदाद्यास्तथाऽपरे ॥ १८ ॥
सर्वे गच्छन्तु सर्वत्र सेनायां शत्रघातिनः ।
आरुह्य मारुतिं चाहं गच्छाम्यग्रेऽङदं ततः ॥ १९ ॥
आरुह्य लक्ष्मणो यातु सुग्रीव त्वं मया सह ।
आगच्छस्वेति चाज्ञाप्य हरीन् रामः सलक्ष्मणः ॥ २० ॥
प्रतस्थे दक्षिणाश्यां सेनामध्यगतो विभुः ।
तदा ते कपयश्चक्रुः भुभुःकारान् भयानकान् ॥ २१ ॥
वादयामासुः वाद्यानि पणवानकगोमुखैः ।
वारणेंद्रनिभाः सर्व वानराः कामरूपिणः ॥ २२ ॥
गतास्तदा फ़िवारात्रं क्वचित् तस्थुर्न ते क्षणम् ।
अभवन् शकुनां लंकां गच्छतो राघवस्य हि ॥ २३ ॥
ते सह्यं समतिक्रम्य मलयं च तथा फ़िरिम् ।
आययुश्चानुपूर्व्येण ते सर्व दक्षिणार्णवम् ॥ २४ ॥
कृतः सेनानिवासश्च राघवेणाब्धिसैकते ।
चक्रुर्मंत्रं सागारस्य तरणार्थ प्लवंगमाः ॥ २५ ॥
लंकायां वायुपुत्रेण कृतं दृष्ट्वा स रावणः ।
प्रहस्तादींस्तदा प्राह कथमग्रे भविष्यति ॥ २६ ॥
एकेन कपिनाऽस्माकं पुरतो ज्वालिता पुरी ।
दृष्टा सीता वनं भग्नं राक्षसा निहता रणे ॥ २७ ॥
ममातिलालितः पुत्रः कनीयान् निहतो रणे ।
तदा ते मंत्रिणः सर्वे ददुर्धैर्यं दशाननम् ॥ २८ ॥
राजन् नुपेक्षितोऽस्माभिः मर्कटोऽयमिति स्फुटम् ।
वयं तवाज्ञया कुर्मो जगत् कृत्स्नमवानरम् ॥ २९ ॥
कुंभकर्णस्तदा प्राह रावणं राक्षसेश्वरम् ।
त्वया योग्यं कृतं नैतद् यद्‌गत्वा जानकी हृता ॥ ३० ॥
यद्यप्यनुचितं कर्म त्वया कृतमजानता ।
वर्वं समं करिष्यामि स्वस्थचित्तो भव प्रभो ॥ ३१ ॥
देहि देव ममानुज्ञां हत्वा रामं सलक्ष्मणम् ।
सुग्रीवं वानरांश्चैव आगमिष्यामि पुनः क्षणात् ॥ ३२ ॥
कुंभकर्णवचः श्रुत्वा तदा प्राह विभीषणः ।
महाभागवतः श्रीमान् रामभक्त्यैकतत्परः ॥ ३३ ॥
विलोक्य कुंभश्रवणादिदैत्यान्
मत्तप्रमत्तानति विस्मयेन ।
विलोक्य कामातुरमप्रमत्तो
दशाननं प्राह विशुद्धबुद्धिः ॥ ३४ ॥
न कुंभकर्णेंद्रजितौ च राजन्
तथा महापार्श्वमहोदरौ तौ ।
निकुंभकुंभौ च तथाऽतिकायः
स्थातुं न शक्ता युधि राघवाग्रे ॥ ३५ ॥
सीतां च सत्कृत्य महाधनेन
दत्त्वाऽभिरामाय सुखी भव त्वम् ।
नोचेत् न रामेण विमोक्ष्यसे त्वं
गुप्तः सुरेंद्रैरपि शंकरेण ॥ ३६ ॥
एवं शुभं राअणः स विभीषणवचो हितम् ।
आत्मनः प्रतिजग्राह नैवासो सौख्यकारणम् ॥ ३७ ॥
कालेन नोदितो दैत्यो विभीषणमथाब्रवीत् ।
बंधुरूपेण शत्रुस्त्वं जातो नास्त्यत्र संशयः ॥ ३८ ॥
योऽन्यस्त्वेवंविधं ब्रूयात् वाक्यं हन्मि तदैव तम् ।
उत्तिष्ठ गच्छ दुर्बुद्धे धिक् त्वां रक्षःकुलाधम ॥ ३९ ॥
रावणेनैवमुक्तः स परुषेण विभीषणः ।
चतुभिर्मंत्रिभिर्युक्तो ययौ राघवांतिकम् ॥ ४० ॥
राघवश्चापि तं ज्ञात्वा तेन सख्यं चकार सः ।
हनूमतोदधेस्तीरे लंकां च सिकतोद्‌भवाम् ॥ ४१ ॥
कारयित्वा रघुश्रेष्ठं तत्र मित्रं विभीषणम् ।
लंकायाश्चैव राज्यार्थं वानरैरम्यषेचयत् ॥ ४२ ॥
तदा विभीषणं प्राह रामचंद्रो विहस्य च ।
न्यासभूता त्वियं लंका तावत्कालं तवास्ति मे ॥ ४३ ॥
यावता रावणं यत्वा तव दास्याम्यहं शुभाम् ।
हनूमतस्त्वियं नाम्ना लंका ख्यातिं गमिष्यति ॥ ४४ ॥
हनुमत् लंकाऽब्धेस्तीरे वर्ततेऽद्यापि पार्वति ।
विभीषणात् रावणान्ते रामस्त्वां मोचयिष्यति ॥ ४५ ॥
एतस्मिन् अंतरे तत्र गगनस्थः शुकोऽब्रवीत् ।
प्रेषितो रावणेनैव सुग्रीवं प्राह वेगतः ॥ ४६ ॥
त्वामाह रावणो राजा तव नास्त्यर्थविप्लवः ।
अहं यद्यहरं भार्यां राजपुत्रस्य किं तव ॥ ४७ ॥
किष्किंधां याहि हरिभिस्त्वं वैरं कुरु मा मया ।
तं धृत्वा वानराः शीघ्र बबन्धुर्लौहबंधनैः ॥ ४८ ॥
शार्दूलश्चापि सेनां तां दृष्ट्वाऽधिपमभाषत ।
तत् श्रुत्वा रावणश्चापि दीर्घचिंतापरोऽभवत् ॥ ४९ ॥
रामः संमंत्रयामास तदैकांते स्थितः क्षणम् ।
