॥ श्रीवाल्मीकिमहामुनिकृत शतकोटिरामचरितान्तर्गतं ॥

॥ आनन्दरामायणम् ॥

यात्राकाण्डम्

॥ प्रथमः सर्गः ॥
[ श्लोकोत्पत्तिरामायणकथनम् ]

॥ श्रीसद्‌गुरु रामचंद्राय नमः ॥


श्रीपार्वत्युवाच
सारकांडं त्वया शंभो कीर्तितं बहुपुण्यदम् ।
मया श्रुतं तु पृच्छामि यत्तद्वक्तुं त्वमर्हसि ॥ १ ॥
कथं कृता वाजिमेधा राघवेण बलीयसा ।
रामादीनां चतुर्णां हि बन्धूनां सन्ततिं वद ॥ २ ॥
स्वपुत्रबन्धुपुत्राश्च कथं स्त्रीभिः सुयोजिताः ।
दशवर्षसहस्राणि दशवर्षशतानि च ॥ ३ ॥
तथैकादश वर्षाणि त्रेतायुगभवानि हि ।
राज्यं कृतं त्वया प्रोक्तं विस्तरात्तु वदस्व माम् ॥ ४ ॥
यानि यानि चरित्राणि राघवेण कृतानि हि ।
तानि तानि हि कृत्स्नानि विस्तराद्वक्तुमर्हसि ॥ ५ ॥
इति देविवचः श्रुत्वा शम्भुस्तां पुनरब्रवीत् ।
श्रीमहादेव उवाच -
सम्यक् पृष्टं त्वया देवि राघवस्य कथानकम् ॥ ६ ॥
ममापि हर्षः संजातस्तद्वदामि तवान्तिकम् ।
चरितं रघुनाथस्य शतकोटिप्रविस्तरम् ॥ ७ ॥
एकैकमक्षरं पुंसां महापातकनाशनम् ।
वाल्मीकिना कृतं पूर्वमेकदा तद्वदामि ते ॥ ८ ॥
वाल्मीकिस्त्वेकदा स्नातुं जगाम तमसां नदीम् ।
शिष्येण सहितो गत्वा भूमौ स्थाप्य कमण्डलुम् ॥ ९ ॥
आवश्यकं तु संपाद्य कृत्वा शौचविधिं ततः ।
यावद्गच्छति स्नानार्थं दर्भपाणिः स वै मुनिः ॥ १० ॥
तावद्ददर्श तमसातीरे कौतुकमुत्तमम् ।
क्रौंचयुग्मे हतः क्रौञ्चो निषादेन पतत्त्रिणा ॥ ११ ॥
क्रौंची शोकसमाविष्टा विललापातिदुःखिता ।
वियुक्ता पतिना तेन द्विजेन सहचारिणा ॥ १२ ॥
ताम्रशीर्षेण मत्तेन पत्त्रिणा सा हतेन च ।
तथाविधं द्विज दृष्ट्वा निषादेन निपातितम् ॥ १३ ॥
ऋषेर्धर्मात्मनस्तस्य कारुण्यं समपद्यत ।
ततः करुणयाऽऽविष्टस्त्वधर्मोऽयमिति द्विजः ॥ १४ ॥
निशम्य रुदतीं क्रौचीमिदं वचनमब्रवीत् ।
मा निषाद प्रतिष्ठां त्वमगमः शाश्वती समा ॥ १५ ॥
यत्क्रौचमिथुनादेकमवधीः काममोहितम् ।
तस्येत्थं ब्रुवतश्चिन्ता बभूव हृदि वीक्षतः ॥ १६ ॥
शोकार्तेनास्य शकुनेः किमिदं व्याहृतं मया ।
चितयन्स महाप्राज्ञश्चकार मतिमान मतिम् ॥ १७ ॥
शिष्यं चैवाब्रवीद्वाक्यमिदं स मुनिपुंगवः ।
पादबद्धोऽक्षरसमस्तंत्रीलयसमन्वितः ॥ १८ ॥
शोकार्तस्य प्रवृत्तो मे श्लोको भवतु नान्यथा ।
शिष्यस्तु तस्य ब्रुवतो मुनेवाक्यमनुत्तमम् ॥ १९ ॥
प्रतिजग्राह संतुष्टस्तस्य तुष्टोऽभवन्मुनिः ।
सोऽभिषेकं ततः कृत्वा तीर्थे तस्मिन्यथाविधि ॥ २० ॥
तमेव चितयन्नर्थमुपावर्तत वै मुनिः ।
भारद्वाजस्ततः शिष्यो विनीतः श्रुतवान् गुरोः ॥ २१ ॥
कलशं पूर्णमादाय प्रहृष्टश्च जगाम ह । वित्
स प्रविश्याश्रमपदं शिष्येण सह धर्म ॥ २२ ॥
