॥ श्रीमद् अध्यात्मरामायण ॥

॥ उत्तरकाण्ड ॥

॥ चतुर्थः सर्ग: ॥

श्रीमहादेव उवाच

एकदा ब्रह्मणो लोकात् आयान्तं नारदं मुनिम् ।
पर्यटन् रावणो लोकान् दृष्ट्वा नत्वाब्रवीद्वचः ॥ १ ॥
भगवन् ब्रूहि मे योद्धुं कुत्र सन्ति महाबलाः ।
योद्धुमिच्छामि बलिभिः त्वं ज्ञातासि जगत्त्रयम् ॥ २ ॥
मुनिर्ध्यात्वाह सुचिरं श्वेतद्वीपनिवासिनः ।
महाबला महाकायाः तत्र याहि महामते ॥ ३ ॥
विष्णुपूजारता ये वै विष्णुना निहताश्च ये ।
त एव तत्र सञ्जाता अजेयाश्च सुरासुरैः ॥ ४ ॥
श्रुत्वा तद् रावणो वेगात् मन्‍त्रिभिः पुष्पकेण तान् ।
योद्धुकामः समागत्य श्वेतद्वीपासमीपतः ॥ ५ ॥
तत्प्रभाहततेजस्कं पुष्पकं नाचलत् ततः ।
त्यक्‍त्वा विमानं प्रययौ मन्‍त्रिणश्च दशाननः ॥ ६ ॥
प्रविशन्नेव तद्‍द्वीपं धृतो हस्तेन योषिता ।
पृष्टश्च त्वं कुतः कोऽसि प्रेषितः केन वा वद ॥ ७ ॥
इत्युक्तो लीलया स्त्रीभिः हसन्तीभिः पुनः पुनः ।
कृच्छ्राद् हस्ताद् विनिर्मुक्तः तासां स्त्रीणां दशाननः ॥ ८ ॥
आश्चर्यमतुलं लब्ध्वा चिन्तयामास दुर्मतिः ।
विष्णुना निहतो यामि वैकुण्ठमिति निश्चितः ॥ ९ ॥
मयि विष्णुर्यथा कुप्येत् तथा कार्यं करोम्यहम् ।
इति निश्चित्य वैदेहीं जहार विपिनेऽसुरः ॥ १० ॥
जानन्नेव परात्मानं स जहार अवनीसुताम् ।
मातृवत्पालयामास त्वत्तः काङ्‍क्षन्वधं स्वकम् ॥ ११ ॥
राम त्वं परमेश्वरोऽसि सकलं जानासि विज्ञानदृग्
भूतं भव्यमिदं त्रिकालकलना साक्षी विकल्पोज्झितः ।
भक्तानां अनुवर्तनाय सकलां कुर्वन् क्रियासंहतिं
त्वं शृण्वन्मनुजाकृतिर्मुनिवचो भासीश लोकार्चितः ॥ १२ ॥
स्तुत्वैवं राघवं तेन पूजितः कुम्भसम्भवः ।
स्वाश्रमं मुनिभिः सार्धं प्रययौ हृष्टमानसः ॥ १३ ॥
रामस्तु सीतया सार्धं भ्रातृभिः सह मन्‍त्रिभिः ।
संसारीव रमानाथो रममाणोऽवसद्‍गृहे ॥ १४ ॥
अनासक्तोऽपि विषयान् बुभुजे प्रियया सह ।
हनुमत्प्रमुखैः सद्‌भिः वानरैः परिवेष्टितः ॥ १५ ॥
पुष्पकं चागमद्‍रामं एकदा पूर्ववत्प्रभुम् ।
प्राह देव कुबेरेण प्रेषितं त्वामहं ततः ॥ १६ ॥
जितं त्वं रावणेनादौ पश्चाद्‍रामेण निर्जितम् ।
अतस्त्वं राघवं नित्यं वह यावद्वसेद्‌भुवि ॥ १७ ॥
यदा गच्छेत् रघुश्रेष्ठो वैकुण्ठं याहि मां तदा ।
तच्छ्रुत्वा राघवः प्राह पुष्पकं सूर्यसन्निभम् ॥ १८ ॥
यद स्मरामि भद्रं ते तदागच्छ ममान्तिकम् ।
तिष्ठान्तर्धाय सर्वत्र गच्छेदानीं ममाज्ञया ॥ १९ ॥
इत्युक्‍त्वा रामचन्द्रोऽपि पौरकार्याणि सर्वशः ।
