॥ श्रीवाल्मीकिमहामुनिकृत शतकोटिरामचरितान्तर्गतं ॥

॥ आनन्दरामायणम् ॥

सारकाण्डम्

॥ सप्तमः सर्गः ॥
[विराध व खर-दूषण वध]

॥ श्रीसद्‌गुरु रामचंद्राय नमः ॥


अथ रामः सीतया तु लक्ष्मणेन समन्वितः ।
ययौ स दंडकारण्यं सज्जं कृत्वा महद्‍धनुः ॥ १ ॥
अग्रे ययौ स्वयं रामः तत्पृष्ठे जानकी ययौ ।
तस्याः प्ह्ष्ठे स सौमित्रिः ययौ धृतशरासनः ॥ २ ॥
वने दृष्ट्वाऽथ कासारं स्नात्वा पीत्वा जलं सुखम् ।
भुक्त्वा फलानि पक्वानि तस्थुस्तत्र क्षणं त्रयः ॥ ३ ॥
एतस्मिन् अंतरे तत्र विराध नाम राक्षसम् ।
ते तं ददृशुरायांतं महासत्त्वं भयानकम् ॥ ४ ॥
करालदंष्ट्रावदनं भीषयंतं स्वगर्जितैः ।
वामासन्यस्तशूलाग्र ग्रथितानेक मानुषम् ॥ ५ ॥
भक्षयंत गजं व्याघ्र महिषं वनगोचरम् ।
ज्यारोपितं धनुर्धृत्वा रामो लक्ष्मणमब्रवीत् ॥ ६ ॥
रक्ष त्वं जानकीमत्र संहनिष्यामि राक्षसम् ।
स तु दृष्ट्वा रमानाथं लक्ष्मणं च जानकीं तदा ॥ ७ ॥
कौ युवामिति तौ प्राह ततो रामस्तमब्रवीत् ।
नामकर्म निजं सर्वं कैकेय्याऽपि च यत्कृतम् ॥ ८ ॥
तद् रामवचनं श्रुत्वा विहस्य राक्षसोऽब्रवीत् ।
मां जानासि त्वं राम विराधं लोकविश्रुतम् ॥ ९ ॥
मद्‍भयान् मुनयः सर्वे त्यक्त्वा वनमितो गताः ।
यदि जीवितुमिच्छास्ति त्यक्त्वा सीतां निरायुधौ ॥ १० ॥
पलायतां न चेत् शीघ्रं भक्षयामि युवामहम् ।
इत्युक्त्वा राक्षसः सीतां आदातुं अभिदुद्रुवे ॥ ११ ॥
रामश्चिच्छेद तद्‍बाहु शरेण प्रहसन्निव ।
ततः क्रोधपरीतात्मा व्यादाय विकटं मुखम् ॥ १२ ॥
राममभ्यद्रवत् रामः चिच्छेद परिघावृतः ।
पदद्वयं तदा सर्प इवास्येन ययौ पुनः ॥ १३ ॥
ततोऽर्धचंद्राकारेण निहतो राघवेण सः ।
ततः सीता समालिंग्य प्रशशंस रघुत्तमम् ॥ १४ ॥
देवदुंदुभयो नेदुः दिवि देवगणेरिताः ।
ततो विराधकायात्तु पुरुषश्च विनिर्गतः ॥ १५ ॥
नत्वा रामं निजं वृत्तं कथयामास सादरम् ।
दुर्वाससाऽहं शप्तस्तु पुरा विद्याधरः शुभः ॥ १६ ॥
इदानीं मोचितः शापात् त्वया कालांततात् वने ।
इत्युक्त्वा राघवं स्तुत्वा विमानेन ययौ दिवम् ॥ १७ ॥
विराधे स्वर्गते रामो लक्ष्मणेन च सीतया ।
जगाम शरभंगस्य वनं सर्वसुखावहम् ॥ १८ ॥
शरभंगं ततो नत्वा तेन सम्मानितो बहु ।
तस्थौ तत्र निशां एकां शरभंगो मुनीश्वरः ॥ १९ ॥
तस्मै समर्प्य स्वं पुण्यं आरुरोह चितिं तदा ।
स्तुत्वा तं पूजितस्तेन सुखं तस्थौ रघूद्‍वहः ॥ २१ ॥
