॥ श्रीवाल्मीकिमहामुनिकृत शतकोटिरामचरितान्तर्गतं ॥

॥ आनन्दरामायणम् ॥

सारकाण्डम्

॥ तृतीयः सर्गः ॥
[ताटिकावध-अहल्योद्धार तथासीतास्वयंवर]

॥ श्रीसद्‌गुरु रामचंद्राय नमः ॥

श्रीशिव उवाच -
एतस्मिन् अंतरेऽयोध्यां विश्वामित्रो ययौ मुनिः ।
यज्ञसंरक्षणार्थाय राजानं मुनिरब्रवीत् ॥ १ ॥
रामं च लक्षमणं चापि मह्यं देहि कियद्दिनम् ।
गुरूनामंत्र्य राजाऽपि प्रेषयामास तौ तदा ॥ २ ॥
जग्मतुर्यज्ञरक्षार्थं गाधिजेन रथस्थितौ ।
ततः प्रहृष्टौ गाधेयः स्थित्वा कामाश्रमे पथि ॥ ३ ॥
प्रभाते स्नातयोः स्नातः प्रादाद् विध्यास्तयोर्मुदा ।
माहेश्वरीं च सद्विद्यां धनुर्विद्यापुरःसराम् ॥ ४ ॥
शास्त्रीमास्त्रीं लौकिकीं च रथविद्या गजोद्‍भवाम् ।
अश्वविद्यां गदाविद्यां मंत्राह्वानविसर्जने ॥ ५ ॥
क्षृत्तृट् श्रमविलोपिन्यौ बलामतिबलामपि ।
सर्वविद्यास्त्ववाप्याथ ह्युभौ तौ रामलक्ष्मणौ ॥ ६ ॥
वनौकसां हितार्थाय जघ्नुतुस्तत्र राक्षसान् ।
पथि पांथजनध्वंस कारिणीं नाम ताटिकाम् ॥ ७ ॥
राक्षसीमेकबाणेन जघान रघुनंदनः ।
अप्सरा सा मुनिं पूर्वं क्षोभयामास कानने ॥ ८ ॥
राक्षसी तस्य शापेन बभूव सुंदकामिनी ।
मारीचश्च सुबाहुश्च सुंदात्तस्याः सुतौ उभौ ॥ ९ ॥
रामबाणात् गतिस्तस्याः कीर्तिता मुनिना पुरा ।
सा प्राप्य दिव्यदेहत्वं नत्वा रामं दिवं गता ॥ १० ॥
विश्वामित्राश्रमं रामो गत्वा तद् यज्ञघातकान् ।
राक्षसान् निशितैर्बाणैः जघान रघुनंदनः ॥ ११ ।
प्रारंभं रणयज्ञस्य चकार रघुनंदनः ।
हत्वा सहस्रशः श्रीमान् राक्षसान् निशितैः शरैः ॥ १२ ॥
क्षिप्त्वा बाणेन मारीचं शतयोजनसागरे ।
हत्वा सुबाहुं चैकेन बाणेन रघ्सत्तमः ॥ १३ ॥
स कृत्वा गाधियज्ञस्य समाप्तिं रघुनंदनः ।
नाकरोत् रणयज्ञस्य समाप्तिं स्वकृतस्य च ॥ १४ ॥
कालानलमतृप्तं तं दृष्ट्वा तत्तृप्तिहेतवे ।
श्रुत्वा जनकगेहे वै तत्कन्यायाः स्वयंवरम् ॥ १५ ॥
रामलक्ष्मणसंयुक्तो मुनिस्तं नगरं ययौ ।
गमनावसरे मार्गे । भर्तृशप्तां शिलां मुनिः ॥ १६ ॥
मुनिरूपिमहेंद्रेण भुक्तां रहसि शोभनाम् ।
गौतमस्याम्गनां नाम ह्यहल्यां चावदत्तयोः ॥ १७ ॥
ब्रह्मणा निर्मिताऽहल्या द्विमुखी गोःपरिक्रमात् ।
दत्ता पुरा गौतमाय विसृज्येंद्रादिकान् सुरान् ॥ १८ ॥
तत्स्मरन् मघवा वैरं तां भुक्त्वा मुनिशापतः ।
सहसा भगवान् जातः सहस्रलोचनस्ततः ॥ १९ ॥
श्रीरामचंद्रो निजपादपद्म
स्पर्शेन तां गौतमधर्मपत्‍नीम् ।
निष्कल्मषां अद्‍भुतरूपयुक्तां
चकार देवः करुणासमुद्रः ॥ २० ॥
नदारूपा जनस्थाने अहल्या गौतमशापतः ।
रामेण भ्रमताऽरण्ये स्वांघ्रिस्पर्शात् समुद्‍धृता ॥ २१ ॥
कल्पभेदाद् वदंतीत्थं मुनयश्चापि केचन ।
नैव शापोऽस्ति सर्वेषु कल्पेषु सत्कथा तथा ॥ २२ ॥
ततस्तौ सुरगंधर्व वर्षितौ पुष्पवृष्टिभिः ।
दत्त्वाऽहल्यां गौतमाय जगमतुर्जाह्नवीं प्रति ॥ २३ ॥
रामं नौकां कांक्षमाणं नौकापो वाक्यमब्रवीत् ।
नाविक उवाच -
आदावहं क्षालयित्वा पादरेणूँस्तव प्रभो ॥ २४ ॥
पश्चात् नौकां स्पर्शयामि तव पादौ रघूद्वह ।
नोचेत् त्वत्पादरजसा स्पृष्टा नारी भविष्यति ॥ २५ ॥
क्षालयामि तव पादपंकजं
नाथ दारुदृषदोः किमन्तरम् ।
मानुषीकरणचूर्णमस्ति ते
इति लोके हि कथा प्रथीयसी ॥ २६ ॥
अस्ति मे गृहिणी गेहे किं करोम्यपरां स्त्रियम् ।
श्रीशिव उवाच -
इति तद्वाक्यमाकर्ण्य विहस्य रघुनंदनः ॥ २७ ॥
