॥ श्रीमद् अध्यात्मरामायण ॥

॥ उत्तरकाण्ड ॥

॥ षष्ठः सर्गः ॥

श्रीमहादेव उवाच
एकदा मुनयः सर्वे यमुनातीरवासिनः ।
आजग्मू राघवं द्रष्टुं भयात् लवणरक्षसः ॥ १ ॥
कृत्वाग्रे तु मुनिश्रेष्ठं भार्गवं च्यवनं द्विजाः ।
असङ्‍ख्यायाताः समायाता रामाद् अभयकाङ्‌क्षिणः ॥ २ ॥
तान्पूजयित्वा परया भक्‍त्या रघुकुलोत्तमः ।
उवाच मधुरं वाक्यं हर्षयन् मुनिमण्डलम् ॥ ३ ॥
करवाणि मुनिश्रेष्ठाः किं आगमनकारणम् ।
धन्योऽस्मि यदि यूयं मां प्रीत्या द्रष्टुमिहागताः ॥ ४ ॥
दुष्करं चापि यत्कार्यं भवतां तत्करोम्यहम् ।
आज्ञापयन्तु मां भृत्यं ब्राह्मणा दैवतं हि मे ॥ ५ ॥
तत् श्रुत्वा सहसा हृष्टः च्यवनो वाक्यमब्रवीत् ।
मधुनामा महादैत्यः पुरा कृतयुगे प्रभो ॥ ६ ॥
आसीदतीव धर्मात्मा देवब्रह्मणपूजकः ।
तस्य तुष्टो महादेवो ददौ शूलमनुत्तमम् ॥ ७ ॥
प्राह चानेन यं हंसि स तु भस्मीभविष्यति ।
रावणस्यानुजा भार्या तस्य कुम्भीनसी श्रुता ॥ ८ ॥
तस्यां तु लवणो नाम राक्षसो भीमविक्रमः ।
आसीत् दुरात्मा दुर्धर्षो देवब्राह्मणहिंसकः ॥ ९ ॥
पीडितास्तेन राजेन्द्र वयं त्वां शरणं गताः ।
तच्छ्रुत्वा राघवोऽप्याह मा भीर्वो मुनिपुङ्‍गवाः ॥ १० ॥
लवणं नाशयिष्यामि गच्छन्तु विगतज्वराः ।
इत्युक्‍त्वा प्राह रामोऽपि भ्रातृन् को वा हनिष्यति ॥ ११ ॥
लवणं राक्षसं दद्यात् ब्राह्मणेभ्योऽभयं महत् ।
तत् श्रुत्वा प्राञ्जलिः प्राह भरतो राघवाय वै ॥ १२ ॥
अहमेव हनिष्यामि देवाज्ञापय मां प्रभो ।
ततो रामं नमस्कृत्य शत्रुघ्नो वाक्यमब्रवीत् ॥ १३ ॥
लक्ष्मणेन महत्कार्यं कृतं राघवसंयुगे ।
नन्दिग्रामे महाबुद्धिः भरतो दुःखमन्वभूत् ॥ १४ ॥
अहमेव गमिष्यामि लवणस्य वधाय च ।
त्वत्प्रसादात् रघुश्रेष्ठ हन्यां तं राक्षसं युधि ॥ १५ ॥
तच्छ्रुत्वा स्वाङ्‍कमारोप्य शत्रुघ्नं शत्रुसूदनः ।
प्राहाद्यैवाभिषेक्ष्यामि मथुराराज्यकारणात् ॥ १६ ॥
आनाय्य च सुसम्भारा लक्षमणेनाभिषेचने ।
अनिच्छन्तमपि स्नेहात् अभिषेकं अकारयत् ॥ १७ ॥
दत्त्वा तस्मै शरं दिव्यं रामः शत्रुघ्नमब्रवीत् ।
अनेन जहि बाणेन लवणं लोककण्टकम् ॥ १८ ॥
स तु सम्पूज्य तच्छूलं गेहे गच्छति काननम् ।
भक्षणार्थं तु जन्तूनां नानाप्राणिवधाय च ॥ १९ ॥
