॥ श्रीवाल्मीकिमहामुनिकृत शतकोटिरामचरितान्तर्गतं ॥

॥ आनन्दरामायणम् ॥

सारकाण्डम्

॥ त्रयोदशः सर्गः ॥
[ अगस्त्य-रामसंवाद ]

॥ श्रीसद्‌गुरु रामचंद्राय नमः ॥

श्रीशिव उवाच
एकदा राघवं द्रष्टुं मुनिभिः कुंभसंभवः ।
ययौ रामेण संमानं आनितः स उपाविशत् ॥१॥
उपविष्टाः प्रहृष्टाश्च मुनयो रामपूजिताः ।
संपृष्टकुशलाः सर्वे रामं कुशलमब्रुवन् ॥२॥
कुशलं ते महाबाहो सर्वत्र रघुनंदन ।
दिष्ट्येदानीं प्रपश्यामो हतशत्रुमरिंदम ॥३॥
दिष्ट्या त्वया हताः सर्वे मेघनादादयोऽसुराः ।
हत्वा रक्षोगणान् सर्वान्‍ कृतकृत्यो‍ऽद्य जीवसि ॥४॥
इति तेषां वचः श्रुत्वा रामस्तान् प्राह सुस्मितः ।
किमर्थमादौ युष्माभिः मेघनादोऽद्य कीर्तितः ॥५॥
इति रामवचः श्रुत्वाऽगस्तिस्तैरवलोकितः ।
कुंभयोनिस्तदा रामं प्रीत्या वचनमब्रवीत् ॥६॥
श्रृणु राम यथा वृत्तं मेघनादस्य चेष्टितम् ।
जन्मकर्मवरप्राप्तिं संक्षेपाद्‌गदतो मम ॥७॥
पुरा कृतयुगे राम पुलस्त्यो ब्रह्मणः सुतः ।
तृणबिंदुसुतायां स पुत्रं त्रैलोक्यविश्रुतम् ॥८॥
निर्ममे विश्रवा नाम-धेयं वेदनिधिं शुभम् ।
भरद्वाजसुतायां च विश्रवा निर्ममे सुतम् ॥९॥
श्रेष्ठं वैश्रवणं तस्मै प्रसन्नोऽभूत् विधिश्चिरात् ।
विधिर्वैश्रवणायाथ तुष्टस्तत् तपसा ददौ ॥१०॥
मनोऽभिलषितं यानं धनेशत्वमखंडितम् ।
पुष्पकं चाप्येकदा‍ऽसौ द्रष्टुं विश्रवसं ययौ ॥११॥
पुष्पकेण धनाध्यक्षो ब्रह्मदत्तेन भास्वता ।
नत्वा तातं तदा प्राह न स्थानं ब्रह्मणा मम ॥१२॥
दत्तं स्थेयं मया कुत्र तद्विचार्य वदस्व माम् ।
विश्रवा ह्यपि तं प्राह विश्वकर्मविनिर्मिता ॥१३॥
लंकानाम्नी पुरी श्रेष्ठा सागरेऽस्ति सुमंडिता ।
त्यक्त्वा विष्णुभयात् दैत्या विविशुस्तं रसातलम् ॥१४॥
सुखं त्वं वस तस्यां हि तथेत्युक्त्वा धनेश्वरः ।
गत्वा तस्यां चिरं कालं उवास पितृसंमतः ॥१५॥
कस्मिंश्चित्त्वथ काले हि सुमालीनाम राक्षसः ।
दुहित्रा व्यवचरद्‌भूमौ पुष्पकेतुं ददर्श सः ॥१६॥
हिताय चिंतयामास राक्षसानां महामनाः ।
कैकसीं तनयामाह गच्छ विश्रवसं मुनिम् ॥१७॥
वरयस्व मुनेस्तेजः प्रतापात्ते सुताः शुभाः ।
भविष्यन्ति धनाध्यक्ष तुल्या नो हितकारिणः ॥१८॥
सा संध्यायां ययौ शीघ्रं मुनेरग्रे व्यवस्थिता ।
लिखन्ती भुवि पादांगुष्ठेन चाधोमुखी स्थिता ॥१९॥
तामपृच्छन्मुनिः का त्वं साऽऽह त्वं वेत्तुमर्हसि ।
ततो ध्यात्वा मुनिः सर्वं ज्ञात्वा तां प्रत्यभाषत ॥२०॥
ज्ञातं तवाभिलषितं मत्तः पुत्रान् अभीप्ससि ।
दारुणायां तु वेलायां आगता‍ऽसि सुमध्यमे ॥२१॥
अतस्ते दारुणौ पुत्रौ राक्षसौ संभविष्यतः ।
साऽब्रवीन्मुनिशार्दूलं त्वत्तोऽप्येवंविधौ सुतौ ॥२२॥
तां आह अन्तिमजो यस्ते भविष्यति महामतिः ।
ततः सा सुषुवे पुत्रान्‍ यथाकाले सुमध्यमा ॥२३॥
रावणं कुम्भकर्णं च क्रौंचीं शुर्पणखां शुभाम् ।
कुंभीनसीं कनीयांसं तृतीयं तं विभीषणम् ॥२४॥
रावणः कुंभकर्णश्च त्रयो दुहितरस्तथा ।
दुर्वृत्ताः प्राणिभक्षाश्च बभूवुर्मुनिहिंसकाः ॥२५॥
एकदा रावणो मात्रा लिंगार्थं प्रेषितः शिवम् ।
