॥ श्रीमद् अध्यात्मरामायण ॥

॥ युद्धकाण्ड ॥

॥ एकादशः सर्गः ॥

इत्युक्‍त्वा वचनं प्रेम्णा राज्ञीं मन्दोदरीं तदा ।
रावणः प्रययौ योद्धुं रामेण सह संयुगे ॥ १ ॥
दृढं स्यन्दनमास्थाय वृतो घोरैनिशाचरैः ।
चक्रैः षोडशभिर्युक्तं सवरूथं सकूबरम् ॥ २ ॥
पिशाचवदनैर्घोरैः खरैर्युक्तं भयावहम् ।
सर्वास्त्रशस्त्रसहितं सर्वोपस्करसंयुतम् ॥ ३ ॥
निश्चक्रामाथ सहसा रावणो भीषणाकृतिः ।
आयान्तं रावणं दृष्ट्वा भीषणं रणकर्कशम् ॥ ४ ॥
संत्रस्ताभूत्तदा सेना वानरी रामपालिता ॥ ५ ॥
हनूमानथ चोत्प्लुत्य रावणं योद्धुमाययौ ।
आगत्य हनुमान् रक्षो वक्षस्यतुलविक्रमः ॥ ६ ॥
मुष्टिबन्धं दृढं बद्‍ध्वा ताडयामास वेगतः ।
तेन मुष्टिप्रहारेण जानुभ्यामपतत् रथे ॥ ७ ॥
मूर्छितोऽथ मुहूर्तेन रावणः पुनरुत्थितः ।
उवाच च हनूमन्तं शूरोऽसि मम सम्मतः ॥ ८ ॥
हनूमानाह तं धिङ्‌मां यस्त्वं जीवसि रावण ।
त्वं तावन्मुष्टिना वक्षो मम ताडय रावण ॥ ९ ॥
पश्चान्मया हतः प्राणान् मोक्ष्यसे नात्र संशयः ।
तथेति मुष्टिना वक्षो रावणेनापि ताडितः ॥ १० ॥
विघूर्णमाननयनः किञ्चित् कश्मलमाययौ ।
संज्ञामवाप्य कपिराड् रावणं हन्तुमुद्यतः ॥ ११ ॥
ततोऽन्यत्र गतो भीत्या रावणो राक्षसाधिपः ।
हनूमानङ्‌गदश्चैव नलो नीलस्तथैव च ॥ १२ ॥
चत्वारः समवेत्याग्रे दृष्ट्वा राक्षसपुङ्‌गवान् ।
अग्निवर्णं तथा सर्प-रोमाणं खड्‌गरोमकम् ॥ १३ ॥
तथा वृश्चिकरोमाणं निर्जघ्नुः क्रमशोऽसुरान् ।
चत्वारश्चतुरो हत्वा राक्षसान् भीमविक्रमान् ।
सिंहनादं पृथक् कृत्वा रामपार्श्वमुपागताः ॥ १४ ॥
ततो क्रुद्धो दशग्रीवः सन्दश्य दशनच्छदम् ॥ १५ ॥
विवृत्य नयने क्रूरो राममेवान्वधावत ।
दशग्रीवो रथस्थस्तु रामं वज्रोपमैः शरैः ॥ १६ ॥
आजघान महाघोरैः धाराभिरिव तोयदः ।
रामस्य पुरतः सर्वान्वानरानपि विव्यथे ॥ १७ ॥
ततः पावकसङ्‌काशैः शरैः काञ्चनभूषणैः ।
अभ्यवर्षद् रणे रामो दशग्रीवं समाहितः ॥ १८ ॥
रथस्थं रावणं दृष्ट्वा भूमिष्ठं रघुनन्दनम् ।
आहूय मातलिं शक्रो वचनं चेदमब्रवीत् ॥ १९ ॥
रथेन मम भूमिष्ठं शीघ्रं याहि रघूत्तमम् ।
त्वरितं भूतलं गत्वा कुरु कार्यं ममानघ ॥ २० ॥
एवमुक्तोऽथ तं नत्वा मातलिर्देवसारथिः ।
ततो हयैश्च संयोज्य हरितैः स्यन्दनोत्तमम् ॥ २१ ॥
स्वर्गाज्जयार्थं रामस्य ह्युपचक्राम मातलिः ।
प्राञ्जलिर्देवराजेन प्रेषितोऽस्मि रघूत्तम ॥ २२ ॥
रथोऽयं देवराजस्य विजयाय तव प्रभो ।
प्रेषिताश्च महाराज धनुरैन्द्रं च भूषितम् ॥ २३ ॥