स तु नायाति सदनं यावद्वनचरो भवेत् ।
तावदेव पुरद्वारि तिष्ठ त्वं धृतकार्मुकः ॥ २० ॥
योत्स्यते स त्वया क्रुद्धः तदा वध्यो भविष्यति ।
तं हत्वा लवणं क्रूरं तद्वनं मधुसंज्ञितम् ॥ २१ ॥
निवेश्य नगरं तत्र तिष्ठ त्वं मेऽनुशासनात् ।
अश्वानां पञ्चसाहस्रं रथानां च तदर्धकम् ॥ २२ ॥
गजानां षट् शतानीह पत्तिनामयुतत्रयम् ।
आगमिष्यति पञ्चात्त्वं अग्रे साधय राक्षसम् ॥ २३ ॥
इत्युक्‍त्वा मूर्ध्न्यवघ्राय प्रेषयामास राघवः ।
शत्रुघ्नं मुनिभिः सार्धं आशीर्भिरभिनन्द्य च ॥ २४ ॥
शत्रुघ्नोऽपि तथा चक्रे यथा रामेण चोदितः ।
हत्वा मधुसुतं युद्धे मथुरां अकरोत्पुरीम् ॥ २५ ॥
स्फीतां जनपदां चक्रे मथुरां दानमानतः ।
सीतापि सुषुवे पुत्रौ द्वौ वाल्मीकेरथाश्रमे ॥ २६ ॥
मुनिस्तयोर्नाम चक्रे कुशो ज्येष्टोऽनुजो लवः ।
क्रमेण विद्यासम्पन्नौ सीतापुत्रौ बभूवतुः ॥ २७ ॥
अपनितौ च मुनिना वेदाध्ययनतत्परौ ।
कृत्स्नं रामायणं प्राह काव्यं बालकयोर्मुनिः ॥ २८ ॥
शङ्‌करेण पुरा प्रोक्तं पार्वत्यै पुरहारिणा ।
वेदोपबृंहनार्थाय तावग्राहयत प्रभुः ॥ २९ ॥
कुमारौ स्वरसम्पन्नौ सुन्दरौ अश्विनौ इव ।
तन्‍त्रीतालसमायुक्तौ गायन्तौ चेरतुर्वने ॥ ३० ॥
तत्र तत्र मुनीनां तौ समाजे सुररूपिणौ ।
गायन्तावभितो दृष्ट्वा विस्मिता मुनयोऽब्रुवन् ॥ ३१ ॥
गन्धर्वेष्विव किन्नरेषु भुवि वा देवेषु देवालये
पातालेष्वथवा चतुर्मुखगृहे लोकेषु सर्वेषु च ।
अस्माभिश्चिरजीविभिश्चिरतरं दृष्ट्वा दिशः सर्वतो
नाज्ञायीदृशगीतवाद्यगरिमा नादर्शि नाश्रावि च ॥ ३२ ॥
एवं स्तुवद्‌भिरखिलैः मुनिभिः प्रतिवासरम् ।
आसाते सुखमेकान्ते वाल्मीकेराश्रमे चिरम् ॥ ३३ ॥
अथ रामेऽश्वमेधादीन् चकार बहुदक्षिणान् ।
यज्ञान् स्वर्णमयीं सीतां विधाय विपुलद्युतिः ॥ ३४ ॥
तस्मिन्विताने ऋषयः सर्वे राजर्षयस्तथा ।
ब्राह्मणाः क्षत्रिया वैश्याः समाजग्मुर्दिदृक्षवः ॥ ३५ ॥
वाल्मीकिरपि सङ्‍गृह्य गायन्तौ तौ कुशीलवौ ।
जगाम ऋषिवाटस्य समीपं मुनिपुङ्‌गवः ॥ ३६ ॥
तत्रैकान्ते स्थितं शान्तं समाधिविरमे मुनिम् ।
कुशः पप्रच्छ वाल्मीकिं ज्ञानशास्त्रं कथान्तरे ॥ ३७ ॥
भगवञ्छ्रोतुमिच्छामि सङ्‍क्षेपाद्‌भवतोऽखिलम् ।