भ्रातृभिर्मन्‍त्रिभिः सार्थं यथान्यायं चकार सः ॥ २० ॥
राघवे शासति भुवं लोकनाथे रमापतौ ।
वसुधा सस्यसम्पन्ना फलवन्तश्च भूरुहाः ॥ २१ ॥
जना धर्मपराः सर्वे पतिभक्तिपराः स्त्रियः ।
नापश्यत्पुत्रमरणं कश्चित् राजनि राघवे ॥ २२ ॥
समारुह्य विमानाग्र्यं राघवः सीतया सह ।
वानरैर्भ्रातृभिः सार्धं सञ्चचारावनिं प्रभुः ॥ २३ ॥
अमानुषाणि कार्याणि चकार बहुशो भुवि ।
ब्राह्मणस्य सुतं दृष्ट्वा बालं मृतमकालतः ॥ २४ ॥
शोचन्तं ब्राह्मणं चापि ज्ञात्वा रामो महापतिः ।
तपस्यन्तं वने शूद्रं हत्वा ब्राह्मणबालकम् ॥ २५ ॥
जीवयामास शूद्रस्य ददौ स्वर्गमनुत्तमम् ।
लोकानां उपदेशार्थं परमात्मा रघूत्तमः ॥ २६ ॥
कोटिशः स्थापयामास शिवलिङ्‌गानि सर्वशः ।
सीतां च रमयामास सर्वभोगैरमानुषैः ॥ २७ ॥
शशास रामो धर्मेण राज्यं परमधर्मवित् ।
कथां संस्थापयामास सर्वलोकमलापहाम् ॥ २८ ॥
दशवर्षसहस्राणि मायामानुषविग्रहः ।
चकार राज्यं विधिवत् लोकवन्द्यपदाम्बुजः ॥ २९ ॥
एकपत्‍नीव्रतो रामो राजर्षिः सर्वदा शुचिः ।
गृहमेधीयमखिलं आचरन् शिक्षयन् जनान् ॥ ३० ॥
सीता प्रेम्णानुवृत्त्या च प्रश्रयेण दमेन च ।
भर्तुर्मनोहरा साध्वी भावज्ञा सा ह्रिया भिया ॥ ३१ ॥
एकदाक्रीडविपिने सर्वभोगसमन्विते ।
एकान्ते दिव्यभवने सुखासिनं रघुत्तमम् ॥ ३२ ॥
नीलमाणिक्यसंकाशं दिव्याभरणभूषितम् ।
प्रसन्नवदनं शान्तं विद्युत्पुञ्जनिभाम्बरम् ॥ ३३ ॥
सीता कमलपत्राक्षी सर्वाभरणभूषिता ।
राममाह कराभ्यां सा लालयन्ती पदाम्बुजे ॥ ३४ ॥
देवदेव जगन्नाथ परमात्मन् सनातन ।
चिदानन्दादिमध्यान्त रहिताशेषकारण ॥ ३५ ॥
देव देवाः समासाद्य मामेकान्तेऽब्रुवन्वचः ।
बहुशोऽर्थयमानास्ते वैकुण्ठागमनं प्रति ॥ ३६ ॥
त्वया समेतश्चिच्छक्‍त्या रामस्तिष्ठति भूतले ।
विसृज्यास्मान् स्वकं धाम वैकुण्ठं च सनातनम् ॥ ३७ ॥
आस्ते त्वया जगद्धात्रि रामः कमललोचनः ।
अग्रतो याहि वैकुण्ठं त्वं तथा चेत् रघुत्तमः ॥ ३८ ॥
आगमिष्यति वैकुण्ठं सनाथान्नः करिष्यति ।
इति विज्ञापिताहं तैः मया विज्ञापितो भवान् ॥ ३९ ॥
यद्युक्तं तत्कुरुष्वाद्य नाहमाज्ञापये प्रभो ।
सीतायास्तद्वचः श्रुत्वा रामो ध्यात्वाब्रवीत्क्षणम् ॥ ४० ॥
देवि जानामि सकलं तत्रोपायं वदामि ते ।
कल्पयित्वा मिषं देवि लोकवादं त्वदाशयम् ॥ ४१ ॥
त्यजामि त्वां वने लोक-वादाद्‌भीत इवापरः ।
भविष्यतः कुमारौ द्वौ वाल्मीकेराश्रमान्तिके ॥ ४२ ॥
इदानीं दृश्यते गर्भः पुनरागत्य मेऽन्तिकम् ।
लोकानां प्रत्ययार्थं त्वं कृत्वा शपथमादरात् ॥ ४३ ॥