तेन संक्षालितपदो नौकां तामारुरोह सः ।
ततस्तीर्त्वा जाह्नवीं त् मिथिलां मुनिभिर्ययुः ॥ २८ ॥
मिथिलायां समाहूताः कोटिशः पार्थिवा ययुः ।
चारणास्यात् दशास्योपि श्रुत्वाऽगच्छत् स्वमंत्रिभिः ॥ २९ ॥
अनाहूतः पुष्पकेण सेनया परिवारितः ।
न ययौ पुत्रविरहात् राजा दशरथस्तदा ॥ ३० ॥
अत्यादरैर्विदेहेन समाहूतोऽपि भक्तितः ।
श्रीरामलक्षमणाभ्यां च विश्वामित्रो मुनीश्वरः ॥ ३१ ॥
शनैर्मुदा स मिथिलां बहिश्चोपवनं ययौ ।
विश्वामित्रं समानेतुं जनको मंत्रिभिः सह ॥ ३२ ॥
यावद् गन्तुं मनश्चक्रे तावत् शिष्यं समाययौ ।
विश्वामित्रस्य तं दृष्ट्वा ननाम जनकस्तदा ॥ ३३ ॥
ततः शिष्यः करं धृत्वा जनकस्य करेण हि ।
नीत्वा रहसि प्रोवाच वचनम् स्वगुरोः स्फुटम् ॥ ३४ ॥
त्वामाह गाधिजो राजन् राज्ञो दशरथस्य हि ।
मया पुत्रौ समानीतौ वीरौ श्रीरामलक्ष्मणौ ॥ ३५ ॥
तौ सीतोर्मिलयोः पाणि - ग्रहणं हि करिष्यतः ।
पणीकृतं त्वया चापं रामोऽयं खण्डयिष्यति ॥ ३६ ॥
अतो वरविधानेन तौ पुरीं नेतुमर्हसि ।
एतत् वृत्तं चापभंग - पर्यंतं मा स्फुटं कुरु ॥ ३७ ॥
इत्युक्त्वा जनकं शिष्यः स्वगुरुं शीघ्रमाययौ ।
जनकोऽपि मुदा युक्तः तूष्णीमेव प्रीं निजाम् ॥ ३८ ॥
तोरणाद्यैः शोभयित्वा सैन्येन परिवेष्टितः ।
वारणेम्द्रं पुरुस्कृत्य सभार्यस्तैर्नृपैः सह ॥ ३९ ॥
सुमेधादिप्रमदाभिः नानावाद्यैः मनोहरैः ।
विद्यामित्रांतिकं गत्वा नत्वा संपूज्य तं मुनिम् ॥ ४० ॥
अज्ञात इव तौ पृष्ट्वा श्रुत्वा तद्‌वृत्तमादरात् ।
वस्त्रालंकारभूषाद्यैः सत्कृत्य विधिवत् नृपः ॥ ४१ ॥
गजयोस्तौ समारोप्य चामराद्यैः सुवीजितौ ।
विश्वामित्रेण मुनिना निनाय मिथिलां पुरीम् ॥ ४२ ॥
ननृतुर्वारनार्यश्च तुष्टुवुर्बंदिमागधाः ।
नेदुर्नानासुवाद्यानि जगुस्ते तु नटादयः ॥ ४३ ॥
तदा तौ हट्टमार्गेण जग्मतुश्चातिशोभितौ ।
श्रुत्वा च पुरनार्यश्च वीरौ श्रीरामलक्ष्मणौ ॥ ४४ ॥
समागतौ इति मुदा जग्मतुश्चातिशोभितौ ।
कंजनेत्रैः ददृशुस्तौ ववर्षुः पुष्पवृष्टिभिः ॥ ४५ ॥
तदा परस्परं प्रोचुः सीतायोग्यो वरस्त्वयम् ।
रामोऽस्माकं रोचते हि करोत्वेवं विधिस्तु सः ॥ ४६ ॥
उर्मिलायास्तु योगोयोऽयं लक्ष्मणोऽस्ति सुलक्षणः ।
अस्माकं सुकृतैरह्य तयोरेतौ पती शुभौ ॥ ४७ ॥
श्रीरामलक्ष्मणौ रम्यौ भवतश्चोत्तमोत्तमौ ।
एवं तासां कामिनीनां वचनानि नृपात्मजौ ॥ ४८ ॥
श्श्रुवतुः शुभान्येव ह्यर्ध्वास्यौ तौ ददर्शतुः ।
ततस्ते मिलिताः सर्वे नृपाः प्रोचुः परस्परम् ॥ ४९ ॥
एतादृशो . . . . . . . . स्मागतम् ।
तदोत्सवः कृतो नैव ह्यनयोः क्रियते कथम् ॥ ५० ॥
किमंतःस्थेन राज्ञाद्य सीता रामाय अर्पिता ।
किमस्माकं समाहूय मानभंगोऽद्य नः कृतः ॥ ५१ ॥
एव तेषां नृपाणां च वचनानि नृपात्मजौ ।
जनको गाधिजश्चापि शुश्रृवुस्ते समततः ॥ ५२ ॥
ततः शनैः शनैःः वीरौ गवक्षैः स्त्रीभिरीक्षितौ ।
जग्मतुर्वाद्य घोषाद्यैः जनकस्य सभां प्रति ॥ ५३ ॥
ततोऽवरतुः वीरौ गजाभ्यां मुनिना सह ।
तत् स्वयंवरशालायां उपवेष्टेषु राजसु ॥ ५४ ॥
विश्वामित्रानुगौ तौ हि मुनिशालां प्रजग्मतुः ।
ऋद्धायां मुनिशालायां मुनेरग्रे निषीदतुः ॥ ५५ ॥
एवं सभायां ऋद्धायां राज्ञा कन्याप्रतिग्रहे ।
प्रतिज्ञातं मम धनुः तत्सज्ज त्वमुपस्थितम् ॥ ५६ ॥
तेनैकविंशद्वारं हि निःक्षत्रा पृथिवी कृता ।
सहस्रबाहुः निहतः स्वपितुर्घातकारणात् ॥ ५७ ॥