विभीषेन सुग्रीव मारुतिभ्यां समन्वितः ॥ ५० ॥
तीर्त्वार्घं जलधेर्गुल्मं संस्थितो बन्धुना युतः ।
सर्वेषां वचनं श्रोतुं राघवेणाथ सागरः ॥ ५१ ॥
मेघवत् गर्जनां कुर्वन् वामहस्तेन धिक्कृतः ।
अद्यापि सागरस्तत्र तूष्णीमेव स विद्यते ॥ ५२ ॥
ततः संमंत्र्य रामस्तु तदा सागररोधसि ।
प्रायोपवेषनं चक्रे दर्भानास्तीर्य वेगतः ॥ ५३ ॥
दिनद्वयमतिक्रम्य तृतीयदिवसे तदा ।
उत्थाय दर्भशयनात् पुनर्लक्ष्मणब्रवीत् ॥ ५४ ॥
पश्य लक्ष्मण दुष्टोऽसौ वारिधिर्मामुपागतम् ।
नाभिनंदति दुष्टात्मा दर्शनार्थं ममानघ ॥ ५५ ॥
जानाति मानुषोऽयं मां किं करिष्यति वानरैः ।
अद्य पश्य महाबाहो शोषयिष्यामि वारिधिम् ॥ ५६ ॥
पद्‌भ्यामेवाद्य गच्छंतु वानरा विगतज्वराः ।
इत्युक्त्वा चापमाकृष्य सदधे बाणमुत्तमम् ॥ ५७ ॥
तदा चचाल वसुधा दिशश्च तमसावृताः ।
चुक्षुभे सागरो वेलां भयाद्योजनमत्यगात् ॥ ५८ ॥
तिमिनक्रझषा मीनाः प्रतप्ताः परितत्रसुः ।
एतस्मिन् अंतरे साक्षात् सागरो दिव्यरूपधृक् ॥ ५९ ॥
शनैरुपायनं रामं समर्प्य प्रणनाम सः ।
अथ तुष्टाव दीनात्मा प्रार्थयामास राघवम् ॥ ६० ॥
अभयं देहि मे राम लंकामार्गं ददामि ते ।
इति तद्‌वचनं श्रुत्वा राघवः प्राह सागरम् ॥ ६१ ॥
अमोघोऽय महाबाणः कस्मिन् देशे निपात्यताम् ।
लक्ष्यं दर्शय मे शीघ्रं बाणस्यास्य पयोनिधे ॥ ६२ ॥
सागर उवाच
रामोत्तरप्रदेशेऽस्ति द्रुमकल्प इति श्रुतः ।
प्रदेशस्तत्र बहवः पापात्मानो दिवानिशम् ॥ ६३ ॥
बाधन्ते मां रघुश्रेष्ठ तत्र ते पात्यतां शरः ।
रामेण मुक्तो बाणोऽसौ क्षणादाभीरमंडलम् ॥ ६४ ॥
हत्वा पुनः समागत्य तूणीरे पूर्ववत्स्थितः ।
ततोऽब्रवीद् रघुश्रेष्ठं सागरो विनयान्वितः ॥ ६५ ॥
मयि सेतुं कारयस्व नलेनोपलनिर्मितम् ।
विश्वकर्मसुतश्चायं वरो लब्धोऽस्त्यनेन हि ॥ ६६ ॥
द्विजस्य जाह्नवीतोये शालिग्रामस्त्वनेन हि ।
त्यक्तस्तदा तेन शप्तः पाषाणादि तरिष्यति ॥ ६७ ॥
त्वद्धस्तादिति शापोऽयं वर एवात्र स स्मृतः ।
इत्युक्त्वा राघवं नत्वा ययौ सिंधुरदृश्यताम् ॥ ६८ ॥
नलमाज्ञापयामास सेत्वर्थं रघुनंदनः ।
सेतुमारभमाणस्तु विघ्नेशं स्थाप्य राघवः ॥ ६९ ॥
नवग्रहाणां पूजार्थं पाषाणान्नव सादरम् ।
नलहस्तेन संस्थाप्य पूर्वं तत्र महोदधौ ॥ ७० ॥
ततः सागरसंयोगे स्वनाम्ना लिंगमुत्तमम् ।
स्थापयामीति निश्चित्य मारुतिं वाक्यमब्रवीत् ।
काशीं गत्वा शिवाल्लिंगं माननीयमनुत्तमम् ।
मुहूर्तमध्ये नोचेन्मे मुहूर्तातिक्रमो भवेत् ॥ ७२ ॥
तद् रामवचनं श्रुत्वा तथेत्युक्त्वा स मारुतिः ।
यथावाकाशमार्गेण क्षणात् वाराणसीं मम ॥ ७३ ॥
तत्रागत्याथ मां नत्वा रामकार्यं न्यवेदयत् ।
तत् श्रुत्वा मया देवि राघवाय हनूमते ॥ ७४ ॥
द्वे लिंगे ह्यर्पिते श्रेष्ठे ततोऽहं कपिमब्रुवम् ।
मयाऽपि दक्षिणे गंतुं पूर्वमेव विनिश्चितम् ॥ ७५ ॥
अगस्तिना विशेषेण यास्यामि राघवाज्ञया ।
एवं तद्‌वचनं श्रुत्वा मारुतिः प्राह मां पुनः ॥ ७६ ॥
कदा विनिश्चितं पूर्वम् त्वयाऽत्र कुंभज्नमना ।
तत्सर्वं मां वदस्वाद्य कृपां कृत्वा ममोपरि ॥ ७७ ॥
तन्मारुतिवचः श्रुत्वा ततोऽहमब्रुवं कपिम् ।
मारुति त्वं श्रुणुष्वाद्य पूर्वकृत्तं वदामि ते ॥ ७८ ॥
कदाचित् नारदः श्रीमान् स्नात्वा श्रीनर्मदांभसि ।
श्रीमदोंकारमभ्यर्च्य सर्वदं सर्वदेहिनाम् ॥ ७९ ॥
व्रजन् विलोकयांचक्रे पुरो विंध्यं धराधरम् ।
संसारतापसंहारि रेवावारिपरिष्कृतम् ॥ ८० ॥
रूपद्वयेन कुर्वंतं स्थाअरेण चरेण च ।
साभिख्येन यथार्थाख्यां उच्चैर्वसुमतीमिमाम् ॥ ८१ ॥
अथ तं नारदं दृष्ट्वा विन्ध्यः प्रत्युज्जगाम सः ।
गृहमानीय विधिवत् पूजयामास सादरम् ॥ ८२ ॥
गतश्रममथालोक्य बभाषेऽवनतो गिरिः ।