देहिनः संसृतिर्बन्धः कथं उत्पद्यते दृढः ॥ ३८ ॥
कथं विमुच्यते देही दृढबन्धाद्‌भवाभिधात् ।
वक्तुमर्हसि सर्वज्ञ मह्यं शिष्याय ते मुने ॥ ३९ ॥
वाल्मीकिरुवाच
शृणु वक्ष्यामि ते सर्वं सङ्‍क्षेपाद्‌बन्धमोक्षयोः ।
स्वरूपं साधनं चापि मत्तः श्रुत्वा यथोदितम् ॥ ४० ॥
तथैवाचर भद्रं ते जीवन्मुक्तो भविष्यसि ।
देह एव महागेहं अदेहस्य चिदात्मनः ॥ ४१ ॥
तस्याहङ्‍कार एवास्मिन् मन्‍त्री तेनैव कल्पितः ।
देहगेहाभिमानं स्वं समारोप्य चिदात्मनि ॥ ४२ ॥
तेन तादात्म्यमापन्नः स्वचेष्टितं अशेषतः ।
विदधाति चिदानन्दे तद्वासितवपुः स्वयम् ॥ ४३ ॥
तेन सङ्‌कल्पितो देही सङ्‌कल्पनिगडावृतः ।
पुत्रदारगृहादीनि सङ्‌कल्पयति चानिशम् ॥ ४४ ॥
सङ्‌कल्पयन् स्वयं देही परिशोचति सर्वदा ।
त्रयस्तस्याहमो देहा अधमोत्तम मध्यमाः ॥ ४५ ॥
तमः सत्त्वरजः संज्ञा जगतः कारणं स्थितेः ।
तमोरूपाद्धि सङ्‌कल्पान् नित्यं तामसचेष्टया ॥ ४६ ॥
अत्यन्तं तामसो भूत्वा कृमिकीटत्वमाप्नुयात् ।
सत्त्वरूपो हि सङ्‌कल्पो धर्मज्ञानपरायणः ॥ ४७ ॥
अदूरमोक्षसाम्राज्यः सुखरूपो हि तिष्ठति ।
रजोरूपो हि सङ्‌कल्पो लोके स व्यवहारवान् ॥ ४८ ॥
परितिष्ठति संसारे पुत्रदारानुरञ्जितः ।
त्रिविधं तु परित्यज्य रूपमेतन् महामते ॥ ४९ ॥
सङ्‌कल्पं परमाप्नोति पदमात्मपरिक्षये ।
दृष्टीः सर्वाः परित्यज्य नियम्य मनसा मनः ॥ ५० ॥
सबाह्याभ्यन्तरार्थस्य सङ्‌कल्पस्य क्षयं कुरु ।
यदि वर्षसहस्राणि तपश्चरसि दारुणम् ॥ ५१ ॥
पातालस्थस्य भूस्थस्य स्वर्गस्थस्यापि तेऽनघ ।
नान्यः कश्चिदुपायोऽस्ति सङ्‌कल्प उपशमादृते ॥ ५२ ॥
अनाबाधेऽविकारे स्वे सुखे परमपावने ।
सङ्‌कल्पोपशमे यत्‍नं पौरुषेण परं कुरु ॥ ५३ ॥
सङ्‌कल्पतन्तौ निखिला भावाः प्रोताः किलानघ ।
छिन्ने तन्तौ न जानीमः क्व यान्ति विभवाः पराः ॥ ५४ ॥
निःसङ्‌कल्पो यथाप्राप्त व्यवहारपरो भव ।
क्षये सङ्‌कल्पजालस्य जीवो ब्रह्मत्वमाप्नुयात् ॥ ५५ ॥
अधिगतपरमार्थतामुपेत्य
प्रसभमपास्य विकल्पजालमुच्चैः ।
अधिगमय पदं तदद्वितीयं
विततसुखाय सुषुप्तचित्तवृत्तिः ॥ ५६ ॥
इति श्रीमद् अध्यात्मरामायणे उमामहेश्वरसंवादे
उत्तरकाण्डे षष्ठः सर्गः ॥ ६ ॥

GO TOP