तन् मैथिलांगणे स्थाप्य जामदग्न्यौ नृपं ययौ ।
अश्ववत् तद्धनुः कृत्वा जानकी क्रीडनं व्यधात् ॥ ५९ ॥
जामदग्न्यस्तेन सीतां ज्ञात्वा लक्ष्मीं तदिच्छया ।
ददौ नृपं पणार्थं तद् धनुरन्यैर्दुरासदम् ॥ ६० ॥
पणीकृतं धनुस्तच्च विदेहेन स्वयंवरे ।
ततः सभायां ऋद्धायां जनकः प्राह शंकितः ॥ ६१ ॥
संस्थाप्य राज्ञांपुरतः तन्मे चापमनुत्तमम् ।
शत्रागारात् समानीतं वृषैः पंचशतैस्तु यत् ॥ ६२ ॥
सीतास्वयंवरार्थं यत् न्यस्तं परशुधारिणा ।
नृप प्राह सभामध्ये यो वीरः त्वद्य सदसि ॥ ६३ ॥
करिष्यति धनुः सज्जं तं वै सीता वरिष्यति ।
तत्तस्य वचनं श्रुत्वा धनुर्दृष्ट्वा अचलोपमम् ॥ ६४ ॥
अधोमुखास्तदा सर्वे बभुवुः पार्थिवोत्तमाः ।
केचित् भूमेः समुद्‌वोढुं धनुः शक्ता न चाभवन् ॥ ६५ ॥
भूमेरुच्चालिते केचित् ऊर्ध्वं नेतुं न चाशकन् ।
सर्वेऽप्युच्चालने तस्य नृपाः शक्ता न चाभवन् ॥ ६६ ॥
सज्जीकारः कुतस्तस्य मनसाऽप्यविचिंतितः ।
धनुः सज्जीकृतौ सर्वान् नृपान् ज्ञात्वा पराङ्‌मुखान् ॥ ६७ ॥
तदातिगर्वसंरूढः सभायां रावणोऽब्रवीत् ।
धनुषः सन्निधिं गत्वा विहसन् जनकं प्रति ॥ ६८ ॥
येन वै निर्जिता देवाः त्रैलोक्यं स्ववशे कृतम् ।
आन्दोलितो भुजाभिर्हि कैलासो येन वै मया ॥ ६९ ॥
तस्य ते जनकाद्य त्वं बलं पार्थिवसंसदि ।
द्रष्टुमिच्छसि किंत्वस्मिन् लघुचापे तृणोपमे ॥ ७० ॥
एवं वदन् दशास्यः स नम्रो भूत्वा महद् धनुः ।
गृहीतुं वामहस्तेन चालयामास वै तदा ॥ ७१ ॥
न तच्चचाल किंचिच्च तदा दक्षिणसत्करम् ।
पुरः कृत्वा गृहीतुं तत् चालायामास वै पुनः ॥ ७२ ॥
न तच्चचाल तदपि तदाश्चर्येण रावणः ।
भुजाभ्यां चालयामास तदा चापं चचाल न ॥ ७३ ॥
एवं क्रमेण सर्वाभिः भुजाभिश्चालयन् धनुः ।
विंशद्दोर्भिरेकदेशं चापस्योत्ध्वं चकार सः ॥ ७४ ॥
एकोनविंशद्दोर्भिश्च धृत्वा चैव महद् धनुः ।
गुणं भूम्यां निपतितं गृहीतुं हि दशाननः ॥ ७५ ॥
किंचित् भूत्वा विनम्रः स दोष्णा जग्राह तं गुणम् ।
एतस्मिन् अंतरे तच्च पपात तद्धृदये धनुः ॥ ७६ ॥
त तद्विंशतिभुजाभिश्च चचाल हृदयाद्धनुः ।
तदा सभायां ऊर्ध्वास्यः पपात स दशाननः ॥ ७७ ॥
मुकुटः पतितौ भूमौ मुक्तकच्छोऽप्यभूत्तदा ।
तदा विजहसुः सर्वे सभायां पार्थिवोत्तमाः ॥ ७६ ॥
तदा प्राणांतिकं चासीत् रावणस्य सभांगणे ।
अक्षीणि भ्रामयामास लालास्येभ्यो विनिर्ययौ ॥ ७९ ॥
तदा तं वेष्टयामासुः मंत्रिणो राक्षास्तदा ।
धनुरुच्चालने शक्ताः ते अभवन्नैव संसदि ॥ ८० ॥
सद्वस्त्रेषु दशास्यः स विष्ठामूत्रं तदाऽकरोत् ।
ततः सभायां जनकः पुनः प्राहातिशंकितः ॥ ८१ ॥
कोऽपि वीरोऽस्ति भूमौ न किं निर्वीरं हि भूतलम् ।
चेदस्ति कश्चित् सदसि तर्हि सोऽद्य सभांगणे ॥ ८२ ॥
जीवदानं करोत्वस्मै दशास्याय नृपागतः ।
इति वाक्यशराघात भिन्नौ तौ रामलक्ष्मणौ ॥ ८३ ॥
ददर्शुतुः गाधिजस्य मुखं तौ स्फुरितभ्रुवौ ।
विश्वामित्रस्तदा प्राह राम चोत्तिष्ठ राघव ॥ ८४ ॥
किमंतं रावणस्याद्य त्व पश्यसि सभांगणे ।
जीवयैनं राक्षसेंद्रं सज्जं कुरु धनुस्त्विदम् ॥ ८५ ॥
तन्मुर्वचनं श्रुत्वा तथेत्युक्त्वा स राघवः ।
तदोत्थायासनात् वेगात् प्रणनाम मुनीश्वरम् ॥ ८६ ॥
मोष्कास्य कंठात् हारादीन् कटिं बद्ध्वा तदा प्रभुः ।
मुकुटादि दृढं कृत्वा शनैः प्राप सभांगणम् ॥ ८७ ॥
तं राममागतं दृष्ट्वा जनाः सर्वेऽतिविस्मिताः ।