अभेद्यं कवचं खड्गं दिव्यतूणीयुगं तथा ।
आरुह्य च रथं राम रावणं जहि राक्षसम् ॥ २४ ॥
मया सारथिना देव वृत्रं देवपतिर्यथा ।
इत्युक्तस्तं परिक्रम्य नमस्कृत्य रथोत्तमम् ॥ २५ ॥
आरुरोह रथं रामो लोकाँल्लक्ष्म्या नियोजनम् ।
ततोऽभवन्महायुद्धं भैरवं रोमहर्षणम् ॥ २६ ॥
महात्मनो राघवस्य रावणस्य च धीमतः ।
आग्नेयेन च आग्नेयं दैवं दैवेन राघवः ॥ २७ ॥
अस्त्रं राक्षसराजस्य जघान परमास्त्रवित् ।
ततस्तु ससृजे घोरं राक्षसं चास्त्रमस्त्रवित् ।
क्रोधेन महताविष्टो रामस्योपरि रावणः ॥ २८ ॥
रावणस्य धनुर्मुक्ताः सर्पा भूत्वा महाविषाः ।
शराः काञ्चनपुङ्‌खाभा राघवं परितोऽपतन् ॥ २९ ॥
तैः शरैः सर्पवदनैः वमद्‌भिः अनलं मुखैः ।
दिशश्च विदिशश्चैव व्याप्तास्तत्र तदाभवन् ॥ ३० ॥
रामः सर्पांस्ततो दृष्ट्वा समन्तात् परिपूरितान् ।
सौपर्णमस्त्रं तद्‍घोरं पुरः प्रावर्तयत् रणे ॥ ३१ ॥
रामेण मुक्तास्ते बाणा भूत्वा गरुडरूपिणः ।
चिच्छिदुः सर्पबाणांस्तान् समन्तात्सर्पशत्रवः ॥ ३२ ॥
अस्त्रे प्रतिहते युद्धे रामेण दशकन्धरः ।
अभ्यवर्षत्ततो रामं घोराभिः शरवृष्टिभिः ॥ ३३ ॥
ततः पुनः शरानीकै राममक्लिष्टकारिणम् ।
अर्दयित्वा रथोपस्थे रथकेतुं च काञ्चनम् ॥ ३४ ॥
पातयित्वा रथोपस्थे रथकेतुं च काञ्चनम्
ऐन्द्रानश्वानभ्यहनत् रावणः क्रोधमूर्छितः ॥ ३५ ॥
विषेदुर्देवगन्धर्वाः चारणाः पितरस्तथा ।
आर्त्ताकारं हरिं दृष्ट्वा व्यथिताश्च महर्षयः ॥ ३६ ॥
व्यथिता वानरेन्द्राश्च बभूवुः सविभीषणाः ।
दशास्यो विंशतिभुजः प्रगृहीतशरासनः ॥ ३७ ॥
ददृशे रावणस्तत्र मैनाक इव पर्वतः ।
रामस्तु भ्रुकुटिं बद्‍ध्वा क्रोधसंरक्तलोचनः ॥ ३८ ॥
कोपं चकार सदृशं निर्दहन्निव राक्षसम् ।
धनुरादाय देवेन्द्र धनुराकारमद्‌भुतम् ॥ ३९ ॥
गृहीत्वा पाणिना बाणं कालानलसमप्रभम् ।
निर्दहन्निव चक्षुर्भ्यां ददृशे रिपुमन्तिके ॥ ४० ॥
पराक्रमं दर्शयितुं तेजसा प्रज्वलन्निव ।
प्रचक्रमे कालरूपी सर्वलोकस्य पश्यतः ॥ ४१ ॥
विकृष्य चापं रामस्तु रावणं प्रतिविध्य च ।
हर्षयन् वानरानीकं कालान्तक इवाबभौ ॥ ४३ ॥
क्रुद्धं रामस्य वदनं दृष्ट्वा शत्रुं प्रधावतः ।
तत्रसुः सर्वभूतानि चचाल च वसुन्धरा ॥ ४३ ॥
रामं दृष्ट्वा महारौद्रं उत्पातांश्च सुदारुणान् ।
त्रस्तानि सर्वभूतानि रावणं चाविशद्‌भयम् ॥ ४४ ॥
विमानस्था सुरगणाः सिद्धगन्धर्वकिन्नराः ।
ददृशुः सुमहायुद्धं लोकसंवर्तकोपमम् ।
ऐन्द्रमस्त्रं समादाय रावणस्य शिरोऽच्छिनत् ॥ ४५ ॥
मूर्धानो रावणस्याथ बहवो रुधिरोक्षिताः ।