एतस्मिन् अंतरे तत्र नानाश्रमनिवासिनः ।
मुनयो राघवं द्रष्टुं समाजग्मुः सहस्रशः ॥ २२ ॥
सर्वे ते राघवं नत्वा स्तुत्वा निन्युर्निजं निजम् ।
आश्रमं सीतयाभ्रात्रा चक्रुः पूजां सविस्तराम् ॥ २३ ॥
एकरात्रं त्रिरात्रं वा पंच सप्त दिनानि वा ।
पक्षमात्रं तु मासं वा सार्धमासमथापि वा ॥२४ ॥
त्रिमासान् पंचमासं वा षष्ठैकादशाथवा ।
साग्रं संवत्सरं वापि स्वाश्रमेषु रघुत्तमम् ॥ २५ ॥
संस्थाप्य चक्रुरातिथिअं अधिकं चोत्तरोतरम् ।
पत्‍न्यानुजेन श्रीमं एवं पूज्य विसर्जयन् ॥ २६ ॥
भ्रमतैव हि रामेण नव वर्षाणि दंडके ।
आश्रमेषु मुनीनां च ह्यतिक्रांतानि वै सुखम् ॥ २७ ॥
बहवो निहतास्तत्र राक्षसा भ्रमता तदा ।
राघवेण सह भ्राता क्रीडता अवनिकन्यया ॥ २८ ॥
नानाश्रमाराम पुष्पवनोपवन भूमिषु ।
नदीजलतटाकाद्रि शिखरादि स्थलेष्वपि ॥ २९ ।
जंब्वाम्ररंभाद्राक्षादि नानावृक्षलतेषु हि ।
चकार सीतया क्रीडां रामो देव्या यथा शिवः ॥ ३० ॥
अथ रामो ययौ कुंभ-संभवस्यानुजाश्रमम् ।
सुमतिः पूजयामास राघवं सीतयान्वितम् ॥ ३१ ॥
प्रत्युद्‍गम्य मुनिश्चापि मुनिभिः वटुभिर्वृतः ।
राघवं तं समालिंग्य स्वाश्रमं तेन सो ययौ ॥ ३३ ॥
अथ त्ं पूजयामास राघवं कुंभसंभवः ।
रामोऽपि मानितस्तेन तस्थौ तत्र कियत् दिनम् ॥ ३४ ॥
ततः स्तुत्वा रमानाथं अगस्त्यो मुनिसत्तहः ।
ददौ चापं महेंद्रेण रामार्थं स्थापितं स्थापितं पुरा ॥ ३५ ॥
अक्षय्यौ बाणतूणीरौ खड्गं रत्‍नविभूषितम् ।
ततो रामो मुनेर्वाक्यात् गौतम्या उत्तरे तटे ॥ ३६ ॥
ययौ पंचवटीं रम्यां मार्गे दृष्ट्वाऽथ पक्षिणम् ।
जटायुषं नगाकारं अरुणात्मजमुत्तमम् ॥ ३७ ॥
सखायं स्वपितुश्चापि संभाष्याथ विवेश तम् ।
तत्र कृत्वा महाशालां यथा पूर्वं कृता गिरौ ॥ ३८ ॥
मृगमांसैर्बलिं दत्त्वा तस्थौ रामो यथासुखम् ।
सीतां संरक्षयामास जटायुः पक्षिराट् स्वयं ॥ ३९ ॥
राघवस्य पंचवट्यां सीतया क्रीडतः सुखम् ।
सार्धत्रीणि वत्सराणि ह्यतिक्रांतानि पार्वति ॥ ४० ॥
वने शूर्पणखापुत्रं तपंतं सांबनामकम् ।
ब्रह्मा ददौ दिव्यखड्गं तं सांबो न ददर्श सः ॥ ४१ ॥
तद्‍धृत्वा लक्ष्मणः खड्ग वृक्षान्वल्लीर्बभंज सः ।
वृक्षगुल्मे हतः सांबस्ततो राघवमब्रवीत् ॥ ४२ ॥
प्रायश्चित्तं ब्रह्महणं मां वद त्वं रघुत्तम ।
रामोऽप्याह हतः सांबो राक्षसो न मुनिर्हतः ॥ ४३ ॥