चकिताः पार्थिवाः सर्वे ददृशुः नेत्रपंकजैः ॥ ८८ ॥
परस्परं तदा प्रोचुः किंमूढोऽस्ति शिशुस्त्वयम् ।
यत्रास्माभिः स्थितं तूष्णीं तत्रायं किं करिष्यति ॥ ८९ ॥
केचित् आहुः दशास्यं हि द्रष्टुं बालः समागतः ।
केचित् ऊचुर्बालचेष्टा क्रियते शिशुनाऽत्र हि ॥ ९० ॥
केचित् ऊचुः किमर्थं हि हारा मुक्तास्त्वनेन हि ।
केचित् ऊचुर्गाधिजेन चापं प्रति सुयोजितः ॥ ९१ ॥
केचित् ऊचुर्वैरबुद्ध्या चोदितः किं शिशुस्त्वयम् ।
वधार्थं चापघातेन विश्वामित्रेण राघवः ॥ ९२ ॥
केचित् ऊचुर्बलं त्वस्य मुनिनाऽत्र निरीक्षितुम् ।
चोदितोऽस्त्यत्र श्रीरामः चापेऽयं किं करिष्यति ॥ ९३ ॥
एवं नानाविधान् तर्कान् यावत्कुर्वंति पार्थिवाः ।
तावद् दृष्ट्वाऽग्रतो रामं जनकः प्राह गाधिजम् ॥ ९४ ॥
किमर्थं प्रेषितस्त्वत्र मुने बालः सभांगणे ।
लत्रैते रावनाद्याश्च नृपाः सर्वेऽपि कुण्ठिताः ॥ ९५ ॥
तस्मिन् चापे त्वयं बालः किमागत्य करिष्यति ।
यत्त्वया शिष्यवाक्येन पूर्वं चाहं प्रबोधितः ॥ ९६ ॥
तत्सर्वं तु मृषैवाद्य चापाग्रे मुनिसत्तम ।
क्वायं बालः कोमलांगः क्वेदं चापं सुदुर्धरम् ॥ ९७ ॥
किं चातकः तृषाक्रांतः सागरं शोषयिष्यति ।
एतस्मिन् अंतरे सर्वाः मुमेधाद्यां स्त्रिअयश्च ताः ॥ ९८ ॥
द्विजराजाननं चारु दोर्द्दण्ड द्वयशोभितम् ।
हेमवर्णोपं अरुचिं शृंखला नूपुरांघ्रिणम् ॥ ९९ ॥
श्रृंखलाकंककबर द्वयशोभितसत्करम् ।
दिव्यकुण्डल मुकुट रत्‍नालंकारशोभितम् ॥ १०० ॥
सुजंघं सुपदं शूरं सुजानुं सुंदरोदरम् ।
सुस्कंधं सुहनुं कंबु - कंठं त्रिबलिशोभितम् ॥ १ ॥
स्मितास्यं कोमलोष्ठं च सुदंतावलिराजितम् ।
सुनासं सुकपोलं च कंजपत्रायितेक्षणम् ॥ २ ॥
सुभ्रुभावं च सुस्निग्धं कुंचितालक शोभितम् ।
मुक्तामाणिक्य रत्‍नादि नानाऽलंकार शोभितम् ॥ ३ ॥
मुक्तारत्‍नपुष्पमाला न्यस्तमप्यति शोभितम् ।
न्यस्तहारं न्य्स्तवस्त्रं बद्धपीतांबरादिकम् ॥ ४ ॥
दिव्यमुद्रांगुलिलसत् पंकजद्वयसत्करम् ।
एवं दृष्ट्वा स्त्रियो रामं सभांगणविराजितम् ॥ ५ ॥
न्यस्तकोदण्डतूणीरं शिवचापाभिसंमुखम् ।
प्रार्थयामासुस्ताः सर्वा ऊर्ध्वास्या ऊर्ध्वसत्कराः ॥ ६ ॥
पश्यंत्यो गगने शंभुं मोहात् नारायणं विधिम् ।
साक्षात् नारायणं रामं न ज्ञात्वा ताश्च वै स्त्रियः ॥ ७ ॥
हे शंभो हे रमाकांत हे विधेऽस्मत् पुराकृतैः ।
व्रतदानादि पुण्यैश्च चापं सज्जीकरोत्वयम् ॥ ८ ॥
युष्माभिः नः सुकृतैश्च कर्तव्यं पुष्पवद्धनुः ।
अद्यास्य कंठदेशेऽत्र मालां सीता दधात्वियम् ॥ ९ ॥
नो भवत्वद्य नेत्राणां साफल्ह्यं दर्शनादिह ।
सीतया रामचंद्रस्य वेदिकायां स्थितस्य हि ॥ ११० ॥
एतस्मिन् अंत्रे सीता रामं दृष्ट्वा सभांगणे ।
दिव्यप्रासादसंरूढा सखीभिः परिवेष्टिता ॥ ११ ॥
प्रोच्चचालासनाद् वेगात् आनंदस्वेदसंप्लुता ।
सख्यास्तुलस्याः कंठे स्वां दोर्लतां क्षिप्य सादरम् ॥ १२ ॥
अब्रवीन् मधुरं वाक्यं रत्‍नालंकारमंडिता ।
किंपणोऽत्र कृतः पित्रा मम शत्रुस्वरूपिणा ॥ १३ ॥
क्व रामः सुकुमारांगः क्वेदं चापं नगोपमम् ।
हा विधे किं करोष्यद्य किमस्त्यंतर्गतं तव ॥ १४ ॥
रामाद् विनाऽन्यं पुरुषं मनसाऽहं न रोचये ।
यदि तातो बलादन्यं मां दास्यति तदा ह्यहम् ॥ १५ ॥
त्यजामि जीवितं त्वद्य प्रासादपतनादिना ।
हे शंभो हे विधे दुर्गे हे सावित्रि सरस्वति ॥ १६ ॥
