॥ श्रीमद् अध्यात्मरामायण ॥

॥ अरण्यकाण्ड ॥

॥ दशमः सर्ग: ॥

श्रीमहादेव उवाच
लब्ध्वा वरं स गन्धर्वः प्रयास्यन् राममब्रवीत् ।
शबर्यास्ते पुरोभागे आश्रमे रघुनन्दन ॥ १ ॥
भक्त्या त्वत्पादकमले भक्तिमार्गविशारदा ।
तां प्रयाहि महाभाग सर्वं ते कथयिष्यति ॥ २ ॥
इत्युक्त्वा प्रययौ सोऽपि विमानेनार्कवर्चसा ।
विष्णोः पदं रामनाम स्मरणे फलमीदृशम् ॥ ३ ॥
त्यक्त्वा तद्विपिनं घोरं सिंहव्याघ्रादि दूषितम् ।
शनैरथाश्रमपदं शबर्या रघुनन्दनः ॥ ४ ॥
शबरी राममालोक्य लक्ष्मणेन समन्वितम् ।
आयान्तमाराद्धर्षेण प्रत्युत्थायाचिरेण सा ॥ ५ ॥
पतित्वा पादयोराग्रे हर्षपूर्णाश्रुलोचना ।
स्वागतेनाभिनन्द्याथ स्वासने संन्यवेशयत् ॥ ६ ॥
रामलक्ष्मणयोः सम्यक् पादौ प्रक्षाल्य भक्तितः ।
तज्जलेनाभिषिच्याङ्‌गं अथार्घ्यादिभिरादृता ॥ ७ ॥
सम्पूज्य विधिवद्‍रामं ससौमित्रिं सपर्यया ।
सङ्‌गृहीतानि दिव्यानि रामार्थं शबरी मुदा ॥ ८ ॥
फलान्यमृतकल्पानि ददौ रामाय भक्तितः ।
पादौ सम्पूज्य कुसुमैः सुगन्धैः सानुलेपनैः ॥ ९ ॥
कृतातिथ्यं रघुश्रेष्ठं उपविष्टं सहानुजम् ।
शबरी भक्तिसम्पन्ना प्राञ्जलिर्वाक्यमब्रवीत् ॥ १० ॥
अत्राश्रमे रघुश्रेष्ठ गुरवो मे महर्षयः ।
स्थिताः शुश्रूषणं तेषां कुर्वती समुपस्थिता ॥ ११ ॥
बहुवर्षसहस्राणि गतास्ते ब्रह्मणः पदम् ।
गमिष्यन्तोऽब्रुवन्मां त्वं वसात्रैव समाहिता ॥ १२ ॥
रामो दाशरथिर्जातः परमात्मा सनातनः ।
राक्षसानां वधार्थाय ऋषीणां रक्षणाय च ॥ १३ ॥
आगमिष्यति चैकाग्र ध्याननिष्ठा स्थिरा भव ।
इदानीं चित्रकूटाद्रौ आश्रमे वसति प्रभुः ॥ १४ ॥
यावदागमनं तस्य तावत् रक्ष कलेवरम् ।
दृष्ट्वैव राघवं दग्ध्वा देहं यास्यसि तत्पदम् ॥ १५ ॥
तथैवाकरवं राम त्वद्ध्यानैकपरायणा ।
प्रतीक्ष्यागमनं तेऽद्य सफलं गुरुभाषितम् ॥ १६ ॥
तव सन्दर्शनं राम गुरूणामपि मे न हि ।
योषिन् मूढाप्रमेयात्मन् हीनजातिसमुद्‌भवा ॥ १७ ॥
तव दासस्य दासानां शतशङ्‌ख्योत्तरस्य वा ।
दासीत्वे नाधिकारोऽस्ति कुतः साक्षात्तवेव हि ॥ १८ ॥
कथं रामाद्य मे दृष्टः त्वं मनोवागगोचरः ।
स्तोतुं न जाने देवेश किं करोमि प्रसीद मे ॥ १९ ॥
श्रीराम उवाच
पुंस्त्वे स्त्रीत्वे विशेषो वा जातिनामाश्रमादयः ।
न कारणं मद्‌भजने भक्तिः एव हि कारणम् ॥ २० ॥
यज्ञदानतपोभिर्वा वेदाध्ययनकर्मभिः ।
नैव द्रष्टुमहं शक्यो मद्‌भक्तिविमुखैः सदा ॥ २१ ॥
तस्माद्‌भामिनि सङ्‌क्षेपात् वक्ष्येऽहं भक्तिसाधनम् ।
सतां सङ्‌गतिरेवात्र साधनं प्रथमं स्मृतम् ॥ २२ ॥
द्वितीयं मत्कथालापः तृतीयं मद्‍गुणेरणम् ।
व्याख्यातृत्वं मद्वचसां चतुर्थं साधनं भवेत् ॥ २३ ॥
