॥ श्रीमद् अध्यात्मरामायण ॥

॥ उत्तरकाण्ड ॥

॥ नवमः सर्गः ॥

श्री महादेव उवाच

लक्ष्मणं तु परित्यज्य रामो दुःखसमन्वितः ।
मन्‍त्रिणो नैगमांश्चैव वसिष्ठं चेदमब्रवीत् ॥ १ ॥
अभिषेक्ष्यामि भरतं अधिराज्ये महामतिम् ।
अद्य चाहं गमिष्यामि लक्ष्मणस्य पदानुगः ॥ २ ॥
एवमुक्ते रघुश्रेष्ठे पौरजानपदास्तदा ।
द्रुमा इवच्छिन्नमूला दुःखार्ताः पतिता भुवि ॥ ३ ॥
मूर्छितो भरतो वापि श्रुत्वा रामाभिभाषितम् ।
गर्हयामास राज्यं स प्राहेदं रामसन्निधौ ॥ ४ ॥
सत्येन च शपे नाहं त्वां विना दिवि वा भुवि ।
काङ्‍क्षे राज्यं रघुश्रेष्ठ शपे त्वत्पादयोः प्रभो ॥ ५ ॥
इमौ कुशलवौ राजन् अभिषिञ्चस्व राघव ।
कोशलेषु कुशं वीरं उत्तरेषु लवं तथा ॥ ६ ॥
गच्छन्तु दूतास्त्वरितं शत्रुघ्नानयनाय हि ।
अस्माकमेतद्‍गमनं स्वर्वासाय शृणोतु सः ॥ ७ ॥
भरतेनोदितं श्रुत्वा पतितास्ताः समीक्ष्य तम् ।
प्रजाश्च भयसंविग्ना रामविश्लेषकातराः ॥ ८ ॥
वसिष्ठो भगवान् रामं उवाच सदयं वचः ।
पश्य तातादरात्सर्वाः पतिता भूतले प्रजाः ॥ ९ ॥
तासां भावानुगं राम प्रसादं कर्तुमर्हसि ।
श्रुत्वा वसिष्ठवचनं ताः समुत्थाप्य पूज्य च ॥ १० ॥
सस्नेहो रघुनाथस्ताः किं करोमीति चाब्रवीत् ।
ततः प्राञ्जलयः प्रोचुः प्रजा भक्त्या रघूद्वहम् ॥ ११ ॥
गन्तुमिच्छसि यत्र त्वं अनुगच्छामहे वयम् ।
अस्माकमेषा परमा प्रीतिर्धर्मोऽयमक्षयः ॥ १२ ॥
तवानुगमने राम हृद्‍गता नो दृढा मतिः ।
पुत्रदारादिभिः सार्धं अनुयामोऽद्य सर्वथा ॥ १३ ॥
तपोवनं वा स्वर्गं वा पुरं वा रघुनन्दन ।
ज्ञात्वा तेषां मनोदार्ढ्यं कालस्य वचनं तथा ॥ १४ ॥
भक्तं पौरजनं चैव बाढमित्याह राघवः ।
कृत्यैव निश्चयं रामः तस्मिन्नेवाहनि प्रभुः ॥ १५ ॥
प्रस्थापयामास च तौ रामभद्रः कुशीलवौ ।
अष्टौ रथसहस्राणि सहस्रं चैव दन्तिनाम् ॥ १६ ॥
सष्टिं चाश्वसहस्राणां एकैकस्मै ददौ बलम् ।
बहुरत्‍नौ बहुधनौ हृष्टपुष्टजनावृतौ ॥ १७ ॥
अभिवाद्य गतौ रामं कृच्छ्रेण तु कुशीलवौ ।
शत्रुघ्नानयने दूतान् प्रेषयामास राघवः ॥ १८ ॥
ते दूतास्त्वरितं गत्वा शत्रुघ्नाय न्यवेदयन् ।
कालस्यागमनं पश्चात् अत्रिपुत्रस्य चेष्टितम् ॥ १९ ॥
लक्ष्मणस्य च निर्याणं प्रतिज्ञां राघवस्य च ।
पुत्राभिषेचनं चैव सर्वं रामचिकीर्षितम् ॥ २० ॥
श्रुत्वा तद् दूतवचनं श्त्रुघ्नः कुलनाशनम् ।
व्यथितोऽपि धृतिं लब्ध्वा पुत्रौ आहूय सत्वरः ।
अभिषिच्य सुबाहुं वै मथुरायां महाबलः ॥ २१ ॥
यूपकेतुं च विदिशानगरे शत्रुसूदनः ।
