॥ श्रीमद् अध्यात्मरामायण ॥

॥ किष्किन्धाकाण्ड ॥

॥ नवमः सर्गः ॥

गते विहायसा गृध्र-राजे वानरपुङ्‌गवाः ।
हर्षेण महताविष्टाः सीतादर्शलालसाः ॥ १ ॥
ऊचुः समुद्रं पश्यन्तो नक्रचक्रभयङ्‌करम् ।
तरङ्‌गादिभिरुन्नद्धं आकाशमिव दुर्ग्रहम् ॥ २ ॥
परस्परं अवोचन्वै कथमेनं तरामहे ।
उवाच चाङ्‌गदस्तत्र शृणुध्वं वानरोत्तमाः ॥ ३ ॥
भवन्त्योऽत्यन्तबलिनः शूराश्च कृतविक्रमाः ।
को वात्र वारिधिं तीर्त्वा राजकार्यं करिष्यति ॥ ४ ॥
एतेषां वानराणां स प्राणदाता न संशयः ।
तदुत्तिष्ठतु मे शीघ्रं पुरतो यो महाबलः ॥ ५ ॥
वानराणां च सर्वेषां रामसुग्रीवयोरपि ।
स एव पालको भूयात् नात्र कार्या विचारणा ॥ ६ ॥
इत्युक्ते युवराजेन तूष्णीं वानरसैनिकाः ।
आसन्नोचुः किञ्चिदपि परस्परविलोकिनः ॥ ७ ॥
अङ्‌गद उवाच
उच्यतां वै बलं सर्वैः प्रत्येकं कार्यसिद्धये ।
केन वा साध्यते कार्यं जानीमस्तदनन्तरम् ॥ ८ ॥
अङ्‌गदस्य वचः श्रुत्वा प्रोचुर्वीरा बलं पृथक् ।
योजनानां दशारभ्य दशोत्तरगुणं जगुः ॥ ९ ॥
शतादर्वाग्जाम्बवांस्तु प्रह मध्ये वनौकसाम् ।
पुरा त्रिविक्रमे देवे पादं भूमानलक्षणम् ॥ १० ॥
त्रिःसप्तकृत्वोऽहमगां प्रदक्षिणविधानतः ।
इदानीं वार्धकग्रस्तो न शक्नोमि विलङ्‌घितुम् ॥ ११ ॥
अङ्‌गदोऽप्याह मे गन्तुं शक्यं पारं महोदधेः ।
पुनर्लङ्‌घनसामर्थ्यं न जानाम्यस्ति वा न वा ॥ १२ ॥
तमाह जाम्बवान्वीरः त्वं राजा नो नियामकः ।
न युक्तं त्वां नियोक्तुं मे त्वं समर्थोऽपि यद्यपि ॥ १३ ॥
अङ्‌गद उवाच
एवं चेत्पूर्ववत्सर्वे स्वप्स्यामो दर्भविष्टरे ।
केनापि न कृतं कार्यं जीवितुं च न शक्यते ॥ १४ ॥
तमाह जाम्बवान्वीरो दर्शयिष्यामि ते सुत ।
येनास्माकं कार्यसिद्धिः भविष्यति अचिरणे च ॥ १५ ॥
इत्युक्त्‍वा जाम्बवान्प्राह हनूमन्तं अवस्थितम् ।
हनूमन्किं रहस्तूष्णीं स्थीयते कार्यगौरवे ॥ १६ ॥
प्राप्तेऽज्ञेनेव सामर्थं दर्शयाद्य महाबल ।
त्वं साक्षाद्वायुतनयो वायुतुल्यपराक्रमः ॥ १७ ॥
रामकार्यार्थमेव त्वं जनितोऽसि महात्मना ।
जातमात्रेण ते पूर्वं दृष्ट्वोद्यन्तं विभावसुम् ॥ १८ ॥
पक्वं फलं जिघृक्षामीति उत्प्लुतं बालचेष्टया ।
योजनानां पञ्चशतं पतितोऽसि ततो भुवि ॥ १९ ॥
अतस्त्वद्‌बलमाहात्म्यं को वा शक्नोति वर्णितुम् ।
उत्तिष्ठ कुरु रामस्य कार्यं नः पाहि सुव्रत ॥ २० ॥
श्रुत्वा जाम्बवतो वाक्यं हनूमानतिहर्षितः ।
चकार नादं सिंहस्य ब्रह्माण्डं स्फोटयन्निव ॥ २१ ॥
बभूव पर्वताकारः त्रिविक्रम इवापरः ।
लङ्‌घयित्वा जलनिधिं कृत्वा लङ्‌कां च भस्मसात् ॥ २२ ॥
रावणं सकुलं हत्वान् एष्ये जनकनन्दिनीम् ।
यद्वा बद्‍ध्वा गले रज्ज्वा रावणं वामपाणिना ॥ २३ ॥
लङ्‌कां सपर्वतां धृत्वा रामस्याग्रे क्षिपाम्यहम् ।
यद्वा दृष्ट्वैव यास्यामि जानकीं शुभलक्षणाम् ॥ २४ ॥
श्रुत्वा हनुमतो वाक्यं जाम्बवान् इदमब्रवीत् ।
दृष्ट्वैवागच्छ भद्रं ते जीवन्तीं जानकीं शुभाम् ॥ २५ ॥
पश्चाद्‍रामेण सहितो दर्शयिष्यसि पौरुषम् ।
कल्याण भवताद्‌भद्र गच्छतस्ते विहायसा ॥ २६ ॥
गच्छन्तं रामकार्यार्थं वायुस्त्वामनुगच्छतु ।
इत्याशीर्भिः समामंत्र्य विसृष्टः प्लवगाधिपैः ॥ २७ ॥
महेन्द्राद्रिशिरो गत्वा बभूवाद्‌भुतदर्शनः ॥ २८ ॥
महानगेन्द्रप्रतिमो महात्मा
सुवर्णवर्णोऽरुणचारुवक्‍त्रः ।
महाफणीन्द्राभसुदीर्घबाहुः
वातात्मजोऽदृश्यत सर्वभूतैः ॥ २९ ॥
इति श्रीमद् अध्यात्मरामायणे उमामहेश्वरसंवादे
किष्किन्धाकाण्डे नवमः सर्गः ॥ ९ ॥

GO TOP




॥ समाप्तमिदं किष्किन्धाकाण्डम् ॥