अघसंघः परिहृतः त्वदंघ्रिरजसा मम ॥ ८३ ॥
त्वदंगसंगिमहसा सहसाप्यांतरं तमः ।
सकलर्धिकरं चाद्य सुदिनं चाद्य मे मुने ॥ ८४ ॥
प्राकृतैः सुकृतैरद्य फलितं मे चिरार्चितैः ।
धराधरत्वं कुलिषु मान्यं मेऽद्य भविष्यति ॥ ८५ ॥
इति श्रुत्वा तदा किंचित् उच्छ्वस्य स्थितवान् मुनिः ।
पुनरूचे कुलिवरः संभ्रमापन्नमानसः ॥ ८६ ॥
उच्छ्वासकारणं ब्रह्मन् ब्रूहि सर्वार्थकोविद ।
तवाहं मार्जयाम्यद्य हृद्खेदं क्षणमात्रतः ॥ ८७ ॥
धराधरणसामर्थ्यं मेर्वादौ पूर्वपूरुषैः ।
वर्ण्यते समुदायात्तद् अहमेको दधे धराम् ॥ ८८ ॥
गौरीगुरुत्माद्धिमवान् आधिपत्याच्च भूभृताम् ।
संबंधित्वात् पशुपतेः स एको मानभृत्सताम् ॥ ८९ ॥
न मेरुः स्वर्णपूर्णत्वात् रत्‍नसानुतयाऽथवा ।
सुरसद्मतया वाऽपि क्वापि मान्यो मतो मम ॥ ९० ॥
परं शतं न किं शैला इलाकलनकेलयः ।
इति संति सतां मान्या मान्यास्ते तु स्वभूमिषु ॥ ९१ ॥
मंदेहदेहसंदोहा उदयैकयाश्रिताः ।
निषधश्चौषधरोऽप्यस्तोऽप्यस्तमितप्रभः ॥ ९२ ॥
नीलश्च नीलनिलयो मंदरो मंदलोचनः ।
सर्पालयं स मलयो रायं नावाप रैवतः ॥ ९३ ॥
हेककूटत्रिकूटाद्याः कूटोत्तरपदास्तु ते ।
किष्किंधक्रौंचसह्याद्या भारसह्या न ते भुवः ॥ ९४ ॥
इति विंध्यवचः श्रुत्वा नारदो हृद्यचिंतयत् ।
अखर्वगर्वसंसर्गो न महत्त्वाय कल्पते ॥ ९५ ॥
श्रीशैलमुख्याः किं शैला नेह संत्यमलश्रियः ।
येषां शिखरमात्रादि दर्शनं मुक्तये सताम् ॥ ९६ ॥
अद्यास्य बलमालोच्यं इति ध्यात्वाऽब्रवीन् मुनिः ।
सत्ययुक्तं हि भवता फ़िरिसारं विवृण्वता ॥ ९७ ॥
परः शैलेषु शैलेन्द्रो मेरुस्त्वामवमन्यते ।
मया निःश्वसितः चैतत् त्वयि चापि निवेदितम् ॥ ९८ ॥
अथवा मद्‍विधानां हि केयं चिंता अम्हात्मनाम् ।
स्वस्त्यस्तु तुभ्यमित्युक्त्वा ययौ स व्योमवर्त्मना ॥ ९९ ॥
गते मुनौ निनिंद स्वमतीवोद्विग्नमानसः ।
चित्ते विचारयामास मेरोः श्रैष्ठ्यं कथं त्विति ॥ १०० ॥
मेरुं प्रदक्षिणं कुर्यात् नित्यमेष दिवाकरः ।
सग्रर्क्षगणो नूनं मन्यमानो बलाधिकम् ॥ १ ॥
इति निश्चित्य विंध्याद्रिः ववृधे स मृधेक्षणः ।
निरुध्य व्राध्नमध्वानं स्वस्थोऽभूद्‌गगनांगणे ॥ २ ॥
ततः प्रभाते सूर्योऽसौ दिशि याम्यां समुद्यतः ।
गंतुं रुद्धं स्वपंथानं दृष्ट्वाऽस्वस्थोऽभवच्चिरम् ॥ ३ ॥
योजनानां सहस्रे द्वे द्वे शते द्वे च योजने ।
यः स्वस्थश्च निमेषार्द्धात् याति नापि चिरं स्थितः ॥ ४ ॥
गते बहुतिथे काले प्राच्योदीच्या भृशार्दिताः ।
चण्डरश्मेः करव्रात-पातसंतापतापिताः ॥ ५ ॥
पाश्चात्या दाक्षिणात्याश्च निद्रामुद्रितलोचनाः ।
श्रमिता एव दृश्यंते सतारग्रहमंबरम् ॥ ६ ॥
स्वाहास्वधावषट्कार वर्जिते जगतीतले ।
पंचयज्ञक्रियालोपात् चकंपे भुवनत्रयम् ॥ ७ ॥
ततः सुरा विधेर्वाक्यात् अगस्तिं तद्‌गिरेर्गुरुम् ।
प्रार्थयामास्सुः चात्रैत्य स मुनिर्विह्वलोऽभवत् ॥ ८ ॥
तदाऽगस्तिर्मयोक्तः स गच्छ त्वं दक्षिणांदिशम् ।
वाक्पाशेन गिरिं बद्ध्वा मा खिद त्वं भजस्व माम् ॥ ९ ॥
अहमप्यचिरेणैव तव खेदापनुत्तये ।
सेतौ श्रीरामपूजार्थं यास्यामि दक्षिणां दिशम् ॥ ११० ॥
इति मद्वचनं श्रुत्वा अगस्तितुष्टमनास्तदा ।
मुक्त्वा काशीं ययौ विंध्यं लोपामुद्रासमन्वितः ॥ ११ ॥
तमगस्त्यं सपत्‍नीकं दृष्ट्वा विंध्योऽतिकंपितः ।
अतिखर्वतरो भूत्वा विविक्षुरवनीमिव ॥ १२ ॥
आज्ञाप्रसादः क्रियतां किं करोमीति चाब्रवीत् ।
तद् विंध्यवचनं श्रुत्वा अगस्तिः प्राह च सादरम् ॥ १३ ॥
विंध्य साधुरसि प्राज्ञो मां च जानासि तत्त्वतः ।
पुनरागमनं चेन्मे तावत्खर्वतरो भव ॥ १४ ॥
इत्युक्त्वा दक्षिणामाशां अगस्तिः स ययौ तदा ।
वेपमानो गिरिः प्राह पुनर्जन्माद्य मेऽभवत् ॥ १५ ॥