हे गायत्रि स्वरे भानो मघवन् यम तोयप ।
हे कुबेरानल रमे हे विष्णो खगनायक ॥ १७ ॥
हे फणींद्र निशानाथ हे सर्वे निर्जरादयः ।
युष्माकं प्रार्थयाम्यद्य प्रसार्य करपल्लवम् ॥ १८ ॥
सर्वैरेतन्महच्चापं करणीयं तु पुष्पवत् ।
प्रवेशनीयं युष्माभिः श्रीरामभुजडंडयोः ॥ १९ ॥
चतुर्दश वत्सराणि मुनिवृत्त्याऽनुवर्तिनी ।
विचरामि वने चाहं धनुः सज्जं करोत्वयम् ॥ १२० ॥
एवं नानाविधैर्वाक्यैः सीता देवानतोषयत् ।
एवं प्रासादसम्स्थायाः सीताया विविधानि च ॥ २१ ॥
तथा तासां हि नारीणां नृपाणां जनकस्य च ।
वाक्यानि श्रृण्वन् श्रीरामः किंचित् कृत्वा स्मिताननम् ॥ २२ ॥
ययौ चापं नमस्कृत्य कृत्वा तं च प्रदक्षिणम् ।
पुनर्नत्वा शिवं ध्यात्वा गुणं धृत्वा रघुत्तमः ॥ २४ ॥
वामहस्तेन नम्रं तत् चकार सदसि क्षणात् ।
तदा निनेदुर्वाद्यानि तुष्टुवुर्बंदिमागधाः ॥ २५ ॥
एतस्मिन् अंतरे राम वामहस्तबलाद्धनुः ।
मध्येऽभवत्त्रिखंडं तत् शैवं प्राचीनमुत्तमम् ॥ २६ ॥
चापभंगान् महानादः तदाऽभूत् गगनांगणे ।
चकंपे धरणी त्वं च आलिंग्यन् मां भयाद्‍दृढम् ॥ २७ ॥
चुक्षुभुः सागराः सर्वे निनेदुस्ता दोशो दश ।
तारा निपेतुर्धरणीं शिरः शेषोय़्प्यचालयत् ॥ २८ ॥
ववुर्वाताः सुगन्धाश्च देवास्ते गगने स्थिताः ।
वादयामासुर्वाद्यानि पुष्पौघैः समवाकिरन् ॥ २९ ॥
स्वर्वेश्या ननृतुः खे हि देवास्तोषं प्रपेदिरे ।
तदा निनेदुः सदसि भेर्यो दुंदुभयओ वराः ॥ १३० ॥
नववाद्यस्वनाः सर्वे बभूवुर्जयनिःस्वनाः ।
ननृतुर्वारनार्यश्च तुष्टुवुर्मागधादयः ॥ ३१ ॥
स्त्रियो गवाक्षरंध्रैश्च रामं पुष्पैरवाकिरन् ।
तदा स रावणस्तूष्णीं लज्जयाऽऽनतमस्तकः ॥ ३२ ॥
मुकुटैरपि हीनश्च मुक्तकच्छोऽतिविह्वलः ।
सभायां न क्षणं तस्थौ तूर्णं लंकापुरीं ययौ ॥ ३३ ॥
रामेण भग्नं तच्चापं दृष्ट्वा नार्यो मुदानिविताः ।
चक्रुर्जयस्वनैर्घोषान् करैश्च करतालिकाः ॥ ३४ ॥
सीताऽपि मुदिता जाता हर्षरोमांचनिर्भरा ।
अनिमेषा कंजनेत्रा राममुत्कंठिता ह्यभूत् ॥ ३५ ॥
एतस्मिन् अंतरे राजा जनकः प्राह मंत्रिणः ।
करिणीस्थामत्र सीतां आनयध्वं समुत्सवैः ॥ ३६ ॥
रक्षणीया निजैः सैन्यैः वेष्टयित्वा समन्ततः ।
तथेति ते मंत्रिणश्च ययुर्वेगेन जानकीम् ॥ ३७ ॥
प्रोचुस्ते मधुरं वाक्यं प्रबद्धकरसंपुटाः ।
हे सीते कंजनयने धन्याऽसि गजगामिनि ॥ ३८ ॥
रविवंशोद्‍भवेनाद्य दशरथसुतेन च ।
रामेण भग्नं सदसि चापमुत्तिष्ठ वेगतः ॥ ३९ ॥
करिणीपृष्ट्मारुह्य राम त्वं गंतुमर्हसि ।
रामकंठेऽर्पयस्वाद्य रत्‍नमालां मुदान्विता ॥ १४० ॥
तन् मंत्रिणां वचः श्रुत्वा सीता नत्वा स्वमातरम् ।
सखीभिः करिणीपृष्ठे संस्थितासीन् मुदान्विता ॥ ४१ ॥
तदग्रे नववाद्यानि निनेदुः मंजुलानि वै ।
निनेदुः पृष्ठभागेऽपि नानावाद्यानि वैः मुहुः ॥ ४२ ॥
चित्रोष्णीष्ठाः कंचुकिनः शतशो वेत्रपाणयः ।
सीताकरिण्याश्चाग्रे ते दुद्रुवुर्दीर्घनिःस्वनाः ॥ ४३ ॥
वारयन् जनसंमर्दं सीतां द्रष्टुं जनैः कृतम् ।
ननृतुर्वारनार्यश्च बभूर्यंत्रनिःस्वनाः ॥ ४४ ॥
तुष्टुवुर्मागधाद्याश्च नटा गानं प्रचक्रिरे ।
करिणीं वेष्टयामासुः सीतादास्यः सहस्रशः ॥ ४५ ॥
अश्वारूढाश्चामरादि बिभ्रन्त्यो रुक्मशोभिताः ।
ततोऽश्वसम्स्थाः शतशः तां ययुश्चोपमातरः ॥ ४६ ॥
जरठाः शत्रधारिण्यः स्वर्णदंडलसत्कराः ।
ततः पुरुषवद् वेषान्बिभ्रंत्यः प्रमदोत्तमाः ॥ ४७ ॥