कर्तुं प्रसन्नमकरोत् कैलासे कर्म दुष्करम् ॥२६॥
किंचित्स्वीयं शिरश्छित्त्वा वीणां षड्‍जस्वरैर्मुहुः ।
कृत्वा पीठं हि देहस्य तन्मूलं शिरसस्तथा ॥२७॥
तदग्रं पादयोः कृत्वा शंकूनंगुलिभिस्तथा ।
तंत्रीः कृत्वाऽन्त्रमालाभिः शतशोऽथ सहस्रशः ॥२८॥
एवं कृत्वा स्वदेहस्य वीणां षड्‍जस्वरैर्मुहुः ।
चकार स्वमुखेनैव गांधर्वं गायनं शुभम् ॥२९॥
तदा नंदीश्वरं प्राह शंकरो लोकशंकरः ।
शिरः संधाय हस्तेन त्वया वाच्योऽद्य रावणः ॥३०॥
आत्मलिंगं राक्षसं त्वां शंकरो न प्रदास्यति ।
हृद्‌गतं हि मया ज्ञातं शंभोस्त्वं याहि स्वस्थलम् ॥३१॥
इत्युक्त्वा प्रेषणीयः स रावणः स्वस्थल त्वया ।
इति शंभोर्वचः श्रुत्वा ययौ नंदी स रावणम् ॥३२॥
शिरः संयोज्य हस्तेन शिवोक्तं तं न्यवेदयत् ।
तत् श्रुत्वा रावणश्चापि पूर्ववत्तं न्यवेदयत् ॥३४॥
इत्थं दश दिनान्येव गतानि रावणस्य च ।
अथ तत्कर्मणा तुष्टः शंकरो गायनेन च ॥३५॥
भूत्वा प्रसन्नस्तं प्राह वरं वरय चेति वै ।
दृष्ट्वा शंभुं रावणो‍ऽपि शिरसा तेन संधितः ॥३६॥
वरयामास मन्मात्रे ह्यात्मालिंगं तथा मम ।
पत्‍न्यर्थं पार्वतीं देहि तथेत्युक्त्वा ददौ शिवः ॥३७॥
गृहीत्वा गंतुकामं तं पुनः प्राह हरस्तदा ।
मत्तोषार्थं त्वया वीर दशवारं निजं शिरः ॥३८॥
खड्गेन छेदितं यस्मात् तस्मात्तेऽद्य शिरांसि हि ।
दश विंशद्‌भुजाश्चापि भविष्यन्ति गिरा मम ॥३९॥
ततः स रावणस्तुष्टो गिरिजालिंगसंयुतः ।
विंशद्‌भुजो दशग्रीवः स्वस्थलं गन्तुमुद्यतः ॥४०॥
कल्पभेदात् शतशिराः शतवारं प्रखंडितैः ।
स प्रोक्तः स्वशिरोभिर्हि शतद्वयभुजः क्वचित् ॥४१॥
तस्माद्धि हृतवान्‍ विष्णुः त्वं तं मार्गे प्रतार्य च ।
तथैवाब्धेस्तटे लिंगं गोकर्णं रावणात् त्वया ॥४२॥
गृहीत्वा स्थापितं पूर्वं रावणोऽपि गृहं ययौ ।
मंदोदरीं हरेर्वाक्यात् लब्ध्वा मयसुतां शुभाम् ॥४३॥
मातुः कार्यमसंपाद्य तूष्णीं एवातिलज्जितः ।
मंन्दोदर्याऽकरोत्स्वीयं विवाहं तोषपूरितः ॥४४॥
दृष्टवैकदा धनाध्यक्षं पुष्पकस्थं तु कैकसी ।
पुत्रान्‍ धिक्कारयामास यूयं षंढा मृतोपमाः ॥४५॥
सापत्‍न्यबंधुं ये दृष्ट्वा जायंते नात्र लज्जिताः ।
ते मातृवचनं श्रुत्वा ययुर्गोकर्णमुत्तमम् ॥४६॥
दशवर्षसहस्राणि कुंभकर्णोऽकरोत्तपः ।
विभीषणोऽपि धर्मात्मा सत्यधर्मपरायणः ॥४७॥
पंचवर्षसहस्राणि पादांगुष्ठेन तस्थिवान्‍ ।
दिव्यवर्षसहस्रं तु धूमाहारो दशाननः ॥४८॥
पूर्णे वर्षसहस्रे स्वं शीर्षमग्नौ जुहाव सः ।
एवं वर्षसहस्राणि नव तस्यातिचक्रमुः ॥४९॥
अथ वर्षसहस्रे तु दशमे दशमं शिरः ।
छेत्तुकामस्य धर्मात्मा प्रसन्नोऽभूत्प्रजापतिः ॥५०॥
उवाच वचनं ब्रह्मा वरं वरय कांक्षितम् ।
तदोवाच दशास्यस्तं अवध्यत्वं वृणोम्यहम् ॥५१॥
सुपर्णनागयक्षेभ्यो देवेभ्यश्चासुरैरपि ।
त्वत्तः शंभोर्महाविष्णोः मानुषा मे तृणोपमाः ॥५२॥
तथेत्युक्त्वा विधिस्तस्मै दश शीर्षाणि संददौ ।
विभीषणाय सद्‍बुद्धिं अमरत्वं ददौ मुदा ॥५३॥
विमोहितं सरस्वत्या देवेंद्रपदकांक्षिणम् ।