उच्छिरो द्वादशाब्दैः स मुनिं पश्यति दक्षिणे ।
नागतं तं मुनिं दृष्ट्वा पुनः खर्वोऽवतिष्ठते ॥ १६ ॥
अद्य श्वो वा परश्वो वा ह्यागमिष्यति वै मुनिः ।
इति चिंतामहाभारैः गिरिराक्रांतवत्स्थितः ॥ १७ ॥
नाद्यापि मुनिरायाति नाद्यापि गिरिरेधते ।
अरुणोऽपि च तत्काले कालज्ञोऽश्वानकालयत् ॥ १८ ॥
जगस्त्वास्थ्यमवापोच्चैः पूर्ववद् भानुसंचरैः ।
स मुनिर्दण्डकं गत्वा मद्वाक्यं संस्मरन् हृदि ॥ १९ ॥
करोति मत्प्रतीक्षां च तस्माद्यास्याम्यहं कपे ।
इत्युक्तो मारुति काश्यां मया देवि विसर्जितः ॥ १२० ॥
जगामाकाशमार्गेण शीघ्रं रामं स मारुतिः ।
किंचित् गर्वसमाविष्टो लिंगद्वयसमन्वितः ॥ २१ ॥
कृत्वा लिंगं सैकतं च सेत्वादौ स्थापयामि वै ।
इत्युक्त्वा वानरान् सर्वान् मुनिभिः परिवेष्टितः ॥ २३ ॥
सैकतं स्थापयामास लिंगं रामो विधानतः ।
तदा सस्मार मनसि कौस्तुभं रघ्नंदनः ॥ २४ ॥
तावद्ययौ मणिः शीघ्रं खात्कोटितपनोपमः ।
तं बबंध मणिं कण्ठे कौस्तुभं रघुनंदनः ॥ २५ ॥
मण्युद्‌भवैर्धनैस्त्रैः अश्वाभरणधेनुभिः ।
दिव्यान्नैः पायसाद्यैश्च पूजयामास तान् मुनीन् ॥ २६ ॥
ततस्ते मुनयः तुष्टा राघवेणातिपूजिताः ।
ययुः स्वीयाश्रमान् मार्गे तान्ददर्श स मारुतिः ॥ २७ ॥
पप्रच्छ मारुतिर्विप्रान् यूयं केन प्रपूजिताः ।
तेऽप्यूचिर्लिंगमाराध्य राघवेणैव पूजिताः ॥ २८ ॥
तत्तेषां वचनं श्रुत्वा क्रोधाविष्टोऽभ्यचिंतयत् ।
वृथाऽहं श्रमितस्तेन रामेणाद्य प्रतारितः ॥ २९ ॥
इत्थं वदन्ययौ राम क्रोधात्स्वीयं पदद्वयम् ।
भुवि संताड्य पतितः तदा भूम्यां पदद्वयम् ॥ १३० ॥
गतं कपिस्तदा रामं अब्रवीत् किं न मे स्मृतः ।
सीताशुद्धिर्मया लंकां गत्वानीतेति साऽद्य हि ॥ ३१ ॥
तस्य मेऽद्योपवासोऽत्र काशीं प्रेष्य त्वया कृतः ।
किमर्थं श्रमितश्चाहं यदीत्थं ते हृदि स्थितम् ॥ ३२ ॥
अभविष्यम् मया ज्ञातं चेत्पूर्वं हृद्‌गतं तव ।
काशीमहं तर्हि गत्वा किमर्थं लिंगमानये ॥ ३३ ॥
एकं त्वदर्थमानीतं अपरं लिंगमुत्तमम् ।
मयाऽऽत्मार्थं समानीतं तवाग्रे किं करोम्यहम् ॥ ३४ ॥
एवं क्रोधयुतं वाक्यं किंचित् गर्वसमन्वितम् ।
रामः श्रुत्वा कपिं प्राह कपे त्वं सत्यवागसि ॥ ३५ ॥
यथैतत्स्थापितं लिंगं समुत्पाटय त्व बलात् ।
स्थापयामि त्वयानीतं काश्या विश्वेश्वराभिधम् ॥ ३६ ॥
तथेत्युक्त्वा मारुतिः स सैकतस्येश्वरस्य च ।
संवेष्ट्य मस्तके पुच्छं बलेमान्दोलयन्मुहुः ॥ ३७ ॥
त्रुटितं तत्कपेः पुच्छं पपात भुवि मूर्छितः ।
जहसुर्वानराः सर्वे न चचालेश्वरस्तदा ॥ ३८ ॥
स्वस्थो भूत्वा मारुतिः स गतगर्वस्तदाऽभवत् ।
ननाम परया भक्त्या प्रार्थयामास तं मुहुः ॥ ३९ ॥
मायाऽपराधितं राम तत्क्षमस्व कृपानिधे ।
तदाह मारुतिं रामः त्वं मल्लिंगोत्तरे त्विदम् ॥ १४० ॥
विश्वनाथा भिदं लिंगं स्वीयं संस्थापयाधुना ।
तथेति मारितिर्लिंगं स्थापयामास सादरम् ॥ ४१ ॥
मारुतेश्चैव लिंगाय ददौ रामो वरं तदा ।
असंपूज्य विश्वनाथं मारुति तत्प्रतिष्ठितम् ॥ ४२ ॥
ममादौ पूजयंत्यत्र ये नरा लिंगमुत्तमम् ।
रामेश्वराभिधं सेतौ तेषां पूजा वृथा भवेत् ॥ ४३ ॥
इत्युक्त्वा तं पुनः प्राह रामो राजीवलोचनः ।
मदर्थं यत्समानीतं त्वया लिंगं महत्तमम् ॥ ४४ ॥
विश्वनाथस्य तत्तूष्णीं अस्तु देवालये चिरम् ।
अनर्चितमवन्यां तत् अप्रतिष्ठितमुत्तमम् ॥ ४५ ॥
अग्रे कालान्तरेणाहं तच्चापि स्थापयामि वै ।
तत्तत्र वर्ततेऽद्यापि लिंगं विश्वेश्वरान्तिके ॥ ४६ ॥
अप्रतिष्ठापितं भूम्यां न केनापि प्रपूजितम् ।
पुनः प्राह कपिं रामः त्वमत्र छिन्नलांगुलः ॥ ४७ ॥
वस भूम्यां गुप्तपादः स्मरन्स्वगर्वितं त्विदम् ।
ततः कपिः स्वीयमूर्ति स्थापयामास स्वाम्शतः ॥ ४८ ॥