भूमेर्विवरमात्रेण वैकुण्ठं यास्यसि द्रुतम् ।
पश्चादहं गमिष्यामि एष एव सुनिश्चयः ॥ ४४ ॥
इत्युक्‍त्वा तां विसृज्याथ रामो ज्ञानैकलक्षणः ।
मन्‍त्रिभिः मन्‍त्रतत्त्वज्ञैः बलमुख्यैश्च संवृतः ॥ ४५ ॥
तत्रोपविष्टं श्रीरामं सुहृदः पर्युपासत ।
हास्यप्रौढकथासुज्ञा हासयन्तः स्थिता हरिम् ॥ ४६ ॥
कथाप्रसङ्‍गात् पप्रच्छ रामो विजयनामकम् ।
पौरा जानपदा मे किं वन्दतीह शुभाशुभम् ॥ ४७ ॥
सीतां वा मातरं वा मे भ्रातृन्वा कैकयीमथ ।
न भेतव्यं त्वया ब्रूहि शपितोऽसि ममोपरि ॥ ४८ ॥
इत्युक्तः प्राह विजयो देव सर्वे वदन्ति ते ।
कृतं सुदुष्करं सर्वं रामेण विदितात्मना ॥ ४९ ॥
किन्तु हत्वा दशग्रीवं सीतामाहृत्य राघवः ।
अमर्षं पृष्ठतः कृत्वा स्वं वेश्म प्रत्यपादयत् ॥ ५० ॥
कीदृशं हृदये तस्य सीतासम्भोगजं सुखम् ।
या हृता विजनेऽरण्ये रावणेन दुरात्मना ॥ ५१ ॥
अस्माकमपि दुष्कर्म योषितां मर्षणं भवेत् ।
यादृग् भवति वै राजा ताद्‍उश्यो नियतं प्रजाः ॥ ५२ ॥
श्रुत्वा तद्वचनं रामः स्वजनान् पर्यपृच्छत ।
तेऽपि नत्वाब्रुवन् रामं एवमेतन्न संशयः ॥ ५३ ॥
ततो विसृज्य सचिवान् विजयं सुहृदस्तथा ।
आहूय लक्ष्मणं रामो वचनं चेदमब्रवीत् ॥ ५४ ॥
लोकापवादस्तु महान् सीतामाश्रित्य मेऽभवत् ।
सीतां प्रातः समानीय वाल्मीकेराश्रमान्तिके ॥ ५५ ॥
त्यक्‍त्वा शीघ्रं रथेन त्वं पुनरायाहि लक्ष्मण ।
वक्ष्यसे यदि वा किञ्चित् तदा मां हतवानसि ॥ ५६ ॥
इत्युक्‍त्वा लक्ष्मणो भीत्या प्रातरुत्थाय जानकीम् ।
सुमन्‍त्रेण रथे कृत्वा जगाम सहसा वनम् ॥ ५७ ॥
वाल्मीकेराश्रमस्यान्ते त्यक्‍त्वा सीतां उवाच सः ।
लोकापवादभीत्या त्वां त्यक्तवान् राघवो वने ॥ ५८ ॥
दोषो न कश्चिन्मे मातः गच्छाश्रमपदं मुनेः ।
इत्युक्‍त्वा लक्ष्मणः शीघ्रं गतवान् रामसन्निधिम् ॥ ५९ ॥
सीतापि दुःखसन्तप्ता विललापाति मुग्धवत् ।
शिष्यैः श्रुत्वा च वाल्मीकिः सीतां ज्ञात्वा स दिव्यदृक् ॥ ६० ॥
अर्घ्यादिभिः पूजयित्वा समाश्वास्य च जानकीम् ।
ज्ञात्वा भविष्यं सकलां अर्पयन् मुनियोषिताम् ॥ ६१ ॥
तास्तां सम्पूजयन्ति स्म सीतां भक्त्या दिने दिने ।
ज्ञात्वा परात्मनो लक्ष्मीं मुनिवाक्येन योषितः ।
सेवा चक्रुः सदा तस्या विनयादिभिरादरात् ॥ ६२ ॥
रामोऽपि सीतारहितः परात्मा
विज्ञानदृक् केवल आदिदेवः ।
सन्त्यज्य भोगानखिलान्विरक्तो
मुनिव्रतोऽभून् मुनिसेविताङ्‌घ्रिः ॥ ६३ ॥
इति श्रीमद् अध्यात्मरामायणे उमामहेश्वरसंवादे
उत्तरकाण्डे चतुथः सर्गः ॥ ४ ॥

GO TOP