आचार्योपासनं भद्रे मद्‌बुद्ध्यामायया सदा ।
पञ्चमं पुण्यशीलत्वं यमादि नियमादि च ॥ २४ ॥
निष्ठा मत्पूजने नित्यं षष्ठं साधनमीरितम् ।
मम मंत्रोपासकत्वं साङ्‌गं सप्तममुच्यते ॥ २५ ॥
मद्‌भक्तेष्वधिका पूजा सर्वभूतेषु मन्मतिः ।
बाह्यार्थेषु विरागित्वं शमादिसहितं तथा ॥ २६ ॥
अष्टमं नवमं तत्त्व-विचारो मम भामिनि ।
एवं नवविधा भक्तिः साधनं यस्य कस्य वा ॥ २७ ॥
स्त्रियो वा पुरुषस्यापि तिर्यग्योनिगतस्य वा ।
भक्तिः सञ्जायते प्रेम-लक्षणा शुभलक्षणे ॥ २८ ॥
भक्तौ सञ्जातमात्रायां मत्तत्वानुभवस्तदा ।
ममानुभवसिद्धस्य मुक्तिस्तत्रैव जन्मनि ॥ २९ ॥
स्यात्तस्मात्कारणं भक्तिः मोक्षस्येति सुनिश्चितम् ।
प्रथमं साधनं यस्य भवेत्तस्य क्रमेण तु ॥ ३० ॥
भवेत्सर्वं ततो भक्तिः मुक्तिरेव सुनिश्चितम् ।
यस्मान्मद्‌भक्तियुक्ता त्वं ततोऽहं त्वामुपस्थितः ॥ ३१ ॥
इतो मद्दर्शनान्मुक्तिः तव नास्त्यत्र संशयः ।
यदि जानासि मे ब्रूहि सीता कमललोचना ॥ ३२ ॥
कुत्रास्ते केन वा नीता प्रिया मे प्रियदर्शना ॥ ३३ ॥
शबर्युवाच
देव जानासि सर्वज्ञ सर्वं त्वं विश्वभावन ।
तथापि पृच्छसि यन्मां लोकान् अनुसृतः प्रभो ॥ ३४ ॥
ततोऽहं अभिधास्यामि सीता यत्राधुना स्थिता ।
रावणेन हृता सीता लङ्‌कायां वर्ततेऽधुना ॥ ३५ ॥
इतः समीपे रामास्ते पम्पानाम सरोवरम् ।
ऋष्यमूकगिरिर्नाम तत्समीपे महानगः ॥ ३६ ॥
चतुर्भिर्मंत्रिभिः सार्धं सुग्रीवो वानराधिपः ।
भीतभीतः सदा यत्र तिष्ठत्यतुलविक्रमः ॥ ३७ ॥
वालिनश्च भयाद्‌भ्रातुः तदगम्यं ऋषेर्भयात् ।
वालिनस्तत्र गच्छ त्वं तेन सख्यं कुरु प्रभो ॥ ३८ ॥
सुग्रीवेण स सर्वं ते कार्यं सम्पादयिष्यति ।
अहमग्निं प्रवेक्ष्यामि तवाग्रे रघुनन्दन ॥ ३९ ॥
मुहूर्तं तिष्ठ राजेन्द्र यावद्दग्ध्वा कलेवरम् ।
यास्यामि भगवन् राम तव विष्णोः परं पदम् ॥ ४० ॥
इति रामं समामंत्र्य प्रविवेश हुताशनम् ।
क्षणान्निर्धूय सकलं अविद्याकृतबन्धनम् ।
रामप्रसादाच्छबरी मोक्षं प्रापातिदुर्लभम् ॥ ४१ ॥
किं दुर्लभं जगन्नाथे श्रीरामे भक्तवत्सले ।
प्रसन्नेऽधमजन्मापि शबरी मुक्तिमाप सा ॥ ४२ ॥
किं पुनर्ब्रह्मणा मुख्याः पुण्याः श्रीरामचिन्तकाः ।
मुक्तिं यान्तीति तद्‌भक्तिः मुक्तिरेव न संशयः ॥ ४३ ॥
भक्तिर्मुक्तिविधायिनी भगवतः श्रीरामचन्द्रस्य हे
लोकाः कामदुघाङ्‌घ्रिपद्मयुगलं सेवध्वमत्युत्सुकाः ।
नानाज्ञानविशेषमंत्रविततिं त्यक्त्वा सुदूरे भृशं
रामं श्यामतनुं स्मरारिहृदये भान्तं भजध्वं बुधाः ॥ ४४ ॥
इति श्रीमद् अध्यात्मरामयणे उमामहेश्वरसंवादे
अरण्यकाण्डे दशमः सर्गः ॥ १० ॥

॥ समाप्तमिदम् अरण्यकाण्डम् ॥

GO TOP