छिन्नपुच्छा गुप्तपादा सा तत्राद्यापि वर्तते ।
पतितो मूर्छितो यत्र मारुतिस्तत्र तद्वरम् ॥ ४९ ॥
भभूव मारुतेर्नाम्ना तीर्थं पापप्रणाशनम् ।
रामस्तत्राकरोत्पुण्यं स्वनाम्ना तीर्थमुत्तमम् ॥ १५० ॥
स्वांशेन स्थापयामास मूर्तिं तत्र रघूद्वहः ।
सेतुमाधवनाम्नी सा वर्ततेऽद्यापि पार्वति ॥ ५१ ॥
स्वनाम्ना लक्ष्मणश्चापि चकार तीर्थमुत्तमम् ।
ततो रामः स्वहस्तेन स्पृष्ट्वा मारुतिलांगुलम् ॥ ५२ ॥
चकार पूर्ववत् रम्यं दृढसन्धिप्रसादितः ।
तपुच्छवेष्टनाज्जातः कृशो रामेशमस्तकः ॥ ५३ ॥
स तथैव कृशोऽद्यापि तत्रास्ति शिवमस्तकः ।
तदारम्य त्यक्तगर्वश्च अब्ःउत् रामे स मारुतिः ॥ ५४ ॥
ततोऽहं सैकताल्लिंगात् आविर्भूय रघूद्वहम् ।
अब्रुवं देवि तत्सर्वं श्रुणुश्व ते वदाम्यहम् ॥ ५५ ॥
राघवेंद्र रघुश्रेष्ठ श्रृणु वृत्तं पुरातनम् ।
एकदाऽहं पुरा भूम्यां मलिनांबरसंयुतः ॥ ५६ ॥
भिक्षार्थं कौतुकाद्विप्र-रूपेणाविचरं सुखम् ।
ऋषीणां आश्रमाद्येषु ह्यतटंतं मां विलोक्य च ॥ ५७ ॥
मद्‌रूपमोहिताः सर्वा ऋषिपत्‍न्यः सहस्रशः ।
मत्पृष्ठे ताः समाजाग्मुः भर्तृभिवारिता अपि ॥ ५८ ।
तदा ते चिक्षुभुः सर्व मामज्ञात्वा मुनीश्वराः ।
ददुः शापं महाघोरं क्रोधसंविग्नमानसाः ॥ ५९ ॥
रत्यर्थं मोहिता नार्यः त्वया तस्माद्‌द्विजाधम ।
पतत्वद्य रतेरंग लिंगं भुवि च नो गिरा ॥ १६० ॥
एवं द्विजैर्यदा शप्तो अपतत् लिंगं तदा भुवि ।
द्विजछद्मस्य मे राम गतोऽहं गुप्ततां तदा ॥ ६१ ॥
द्विजनार्योऽप्यदृष्ट्वा मां जग्मुः स्वं स्वं गृहं प्रति ।
तल्लिंगं ववृधे भूम्यां गगनं व्याप्य संस्थितम् ॥ ६२ ॥
तत् दृष्ट्वा चकितो वेधाः तस्यांत द्रष्टुमुद्यतः ।
पश्यतस्तस्य कोट्यब्दैः नान्तमसीच्च वेधसः ॥ ६३ ॥
तदा मामेत्य स विधिः भयाद् वृत्तं न्यवेदयत् ।
अकाले प्रलयस्त्वद्य शंभोऽनेन भविष्यति ॥ ६४ ॥
तदा मया पूर्ववृत्तं विधिं सश्राव्य सादरम् ।
त्रिशूलो वेधसे दत्तः तं छेत्तुं सोऽब्रवीच्च माम् ॥ ६५ ॥
कथं ते अंगं दारयेऽहं त्वमेव छ्त्तुमर्हसि ।
ततो मयार्कखंडानि कृतानि तस्य राघव ॥ ६६ ॥
त्रिशूलेनापि क्षिप्तानि भूम्यां निपतितानि हि ।
तज्जातान्यत्र लिंगानि ज्योतिंसंज्ञानि द्वादश ॥ ६७ ॥
ॐकारः सोमनाथश्च त्र्यंबको मल्लिकार्जुनः ।
नागेशो वैद्यनाथश्च काशीविश्वेश्वरस्त्वहम् ॥ ६८ ॥
केदारेशो महाकालो भीमेशो घूसृणेश्वरः ।
एवं एकादश ज्ञेयाज्योतिर्लिंगमयाः शुभाः ॥ ६९ ॥
गंधमादननाम्नेशो मेरोरीशानदिक्‌स्थितः ।
आसीच्चिरं न कस्यापि मानवस्याक्षिगोचरः ॥ १७० ॥
तदा ते मुनयः सर्वे शिवं बुद्ध्वा तु लिंगतः ।
ददुर्वरं पुनर्लिंगं तवास्तु गिरिजाप्रिय ॥ ७१ ॥
ततः प्रलयपातेन गंधमादन नामकम् ।
तन्मेरोत्तरे श्रृंगं एकदाऽत्रापतत् भुवि ॥ ७२ ॥
तदिदं ह्यब्धिसंयोगे दक्षिणे सागरांभसि ।
गंधमादन नाम्नेदं श्रृंगं पश्यात्र राघव ॥ ७३ ॥
गंधमादन नामेशं लिंगं द्वादशमं त्विदम् ।
त्वत्प्रतिष्ठितलिंगस्य हीशान्यामन्तिके स्थितम् ॥ ७४ ॥
एतावत् कालपर्यंतं नेदं कैश्चिद् विलोकितम् ।
अद्य त्वया वानराद्यैः दृष्टं स्पृष्टं विमोक्षितम् ॥ ७५ ॥
त्वत् प्रतिष्ठितस्य लिंगस्य प्रसादादवनीतले ।
ख्यातिं गतं त्विदं लिंगं यस्मात्तस्मात् रघुत्तम ॥ ७६ ॥
अस्य लिंगस्य यत् ज्योतिं मदीयं त्वत्प्रतिष्ठिते ।
यास्यत्यद्य सैकतेऽत्र लिंगे सेतौ गिरा मम ॥ ७७ ॥
ज्योतिर्लिंगं द्वादशमं तव रामेश्वराभिधम् ।
वदंत्यत्र जनाः सर्वे ह्यद्यारम्य रघुत्तम ॥ ७८ ॥
पूजोत्सवादिकं कर्म यद्यत्किंचित् गिरा मम ।
तवैव लिंगे तत्सर्वें अस्तु रामेश्वरे सदा ॥ ७९ ॥
अहं चापि मुनेर्वाक्यात् अगस्तेस्त्वद्‌गिरापि च ।
त्यक्त्वा काशीं आगतोऽस्मि त्वल्लिंगेऽस्मिन्वसाम्यहम् ॥ १८० ॥
