॥ श्रीमद् अध्यात्मरामायण ॥

॥ बालकाण्ड ॥

॥ तृतीयः सर्गः ॥

श्रीमहादेव उवाच
अथ राजा दशरथः श्रीमान् सत्यपरायणः ।
अयोध्याधिपतिर्वीरः सर्वलोकेषु विश्रुतः ॥ १ ॥
सोऽनपत्यत्वदुःखेन पीडितो गुरुमेकदा ।
वसिष्ठं स्वकुलाचार्यं अभिवाद्येदमब्रवीत् ॥ २ ॥
स्वामिन् पुत्रा कथं मे स्युः सर्वलक्षणलक्षितः ।
पुत्रहीनस्य मे राज्यं सर्वं दुःखाय कल्पते ॥ ३ ॥
ततोऽब्रवीद्वसिष्ठस्तं भविष्यन्ति सुतास्तव ।
चत्वारः सत्त्वसम्पन्ना लोकपाला इवापराः ॥ ४ ॥
शान्ताभर्तारमानीय ऋष्यश्रुङ्‌गं तपोधनम् ।
अस्माभिः सहितः पुत्र-कामेष्टिं शीघ्रमाचर ॥ ५ ॥
तथेति मुनिमानीय मंत्रिभिः सहितः शुचिः ।
यज्ञकर्म समारेभे मुनिभिर्वीतकल्मषैः ॥ ६ ॥
श्रद्धया हूयमानेऽग्नौ तप्तजाम्बूनदप्रभः ।
पायसं स्वर्णपात्रस्थं गृहीत्वोवाच हव्यवाट् ॥ ७ ॥
गृहाण पायसं दिव्यं पुत्रीयं देवनिर्मितम् ।
लप्स्यसे परमात्मानं पुत्रत्वेन न संशयः ॥ ८ ॥
इत्युक्त्वा पायसं दत्त्वा राज्ञे सोऽन्तर्दधेऽनलः ।
ववन्दे मुनिशार्दूलौ राजा लब्धमनोरथः ॥ ९ ॥
वसिष्ठऋष्यश्रुङ्‌गाभ्यां अनुज्ञातो ददौ हविः ।
कौसल्यायै सकैकेय्यै अर्धमर्धं प्रयत्‍नतः ॥ १० ॥
ततः सुमित्रा संप्राप्ता जगृघ्नुः पौत्रिकं चरुम् ।
कौसल्या तु स्वभागार्धं ददौ तस्यै मुदान्विता ॥ ११ ॥
कैकेयी च स्वभागार्धं ददौ प्रीतिसमन्विता ।
उपभुज्य चरुं सर्वाः स्त्रियो गर्भसमन्विताः ॥ १२ ॥
देवता इव रेजुस्ताः स्वभासा राजमन्दिरे ।
दशमे मासि कौसल्या सुषुवे पुत्रमद्‌भुतम् ॥ १३ ॥
मधुमासे सिते पक्षे नवम्यां कर्कटे शुभे ।
पुनर्वस्वृक्षसहिते उच्चस्थे ग्रहपञ्चके ॥ १४ ॥
मेषं पूषणि संप्राप्ते पुष्पवृष्टिसमाकुले ।
आविरासीत् जगन्नाथः परमात्मा सनातनः ॥ १५ ॥
नीलोत्पलदलश्यामः पीतवासाश्चतुर्भुजः ।
जलजारुणनेत्रान्तः स्फुरत्कुण्डलमण्डितः ॥ १६ ॥
सहस्रार्कप्रतीकाशः किरीटी कुञ्चितालकः ।
शङ्‌खचक्रगदापद्म वनमालाविराजितः ॥ १७ ॥
अनुग्रहाख्यहृस्थेन्दु सूचकस्मितचन्द्रिकः ।
करुणारससम्पूर्ण विशालोत्पललोचनः ।
श्रीवत्सहारकेयूर नूपुरादिविभूषणः ॥ १८ ॥
दृष्ट्वा तं परमात्मानं कौसल्या विस्मयाकुला ।
हर्षाश्रुपूर्णनयना नत्वा प्राञ्जलिरब्रवीत् ॥ १९ ॥
कौसल्योवाच
देवदेव नमस्तेऽस्तु शङ्‌खचक्रगदाधर ।
परमात्माच्युतोऽनन्तः पूर्णस्त्वं पुरुषोत्तमः ॥ २० ॥
वदन्त्यगोचरं वाचां बुद्ध्यादीनां अतीन्द्रियम् ।
त्वां वेदवादिनः सत्ता-मात्रं ज्ञानैकविग्रहम् ॥ २१ ॥
त्वमेव मायया विश्वं सृजस्यवसि हंसि च ।