उपविष्टः कथाश्चान्याश्चकार ध्यानमास्थितः ।
तत्राजगाम लोकानां कर्ता ब्रह्मा स्वयं प्रभुः ॥ २३ ॥
चतुर्मुखा महातेजा द्रष्टुं तं मुनिपुंगवम् ।
वाल्मीकिरथ तं दृष्ट्वा सहसोत्थाय वाग्यतः ॥ २४ ॥
प्रांजलिः प्रयतो भूत्वा तस्थौ परमविस्मितः ।
पूजयामास तं देवं पाद्यार्घ्यासनवंदनैः ॥ २५ ॥
प्रणम्य विधिवच्चैनं पृष्ट्वा चैव निरामयम् ।
अथोपविश्य भगवानासने परमार्चिते ॥ २६ ॥
महर्षये वाल्मीकये संदिदेशासनं ततः ।
ब्रह्मणा समनुज्ञातः सोऽप्युपाविशदासने ॥ २७ ॥
उपविष्टे तदा तस्मिन् साक्षाल्लोकपितामहे ।
तद्‌गतेनैव मनसा वाल्मीकिध्यानमास्थितः ॥२८॥
पापात्मना कृतं कष्टं वैरग्रहणबुद्धिना ।
यस्तादृशं चारुरवं क्रौंचं हन्यादकारणम् ॥ २९ ॥
शोचन्नेवं पुनः क्रौंचीमुपश्लोकमिमं जगौ ।
पुनरंतर्गतमना भूत्वा शोकपरायणः ॥ ३० ॥
तमुवाच ततो ब्रह्मन् प्रहसन् मुनिपुंगवम् ।
श्लोक एव त्वया बद्धो नात्र कार्या विचारणा ॥ ३१ ॥
मच्छन्दादेव ने ब्रह्मन् प्रवृत्तेयं सरस्वती ।
रामस्य चरितं कृत्स्नं कुरु त्वमृषिसत्तम ॥ ३२ ॥
धर्मान्मनो गुणवतो लोके रामस्य धीमतः ॥ ३३ ॥
वृत्तं कथय धीरस्य यथा ने नारदाच्छ्रुतम् ।
रहस्यं च प्रकाशं च यद्वृत्तं तस्य धीमतः ॥ ३४ ॥
रामस्य सह सौमित्रेः कीशानां रक्षसा तथा ।
वैदेह्याश्चैव यद्वृत्तं प्रकाशं यदि वा रहः ॥ ३५ ॥
तच्चाप्यविदितं सर्वं विदितं ते भविष्यति ।
न ते वागनृता काव्ये काचिदत्र भविष्यति ॥ ३६ ॥
कुरु रामकथां पुण्यां श्लोकबद्धां मनोरमाम् ।
यावत्स्थास्यंति गिरयः सरितश्च महीतले ॥ ३७ ॥
तावद्‌रामायणकथा लोकेषु प्रचरिष्यति ।
यावद्‌रामायणकथा त्वत्कृता प्रचरिष्यति ॥ ३८ ॥
तावदूर्ध्वमधश्च त्वं मल्लोकेषु निवत्स्यसि ।
इन्युक्त्वा भगवान् ब्रह्मा स्वयं रामस्य धीमतः ॥ ३९ ॥
चरित्रं श्रावयामास वेदवाक्यैः सुपुण्यदैः ।
ततस्तेनार्चितो ब्रह्मा तत्रैवांतरधीयत ॥ ४० ॥
ततः सशिष्यो भगवान् मुनिर्विस्मयमाययौ ।
तस्य शिष्यास्ततः सर्वे जगुः श्लोकमिमं पुनः ॥ ४१ ॥
मुहुमुहुः प्रीयमाणाः प्राहुश्च भृशविस्मिताः ।
समाक्षरश्चतुर्भिर्यः पादैर्गीतो महर्षिणा ॥
सोऽनुव्याहरणाद्भूयः शोकः श्लोकत्वमागतः ॥ ४२ ॥
तस्य बुद्धिरियं जाता महर्षेर्भावितात्मनः ।
कृत्स्नं रामायणं काम्यमीदृशैः करवाण्यहम् ॥ ४३ ॥
उदारवृत्तार्थपदैर्मनोरमै-
    स्तदाऽस्य रामस्य चकार कीर्तिमान् ।
समाक्षरैः श्लोकवरैर्यशस्विनो
    मुनिः स काव्यं शतकोटिसंमितम् ॥४४॥
इति श्रीशतकोटिरामचरितांतर्गते श्रीमदानन्दरामायणे वाल्मीकीये
यात्राकाण्डे श्लोकोत्पत्तिरामायणकथनं नाम प्रथमः सर्गः ॥ १ ॥



श्रीसीतारामचन्द्रार्पणमस्तु

GO TOP