प्रणमेत्सेतुबंधे यः पुमान् रामेश्वरं शिवम् ।
ब्रह्महत्यादिपापेभ्यो मुच्यते तदनुग्रहात् ॥ ८१ ॥
त्वं वदाद्य रघुश्रेष्ठ वरं येन जनाः सदा ।
स्मानार्थमानयिष्यन्ति मणिकर्णिजलं मम ॥ ८२ ॥
ममैतत् वचनं श्रुत्वा प्रसन्नो रघुनायकः ।
जगाद स्नात्वा सेतुबंधे रामेशं परिपश्यति ॥ ८३ ॥
संकल्प्य नियतो भूत्वा गृहित्वा सेतुबालुकाम् ।
करंडिकाभिर्यत्‍नेन गत्वा वाराणसीं शुभाम् ॥ ८४ ॥
क्षिप्त्वा तां बालुकां त्यक्त्वा वेण्यां बालु करंडिकाम् ।
आनीय गंगासलिलं रामेशं अभिषिच्य च ॥ ८५ ॥
समुद्रे त्यक्ततद्‌भारो ब्रह्म प्राप्नोत्यसंशयम् ।
संकल्पेन विना गंगा रामेशं नागमिष्यति ॥ ८६ ॥
आगता चेत्तदा ज्ञेयः संकल्पः पूर्वजन्मनि ।
कृतोऽस्तीत्यत्र मद्वाकात् नात्र कार्या विचारणा ॥ ८७ ॥
एवं नानावरान् रामो यावल्लिंगाय सोऽब्रवीत् ।
तवत्तत्र समायातः कुंभजन्मा मिनीश्वरः ॥ ८८ ॥
ननाम शंकरो रामं रामोऽपि प्रणनाम तम् ।
तदा मुनिः प्राह राम प्रसादात्तव राघव ॥ ८९ ॥
दर्शनं विश्वनाथस्य जातं मेऽद्यात्र वै चिरात् ।
अद्यात्र तुष्टिर्जाता मे लिंगमत्र करोम्यहम् ॥ १९० ॥
इत्युक्त्वा स्थापयामास स्वनाम्ना लिंगमुत्तमम् ।
रामेश्वराग्निदिग्भागे कुंभजन्मा मुदान्वितः ॥ ९१ ॥



पूजयामास तल्लिंगं अगस्तिश्वरनामकम् ।
नत्वा स्तुत्वा विश्वनाथं रामं रामेश्वरं तथा ॥ ९२ ॥
दृष्ट्वा पुरातनं लिंगं गंधमादननामकम् ।
ययौ स्वीयाश्रमं तुष्टः कुंभजन्मा मुनीश्वरः ॥ ९३ ॥
सेतौ रामेश्वरस्यैव देवि देवालये शुभे ।
दिश्याग्नेय्यामगस्तीशं ईशान्यां गंधमादनम् ॥ ९४ ॥
वर्तेतेऽद्यापि द्वे लिंगे कश्चित् जानाति वान वा ।
प्रसिद्धोऽभूच्च रामेशः स्वर्गमृत्युरसातले ॥ ९५ ॥
ततो रामाज्ञया सेतुं नलः कर्तुं मनो दधे ।
किंचित् गर्वसमाविष्टः तज्ज्ञातं राघवेण हि ॥ ९६ ॥
यावदेकां शिलां त्यक्त्वा नलोऽन्यां प्राक्षिपच्छिलाम् ।
तावत् तरंगकल्लोलैः सागरस्य इतस्ततः ॥ ९७ ॥
गच्छंतिस्म शिलाः सर्वाः ता दृष्ट्वा खिन्नमानसः ।
गतगर्वस्तदा रामं नला वृत्तं न्यवेदयत् ॥ ९८ ॥
रामः श्रुत्वा नलं प्राह तामेति द्वेऽक्षरे मम ।
दृषदोः संधिसिद्ध्यर्थं पृथग्विलिखितां द्वयोः ॥ ९९ ॥
सर्वत्रैवं लिखित्त्वा हि दृढं संधिर्भविष्यति ।
तथेति रामवचनात् तथा चक्रे नलस्तदा ॥ २०० ॥
कृतः पंचदिनैः सेतुः शतयोजनमुत्तमः ।
कृतानि प्रथमेनाह्ना योजनानि चतुर्दश ॥ १ ॥
द्वितीयेन तथा चाह्ना योजनानां च विंशतिः ।
तृतीयेन तथा चाह्ना योजनान्येकविंशतिः ॥ २ ॥
चतुर्थेन तथा चाह्ना द्वाविंशतिरिति श्रुतम् ।
पंचमेन त्रयोविंशत् योजनानां शतं त्विति ॥ ३ ॥
विस्तृतो द्वादश प्रोक्तो यजनानि दृषन्मयः ।
एवं बबंध सेतुं स नलो वानरसत्तमः ॥ ४ ॥
ये मज्जंति निमज्जयति च परान्
ते प्रस्तरा दुस्तरे ।
वार्धौ येन तरंति वानरभटान्
संतारयतेऽपि च ।
नैते ग्रावगुणा न वारिधिगुणा
नो वानराणां गुणाः ।
श्रीमद्दाशरथेः प्रतापमहिमा
सोऽयं समुज्जृंभते ॥ ५ ॥
तेनैव जग्मुः कपयो योजनानां शतं द्रुतम् ।
आरुह्य मारुतिं रामो लक्ष्मणोऽप्यंगदं तथा ॥ ६ ॥
जगाम वायुवत् लंका संनिधिं सेनया वृतः ।
असंख्याताः सुवेलाद्रिं रुरुहुः प्लवगोत्तमाः ॥ ७ ॥
ततः सैन्ययुतो रामः सुवेलाद्रिं ययौ मुदा ।
दिदृक्षू राघवो लंकां आरुरोहाचलं शुभाम् ॥ ८ ॥
सुवेलाद्रिं महारम्यं तरुवल्लिविराजितम् ।
ददर्श लंकां शतघ्नीभिः संक्रमैश्च विराजिताम् ॥ २१० ॥
प्रासादोपरि विस्तीर्णप्रदेशे दशकंधरम् ।
पश्यंतं कपिसैन्यं त संददर्श रघूद्वहः ॥ ११ ॥
ततो रामेण मुक्तः स शुको गत्वा दशाननम् ।
कपिसैन्यं दर्शयंस्तम् बोधयामास रावणम् ॥ १२ ॥
सीतां प्रयच्छ रामाय लंकाराज्ये विभीषणम् ।