तत् श्रुत्वा लक्ष्मणस्तुष्टः सांबमात्रापि तत् श्रुतम् ।
तत्स्मरंती पुत्रदुःखं राक्षसी कामरूपिणी ॥ ४४ ॥
विचचार शूर्पणखा नाम्नी च सर्वघातिनी ।
एकदा पंचवट्यां सा रामं दृष्ट्वाऽथ राक्षसी ॥ ४५ ॥
पुत्रदुःखसमाक्रांता धृत्वा रूपं मनोहरम् ।
कापट्यबुद्ध्या श्रीरामं सानुजं हंतुमुद्यता ॥ ४६ ॥
उवाच मधुरं वाक्यं वस्त्रालंकारमंडिता ।
कौ युवां का त्वियं रम्या किमर्थमागता वनम् ॥ ४७ ॥
कुतः समागतावत्र क्वाधुना गच्छतः पुरः ।
तत्त्स्या वचनं श्रुत्वा रामः सर्वं न्यवेदयत् ॥ ४८ ॥
ततः सा राहवं प्राह भव भर्ता मम प्रभो ।
सोऽप्याह दयिता मेऽस्ति बहिस्तिष्ठति लक्ष्मणः ॥ ४९ ॥
प्रार्थयामास सौमित्रिं सा तं सोऽप्युत्तरं ददौ ।
अहं दासोऽस्मि रामस्य त्वं तु दासी भविष्यसि ॥ ५० ॥
ततः क्रोधेन सा सीतां धर्तुं वेगेन दुद्रुवे ।
तदा तां राघवं प्राह ममायं शर उत्तमः ॥ ५१ ॥
चिह्नार्थं लक्ष्मणाय त्वं नीत्वा दर्शय वेगतः ।
मद्‍बाणदर्शनात् कार्यं सिद्धिं नेष्यति लक्ष्मणः ॥ ५२ ॥
इत्युक्त्वा राघवो बाणं ददौ तस्यै क्षुरोपमम् ।
सत्यं मत्वा रामवाक्यं सा ययौ लक्ष्मणं पुनः ॥ ५३ ॥
लक्ष्मणाय रामबाणं दर्शयामास राक्षसी ।
स बुद्ध्वा हृद्‍गतं बंधोः तं संधाय शरासने ॥ ५४ ॥
मुमोच बाणं वेगेन रामनाम्नाकितं शुभम् ।
स शरो राक्षसीं गत्वा ध्राणकर्णौष्टहृद्‍भवान् ॥ ५५ ॥
संछित्वा रामतूणीर विवेश क्षणमात्रतः ।
घ्राणकर्णौष्ठहृज्जात रहिता साऽपि राक्षसी ॥ ५६ ॥
हा हतास्मीति जल्पंती ययौ बंधून् खरादिकान् ।
दृष्ट्वा स्वसां तादृशीं ते त्रिशिरःखरदूषणाः ॥ ५७ ॥
तन्मुखात् सकलं वृत्तं श्रुत्वा ते क्रोधसंयुताः ।
चतुर्दश महाघोरात् राक्षसान् प्रेषयंस्तदा ॥ ५८ ॥
तान् रामः क्षणमात्रेण चतुर्दश शरैर्यमम् ।
संप्रदर्श्य निजं लोकं प्रेषयामास लीलया ॥ ५९ ॥
तान् राक्षसान् मृतान् श्रुत्वा खराद्यास्ते त्रयः क्रुधा ।
युद्धाय निर्ययुः सैन्यैः सहस्रैश्च चतुर्दश ॥ ६० ॥
रामोऽपि बंधुं सीतां च गुहायां स्थाप्य वेगतः ।
चकार राक्षसैः युद्धंशस्त्ररस्त्रैर्भयावहम् ॥ ६१ ॥
चतुर्दशसहस्राणि स्वीयरूपाणि राघवः ।
कृत्वा तेषां च पुरतः शरैस्तान् मर्दयत् क्षणात् ॥ ६२ ॥
हत्वा खरं दूषणं च तथा त्रिशिरसं शरैः ।
चतुर्दशसहस्रान् तान् प्रेषयामास स्वं पदम् ॥ ६३ ॥
मुहूर्तेन तु रामेण सहस्राणि चतुर्दश ।
मिता सेना खराद्येश्च निहता गौतमीतटे ॥ ६४ ॥