कुंभकर्णं विधिः प्राह वरं वरय वांछितम् ॥५४॥
सोऽपि तं वरयामास निद्रांमषाणसिकीं शुभाम् ।
षाण्मासीये चैकदिने‍ऽशनं ब्रह्माऽपि दत्तवान्‍ ॥५५॥
ततोऽन्तर्द्धानमगमत् विधिस्तेऽपि गृहं ययुः ।
सुमाली वरलब्धांस्तान्‍ ज्ञात्वा दौहित्रसत्तमान्‍ ॥५६॥
पातालान्निर्भयः प्रायात् प्रहस्ताद्यैर्भुवं सुखम् ।
मंत्रिवाक्याद्दशास्योऽपि निष्कास्य धनदं बलात् ॥५७॥
लंकापुर्यां राक्षसैस्तु लंकाराज्यं चकार सः ।
धनदः पितरं पृष्ट्वा त्यक्त्वा लङ्कां महायशाः ॥५८॥
गत्वा कैलासशिखरं तपसाऽतोषयच्छिवम् ।
तेन सख्यमनुप्राप्य तेनैव परिनंदितः ॥५९॥
अलका नगरीं तत्र निर्ममे विश्वकर्मणा ।
दिक्पालत्वं अमनुप्राप्य शिवस्य वरदानतः ॥६०॥
रावणो विद्युज्जिह्वाय ददौ शूर्पणखां तदा ।
पारिवर्हं ददौ तस्मैं दंडकारण्यमुत्तमम् ॥६१॥
मातृत्वसुः सुतान्‍ बंधूं स्त्रिशिरः खरदूषणान्‍ ।
साहाय्यार्थं ददौ तस्मै तत्कांते तु मृतेऽचिरात् ॥६२॥
कुंभीनसीं ददौ हर्षान् मधुदैत्याय रावणः ।
ददौ मधुवनं तस्मै पारिवर्हमनुत्तमम् ॥६३॥
खड्गजिह्वाय तां क्रौंचीं ददौ प्रेम्णा दशाननः ।
परलङ्कां पारिवर्हं ददौ तस्यै मनोरमम् ॥६४॥
वैरोचनस्य दौहित्रीं वृत्रज्वालेति विश्रुताम् ।
स्वयंदत्तां मुदोवाह कुम्भकर्णाय रावणः ॥६५॥
गन्धर्वराजस्य सुतां शैलूषस्य महात्मनः ।
विभीषणस्य भार्यार्थें सरमां स मुदाऽवहत् ॥६६॥
ततो मन्दीदरी पुत्रं मेघनादं अजीजनत् ।
जातमात्रस्तु यो नादं मेघवत्प्रचकार ह ॥६७॥
ततः सर्वे ऽब्रुवन्मेघनादोऽयमिति वै जनाः ।
गुहायां कुंभकर्णोऽपि निद्राव्याप्तो विनिद्रितः ॥६८॥
ततः स रावणश्चापि देवगन्धर्वकिन्नरान्‍ ।
हत्वा ऋषीश्वरान् नागान्‍ स्रियस्तेषामपाहरत् ॥६९॥
धनदोऽपि च तत् श्रृत्वा रावणस्याक्रमं तदा ।
अधर्मं मा कुरुष्वेति दूतवाक्यैर्न्यवारयत् ॥७०॥
ततः क्रुद्धो दशग्रीवो जगाम धनदालयम् ।
विनिर्जित्य धनाध्यक्षं जहार तस्य पुष्पकम् ॥७१॥
अलकायां यदा‌‍ऽऽसीत्स सेनया रावणस्तदा ।
निशायामेकदा भ्रातुः कुबेरस्य सुतेन हि ॥७२॥
प्रार्थिता सा पुरा रम्भा चकार नियतं दिनम् ।
अज्ञातवृत्ता वेगेन ययौ खान्नू पुरस्वना ॥७३॥
रावणो‍ऽपि च तां दृष्ट्वा बलादेव प्रभुक्तवान्‍ ।
चिरान्मुक्ताऽथ वृत्तं सा कौबेरं संन्यवेदयत् ॥७४॥
क्रुद्धः सोऽपि ददौ शापं रावणाय महात्मने ।
अद्यारभ्य दशास्यश्चेत् विरक्तां स्त्रियमुत्तमाम् ॥७५॥
हठाद्‌भोक्ष्यति चेत्तर्हि क्षणमात्रान्मरिष्यति ।
इति शापं रावणोऽपि शुश्राव चरवाक्यतः ॥७६॥
तदारभ्य स्त्रियं कामं अनिच्छन्तीं न धर्षयन्‍ ।
ततो यमं च वरुणं निर्जित्य समरेऽसुरः ॥७७॥
स्वर्गलोकमगात्तूर्णं देवराजजिघांसया ।
ततो रावणमभ्येत्य बबंध त्रिदशेश्वरः ॥७८॥
तच्छ्रुत्वा सहसाऽऽगत्य मेघनादः प्रतापवान्‍ ।
कृत्वा युद्धं महाघोरं जित्वा त्रिदशपुङ्गवम् ॥७९॥
इन्द्रं घृत्वा दृढं बद्‍ध्वा मेघनादो महाबलः ।
मोचयित्वा स्वपितरं गृहीत्वेन्द्रं ययौ पुरीम् ॥८०॥
ब्रह्मा तं मोचयामास देवेन्द्रं मेघनादतः ।
दत्वा वरान् राक्षसाय ब्रह्मा स्वभवनं ययौ ॥८१॥