अयोध्यां त्वरितं प्रागात् स्वयं रामदिदृक्षया ॥ २२ ॥
ददर्श च महात्मानं तेजसा ज्वलनप्रभम् ।
दुकूलयुगसंवीतं ऋषिभिश्चाक्षयैर्वृतम् ॥ २३ ॥
अभिवाद्य रमानाथं शत्रुघ्नौ रघुपुङ्‍गवम् ।
प्राञ्जलिर्धर्मसहितं वाक्यं प्राह महामतिः ॥ २४ ॥
अभिषिच्य सुतौ तत्र राज्ये राजीवलोचन ।
तवानुगमने राजन् विद्धि मां कृतनिश्चयम् ॥ २५ ॥
त्यक्तुं नार्हसि मां वीर भक्तं तव विशेषतः ।
शत्रुघ्नस्य दृढां बुद्धिं विज्ञाय रघुनन्दनः ॥ २६ ॥
सज्जिभवतु मध्याह्ने भवानित्यब्रवीद्वचः ।
अथ क्षणात् समुत्पेतुः वानराः कामरूपिणः ॥ २७ ॥
ऋक्षाश्च राक्षसाश्चैव गोपुच्छाश्च सहस्रशः ।
ऋषीणां देवतानां च पुत्रा रामस्य निर्गमम् ॥ २८ ॥
श्रुत्वा प्रोचू रघुश्रेष्ठं सर्वे वानरराक्षसाः ।
तवानुगमने विद्धि निश्चितार्थान्हि नः प्रभो ॥ २९ ॥
एतस्मिन् अन्तरे रामं सुग्रीवोऽपि महाबलः ।
यथावत् अभिवाद्याह राघवं भक्तवत्सलम् ॥ ३० ॥
अभिषिच्याङ्‍गदं राज्ये आगतोऽस्मि महाबलम् ।
तवानुगमने राम विद्धि मां कृतनिश्चयम् ॥ ३१ ॥
श्रुत्वां तेषां दृढं वाक्यं ऋक्ष वानर रक्षसाम् ।
विभीषणमुवाचेदं वचनं मृदु सादरम् ॥ ३२ ॥
धरिष्यति धरा यावत् प्रजाः तावत् प्रशाधि मे ।
वचनात् राक्षसं राज्यं शापितोऽसि ममोपरि ॥ ३३ ॥
न किञ्चिदुत्तरं वाच्यं त्वया मत्कृतकारणात् ।
एवं विभीषणं तु उक्‍त्वा हनूमन्तमथाब्रवीत् ॥ ३४ ॥
मारुते त्वं चिरञ्जीव ममाज्ञां मा मृषा कृथाः ।
जाम्बवन्तमथ प्राह तिष्ठ त्वं द्वापरान्तते । ३५ ॥
मया सार्धं भवेद् युद्धं यत्किञ्चित् कारणान्तरे ।
ततस्तान् राघवः प्राह ऋक्षराक्षसवानरान् ।
सर्वानेव मया सार्धं प्रयातेति दयान्वितः ॥ ३६ ॥
ततः प्रभाते रघुवंशनाथो
विशालवक्षाः सितकञ्जनेत्रः ।
पुरोधसं प्राह वसिष्ठमार्यं
यान्त्वग्निहोत्राणि पुरो गुणो मे । ३७ ॥
ततो वसिष्ठोऽपि चकार सर्वं
प्रास्थानिकं कर्म महद्विधानात् ।
क्षौमाम्बरो दर्भपवित्रपाणिः
महाप्रयाणाय गृहीतबुद्धीः ॥ ३८ ॥
निष्क्रम्य रामो नगरात्सिताभ्रात्
शशीव यातः शशिकोटिकान्तिः ।
रामस्य सव्ये सितपद्महस्ता
पद्मा गता पद्मविशालनेत्रा ॥ ३९ ॥
पार्श्वेऽथ दक्षेऽरुणकञ्जहस्ता
श्यामा ययौ भूरपि दीप्यमाना ।
शास्त्राणि शस्त्राणि धनुश्च बाणा
जग्मुः पुरस्ताद् धृतविग्रहास्ते ॥ ४० ॥
वेदाश्च सर्वे धृतिविग्रहाश्च
ययुश्च सर्वे मुनयश्च दिव्याः ।
माता श्रुतीनां प्रणवेन साध्वी
ययौ हरिं व्याहृतिभिः समेता ॥ ४१ ॥
गच्छन्तमेवानुगता जनास्ते