खराद्यां कंटका यत्र स्थिताः तत्र त्रिकंटकम् ।
क्षेत्रं ख्यातं त्र्यंबकाख्यं तदेव प्रोच्यते भुवि ॥ ६५ ॥
जनस्थानं भूसुराणां ददौ वस्तुं रघूद्‍वहः ।
अथ सीता समालिंग्य राघवं प्रशशंस सा ॥ ६६ ॥
अथ तां जानकीं प्राह रामो रहसि सादरम् ।
सीते त्वं त्रिविधा भूत्वा रजोरूपा वसानले ॥ ६७ ॥
वामांगे मे सत्त्वरूपा वस छाया तमोमयी ।
पंचवट्यां दशास्यस्य मोहनार्थं वसात्र वै ॥ ६८ ॥
तद्‍रामवचनं श्रुत्वा तथा सीता चकार सा ।
ततः सूर्पणखा लंकां गत्वा रावणमब्रवीत् ॥ ६९ ॥
धिक् त्वां राक्षसराजानं वृत्तं चारैर्न वेत्सि यः ।
चतुर्दशसहस्रा सा सेना त्वद्‍बंधुभिः सह ॥ ७० ॥
मानुषेणैव रामेण जनस्थाने निपातिता ।
तत्तस्या वचनं श्रुत्वा तां नृष्ट्वा तादृशीं तदा ॥ ७१ ॥
सिंहासनाच्चचालाथ पुन्हः पप्रच्छ तां स्वसाम् ।
वद किं कारणं युद्धे प्राह सा राक्षसेश्वरम् ॥ ७२ ॥
स्त्रीरत्‍नां जानकीं दृष्ट्वा मया चित्ते विचिंतितम् ।
रावणार्थं विनेष्यामि धर्तुं तां तत्पुरोगता ॥ ७३ ॥
तावत् बाणेन नीतामः दशामेतां तु रावण ।
सौमित्रिणा पंचवट्यां आज्ञया राघवस्य च ॥ ७४ ॥
सांबोऽपि मे हतः पुत्रः तप्यमानो निरर्थकम् ।
मत्तोषार्थं कृतं युद्धं बंधुभिस्ते निपातिताः ॥ ७५ ॥
यद्यस्ति पौरुषं किंचित् तर्हि सीतां समानय ।
नोचेत् अधोमुखस्तिष्ठ यथा स्त्री ग्तभर्तृका ॥ ७६ ॥
तत्तस्यां वचनं श्रुत्वा सांत्वयामास तां स्वसाम् ।
तौ रामलक्ष्मणौ हत्वा तव शोकाश्रुमार्जनम् ॥ ७७ ॥
करोम्यहं लोहितेन तयोः खेदं भजस्व मा ।
एवं नानाविधैर्वाक्यैः सांत्वयित्वा स्वसां मुहुः ॥ ७८ ॥
स्वहितस्योपदेष्टारं मातुलं तपसि स्थितम् ।
ययौ रथेन मारीचं तस्मै वृत्तं न्यवेदयत् ॥ ८० ॥
सोऽथ तं भीषयामास भागिनेयं मुहुर्मुहुः ।
विश्वामित्राध्वरे त्यक्तं आत्मानं तं न्यवेदयत् ॥ ८० ॥
रामाख्यया रथं रत्‍नं रजतं रुक्मभूषितम् ।
श्र्वाऽत्र रादि यत्किंचित् रामं मत्वा बिभेम्यहम् ॥ ८१ ॥
केन ते शिक्षिता बुद्धिः इयं लंकाविघातिनी ।
आप्तरूपोऽस्ति कं शत्रुः येनेयं शिक्षिता मतिः ॥ ८२ ॥
कथां न कुरु रामस्य तं दृष्ट्वा त्वं मरिष्यसि ।
ततः क्रोधेन तं प्राह यदि नायासि राघवम् ॥ ८३ ॥
मया तर्हि वधिष्यामि त्वामतः कुरु मद्‍वचः ।
भूत्वा त्वं मृगरूपश्च रामस्त्वां अनुयास्यति ॥ ८४ ॥
त्वं शब्दं कुरु रामस्य लक्ष्मणस्तेन यास्यति ।