इन्द्रज्रित् नाम तस्याभूत् तदारभ्य रघूत्तम ।
रावणादपि यश्चासीद्‌ बलिष्ठः समरप्रियः ॥८२॥
मेघनादादयश्चेति तस्मात्प्रोक्तं तवाग्रतः ।
एतैर्मुनीश्वरैः पूर्वं तन्निमित्तं मयेरितम् ॥८३॥
रावणो विजयी लोकान् सर्वान्‍ जित्वा क्रमेण तु ।
जित्वा वह्निं निर्ऋतिं च वायुमीशं ययौ मुदा ॥८४॥
कैलासं तोलायामास बाहुभिः परिघोपमैः ।
तदा भीता शिवं देवी दोर्भ्यां सा परिषस्वजे ॥८५॥
शिवोऽपि वामपादाङ्गुष्ठेन कैलासमूर्द्धनि ।
भारं दत्त्वा गिरिं खर्वं चकाराथ शनैः शनैः ॥८६॥
तदा तद्‌गिरिसम्भूत वल्लिसंधिषु दोर्लताः ।
विंशच्चापि रावणस्य ता आसन् मर्द्दिताः क्षणात् ॥८७॥
स तेनाक्रन्दयामास स्तम्भसम्बद्धचोरवत् ।
तदा नन्दीश्चरेणापि शप्तोऽयं रावणेश्वरः ॥८८॥
चञ्चलं कर्म यस्मात्ते कपितुल्यमतोऽसुर ।
वानरैर्मांनुषैश्चव नाशं गच्छसि कोपितैः ॥८९॥
ततः कालान्तरेणायं शम्भुनैव विमोचितः ।
शप्तोऽप्यगणयन् वाक्यं ययौ हैहयपत्तनम् ॥९०॥
बहिर्गतं नृपं श्रुत्वा सहस्रार्जुननामकम् ।
मध्याह्ने रावणश्चक्रे रेवायां शिवपूजनम् ॥९१॥
अधस्तस्माद् नर्मदाया भुजपाशैश्च सेतुवत् ।
स्तम्भयामास नीरौघ जलक्रीडां गतो‍ऽर्जुनः ॥९२॥
वेष्टितोऽयुतनारीभिः तत्तोयं रावणं तदा ।
प्लावयामास ध्यानस्थं ज्ञातस्तत् कर्मणाऽर्जुनः ॥९३॥
मुक्त्वा ध्यानादिकं सर्वं युद्धं चक्रेऽर्जुनेन सः ।
तेन बद्धो दशग्रीवः कण्ठे रन्तुं सुताय तम् ॥९४॥
ददौ दशाननं प्रीत्या काष्ठनिर्मितहस्तिवत् ।
कियत्कालान्तरेणैव पुलस्त्येन स मोचितः ॥९५॥
ततोऽतिबलमासाद्य जिघांसुर्हरिपुङ्गवम् ।
सागरे ध्यानमासीन पश्चाद्‌भागे शनैर्ययौ ॥९६॥
धृतस्तेनैव कक्षेण वालिना दशकन्धरः ।
भ्रामयित्वा तु चतुरः समुद्रान्‍ रावणं हरिः ॥९७॥
किष्किंधां स्वां ययौ वेगात् अग्रे दृष्ट्वांगदं शिशुम् ।
प्रीत्या तं चुंबनं दातुं दोर्भ्यां कट्यां न्यवेशयत् ॥९८॥
तदा बाहोश्चंचलत्वात् कक्षात्स पतितो भुवि ।
तं दृष्ट्वा स्वजनान्‍ स्त्रीश्च दर्शयामास वै मुदा ॥९९॥
प्रेंखस्योपरि पुत्रस्य बबन्धाधोमुखं चिरम् ।
आसीत्सोऽङ्गदमूत्रस्य धाराधौताननोऽसुरः ॥१००॥
स्वयमेव ततो वाली बहुकाले गते सति ।
ददौ आज्ञां दशास्याय तेन सख्यं चकार सः ॥१०१॥
रावणः स पुनः स्थित्वा पुष्पके व्यचरत्सुखम् ।
पश्यन् नानाविधान् वीरान्‍ ययौ पातालमुत्तमम् ॥१०२॥
तत्र दृष्ट्वा पुरं रम्यं बलेः कोटिरविप्रभम् ।
तत्तेजोहततेजस्तत् पुष्पकं न चचाल वै ॥१०३॥
ततः स्वयं ययौ तूष्णीं एक एव दशाननः ।
पुरं प्रविश्य तद्‍द्वारि त्वां ददर्श च वामनम् ॥१०४॥
कोटिसूर्यप्रतीकाशं पीतकौशेयवाससम् ।
चतुर्भुजं सपत्‍नीकं द्वाररक्षणतत्परम् ॥१०५॥
त्वां प्राह स दशग्रीवः को‍ऽत्र राजाऽस्ति मां वद ।
तूष्णीं स्थितो वामनः त्वमर्पितं नोत्तरं रिपोः ॥१०६॥
तदा त्वां बधिरं मत्वा स विवेश वलेर्गृहम् ।
तत्र दृष्ट्वा वलिं पत्‍न्या सारिक्रीडनतत्परम् ॥१०७॥
तस्थौ तत्र क्षणं तूष्णीं बलेर्लक्ष्मीं व्यलोकयत् ।
तावद्‍दूरे बलेर्हस्तात् क्रीडापासोऽपतद्‌भुवि ॥१०८॥