सत्त्वादिगुणसंयुक्तः तुर्य एवामलः सदा ॥ २२ ॥
करोषीव न कर्ता त्वं गच्छसीव न गच्छसि ।
शृणोषि न शृणोषीव पश्यसीव न पश्यसि ॥ २३ ॥
अप्रमाणो ह्यमनाः शुद्ध इत्यादि शृतिरब्रवीत् ।
समः सर्वेषु भूतेषु तिष्ठन्नपि न लक्ष्यसे ॥ २४ ॥
अज्ञानध्वान्तचित्तानां व्यक्त एव सुमेधसाम् ।
जठरे तव दृश्यन्ते ब्रह्माण्डाः परमाणवः ॥ २५ ॥
त्वं ममोदरसम्भूत इति लोकान्विडम्बसे ।
भक्तेषु पारवश्यं ते दृष्टं मेऽद्य रघूत्तम ॥ २६ ॥
संसारसागरे मग्ना पतिपुत्रधनादिषु ।
भ्रमामि मायया तेऽद्य पादमूलमुपागता ॥ २७ ॥
देव त्वद्-‍रूपमेतन्मे सदा तिष्ठतु मानसे ।
आवृणोतु न मां माया तव विश्वविमोहिनी ॥ २८ ॥
उपसंहार विश्वात्मन् अदो रूपमलौकिकम् ।
दर्शयस्व महानन्द बालभावं सुकोमलम् ।
ललितालिङ्‌गनालापैः तरिष्याम्युत्कटं तमः ॥ २९ ॥
श्रीभगवानुवाच
यद् यद् इष्टं तवास्त्यम्ब तत्तद्‌भवतु नान्यथा ॥ ३० ॥
अहं तु ब्रह्मणा पूर्वं भूमिर्भारापनुत्तये ।
प्रार्थितो रावणं हन्तुं मानुषत्वं उपागतः ॥ ३१ ॥
त्वया दशरथेनाहं तपसाराधितः पुरा ।
मत्पुत्रत्वाभिकाङ्‍क्षिण्या तथा कृतमनिन्दिते ॥ ३२ ॥
रूपमेतत्त्वया दृष्टं प्राक्तनं तपसः फलम् ।
मद्दर्शनं विमोक्षाय कल्पते ह्यन्यदुर्लभम् ॥ ३३ ॥
संवादं आवयोर्यस्तु पठेद्वा शृणुयादपि ।
स याति मम सारूप्यं मरणे मत्स्मृतिं लभेत् ॥ ३४ ॥
इत्युक्त्वा मातरं रामो बालो भूत्वा रुरोद ह ।
बालत्वेऽपि इन्द्रनीलाभो विशालाक्षोऽतिसुन्दरः ॥ ३५ ॥
बालारुणप्रतीकाशो लालिताखिललोकपः ।
अथ राजा दशरथः श्रुत्वा पुत्रोद्‌भवोत्सवम् ।
आनन्दार्णवमग्नोऽसौ आययौ गुरुणा सह ॥ ३६ ॥
रामं राजीवपत्राक्षं दृष्ट्वा हर्षाश्रुसंप्लुतः ।
गुरुणा जातकर्माणि कर्तव्यानि चकार सः ॥ ३७ ॥
कैकेयी चाथ भरतं असूत कमलेक्षणा ।
सुमित्रायां ययौ जातौ पूर्णेन्दुसदृशाननौ ॥ ३८ ॥
तदा ग्रामसहस्राणि ब्राह्मणेभ्यो मुदा ददौ ।
सुवर्णानि च रत्‍नानि वासांसि सुरभीः शुभाः ॥ ३९ ॥
यस्मिन्रमन्ते मुनयो विद्ययाऽज्ञानविप्लवे ।
तं गुरुः प्राह रामेति रमणाद्-राम इत्यपि ॥ ४० ॥
भरणाद्‌भरतो नाम लक्ष्मणं लक्षणान्वितं ।
शत्रुघ्नं शत्रुहन्तारं एवं गुरुरभाषत ॥ ४१ ॥
लक्ष्मणो रामचन्द्रेण शत्रुघ्नो भरतेन च ।
द्वन्द्वीभूय चरन्तौ तौ पायसांशानुसारतः ॥ ४२ ॥
रामस्तु लक्ष्मणेनाथ विचरन् बाललीलया ।
रमयामास पितरौ चेष्टितैः मुग्धभाषितैः ॥ ४३ ॥
भाले स्वर्णमयाश्वत्थ पर्णमुक्ताफलप्रभम् ।
कण्ठे रत्‍नमणिव्रात मध्यद्वीपिनखाञ्चितम् ॥ ४४ ॥