ययुस्तरुण्यः शतशः शस्त्रहस्ताः सुभूषिताः ।
गोपितास्याः कंचुकोन्यः तुरगादिषु संस्थिताः ॥ ४८ ॥
ततस्ते मंत्रिणः सर्वे नानावाहनसंस्थिताः ।
स्वसैन्यैवेष्टयामासुः सीतायाः करिणीं मुदा ॥ ४९ ॥
चामरैर्व्यजनैः सख्यो मुहुः सीतामबीजयन् ।
स्त्रियो गवाक्षरंध्रैश्च सीतां पुष्पैरवाकिरन् ॥ १५० ॥
एवं नानासमुत्साहैः शनैः सीता तडित्प्रभा ।
नवरत्‍नमयीं मालां बिभ्रती दक्षिणे करे ॥ ५१ ॥
रामंनेत्रकटाक्षैश्च पश्यन्ती मुदितानना ।
सभायां राघवं गत्वा करिण्याश्चावरुह्य च ॥ ५२ ॥
शनैः पद्‍भ्यां ययौ रामं तद्‌ग्रीवाया सुलज्जिता ।
मुमोच निजबाहुभ्यां रत्‍नमालां मुदान्विता ॥ ५३ ॥
चकार नमनं रामं पादयोः स्थाप्य वै शिरः ।
तस्थाववाङ्मुखी सीता सभायामतिलज्जिता ॥ ५४ ॥
ददर्श सीतां रामोऽपि हारशोभितहृत्स्थलाम् ।
अवाप तोषं नितराम् ननाम गाधिजं प्रभुः ॥ ५५ ॥
तदा रामं समालिंग्य विश्वामित्रो मुनीश्वरः ।
निवेशयन् निजांके तं स प्रेम्णाऽऽघ्र्याय मस्तके ॥ ५६ ॥
तदा स जनकः सीतां गाधिजांके न्यवेशयत् ।
सीतया रघुनाथेन शुशुभे स मुनिस्तदा ॥। ५७ ॥
मानयामास स मुनिः जन्मसाफल्यतां हृदि ।
ततः सभायां जनको विश्वामित्रं वचोऽब्रवीत् ॥ ५८ ॥
प्रसादात् तव रामस्य लाभो जातोऽद्य मे मुने ।
धन्योऽस्म्यहं कुलं धन्यं धन्यौ तौ पितरौ मम ॥ ५९ ॥
योऽहं श्रीमश्वशुरः चेति लोके प्रथां गताआः ।
इत्युक्त्वा गाधिजं नत्वा प्रणनाम रघुत्तमम् ॥ १६० ॥
तदा ते पार्थिवाः सीतां दृष्ट्वा तत्र तडित्प्रभाम् ।
बिंबोष्ठीं चंद्रवदनां तन्नेत्रशरताडिताः ॥ ६१ ॥
बभूवुर्विकलास्तत्र दुर्दैवं मेनिरे निजम् ।
केचिन् मूर्छां ययुस्तत्र तान् समागत्य मैथिलः ॥ ६२ ॥
प्रार्थयामास नृपतीन् विषण्णान् सदसि स्थितान् ।
नष्टश्रीम्लानवदनान् लज्जया नतकंधरान् ॥ ६३ ॥
युष्माभिर्मेत्र कन्याया विवाहं विनिवर्त्य च ।
गंतव्यं स्वपुराण्येव करनीया कृपा मयि ॥ ६४ ॥
तदा ते पार्थिवाः सर्वे मंत्रांश्चक्रुः परस्परम् ।
यदि युद्धे विजेतव्यः श्रीरामोऽद्य रणांगणे ॥ ६५ ॥
तर्ह्यस्मिन् समये दुष्टे जयो नो न भविष्यति ।
कुमुहुर्ते वयं याताः तूष्णीं गत्वा पुराणि हि ॥ ६६ ॥
सुमुहुर्ते पुनर्योद्धुं यास्यामः सकला बलैः ।
भविष्यति तदाऽस्माकं जयो युद्धे विनिश्चयात् ॥ ६७ ॥
यदा रामं बाणभिन्नं पश्यामः पतितं रणे ।
भविष्यामः कृतकृत्याः तदा सर्वे वयं नृपाः ॥ ६८ ॥
तदैवास्यापमानस्य दुःखं मर्मस्थलं गतम् ।
त्यजामः पार्थिवाः सर्वे जेष्यामो राघवं यदा ॥ ६९ ॥
किमर्थमधुमा वैरं दर्शनीयं नृपाय वै ।
इति संमंत्र्य ते सर्वे तथेक्त्युक्त्वा नृपोत्तमम् ॥ १७० ॥
कृत्वा सीताविवाहं च गच्छामः स्वस्थलानि हि ।
तदा तान् सकलं वस्तु गृहाणि जनको मुदा ॥ ७१ ॥
कल्पयामास विधिवत् मुनींश्चापि रघुत्तमम् ।
ततो गाधिजवाक्येन विदेहः प्रेष्य मंत्रिणः ॥ ७२ ॥
समानेतुं दशरथं तत्प्रतीक्षां चकार सः ।
तेऽपि गत्वा मंत्रिणश्च दृष्ट्वा दशरथं नृपम् ॥ ७३ ॥
वृत्तं निवेद्य सकलं तं नत्वा तत्पुरःस्थिताः ।
वृत्तं दशरथः श्रुत्वा तुतोष नितरां तदा ॥ ७४ ॥
सैन्येन नागरैः सर्वैः स्त्रीभिर्जानपदैः सह ।
मिथिलां अगमत् शीघ्रं तदा दशरथो नृपः ॥ ७५ ॥
तदा महोत्सवेनैव नृपं दशरथं पुरीम् ।
नेतुं गजं पुरस्कृत्य जनकः पार्थिवैर्ययौ ॥ ७६ ॥
तदा दशरथाग्रे तौ दृष्ट्वा कैकेयजासुतौ ।