तमानेतुं रावणाय बलिराज्ञापयत्तदा ।
रावणोऽपि तमानेतुं ययौ पासांतिकं जवात् ॥१०९॥
प्रोच्चचाल भुवः पासं करेण न चचाल सः ।
विंशद्दोर्भिः क्रमेणासौ यावत्पासं प्रचालयत् ॥११०॥
तावदंगुलयः सर्वाः पासभारेण पीडिताः ।
न निष्क्रमुः पांसतलात् चूर्णिता रुधिराप्लुताः ॥१११॥
तदा चुक्रोश दीर्घं स चिरकालं दशाननः ।
ततो विहस्य दास्या तं पासमानीय वै बलिः ॥११२॥
धिग्धिक्‍ कृत्वा रावणं तं गृहात् निष्कासयद्‌बहिः ।
ततो धृतो राजदूतैः तदुच्छिष्टैस्तु पोषितः ॥११३॥
अश्वानां शकृतं नीत्वा प्राक्षिपत्प्रत्यहं बहिः ।
एकदा द्वापरे गत्वा प्रार्थयामास त्वां मुहुः ॥११४॥
त्वया स्वपादलग्नः स्वपदांगुष्ठेन खेऽर्पितः ।
तदाऽतिमुदितो लंकां चिरकालेन रावणः ॥११५॥
ययौ मेने निजं जन्म द्वितीयं जातमद्य वै ।
रावणः परमप्रीत एवं लोकान्महाबलः ॥११६॥
कर्तुं तान् स्ववशात् नित्यं बभ्राम पुष्पकस्थितः ।

दृष्ट्वैकदाऽत्र साकेते पूर्वजं तव दीक्षितम् ॥११७॥
अनरण्यं संगरेण चकार पतितं रणे ।
तदा शप्तोऽनरण्येन मद्वंशे रघुनन्दनः ॥११८॥
भूत्वा त्वां संगरेणैव सकुटुम्बं वधिष्यति ।
इत्युक्त्वा स गतो नाकं रावणो‍ऽपि पुरीं ययौ ॥११९॥
सनत्कुमारं एकांते सन्निरीक्ष्यैकदाऽसुरः ।
नत्वा पप्रच्छ देवेषु को वरश्चेति सादरम् ॥१२०॥
मुनिः प्राह महाविष्णुं तच्छ्रुत्वा प्राह तं पुनः ।
विष्णुना ये हता युद्धे राक्षसाद्या लभंति काम् ॥१२१॥
गतिं चेति मुनिः प्राह ते मुक्तिं यांति दुर्लभाम् ।
पुनः पप्रच्छ तं नत्वा केनोपायेन वै हरेः ॥१२२॥
भविष्यत्यत्र मे मृत्युः तदा तं मुनिरब्रवीत् ।
त्रेतायां नररूपेण रामो विष्णुर्भविष्यति ॥१२३॥
अयोध्यायां तदा तेन कृत्वा वैरं सुदारुणम् ।
तस्माद्‌वघं कुरुष्व त्वं आत्मनः परमात्मनः ॥१२४॥
तेन गच्छसि मुक्तिं त्वं तच्छ्रुत्वा स दशाननः ।
विरोधार्थं जनकजां अहरद्‌ गौतमीतटात् ॥१२५॥
अशोके रक्षिता तेन मातृवत् स्ववधेच्छया ।
एकदा नारदं दृष्ट्वा नत्वा पप्रच्छ रावणः ॥१२६॥
भगवन्‍ ब्रूहि मे योद्धुं कुत्र सन्ति महाबलाः ।
योद्धुमिच्छामि बलिभिः त्व जानासि जगत्त्रयम् ॥१२७॥
मुनिर्ध्यात्वा चिरात्प्राह श्चेतद्वीपनिवासिनः ।
महाबला महाकायाः तत्र याहि महामते ॥१२८॥
विष्णुपूजारता ये वै विष्णुना निहताश्च ये ।
ते एव तत्र संजाता ह्यजेयाश्च सुरासुरैः ॥१२९॥
तच्छ्रुत्वा रावणो वेगात् मंत्रिभिः पुष्पकेण तैः ।
योद्धुकामो ययौ गर्वात् श्वेतद्वीपांतिकं मुदा ॥१३०॥
तत्प्रभाहततेजस्कं पुष्पकं नाचलत्पुरः ।
त्यक्त्वा विमानं प्रययौ स्वयमेव दशाननः ॥१३१॥
प्रविशन्नेव तद्‍द्वीपं घृतो हस्तेन योषिता ।
गच्छंत्या कस्यचिद्दास्या पुष्पाण्यानयितुं वनम् ॥१३२॥
तया पृष्टः कुतः को‍ऽसि प्रेषितः केन वा वद ।
इत्युक्त्वा लीलया स्त्रीभिः हसंतीभिर्मुहुर्मुहुः ॥१३३॥
मुखेषु ताडितो हस्तैः भ्रामितोऽधोमुखं चिरम् ।
धृत्वैकं तत्पदं ताभिः क्षिप्तः कंदुकवन्मुहुः ॥१३४॥
परस्परं हि क्रीडद्‌भिः कया त्यक्तस्तु लीलया ।
पपात परलंकायां क्रौंचायाः शौचकूपके ॥१३५॥