गगनात् प्रपतन्ति स्म तालादिव फलानि हि ॥ ४६ ॥
न दिनं न च वै रात्रिः न सन्ध्यां न दिशोऽपि वा ।
प्रकाशन्ते न तद्‌रूपं दृश्यते तत्र सङ्‌गरे ॥ ४७ ॥
ततो रामो बभूवाथ विस्मयाविष्टमानसः ।
शतमेकोत्तरं छिन्नं शिरसां चैकवर्चसाम् ॥ ४८ ॥
न चैव रावणः शान्तो दृश्यते जीवितक्षयात् ।
ततः सर्वास्त्रविद्धिरः कौसल्यानन्दवर्धनः ॥ ४९ ॥
अस्त्रैश्च बहुभिर्युक्तः चिन्तयामास राघवः ।
यैर्यैर्बाणैर्हता दैत्या महासत्त्वपराक्रमाः ॥ ५० ॥
ते एते निष्फलं याता रावणस्य निपातने ।
इति चिन्ताकुले रामे समीपस्थो विभीषणः ॥ ५१ ॥
उवाच राघवं वाक्यं ब्रह्मदत्तवरो ह्यसौ ।
विच्छिन्ना बाहवोऽप्यस्य विच्छिन्ननि शिरांसि च ॥ ५२ ॥
उत्पत्स्यन्ति पुनः शीघ्रं इत्याह भगवानजः ।
नाभिदेशेऽमृतं तस्य कुण्डलाकारसंस्थितम् ॥ ५३ ॥
तच्छोषय अनलास्त्रेन तस्य मृत्युस्ततो भवेत् ।
विभीषणवचः श्रुत्वा रामः शीघ्रपराक्रमः ॥ ५४ ॥
पावकास्त्रेण संयोज्य नाभिं विव्याध रक्षसः ।
अनन्तरं च चिच्छेद शिरांसि च महाबलः ॥ ५५ ॥
बाहूनपि च संरब्धो रावणस्य रघूत्तमः ।
ततो घोरां महाशक्तिं आदाय दशकन्धरः ॥ ५६ ॥
विभीषणवधार्थाय चिक्षेप क्रोधविह्वलः ।
चिच्छेद राघवो बाणैः तां शितैर्हेमभूषितैः ॥ ५७ ॥
दशग्रीवशिरच्छेदात् तदा तेजोविनिर्गतम् ।
म्लानरूपो बभूवाथ छिन्नैः शीर्षैर्भयङ्‌करैः ॥ ५८ ॥
एकेन मुख्यशिरसा बाहुभ्यां रावणौ बभौ ।
रावणस्तु पुनः क्रुद्धो नानाशस्त्रास्त्रवृष्टिभिः ॥ ५९ ॥
ववर्ष रामं तं रामः तथा बाणैर्ववर्ष च ।
ततो युद्धं अभूद्‍घोरं तुमुलं लोमहर्षणम् ॥ ६० ॥
अथ संस्मारयामास मातली राघवं तदा ।
विसृजास्त्रं वधायास्य ब्राह्मं शीघ्रं रघूत्तम ॥ ६१ ॥
विनाशकालः प्रथितो यः सुरैः सोऽद्य वर्तते ।
उत्तमाङ्‌गं न चैतस्य छेत्तव्यं राघव त्वया ॥ ६२ ॥
नैव शीर्ष्णि प्रभो वध्यो वध्य एव हि मर्मणि ।
ततः संस्मारितो रामः तेन वाक्येन मातलेः ॥ ६३ ॥
जग्राह स शरं दीप्तं निःश्वसंतं इवोरगम् ।
यस्य पार्श्वे तु पवनः फले भास्करपावकौ ॥ ६४ ॥
शरीरमाकाशमयं गौरवे मेरुमन्दरौ ।
पर्वस्वपि च विन्यस्ता लोकपाला महौजसः ॥ ६५ ॥
जाज्वल्यमानं वपुषा भातं भास्करवर्चसा ।
तमुग्रमस्त्रं लोकानां भयनाशनमद्‌भुतम् ॥ ६६ ॥
अभिमंत्र्य ततो रामः तं महेषुं महाभुजः ।
वेदप्रोक्तेन विधिना सन्दधे कार्मुके बली ॥ ६७ ॥
तस्मिन्सन्धीयमाने तु राघवेण शरोत्तमे ।
सर्वभूतानि वित्रेसुः चचाल च वसुन्धरा ॥ ६८ ॥
स रावणाय सङ्‌क्रुद्धो भृशमानम्य कार्मुकम् ।