श्रीरामलक्ष्मणावत्र कुतः प्राप्तौ व्यचिंतयत् ॥ ७७ ॥
तावत् रामलक्ष्मणाभ्यां युक्तं तं गाधिजं मुनिम् ।
स्वसेनायां नृपो दृष्ट्वा विस्मयं प्राप मैथिलः ॥ ७८ ॥
ततो दशरथं नत्वा वसिष्ठं प्रणिपत्य च ।
गाधिजं जनकः प्राह कौ एतौ रामरूपिणौ ॥ ७९ ॥
ततस्यं गाधिजः प्राह रामांशाद् भरतस्त्वयम् ।
लक्ष्मणांशाच्च शत्रुघ्नः कैकेय्या नंदनौ इमौ ॥ १८० ॥
तत् शुत्वा जनकः प्राह राजानं गाधिजं गुरुम् ।
सीतां रामाय दास्यामि लब्धां भूमावयोजिनाम् ॥ ८१ ॥
देहजामुर्मिलानाम्नीं लक्ष्मणायार्पयाम्यहम् ।
कुशध्वस्य मे बंधोः श्रुतकीर्तिश्च मांडवी ॥ ८२ ॥
वर्तेते बालिके रम्ये रूपयौवनमण्डिते ।
सीतोर्मिलाभ्यामपि ये मया नित्यं प्रलालिते ॥ ८३ ॥
दास्याम्यहं भरताय मांडवीं मंडनान्विताम् ।
शत्रुघ्नाय श्रुतकीर्तिं अर्प्ययाम्यहमादरात् ॥ ८४ ॥
एवं स्नुषाश्चतस्रश्च त्वमंगीकुरु पार्थिव ।
तथेति जनकं प्राह राजा दशरथो मुदा ॥ ८५ ॥
ततो दशरथः प्राहः शतानंदं पुरोहितम् ।
अहल्याजठरोद्‍भूतं मैथिलाग्रे स्थितं मुनिम् ॥ ८६ ॥
कथं लब्ध्वा भुवः सीता तत्सर्वं वक्तुमर्हसि ।
शतानंदः तथेत्युक्त्वा अब्रवीत् दशरथं नृपम् ॥ ८७ ॥
शतानंद उवाच -
सम्यक् पृष्टं त्वया राजन् श्रुणुष्वैकाग्रमानसः ।
आसीत् पुरा नृपः कश्चित् पद्माक्ष इति विश्रुतः ॥ ८८ ॥
स दृष्त्वा सकलान् लोकान् लक्ष्मीकामैकतत्पराम् ।
चिंतयामास मनसि लक्ष्मीं कन्यां करोम्यहम् ॥ ८९ ॥
तपसैव निजांके तां रंजयामि निरंतरम् ।
इति निश्चित्य स नृपः तप्त्वा तीव्रं महत् तपः ॥ १९० ॥
दृष्ट्वा प्रसन्नामग्रे तु लक्ष्मीं वचनमब्रवीत् ।
दुहिता मे भव त्वं हि सा प्राह नृपतिं प्रति ॥ ९१ ॥
परतंत्राऽस्महः राजन् विष्णुं त्वं प्रार्थयाधिना ।
स चेत् दास्यति मां ते हि तर्ह्यहं दुहिता तव ॥ ९२ ॥
भविष्यामि न संदेहः तथेत्युक्त्वा नृपः पुनः ।
तप्त्वा गीव्रं तपो विष्णुं चकार वरदोन्मुखम् ॥ ९६ ॥
नत्वा तं नृपतिः प्राह देहि कन्यां रमां मम ।
तद् राजवचनं श्रुत्वा मातुलुंगफलं हरिः ॥ ९४ ॥
पद्माक्षाय ददौ श्रेष्ठं स्वयं अंतर्दधे विभुः ।
तद्‌भित्वा नृपतिः कन्यां ददर्श कनकप्रभाम् ॥ ९५ ॥
तां दृष्ट्वा साभिलाषः स कन्यां मेने निजां शुभाम् ।
पद्माक्षनृपतेः कन्यां पद्मां लोका वदम्ति च ॥ ९६ ॥
आह्वयामासुः तां रम्यां सर्वचित्तैकरंजनीम् ।
शकले मातुलुंगस्य भूत्वैकत्र फलं पुनः ॥ ९७ ॥
जातं दृष्ट्वा दधाराथ स्वहस्ते नृपतेः सुता ।
सा त्ववर्धत नृपतेः अंके चंद्रकला यथा ॥ ९८ ॥
सुक्लपक्षे च तां दृष्ट्वा पद्माक्षोऽचिंतयत् हृदि ।
कस्मै देया मया कन्या ह्यस्यै योग्यो वरोऽत्र कः ॥ ९९ ॥
ततः समंत्र्य नृपतिः स्वयंवरं अथारभत् ।
स्वयंवरेऽथ पद्माया यज्ञारंभं चकार सः ॥ २०० ॥
स्वयंवराय यज्ञाय पत्रैरकारयन् नृपान् ।
तेऽपि श्रृंगारयुक्ताश्च ययुः पद्मास्वयंवरम् ॥ १ ॥
पद्मास्वयंवरं श्रुत्वा ययुस्तत्र मुनीश्वराः ।
ययुर्देवाः सगंधर्वा दानवा मानवाः खगाः ॥ २ ॥
नगा नद्यः समुद्राश्च भूरुहाः कामरूपिणः ।
ययुर्यक्षाः किन्नराश्च राक्षसा रावणादयः ॥ ३ ॥
सर्वान् समागताम् दृष्ट्वा पद्माक्षः प्राह तान् प्रति ।
आकाशनीलवर्णेन यं स्वांगं परिलेपयेत् ॥ ४ ॥
ददामि तस्मै पद्मेयं सत्यं ज्ञेयं वचो मम ।
तद् राजवचनं श्रुत्वा दुर्घटं नृपसत्तमाः ॥ ५ ॥
पद्मसौंदर्य संभ्रांताः तां हर्तुं ते समुद्यताः ।