कृच्छ्रात् हस्ताद् विनिर्मुक्तः तासां स्त्रीणां दशाननः ।
आश्चर्यं अतुलं लब्ध्वा चिन्तयामास दुर्मतिः ॥१३६॥
विष्णुना ये हता युद्धे तेषां एतादृशं बलम् ।
तर्ह्यत्र निहतस्तेन श्वेतद्वीपं व्रजाम्यहम् ॥१३७॥
मयि विष्णुर्यथा कुप्येत् तथा कार्यं करोम्यहम् ।
इति निश्चित्य वैदेहीं जहार रावणो वनात् ॥१३८॥
जानन्नेवं महालक्ष्मीं स जहार अवनीसुताम् ।
मातृवत् पालयामास त्वत्तः कांक्षन्वधं निजम् ॥१३९॥
श्रीरामचन्द्र उवाच
वालिसुग्रीवयोर्जन्म श्रोतुमिच्छामि त्वन्मुखात् ।
रवींद्रौ वानराकारौ जज्ञात इति तच्छ्रुतम् ॥१४०॥
अगस्त्य उवाच
मेरौ स्वर्णमये पूर्वं सभायां ब्रह्मणः कदा ।
नेत्राभ्यां पतितं दिव्यं आनंदाश्रुजलं तदा ॥१४१॥
तद्‍गृहीत्वा करे ब्रह्मा ध्यात्वा किंचित्तदत्यजत् ।
भूमौ पतितमात्रेण तस्माज्जातो महाकपिः ॥१४२॥
तमाह द्रुहिणो वत्स त्वमत्र वस सर्वदा ।
एवं बहुतिथे काले गतेर्क्षविरजः सुधीः ॥१४३॥
कदाचित्पर्यटन् मेरौ फलमूलार्थमुद्यतः ।
अपश्यत् दिव्यसलिलां वापीं मणिशिलाचिताम् ॥१४४॥
पानीयं पातुमगमत् तत्र छायामयं कपिम् ।
दृष्ट्वा प्रतिकपिं मत्वा निपपात जलांतरे ॥१४५॥
तत्रादृष्ट्वा हरिं शीघ्र बहिरुत्प्लुत्य संययौ ।
अपश्यत्सुन्दरीं नारीं आत्मानं विस्मयं गतः ॥१४६॥
ततो ददर्श मघवा सोऽत्यजद् वीर्यमुत्तमम् ।
तामप्राप्यैव तद्वीर्यं बालदेशेऽपतद्‌भुवि ॥१४७॥
वाली समभवत्तत्र शक्रतुल्यपराक्रमः ।
भानुरप्यागमत् तत्र तदानीमेव भामिनीम् ॥१४८॥
दृष्ट्वा कामवशो भूत्वा ग्रीवादेशेऽसृजन्महत् ।
बीजं तस्यास्ततः सद्यो सुग्रीवो बलवानभूत् ॥१४९॥
तत्र द्वयं समादाय गत्वा सा निद्रिता क्वचित् ।
प्रभातेऽपश्यद् आत्मानं पूर्ववत् वानराकृतिम् ॥१५०॥
तद्‍वृत्तं तु विधिः श्रुत्वा किष्किंधा राज्यमुत्तमम् ।
ददौ स वानरेन्द्राय पुत्राभ्यां तत्र संस्थितः ॥१५१॥
मृतेर्क्षविरजस्याभूद्‌ वाली पुर्यां कपीश्वरः ।
एवं ते कथितं राम यथा पृष्टं त्वया मम ॥१५२॥
श्रीरामचन्द्र उवाच
यदाऽसौ बालिना बंधुः किष्किंन्धाया बहिष्कृतः ।
तदा तस्यैव सचिवः श्रीमान्पवननंदनः ॥१५३॥
न वेद किं बलं नैजं वालितुल्यपराक्रमः ।
इति रामवचः श्रुत्वा पुनस्तं मुनिरब्रवीत् ॥१५४॥
अगस्तिरुवाच
केसरीनाम विख्यातः कपिरंजनपर्वते ।
तस्यास्तां च शुभे पत्‍न्यौ वानर्यावेकदा गिरौ ॥१५५॥
प्लवंगस्याञ्जनीनाम्नी स्थिता तावच्च खात्तदा ।
पपात पायसमयः पिंडो गृध्रीमुखाद्‌भुवि ॥१५६॥
यदा नीतस्तु कैकेय्या कराद्‍गृध्र्या शुभः पुरा ।
तं पिंडं भक्षयामास वानरी ह्यमृतोपमम् ॥१५७॥
एतस्मिन्नंतरे तत्र मार्जारास्या समागता ।
पतिना रहिते ते द्वे क्रीडंत्यौ वसनं तयोः ॥१५८॥
प्रहरत्पवनो वेगाद् दृष्वा वायुस्तदूरवः ।
अंजनीं प्रार्थयामास तया भोगं चकार सः ॥१५९॥
तथैव प्रार्थयामास मार्जारास्यां स निर्ऋतिः ।
तया‍ऽकरोद्रतिं तत्र सो‍ऽपि पर्वतमूर्द्धनि ॥१६०॥
तयोस्ताभ्यां समुत्पन्नो वानर्या मारुतात्मजः ।
मार्जार्याः समभूद्धोरः पिशाचो घर्घरस्वनः ॥१६१॥