ततस्तां जानकीं वेगात् लंकां स्वामानयाम्यहम् ॥ ८५ ॥
लंकायास्तव दास्यामि स्वीयराज्यार्धमादरात् ।
इति तस्याग्रहं दृष्ट्वा मारीचो हृद्यचिंतयत् ॥ ८६ ॥
रामहस्तान्मृतिः श्रेष्ठा माऽस्तु रावणहस्ततः ।
इति निश्चित्य मारीचः तथेत्युक्त्वा ययौ तदा ॥ ८७ ॥
रावनेन रहे स्थित्वा गत्वा पंचवटीं प्रति ।
भूत्वा हेममयश्चित्रो मोहयामास जानकीम् ॥ ८८ ॥
सा छाया तामसी दृष्त्वा मृगं राघवमब्रवीत् ।
क्रीडार्थं मां मृगं चेमं धृत्वा देहि रघुत्तम ॥ ८९ ॥
मृगश्चेत् बानभिन्नाण्गः करोमि कंचुकीं त्वचः ।
तत्तस्या वचनं श्रुत्वा ज्ञात्वा सर्वं रघूत्तमः ॥ ९० ॥
सीताया रक्षणे बंधुम् सम्स्थाप्याशु मृगं ययौ ।
ततः पलायनं चक्रे मृगो रामं विकर्षयन् ॥ ९१ ॥
रामबानेन भिन्नांगः शब्दं दीर्घं चकार सः ।
हा सौमित्रे समागच्छ हा हतोऽस्म्यद्य कानने ॥ ९२ ॥
इत्युक्त्वा रामवचनात् वाचा ममार रुधिरं वमन् ।
तं शब्दं जानकी श्रुत्वा चोदयामास लक्ष्मणम् ॥ ९३ ॥
सोऽप्याह रामवचनं नेदं सीते भयं त्यज ।
ततः सा तं पुनः प्राह जानामि तव चेष्टितम् ॥ ९४ ॥
भरतस्योपदेशेन मृतिं रामस्य वांछसि ।
अथवा मेऽभिलाषोस्ति त्र्हि प्राणान् स्त्यजाम्यहम् ॥ ९५ ॥
तत् क्रूरवचनं तस्याः श्रुत्वा ज्ञात्वा महद्‍भयम् ।
जानकीं प्राह सौमित्री मातः श्रुणु वचो मम ॥ ९६ ॥
राघवज्ञां पुरस्कृत्य रक्षतत्वां मम त्वया ।
ताडितं वाक् शरेणाद्य भोक्ष्यस्याचिरात् फलम् ॥ ९७ ॥
तथापि श्रुणु मद्‍वाक्यं यन्मयाऽत्रोच्यते हितम् ।
मयैतां धनुषो रेखां कृतां त्वत्परितोऽधुना ॥ ९८ ॥
त्वद्‍रक्शणार्थं दुष्टानां दुर्विलंघ्यां महत्तमाम् ।
मा त्वमुल्लंघयस्वेमां प्राणैः कंठगतैरपि ॥ ९९ ॥
इत्युक्त्वा धनुषः कोट्या कृत्वा रेखां समंततः ।
बाह्यदेशे पंचवट्याः सौमित्रिं परिघोपमाम् ॥ १०० ॥
नत्वा सीतां ततस्तूष्णीं ययौ रामं त्वरान्वितः ।
एतस्मिन् अंतरे तत्र रावणो भिक्षुरूपधृक् ॥ १ ॥
गत्वा पंचवटीद्वारं रेखायाश्च बहिः स्थितः ।
नारायणेति वै चोक्त्वा तूष्णीं त्अस्थौ स रावनः ॥ २ ॥
तावत् छायामयी सीता भिक्षां तस्मै समर्पितुम् ।
ययौ द्वारम् दीर्घहस्त्वा गृह्णीष्वेत्यब्रवीच्च तम् ॥ ३ ॥
तदा भिक्षुः पुनः प्राह सीतां पंकचलोचनम् ।
नांगीकरोम्यंतरेण भिक्षामेताम् त्वयार्पिताम् ॥ ४ ॥
गार्हस्थ्यं चेत् राघवस्य रक्षितुं त्वं समिच्छसि ।
तर्हि रेखां समुल्लंघ्य मां भिक्षां दातुमर्हसि ॥ ५ ॥