सपुत्रदाराः सह बन्धुवर्गैः ।
अनावृतद्वारमिवापवर्ग
रामं व्रजन्तं ययुराप्तकामाः ।
सान्तःपुरः सानुचरः सभार्यः
शत्रुघ्नयुक्तो भरतोऽनुयातः ॥ ४२ ॥
गच्छन्तमालोक्य रमासमेतं
श्रीराघवं पौरजनाः समस्ताः ।
सबालवृद्धाश्च ययुर्द्विजाग्र्याः
सामात्यवर्गश्च समंत्रिणो ययुः ॥ ४३ ॥
सवे गताःक्षत्रमुखाप्रहृष्टा
वैश्याश्च शूद्राश्च तथा परे च ।
सुग्रीवमुख्या हरिपुङ्‌गवाश्च
स्नाता विशुद्धाः शुभशब्दयुक्ताः ॥ ४४ ॥
न कश्चित् आसीत् ‍भवदुःखयुक्तो
दीनोऽथवा बाह्यसुखेषु सक्तः ।
आनदरूपानुगता विरक्ता
ययुश्च रामं पशुभृत्यवर्गैः ॥ ४५ ॥
भूतान्यदृश्यानि च यानि तत्र
ये प्राणिनः स्थावरजङ्‌गमाश्च ।
साक्षात्परात्मानमनन्तशक्तिं
जग्मुर्विमुक्ताः परमेकमीशम् ॥ ४६ ॥
नासीदयोध्यानगरे तु जन्तुः
कश्चित्तदा राममना न यातः ।
शून्यं बभूवाखिलमेव तत्र
पुरं गते राजनि रामचन्द्रे ॥ ४७ ॥
ततोऽदूरं नगरात्स गत्वा
दृष्ट्वा नदीं तां हरिनेत्रजाताम् ।
ननन्द रामः स्मृतपावनोऽतो
ददर्श चाशेषमिदं हृदिस्थम् ॥ ४८ ॥
अथागतस्तत्र पितामहो महान्
देवाश्च सर्वे ऋषयश्च सिद्धाः ।
विमानकोटीभिरपारपारं
समावृतं खं सुरसेविताभिः ॥ ४९ ॥
रविप्रकाशाभिरभिस्फुरत्स्वं
ज्योतिर्मयं तत्र नभो बभूव ।
स्वयंप्रकाशैर्महतां महद्‌भिः
समावृतं पुण्यकृतां वरिष्ठैः ॥ ५० ॥
ववुश्च वाताश्च सुगन्धवन्तो
ववर्ष वृष्टिः कुसुमावलीनाम् ।
उपस्थिते देवमृदङ्‍गनादे
गायत्सु विद्याधरकिन्नरेषु ॥ ५१ ॥
रामस्तु पद्‌भ्यां सरयूजलं सकृत्
स्पृष्ट्वा परिक्रामदनन्तशक्तिः ।
ब्रह्मा तदा प्राह कृताञ्जलिस्तं
रामं परात्मन् परमेश्वरस्त्वम् ॥ ५२ ॥
विष्णुः सदानन्दमयोऽसि पूर्णो
जानासि तत्त्वं निजमैशमेकम् ।
तथापि दासस्य ममाखिलेश
कृतं वचो भक्तपरोऽसि विद्वन् ॥ ५३ ॥
त्वं भ्रातृभिर्वैष्णवमेवमाद्यं
प्रविश्य देहं परिपाहि देवान् ।
यद्वा परो वा यदि रोचते तं
प्रविश्य देहं परिपाहि नस्त्वम् ॥ ५४ ॥
त्वमेव देवाधिपतिश्च विष्णुः
जानन्ति न त्वां पुरुषा विना माम् ।
सहस्रकृत्वस्तु नमो नमस्ते
प्रसीद देवेश पुनर्नमस्ते ॥ ५५ ॥
पितामहर्थनया स रामः
पश्यत्सु देवेषु महाप्रकाशः ।
मुष्णंश्च चक्षूंषि दिवौकसां तदा
बभूव चक्रादि युतश्चतुर्भुजः ॥ ५६ ॥
शेषो बभूवेश्वरतल्पभूतः
सौमित्रिरत्यद्‌भुतभोगधारी ।
बभूवतुश्चक्राधरौ च दिव्यौ
कैकेयिसूनूर्लवणान्तकश्च ॥ ५७ ॥
सीता च लक्ष्मीरभवत्पुरेव
रामो हि विष्णुः पुरुषः पुराणः ।
सहानुजः पूर्वशरीरकेण