चैत्रे माति सिते पक्षे हरिदिन्यां मघाऽभिधे ।
नक्षत्रे स समुत्पन्नो हनुमान्‍ रिपुसूदनः ॥१६२॥
महाचैत्रीपूर्णिमायां समुत्पन्नोऽञ्जनीसुतः ।
वदन्ति कल्पभेदेन बुधा इत्यादि केचन ॥१६३॥
बालभावेऽपि यः पूर्वं दृष्ट्वोद्यंतं विभावसुम् ।
मत्वा पक्वफलं चेति जिघृत्तुर्लीलयोत्प्लुतः ॥१६४॥
योजनानां पंचशतं वायुवेगेन मारुतिः ।
राहुस्तस्मिन्दिने दर्शे ययौ सूर्यं रघूत्तम ॥१६५॥
तावद्‍दृष्ट्वा धर्तुकामं रवेरग्रे कपिं स्थितम् ।
तदा राहुर्भयादेव रविं मुक्त्वेंद्रमाययौ ॥१६६॥
राहुः प्राह शचीनाथं तव पीडां करोम्यहम् ।
दत्तः पूर्वं त्वया सूर्यः पीडां कर्तुं सुरेश्वर ॥१६७॥
तत्र विघ्नं समुत्पन्नं तत्वं शीघ्रं निवारय ।
तस् राहुवचनास् इंद्रः समारुह्य गजोपरि ॥१६८॥
देवैर्युतो ययौ वेगात् ददर्श प्लवगं पुरः ।
तदा मुमोच तं वज्रं मघवा मारुतिं प्रति ॥१६९॥
वज्रपातान्मारुतिः खात् पपात गिरिकन्दरे ।
तदा भग्ना हनुस्त्वस्य हनुमानिति वै यतः ॥१७०॥
ख्यातिं गतोऽयं सर्वत्र तदा वायुश्चुकोप ह ।
सांत्वयित्वा हनूमंतं स्वयं स्तब्धोऽभवत्तदा ॥१७१॥
वायुस्तम्भाज्जनाः सर्वे निपेतुर्धरणीतले ।
त्रैलोक्यं शववत् जातं हाहाकारो‌ऽभवद्दिवि ॥१७२॥
तदा धिक्कृत्य देवेंद्रं वेधा वायुं ययौ जवात् ।
प्रार्थयामास तं नत्वा पुनर्वायु वचोऽब्रवीत् ॥१७३॥
देवेन्द्रस्यापराधं त्वं क्षन्तुमर्हसि कंपन ।
तव पुत्राय दास्यामि वरानद्य हनूमते ॥१७४॥
तदा तुष्टोऽभवत् वायुः चचाल पूर्ववत्पुनः ।
अभूत्संजीवितं सर्वं त्रैलोक्यं क्षणमात्रतः ॥१७५॥
तदा ददौ वरान्‍ ब्रह्मा मारुतिं पुरतः स्थितम् ।
भविष्यसि त्वममरो वज्रदेहो वरान्मम ॥१७६॥
ते कुंठिता गतिर्माऽस्तु कुत्राप्यंजनिसंभव ।
भविष्यति हरौ भक्तिः तव नित्यमनुत्तमा ॥१७७॥
त्वं विष्णोरपि साहाय्यं करिष्यसि वरान्मम ।
इत्युक्त्वा‍ऽन्तर्दधे वेधा राहुः सूर्य ययौ पुनः ॥१७८॥
श्रीराम उवाच
देवेंद्रेण कथं दत्तो रविस्तस्मै स राहवे ।
तत्सर्वं विस्तरेणैव कथयस्व ममाग्रतः ॥१७९॥
अगस्ति रुवाच
सुधापानादयं राहुः दैत्योऽभूत् अमरः स्वयम् ।
ग्रहो‍ऽष्टमोऽभवत्सोऽपि यदाऽवांछदघं सुरान्‍ ॥१८०॥
पीडां कर्तुं तदा देवाः सूर्यं सोमं ददुस्तु वै ।
ज्ञात्वा धर्मैर्जनाः सर्वे निजकर्मादिहेतवे ॥१८१॥
मोचयिष्यन्ति राहोश्च शशिनं भास्करं प्रति ।
यदा यदा भवत्यत्रोपरागो जगतीतले ॥१८२॥
तदा तदा जना धर्मैः निर्निजमत्यर्थमादरात् ।
तोषयित्वा सदा राहुं तौ तस्मान्मोचयंति हि ॥१८३॥
एतत्सर्वं मया प्रोक्तं अपरागस्य कारणम् ।
जन्म कर्म वरादानं मारुतेश्चापि विस्तरात् ॥१८४॥
अतस्तद् बलमाहात्म्यं को वा शक्नोति वर्णितुम् ।
स एकदा मुनीनां हि चाश्रमेषु कुशादिकान्‍ ॥१८५॥
चकारेतस्ततः सर्वान् धर्षयन्मुनिबालकान्‍ ।
तस्य तत्कर्मं मुनिभिः दृष्ट्वा शप्तोऽञ्जनीसुतः ॥१८६॥
अद्यारभय कपिश्रेष्ठ न ज्ञास्यसि स्वपौरुषम् ।
यदा‍ऽन्यस्य मुखात्स्वीयं बलं श्रोष्यसि विस्तरात् ॥१८७॥
भविष्यति तदा पूर्व स्मृतिस्ते पौरुषं पुनः ।
अतः सुग्रीवसान्निध्ये विस्मृतः स्वपराक्रमः ॥१८८॥