तद्‍भिक्षुवचनं श्रुत्वा अध्र्मोऽभूत् मेति शंकिता ।
रेखाबहिः सव्यपादं दत्त्वा दीर्घलसत्करा ॥ ६ ॥
गृह्णीष्वेमां वरां भिक्षां इति तं प्राह जानकी ।
ततो दशास्यस्तां धृत्वा भिक्षुरूपं विसृज्य च ॥ ७ ॥
खरवाहे रथे सीतां संस्थाप्याथ न्यवर्तत ।
यावत् गच्छति वेगेन तावत् दृष्टो जटायुषा ॥ ८ ॥
चकार तुमुलं युद्धं रावणेन स पक्षिताट् ।
निजपद्‍भ्यां मखेनाथ चूर्णीकृत्य रथोत्तमम् ॥ ९ ॥
खरानष्टौ विनिष्पिष्य बभंज तद् धनुर्महत् ।
मुकुटान् दश संछिद्य कृत्वा देहं तु जर्जरम् ॥ ११० ॥
मूर्छितं रावणं कृत्वा तां सीतां संन्यवर्तयत् ।
स्वस्थीभूतो दशास्योऽपि ताडयामास तं पदा ॥ ११ ॥
क्रोधेन महताविष्ट पक्षिणा जर्जरीकृतः ।
ततो जटायुः पतितो वमन् रक्तं मुखेन सः ॥ १२ ॥
ततो विहायसा सीतां निनाय रावनः पुनः ।
रामरामेति जल्पंती सीताऽभूत् न्यस्तलोचना ॥ १३ ॥
उत्तरीये बबंधाथ पथि स्वाभरणानि सा ।
दृष्ट्वाऽधः पर्वते प्रोच्चैः संस्थितान् पंच वानरान् ॥ १४ ॥
प्राक्षिपत् कपिमध्येऽथ सूचनार्थं रघूत्तमम् ।
ततो दशास्यस्तां नीत्वा ह्यशोके संन्यवेशयत् ॥ १५ ॥
प्रार्थयामास ताआं सीतां नोत्तरं सा ददौ तदा ।
तस्याः संरक्षणार्थाय राक्षसीश्च सहस्रशः ॥ १६ ॥
आज्ञापयत् दशास्यः स स्वयं गेहं विवेश ह ।
तदेन्द्रो ब्रह्मवाक्येन पायसं वर्षतुष्टिदम् ॥ १७ ॥
ददौ रहसि सीतायै तेन तुष्टा बभूव सा ।
समर्प्य पायसं किंचित् रामाय लक्ष्मणाय च ॥ १८ ॥
सुरान् अतिथये दत्त्वा दत्त्वा धेनुं च खेचरान् ।
दत्त्वाऽथ त्रिजटां किंचित् भक्षयामास जानकी ॥ १९ ॥
संमंत्र्य रावणेनापि राक्षसांश्चैव षोडश ।
प्रेषिता रामघातार्थं ते कबंधेन भक्षिताः ॥ १२० ॥
यत्र यत्र पंचवट्यां रामबाणभ्यान् मृगः ।
चचार गौतमीतीरे संस्थानं तत्र तत्र हि ॥ २१ ॥
स्थानसंज्ञान्यनेकानि जातानि च पुराणि हि ।
मृगस्य पतितम् यत्र नूपुरं परिधावता ॥ २२ ॥
नूपुराख्यो महाग्रामः प्रोच्यते गौतमीतटे ।
रामबाणप्रहारेण चपलाक्षोऽपतत् भुवि ॥ २३ ॥
मृगो यत्र महान् तत्र चापल्यग्राम इर्यते ।
गोदातटे ग्रावभूम्यां रामबाणहतो मृगः ॥ २४ ॥
पतितो यत्र तत् चिह्नं दृश्यतेऽद्यापि मानवैः ।
सौमित्रचापजा रेखा पंचवट्याः समन्ततः ॥ २५ ॥
अद्यापि दृश्यते स्पष्टा नदीरूपा भयावहा ।
पाषाणभूम्यां तत्रैव रावणस्य पदं महत् ॥ २६ ॥
अद्यापि दृश्यते भीमं गर्तरूपं नरोत्तमैः ।