चिक्षेप परमायत्तः तमस्त्रं मर्मघातिनम् ॥ ६९ ॥
स वज्र एव दुर्धर्षो वज्रपाणिविसर्जितः ।
कृतान्त इव घोरास्यो न्यपतत् रावणोरसि ॥ ७० ॥
स निमग्नो महाघोरः शरीरान्तकरः परः ।
बिभेद हृदयं तूर्णं रावणस्य महात्मनः ॥ ७१ ॥
रावणस्याहरत्प्राणान् विवेश धरणितले ।
स शरो रावणं हत्वा रामतूणीरमाविशत् ॥ ७२ ॥
तस्य हस्तात्पपाताशु सशरं कार्मुकं महत् ।
गतासुर्भ्रमिवेगेन राक्षसेन्द्रोऽपतद्‌भुवि ॥ ७३ ॥
तं दृष्ट्वा पतितं भूमौ हतशेषाश्च राक्षसाः ।
हतनाथा भयत्रस्ता दुद्रुवुः सर्वतोदिशम् ॥ ७४ ॥
दशग्रीवस्य निधनं विजयं राघवस्य च ।
ततो विनेदुः संहृष्टा वानरा जितकाशिनः ॥ ७५ ॥
वदन्तो रामविजयं रावणस्य च तद्वधम् ।
अथान्तरिक्षे व्यनदत् सौम्यस्त्रिदशदुन्दुभिः ॥ ७६ ॥
पपात पुष्पवृष्टिश्च समन्ताद् राघवोपरि ।
तुष्टुवुर्मुनयः सिद्धाः चारणाश्च दिवौकसः ॥ ७७ ॥
अथान्तरिक्षे ननृतुः सर्वतोऽप्सरो मुदा ।
रावणस्य च देहोत्थं ज्योतिरादित्यवत्स्फुरत् ॥ ७८ ॥
प्रविवेश रघुश्रेष्ठं देवानां पश्यतां सताम् ।
देवा ऊचुरहो भाग्यं रावणस्य महात्मनः ॥ ७९ ॥
वयं तु सात्त्विका देवा विष्णोः कारुण्यभाजनाः ।
भयदुःखादिभिर्व्याप्ताः संसाते परिवर्तिनः ॥ ८० ॥
अयं तु राक्षसः क्रूरो ब्रह्महातीव तामसः ।
परदारारतो विष्णु-द्वेषी तापसहिंसकः ॥ ८१ ॥
पश्यत्सु सर्वभूतेषु राममेव प्रविष्टवान् ।
एवं ब्रुवत्सु देवेषु नारदः प्राह सुस्मितः ॥ ८२ ॥
शृणुतात्र सुरा यूयं धर्मतत्त्वविचक्षणाः ।
रावणो राघवद्वेषाद् अनिशं हृदि भावयन् ॥ ८३ ॥
भृत्यैः सह सदा राम-चरितं द्वेषसंयुतः ।
श्रुत्वा रामात्स्वनिधनं भयात्सर्वत्र राघवम् ॥ ८४ ॥
पश्यन् अनुदिनं स्वप्ने राममेवानुपश्यति ।
क्रोधोऽपि रावणस्याशु गुरुबोधाधिकोऽभवत् ॥ ८५ ॥
रामेण निहतश्चान्ते निर्धूताशेषकल्मषः ।
रामसायुज्यमेवाप रावणो मुक्तबन्धनः ॥ ८६ ॥
पापिष्ठो वा दुरात्मा परधनपरदारेषु सक्तो यदि स्यात्-
नित्यं स्नेहाद्‌भयाद्वा रघुकुलतिलकं भावयन् संपरेतः ।
भूत्वा शुद्धातरङ्‌गो भवशतजनितानेकदोषैर्विमुक्तः
सद्यो रामस्य विष्णोः सुरवरविनुतं याति वैकुण्ठमाद्यम् ॥ ८७ ॥
हत्वा युद्धे दशास्यं त्रिभुवनविषमं वामहस्तेन चापं
भुमौ विष्टभ्य तिष्ठन् इतरकरधृतं भ्रामयन्बाणमेकम् ।
आरक्तोपान्तनेत्रः शरदलितवपुः सूर्यकोटिप्रकाशो
वीरश्रीबन्धुराङ्‌गस्त्रिदशपतिनुतः पातु मां वीररामः ॥ ८८ ॥
इति श्रीमद् अध्यात्मरामायणे उमामहेश्वरसंवादे
युद्धकाण्डे एकादशः सर्गः ॥ ११ ॥

GO TOP