यदा स्तुतो जांबवता पुरा प्रायोपवेशने ।
तदा स्मृतिस्तस्य जाता स्वबलस्य हनूमतः ॥१८९॥
एतत्ते सर्वमाख्यातं त्वया पृष्टं मया तव ।
यथा तथा सविस्तारं कपिरावणचेष्टितम् ॥१९०॥
राम त्वं परमेश्वरोऽसि सकलं जानासि विज्ञानदृक्‍
भूतं भव्यमिदं त्रिकालकलनासाक्षी विकल्पोज्झितः ।
भक्तानां अनुवर्त्तनाय सकलां कुर्वन्‍ क्रियासंहतिं
चाश्रृण्वन्‍ मनुजाकृतिर्मम वचो भासीश लोकार्चितः ॥१९१॥
श्रीशिव उवाच
स्तुत्वैंवं राघवं तेन पूजितः कुंभसंभवः ।
स्वाश्रमं मुनिभिः सार्धं प्रययौ गुप्तविग्रहः ॥१९२॥
विन्ध्याचलं निजं रूपं स मुनिर्नैव दर्शयत् ।
पुनरुत्थास्यति गिरिः चेति मत्वा तु तद्‌भयात् ॥१९३॥
रामस्तु सीतया सार्द्धं भ्रातृभिः सह मंत्रिभिः ।
संसारीव रमानाथो रममाणोऽवसद्‍गृहे ॥१९४॥
अनासक्तोऽपि विषयान्‍ बुभुजे प्रियया सह ।
हनुमत्प्रमुखैः सद्‌भिः वानरैः परिसेवितः ॥१९५॥
राघवे शासति भुवं लोकनाथे रमापतौ ।
वसुधा सस्यसंपन्ना फलवंतश्च भूरुहाः ॥१९६॥
जनाः स्वधर्मनिरताः पतिभक्तिपराः स्त्रियः ।
नापश्यत्पुत्रमरणं कश्चित् राजनि राघवे ॥१९७॥
समारुह्य विमानाग्र्यं राघवः सीतया सह ।
वानरैर्भ्रातृभिः सार्द्धं संचचारावनिं प्रभुः ॥१९८॥
अमानुषाणि कर्माणि चकार बहुशो भुवि ।
लोकानां उपदेशार्थं परमात्मा रघूत्तमः ॥१९९॥
कोटिशः शिवलिंगानि स्थापयामास सर्वतः ।
अश्वमेधादिविविधान्‍ यज्ञान्‍ विपुलदक्षिणान्‍ ॥२००॥
चकार परमानन्दो मानुषं वपुरास्थितः ।
सीतां तां रमयामास सर्वभोगैरमानुषैः ॥२०१॥
शशास रामो धर्मेण राज्यं परमधर्मवित् ।
कथाः संस्थापयामास सर्वलोकमलापहाः ॥२०२॥
एकादशसहस्राणि सैकादशसमानि च ।
त्रेतायुगभवान्येव वर्षाणि रघुनन्दनः ॥२०३॥
चकार राज्यं धर्मेण लोकवन्द्यपदांबुजः ।
कलेर्मानेन ज्ञेयानि लक्षाण्येकादशैंव हि ॥२०४॥
सैकादशशतान्यत्र रामो राज्यं चकार सः ।
एकपत्‍नीव्रतो रामो राजर्षिः सर्वदा शुचिः ॥२०५॥
यस्यैकमेव तच्चासीत् पत्‍नीवाक्यं शरस्तथा ।
गृहमेधीय मखिलं आचरन्‍ शिक्षितुं नरान्‍ ॥२०६॥
सीता प्रेम्णा‍ऽनुवृत्त्या च प्रश्रयेण दमेन च ।
भर्तुर्मनोहरा साध्वी भावज्ञा सा ह्रिया भिया ॥२०७॥
युक्ता तं रंजयामास राजानं राघवं मुदा ।
एवं गिरीन् रजे प्रोक्तं रामराज्योत्तरोद्‌भवम् ॥२०८॥
चरितं रघुनाथस्य यथा पृष्टं त्वया मम ।
श्रवणात्सर्वपापघ्नं महामंगलकारकम् ॥२०९॥
सारकांडमिदं देवि ये श्रृण्वन्ति नरोत्तमाः ।
तेषां मनोरथाः सर्वे परिपूर्णा भवन्ति हि ॥२१०॥
इति श्रीशतकोटिरामचरितांतर्गते श्रीमद् आनन्दरामायणे वाल्मीकीये सारकाण्डे
अगस्तिरामशिवपार्वतीसंवादे त्रयोदशः सर्गः ॥१३॥
सारकाण्डे श्लोकाः
प्रथमसर्गे ॥१०९॥ द्वितीये ॥३१॥ तृतीये ॥३९४॥ चतुर्थे ॥१७०॥
पंचमे ॥१४०॥ षष्ठे ॥१३०॥ सप्तमे ॥१६६॥ अष्टमे ॥१२५॥
नवमे ॥३१०॥ दशमे ॥२७३॥ एकादशे ॥२८८॥ द्वादशे ॥२०२॥
त्रयोदशे ॥२१०॥ एवं सारकाण्डस्य पूर्णश्लोकसंख्या ।२५५८॥
इति श्रीमद् आदानन्दरामायणे सारकाण्डं समाप्तम्

श्रीरामचन्द्रार्पणमस्तु

GO TOP