खराद्यैः युद्धसमये पंचवट्यां विदेहजा ॥ २७ ॥
गुहायां गोपिता भर्त्रा साऽद्यापि तत्र दृश्यते ।
तथा रामो लक्ष्मण्०ऽपि पंचवट्यां सदैव हि ॥ २८ ॥
दृश्यतेऽद्यापि भो देवि तज्जनेर्ज्ञानदृष्टिभिः ।
अज्ञानदृष्टिभिस्ते तु दृश्यते ग्रावरूपिणः ॥ २९ ॥
रामतीर्थं रामकृतं सीतालक्ष्मणसंस्कृते ।
तीर्थे तत्र तु गौतम्यां दृश्यतेऽद्यापि मानवैः ॥ १३० ॥
रामेण सीतया यत्र शय्यायां पर्वतोपरि ।
कृतं पूर्वं तु शयनं रामशय्यागिरि स्मृतः ॥ ३१ ॥
शय्यारूपाणि दृश्यंते अद्यापि तत्र तृणानि हि ।
रामोऽपि लक्ष्मणं दृष्टवा श्रृत्वा सीता वचोऽशुभम् ॥ ३२ ॥
निवेदितं लक्ष्मणेन क्रोधाश्रुस्मयचेतसा ।
निमित्तानि अतिघोराणि दृष्ट्वा चैव समंततः ॥ ३३ ॥
ययौ पंचवटीं व्यग्रः तत्र सीता ददर्श न ।
ततो मानुषभावं तु दर्शयन् सकलान् जनान् ॥ ३४ ॥
विचिन्वन् सर्वतः सीतां गृध्रराजं ददर्श सः ।
ततः स पक्षिवचसा रावणेन हृतां प्रियाम् ॥ ३५ ॥
ज्ञात्वा तं योजयामास वह्निना जीवितक्षये ।
तत्तुष्ट्यर्थं वन्यमांसं क्षिप्त्वा स्नात्वा रघूत्तमः ॥ ३६ ॥
ययौ दक्षिणमार्गेण विचिन्वन् मूढवत् प्रभुः ।
पूर्ववत् अग्निहोत्रं च चकार कुशभार्यया ॥ ३७ ॥
एतस्मिन् अंतरे देवि त्वया प्रोक्तस्त्वहं पुरा ।
त्वया यस्य जपो नित्यं क्रियते राघवस्य हि ॥ ३८ ॥
सोऽयं स्त्री विरहात् पश्य मूढवत् भ्रमते ववे ।
तवेति वचनं श्रुत्वा तदा त्वां अब्रुवं त्वहम् ॥ ३९ ॥
देवि साक्षात् महाविष्णु त्वयं रामो महीतले ।
शिक्षार्थं सकलान् लोकान् मूढवत् भ्रमते वने ॥ १४० ॥
नारीसंगो नरैस्त्याज्यः सर्वदाऽत्रेति शिक्षयन् ।
नारीविषयजं दुःखं ईदृशं भ्रमकारकम् ॥ ४१ ॥
दर्शयन् सकलान् लोकान् इति सोऽत्राटते वने ।
इति मद्‍वचनं श्रुत्वा तत्परीक्षार्थ्मुद्यता ॥ ४२ ॥
त्वं गतासि सपीपं श्री-राघवस्य तदा वने ।
सीतारूपेण तं रामं त्वया प्रोक्तं शुभं वचः ॥ ४३ ॥
राम राजीवपत्राक्ष मामग्रे पश्य जानकीम् ।
क्रीडस्वात्र मया सार्धं एहि शीघ्रं सुखी भव ॥ ४४ ॥
त्वदुक्तं राघवः श्रुत्वा विहस्य त्वां वचोऽब्रवीत् ।
जानाम्यहं त्वां कासीति सीता त्वं नासि वेद्म्यहम् ॥ ४५ ॥
त्वं किं सीतास्वरूपेण मोहयस्यत्र मां वने ।
एवं पुनः पुनः प्रोक्ता यदा त्वं राघवेण हि ॥ ४६ ॥
तदा त्वया तत्स्वरूपं ज्ञातं सत्यं मयेरितम् ।
ततो नत्वा रामचंद्रं प्रार्थयित्वा पुनः पुनः ॥ ४७ ॥