कर्णयोः स्वर्णसम्पन्न रत्‍नार्जुनसटालुकम् ।
शिञ्जनमणिमञ्जीर कटिसूत्राङ्‌गदैर्वृतम् ॥ ४५ ॥
स्मितवक्त्राल्पदशनं इन्द्रनीलमणिप्रभम् ।
अङ्‌गणे रिङ्‌गमाणं तं तर्णकाननु सर्वतः ॥ ४६ ॥
दृष्ट्वा दशरथो राजा कौसल्या मुमुदे तदा ।
भोक्ष्यमाणो दशरथो राममेहीति चासकृत् ॥ ४७ ॥
आह्वयत्यतिहर्षेण प्रेम्णा नायाति लीलया ।
आनयेति च कौसल्यां आह सा सस्मिता सुतम् ॥ ४८ ॥
धावत्यपि न शक्नोति स्प्रष्टुं योगिमनोगतिम्
प्रहसन् स्वयमायाति कर्दमाङ्‌कितपाणिना ।
किञ्चिद्‍गृहीत्वा कवलं पुनरेव पलायते ॥ ४९ ॥
कौसल्या जननी तस्य मासि मासि प्रकुर्वती ।
वायनानि विचित्राणि समलङ्‍कृत्य राघवम् ॥ ५० ॥
अपूपान् मोदकान् कृत्वा कर्णशष्कुलिकास्तथा ।
कर्णपूरांश्च विविधान् वर्षवृद्धौ च वायनम् ॥ ५१ ॥
गृहकृत्यं तया त्यक्तं तस्य चापल्यकारणात् ।
एकदा रघुनाथोऽसौ गतो मातरमन्तिके ॥ ५२ ॥
भोजनं देहि मे मातः न शृतं कार्यसक्तया ।
ततः क्रोधेन भाण्डानि लगुडेनाहनत् तदा ॥ ५३ ॥
शिक्यस्थं पातयामास गव्यं च नवनीतकम् ।
लक्ष्मणाय ददौ रामो भरताय यथाक्रमम् ॥ ५४ ॥
शत्रुघ्नाय ददौ पश्चाद् दधि दुग्धं तथैव च ।
सूदेन कथिते मात्रे हास्यं कृत्वा प्रधावति ॥ ५५ ॥
आगतां तां विलोक्याथ ततः सर्वैः पलायितम् ।
कौसल्या धावमानापि प्रस्खलन्ती पदे पदे ॥ ५६ ॥
रघुनाथं करे धृत्वा किञ्चिन्नोवाच भामिनी ।
बालभावं समाश्रित्य मन्दं मन्दं रुरोद ह ॥ ५७ ॥
ते सर्वे लालिता मात्रा गाढं आलिङ्‌ग्य यत्‍नतः ।
एवं आनन्दसन्दोह जगदानन्दकारकः ॥ ५८ ॥
मायाबालवपुर्धृत्वा रमयामास दम्पती ।
अथ कालेन ते सर्वे कौमारं प्रतिपेदिरे ॥ ५९ ॥
उपनीता वसिष्ठेन सर्वविद्याविशारदाः ।
धनुर्वेदे च निरताः सर्वशास्त्रार्थवेदिनः ॥ ६० ॥
बभूवुर्जगतां नाथ लीलया नररूपिणः ।
लक्ष्मणस्तु सदा रामं अनुगच्छति सादरम् ॥ ६१ ॥
सेव्यसेवकभावेन शत्रुघ्नो भरतं तथा ।
रामश्चापधरो नित्यं तूणीबाणान्वितः प्रभुः ॥ ६२ ॥
अश्वारूढो वनं याति मृगयायै सलक्ष्मणः ।
हत्वा दुष्टमृगान् सर्वान् पित्रे सर्वं न्यवेदयत् ॥ ६३ ॥
प्रातरुत्थाय सुस्नातः पितरौ अभिवाद्य च ।
पौरकार्याणि सर्वाणि करोति विनयान्वितः ॥ ६४ ॥
बन्धुभिः सहितो नित्यं भुक्त्वा मुनिभिरन्वहम् ।
धर्मशास्त्र रहस्यानि शृणाति व्याकरोति च ॥ ६५ ॥
एवं परात्मा मनुजावतारो
मनुष्यलोकाननुसृत्य सर्वम्
चक्रेऽविकारी परिणामहीनो
विचार्यमाणे न करोति किञ्चित् ॥ ६६ ॥
इति श्रीमद् अध्यात्मरामयणे उमामहेश्वरसंवादे
बालकाण्डे तृतीयः सर्गः ॥ ३ ॥

GO TOP