कृत्वा तं शरणं याहि नो देत् रामान्न मोक्ष्यसे ॥ १३ ॥
तत् श्रुत्वा रावणः क्रोधात् शुकं दिक्कृत्य वै मुहुः ।
दूतैर्गेहात् बहिः कृत्वा रामसेनां व्यलोकयत् ॥ १४ ॥
शुकोऽपि ब्राह्मणः पूर्वं वरिष्ठो ब्रह्मवित्तमः ।
अयजत् क्रतुभिर्देवान् विरोधो राक्षसैरभूत् ॥ १५ ॥
वज्रद<ष्ट्र इति ख्यातः तदैको राक्षसो महान् ।
मांसान्नं यादितं दृष्ट्वा मुनिना कुंभजन्मना ॥ १६ ॥
शुकभार्यावपुर्धृत्वा नरमांसं समर्पयत् ।
तदा शप्तः शुकस्तेन त्वं रक्षो भव मा चिरम् ॥ १७ ॥
रक्षःकृतं पुनर्ध्यानाज् ज्ञात्वा तत्प्रार्थितोऽब्रवीत् ।
रामस्य दर्शनं कृत्वा बोधयित्वा दशाननम् ॥ १८ ॥
त्वं प्राप्स्यसि निजं रूपं तस्मात् जातः शुको द्विजः ।
सुवेलशिखरे संस्थः संमंत्र्य कपिभिस्ततः ॥ १९ ॥
सूचनार्थं रिपुं रामोऽङ्‍दं लंकामचोदयत् ।
सोऽपि रामाज्ञया गत्वा नानानीत्युत्तरैस्तदा ॥ २२० ॥
रावणं बोधयामास सभायां लांगुलासने ।
संस्थितोऽभीतवत् वालि-तनयः स्वस्थमानसः ॥ २१ ॥
श्रृणु रावण मद्‍वाक्यं हितं ते प्रवदाम्यहम् ।
सीतां सत्कृत्य सधनां प्रयच्छ राघवं जवात् ॥ २२ ॥
रामं नारायणं विद्धि विद्वेषं त्यज राघवे ।
यत्पादपोतमाश्रित्य ज्ञानिनो भवसागरम् ॥ २३ ॥
तरंति भक्तिपूतास्ते ह्यतो रामो न मानुषः ।
मद्‌वाक्यं कुरु राजेंद्र कुलकौशलहेतवे ॥ २४ ॥
एवं नानाविधैर्वाक्यैः अंगदेनातिबोधितः ।
सोऽथ नीत्युत्तराण्यस्य नाश्रृणोत् वानरस्य च ॥ २५ ॥
उवाच क्रोधसंयुक्तो वानरं स दशाननः ।
भीषयसेऽद्य किंमां त्वं रावणं लोकरावणम् ॥ २६ ॥
येन सर्वे जिता देवाः कैलासं कंपितो मया ।
तस्य मेऽग्रे मर्कट त्वं कत्थसे किं मुधाऽद्य हि ॥ २७ ॥
क्षणेन राघवौ हत्वा हत्वा सुग्रीवमारुती ।
हत्वा विभीषणं त्वां च वानरान् भख्याम्यहम् ॥ २८ ॥
रावणस्य वचश्चेत्थं श्रुत्वा प्राहांगदश्च तम् ।
जानाम्यहं पौरुषं ते बलिपाशविचूर्णितः ॥ २९ ॥
शिवपादांगुष्ठ भार नम्रकैलासपीडित ।
सहस्रार्जुनवीरात्म संभवक्रीडनमृग ॥ २३० ॥
श्वेतद्वीपस्थप्रमदा करताडितसन्मुख ।
विष्णुपुत्रोऽथ वै ब्रह्मा मरीचि तत्सुतः स्मृतः ॥ ३१ ॥
तसुतः कश्यपस्तस्य पुत्रोऽभूत् इंद्रनामकः ।
तेनैव युद्धकाले तु बद्ध्वा कारागृहस्थित ॥ ३२ ॥
पर्यंकोपरि संबद्ध मन्मूत्रक्षालितानन ।
इति तद्वाक्यशराघात तर्जितः स दशाननः ॥ ३३ ॥
दूतान् आज्ञापयामास ताडनीयो मुखे त्वयम् ।
तथेत्युक्त्वा राक्षसास्ते शस्त्रहस्ताः सहस्रशः ॥ ३४ ॥
अंगदम् दुद्रुवुः शीघ्रं ताम दृष्ट्वा वानरोत्तमः ।
मर्द्दयामास पुच्छेन तान्सर्वान् क्षणमात्रतः ॥ ३५ ॥
रावणास्येषु संताड्य स्वकराभ्यां मुहुर्मुहुः ।
तद्धस्तपादौ पुच्छेन पूर्वं बद्ध्वा सविस्तरम् ॥ ३६ ॥
ततश्चोड्डीय वेगेन ययौ प्रासादमस्तकः ।
सुवेलाद्रौ राघवेंद्रं तारेयः स विहायसा ॥ ३७ ॥
अंगदं राघवो दृष्ट्वा प्रासादान्वितमस्तकम् ।
उवाच किं कृतं बाल प्रासादोऽयं त्वया कथम् ॥ ३८ ॥
समानीतोऽत्र लंकाया मित्रायेयं पुरी मया ।
अर्पिताऽस्ति ततो मित्रवस्त्विदं न स्पृशाम्यहम् ॥ ३९ ॥
तद् राघववचः श्रुत्वा चकितः स तदांगदः ।
प्रासादं मस्तके दृष्ट्वोर्ध अक्षिभ्यामाह राघवम् ॥ २४० ॥
न ज्ञातोऽयं मया राम प्रासादो मस्तकेन मे ।
उत्पाटितश्च लंकायां समानीतस्त्वांकितम् ॥ ४१ ॥
पुनर्नीत्वाऽद्य लंकायां एनं संस्थापयाम्यहम् ।
इत्युक्त्वा परिवृत्याथ राघवस्याज्ञयांगदः ॥ ४२ ॥
प्रासादं पूर्ववत्स्थाप्य लंकायां स ययौ पुनः ।
सुवेलाद्रौ राघवेंद्रं नत्वा वृत्तं न्यवेदयत् ॥ ४३ ॥
यद्यत्कृतं तु लंकायां संवादं रावणस्य च ।
रामोऽपि श्रुत्वा तत्सर्वं स्मित्वा तं परिषस्वजे ॥ ४४ ॥
अथ श्रीरामचंद्रोऽपि सुवेलाद्रौ स्थितस्तदा ।