आगताऽसि पुनर्मां त्वं कैलासशिखरेऽमले ।
त्वं का त्वं किमिति प्रोक्ता राघवेण पुनः पुनः ॥ ४८ ॥
या त्वं दंडके जाता त्वं का नाम्नांबिका वने ।
त्वं लज्जिताऽसि रामेण यत्र तत्र तव स्थले ॥ ४९ ॥
तत् लज्जापुर नाम्नाऽसीत् नगरं दंडके वने ।
ततस्तौ रामसौमित्री जग्मतुर्दक्षिणां दिशम् ॥ १५० ॥
बहवो निहता मार्गे राक्षसा घोररूपिणः ।
एतस्मिन् अंतरेऽरण्ये कबंधेन धृतौ तदा ॥ ५१ ॥
श्रीरामलक्ष्मणौ मार्गे योजनायत् बाहुना ।
दृष्ट्वा तं शिरसा हीनं बाहू चिच्छेदतुस्तदा ॥ ५२ ॥
ततः स दिव्यरूपोऽभूत् नत्वा रामं वचोऽब्रवीत् ।
पुरा गंधर्वराजोऽहं ब्रह्मणो वरदानतः ॥ ५३ ॥
केनाप्यवध्यस्त्वहसं अष्टावक्रं मुनीश्वरम् ।
रक्षो भवति शप्तोऽहं मुनिना प्राह मां पुनः ॥ ५४ ॥
त्रेतायुगे यदा राम-लक्ष्मणौ योजनायतौ ।
छेत्स्यतस्ते महाबाहू तदा शापात् प्रमोक्ष्यसे ॥ ५५ ॥
ततो राक्षसदेहोऽहं इंद्रं अभ्यद्रवं रुषा ।
सोऽपि वज्रेण मां राम शिरोदेशे ह्यताडयत् ॥ ५६ ॥
तदा कुक्षौ शिरः पाद-युगलं च गतं क्षणात् ।
ब्रह्मदत्तवराम् मृत्युः नाभून्मे वज्रताडनात् ॥ ५७ ॥
मुखाभावे कथं जीवेत् अयं इति अमराधिपः ।
तदा मां प्राह कृपया जठरे ते मुख भवेत् ॥ ५८ ॥
बाहू ते जोजनायामौ अद्य शीघ्रं भविष्यतः ।
तदारभ्यात्र बाहुभ्यां लब्धं तद्‍भक्षयामहम् ॥ ५९ ॥
तिष्ठंत्यग्रे मतंगादि मुनीनां परिचारिकाः ।
शबरी दर्शनार्थं त्वं तत्र याहि रघुत्तम ॥ १६० ॥
कथयिष्यति सा सीता-शुद्धिं ते रघुनंदन ।
इत्युक्त्वा राघवं नत्वा स्तुत्वा स्वर्गं ययौ मुदा ॥६१ ॥
ततो रामो लक्ष्मणेन शबरीसंनिधिं ययौ ।
साऽ०पि संपूज्य श्रीरामं विशेषैर्वनसंभवैः ॥ ६२ ॥
चितां आरोढ्य्मुद्युक्ता राघवं प्राह हर्षिता ।
ऋष्यमूकगिरौ अग्रे सुग्रीवि मंत्रिभिः सह ॥ ६३ ॥
वर्तते तस्य सखेन सीताशुद्धिं लभिष्यसि ।
गच्छ राम इतस्वग्रे पंपानाम सरोवरम् ॥ ६४ ॥
तत् तटाके तु वृक्षाणां फलानि विविधानि च ।
भक्षस्व त्वं जलं पीत्वा तत् जलमुत्तमम् ॥ ६७ ॥
ततः शनैर्ययौ मार्गे ऋष्यमूकाचलं प्रति ।
पश्यन् वनानि सर्वत्र चिंतयामास जानकीम् ॥ ६८ ॥
एवं गिरींद्रजे प्रोक्तं अरण्यं चरितं तव ।
श्रीरामस्य ससीतस्य लक्ष्मणेन युतस्य च ॥ १६९ ॥
इति श्री शतकोटिरामचरितान्तर्गते
श्रीमद् आनंदरामायणे वाल्मीकिये सारकांडे खरादिवधोनाम सप्तमः सर्गः ॥ ७ ॥


GO TOP