बभूव तेजोमयदिव्यमूर्तिः ॥ ५८ ॥
विष्णुं समासाद्य सुरेन्द्रमुख्या
देवाश्च सिद्धा मुनयश्च दक्षाः ।
पितामहाद्याः परितः परेशं
स्तवैर्गृणन्तः परिपूजयन्तः ॥ ५९ ॥
आनन्द्संप्लावितपूर्णचित्ता
बभूविरे प्राप्तमनोरथास्ते ।
तदाह विष्णुर्द्रुहिणं महात्मा
एते हि भक्ता मयि चानुरक्ताः ॥ ६० ॥
यान्तं दिवं मामनुयान्ति सर्वे
तिर्यक् शरीरा अपि पुण्ययुक्ताः ।
वैकुण्ठसाम्यं परमं प्रयान्तु
समाविशस्वाशु ममाज्ञया त्वम् ॥ ६१ ॥
श्रुत्वा हरेर्वाक्यमथाब्रवीत्कः
सन्तानिकान्यान्तु विचित्रभोगन् ।
लोकान्मदीयोपरि दीप्यमानान्
त्वद्‌भावयुक्ताः कृतपुण्यपुञ्जाः ॥ ६२ ॥
ये चापि ते राम पवित्रनाम
गृणन्ति मर्त्या लयकाल एव ।
अज्ञानतो वापि भजन्तु लोकान्
तानेव योगैरपि चाधिगम्यान् ॥ ६३ ॥
ततोऽतिहृष्टा हरिराक्षसाद्याः
स्पृष्ट्वा जलं त्यक्तकलेवरास्ते ।
प्रपेदिरे प्राक्तनमेव रूपं
यदंशजा ऋक्षहरीश्वरास्ते ॥ ६४ ॥
प्रभाकरं प्राप हरिप्रवीरः
सुग्रीव आदित्यजवीर्यवत्त्वात् ।
ततो विमग्नाः सरयूजलेषु
नराः परित्यज्य मनुष्यदेहम् ॥ ६५ ॥
आरुह्य दिव्याभरणा विमानं
प्रापुश्च ते सान्तनिकाख्यलोकान् ।
तिर्यक् प्रजाता अपि रामदृष्ट्वा
जलं प्रविष्टा दिवमेव याताः ॥ ६६ ॥
दिदृक्षवो जानपदाश्च लोका
रामं समालोक्य विमुक्तसङ्‌गाः ।
स्मृत्वा हरिं लोकगुरुं परेशं
स्पृष्ट्वा जलं स्वर्गमवापुरञ्जः ॥ ६७ ॥
एतावदेवोत्तरमाह शम्भुः
श्रीरामचन्द्रस्य कथावशेषम् ।
यः पादमप्यत्र पठेत्स पापाद्‍
विमुच्यते जन्मसहस्रजातात् ॥ ६८ ॥
दिने दिने पापचयं प्रकुर्वन्
पठेन्नरः श्लोकमपीह भक्त्या ।
विमुक्तसर्वाघचयः प्रयाति
रामस्य सालोक्यमनन्यलभ्यम् ॥ ६९ ॥
आख्यानमेतत् रघुनायकस्य
कृतं पुरा राघवचोदितेन ।
महेश्वरेणाप्तभविष्यदर्थं
श्रुत्वा तु रामः परितोषमेति ॥ ७० ॥
रामायणं काव्यमनन्तपुण्यं
श्रीशङ्‍करेणाभिहितं भवान्यै ।
भक्त्या पठेद्यः शृणुयात्स पापैः
विमुच्यते जन्मशतोद्‌भवैश्च ॥ ७१ ॥
अध्यात्मरामं पठतश्च नित्यं
श्रोतुश्च भक्त्या लिखितुश्च रामः ।
अतिप्रसन्नश्च सदा समीपे
सीतासमेतः श्रियमातनोति ॥ ७२ ॥
रामायणं जनमनोहरमादिकाव्यं
ब्रह्मादिभिः सुरवरैरपि संस्तुतं च ।
श्रद्धान्वितः पठति यः शृणुयात्तु नित्यं
विष्णोः प्रयाति सदनं स विशुद्धदेहः ॥ ७३ ॥
इति श्रीमद् अध्यात्मरामायणे उमामहेश्वरसंवादे
उत्तरकाण्डे नवमः सर्गः ॥ ९ ॥


॥ समापतमिदमुत्तरकाण्डम् ॥

॥ सम्पूर्णम् इति अध्यात्मरामायणम् ॥

GO TOP