लीलया चापमादाय मुमोच शरमुत्तमम् ॥ ४५ ॥
तेन छत्रसहस्राणि किरीटदशकं तथा ।
लंकायां राक्षसेंद्रस्य प्रासादे संस्थितस्य च ॥ ४६ ॥
चिच्छेद निमिषार्धेन कपीनां पश्यतां प्रभुः ।
एतस्मिन्नंतरे तत्र रामाग्रे संस्थितो महान् ॥ ४७ ॥
न दत्तां जानकीं श्रुत्वा रावणेनांगदास्यतः ।
क्रोधेन महताविष्टः सुग्रीवंः प्लवगाग्रनीः ॥ ४८ ॥
ययौ उड्डीय लंकायां दशास्यं राक्षसौर्युतम् ।
प्रासादसंस्थितं छत्रहीनं प्रव्यग्रमानसम् ॥ ४९ ॥
सुग्रीवो रावणं गत्वा जघान दृढमुष्टिना ।
पातयामास भूम्यां तं वरसिंहासनात्तदा ॥ २५० ॥
चक्रतुस्तौ बाहुयुद्धं तुमुलं रोमहर्षणम् ।
उर्ध्वांध्रिकरहृद्धस्तैः कपीशराक्षसेश्वरौ ॥ ५१ ॥
तदासीज्जर्जरांगः स रावणः कपिघाततः ।
दुद्रुवे बाहुयुद्धं तत्त्यक्त्वा गेह विलज्जितः ॥ ५२ ॥
तदाऽऽच्छिद्य तन्मुकुटं ययौ रामं कपीश्वरः ।
ननाम राघवं भक्त्या वृत्तं सर्वं न्यवेदयत् ॥ ५३ ॥
तं समालिंग्य रामोऽपि सुग्रीवं प्राह सादरम् ।
मामपृष्ट्वा कथं बन्धो गतस्तूष्णीं दशाननम् ॥ ५४ ॥
त्वज्जीवितं विपन्नं चेत् तर्हि किंसीतया मम ।
भविष्यति न सौख्यं हि मेदृशं साहसं कुरु ॥ ५५ ॥
ततो भेरीमृदंगाद्यैः वाद्यैस्ते वानरोत्तमाः ।
लंकां सवेष्टयामासुः चतुर्द्वारेषु संस्थिताः ॥ ५६ ॥
तदा तं मुकुटं रामो अंगदाय रावणस्य च ।
ददौ तुष्टो दशेशाय लंकां रोद्धुं प्रचोदयत् ॥ ५७ ॥
अंगदं दक्षिणद्वारं वायुपुत्रं तु पश्चिमम् ।
नलं सैस्येन प्राग्द्वारं सुषेणं द्वारमौत्तरम् ॥ ५८ ॥
ययुस्ते राघवं नत्वा लंकां स्वस्वबलैर्युताः ।
तां लंकां रुरुधुः सर्वे चतुर्द्वारेषु वानराः ॥ ५९ ॥
दशास्योऽपि गृहं गत्वा सुग्रीवजर्जरीकृतः ।
तस्थौ तूष्णीं स रहसि स्मरन्सुग्रीवपौरुषम् ॥ २६० ॥
माली सुमाली च तथा माल्यवान् बानधवास्त्रयः ।
मातामहा रावणस्य ते संमंत्र्य परस्परम् ॥ ६१ ॥
दशाननं बोधयितुं तेभ्यस्त्वेको ययौ जवात् ।
माल्यवानिति नाम्ना यो बुद्धिमान् स्नेहसंयुतः ॥ ६२ ॥
प्राह तं राक्षसं वीरं प्रशांतेनांतरात्मना ।
श्रृणु राजन् वचो मेऽद्य श्रुत्वा कुरु यथेप्सितम् ॥ ६३ ॥
यदा प्रविष्टा नगरीं जानकी रामवल्लभा ।
तदादि पुर्यां दृश्यंते निमित्तानि दशानन ॥ ६४ ॥
घोराणि नाशहेतूनि तानि मे वदतः श्रृणु ।
खराः स्तनितर्निघोषा मेघाः प्रतिभयंकराः ॥ ६५ ॥
शोणितान्यभिवर्षन्ति लंकामुष्णेन सर्वदा ।
सीदन्ति देवलिंगानि स्विद्यन्ति प्रचलंति च ॥ ६६ ॥
ला;इला [आंडुरैर्दंतैः प्रहसंतेऽग्रतः स्थिताः ।
खरा गोषु प्रजायंते मूषका नकुलैः सह ॥ ६७ ॥
मार्जारेण तु युध्यंते पन्नगा गरुडेन च ।
करालो विकटो मुंडः पुरुषः कृष्णपिंगलः ॥ ६८ ॥
कालो गृहाणि सर्वेषां काले काले त्ववेक्षते ।
एतान्यन्यानि दृष्टानि निमित्तान्युद्‌भवंति च ॥ ६९ ॥
अतः कुलस्य रक्षार्थं शांतिं कुरु दशानन ।
सीतां सत्कृत्य सधनां रामायाशु प्रयच्छ भोः ॥ २७० ॥
मातामहवचश्चेत्थं श्रुत्वा तं रावणोऽब्रवीत् ।
रामेण प्रेषितो नूनं भाषसे त्वं अनर्गलम् ॥ ७१ ॥
गच्छ वृद्धोऽसि बंधुस्त्वं सोढं सर्वं त्वयोदितम् ।
इतो वा पर्णपदवीं दहत्येतद् वचस्तव ॥ ७२ ॥
इत्युक्तः स रावनेन माल्यवान् स गृहं ययौ ।
रावणोपि सभां गत्वा चोदयामास राक्षसान् ॥ ७३ ॥
पूर्वद्वारं तु धूम्राक्षं वज्रदंष्ट्रं तु पश्चिमम् ।
नरांतकं दक्षिणं तं उत्तरं च महोदरम् ॥ ७४ ॥
प्रेषयामास सैन्येन वस्त्राद्यैस्तोषितान् जवात् ।
चत्वारस्तेऽपि नत्वा तं रावणं संगरं ययुः ॥ ७५ ॥
एवं रामरावणयोः सैन्यानि च परस्परम् ।
ययुस्तानि सम्मुखानि संगरार्थं महास्वनैः ॥ २७६ ॥
इति श्री शतकोटिरामचरितान्तर्गते
श्रीमद् आनंदरामायणे वाल्मीकिये सारकांडे दशमः सर्गः ॥ १० ॥


GO TOP