तान् कन्याहरणोद्युक्तान् नृपान् दृष्ट्वा सनिर्जरान् ॥ ६ ॥
चकार संगरं तैः स पद्माक्षो लोमहर्षणम् ।
तद्‌बाणपीडिता देवा मानवा विमुखा रणे ॥ ७ ॥
बभूवुस्तत्र दैत्येश्च पद्माक्षो निहतो रणे ।
ततस्ते मिलिताः सर्व तां धर्तुं दुद्रुवुर्जवान् ॥ ८ ॥
सा दृष्ट्वा धर्त्तुमुद्युक्तान् जुहावाग्नौ कलेवरम् ।
ता अदृष्ट्वा नृपाद्यास्ते विचिन्वन् नगरे तदा ॥ ९ ॥
बभंजुर्नुपगेहानि भूमिं चक्रुरितस्ततः ।
शशानतुल्यं नगरं जातं वै क्षणमात्रतः ॥ २१० ॥
पद्माक्षनृपतेर्लक्ष्मी संगात् जातेदृशी दशा ।
तस्मान्न मुनयो लक्ष्मीं कामयंति कदाचन ॥ ११ ॥
लक्ष्म्याश्चित्तस्य चांचल्यं भयं शोको वधोऽपि च ।
मवत्येवं महद्दुःखं तस्मात्तां परिवर्जयेत् ॥ १२ ॥
पद्माक्षे निहते युद्धे नृ[अ[अत्‍न्यः सहस्रशः ।
भर्त्रा सहैव गमनं चक्रुस्ता भयनिर्भराः ॥ १३ ॥
ततस्ते दैत्यवर्याद्या ययुः स्वं स्वं स्थलं प्रति ।
एकदा वह्निकुंडात्सा पद्मा शक्तिः स्थिरा हरेः ॥ १४ ॥
बहिर्निर्गत्य कुंडस्य समीपे समुपाविशत् ।
एतस्मिन् अंतरे तत्र पुष्पकस्थो दशाननः ॥ १५ ॥
विचरन् जगतीं जेतुं आकाशवर्त्मना ययौ ।
सारणस्तां ददर्शाथ वह्निकुंडे बहिः स्थिताम् ॥ १६ ॥
सारणो दर्शयामास रावणाय वचोऽब्रवीत् ।
पुरा सुरासुराद्याश्च यां धत्तु समुपस्थिताः ॥ १७ ॥
सेयं पद्माक्षनृपतेः कन्या पद्माऽग्निसन्निधौ ।
तत्सारणवचः श्रुत्वा तां दृष्ट्वा काममोहितः ॥ १८ ॥
यानात् जवात् उत्पपात तां धर्तुं साऽनलेऽविशत् ।
तामग्नौ संप्रविष्टां स दृष्ट्वा ज्ञात्वाऽथ तत्स्थलम् ॥ १९ ॥
ततः प्राह दशास्यः स त्वया देवा नृपादयः ।
कृत्वाऽग्नौ वसतिं पद्मे श्रमग्रस्ताः कृताः पुरा ॥ २२० ॥
तदद्य वासस्थानं ते मया ज्ञातं मनोरमे ।
पद्मेऽधुनाऽहं त्वां धर्तुं शोधयाम्यनलस्थलम् ॥ २१ ॥
इत्युक्त्वा जलकुंभैश्च सिषेचाग्निं दशाननः ।
यावत् पश्यति कक्षायां तावत् त्रय ददर्श ह ॥ २२ ॥
पंच रत्‍नानि दिव्यानि गृहित्वा तानि रावणः ।
करंडिकायां संस्थाप्य विमानेन ययौ पुरीम् ॥ २३ ॥
करंडिकां देवगेहे संस्थाप्य रावणस्तदा ।
रात्रौ मंदोदरीं प्राह मंचकस्थां रहःस्थितः ॥ २४ ॥
हे मंदोदरि रत्‍नानि मया त्वत्तोषदानि हि ।
समानीतानि यत्‍नेन त्वदर्थं सुरसद्मनि ॥ २५ ॥
करंडिकायां वर्तन्ते गच्छ गृह्णीष्व तानि हि ।
तत् दशास्य वचं श्रुत्वा सा ययौ देवमंदिरम् ॥ २६ ॥
करंडिकां तत्र दृष्ट्वा तां नेतुं पतिसन्निधौ ।
यावत् उच्चालयामास न चचाल तदा भुवः ॥ २७ ॥
तदा सा लज्जिता गत्वा रावणाय न्यवेदयत् ।
तत् श्रुत्वा स प्रहस्याथ स्वयं नेतुं ययौ तदा ॥ २८ ॥
तां सोऽप्युच्चालयामास न चचाल करंडिका ।
यदा विंशद्‌भुजैर्भूम्या न चचाल करंडिका ॥ २९ ॥
तदा स विस्मयाविष्टो भयं मेने दशाननः ।
तत्रैवोद्धाटयामास रावणस्तां करंडिकां ॥ २३० ॥
तावत् ददर्श तस्यां स कन्यां सूर्यप्रभोपमाम् ।
तत् तेजोहरतेजस्कान् यासंश्चक्षूंषि रक्षसाम् ॥ ३१ ॥
तां दृष्ट्वां बालिकां रम्यां ययुः सुहृत्सुतादयः ।
तदा मंदोदरीं प्राह तस्या वृत्तं रणोद्‍भवम् ॥ ३२ ॥
पद्माक्षकुलजात्यादि सर्वं वृत्तं दशाननः ।
क्रोधात् मंदोदरी प्राह भयभीता दशाननम् ॥ ३३ ॥
इयं कृत्या प्रचंडा च कुलविध्वंसकारिणी ।
लंकां किमर्थमानीता ह्यस्या ज्ञात्वाऽपि चेष्टितम् ॥ ३४ ॥
दुष्टां स्ववंशघाताय त्यजैनां सत्वरं वने ।
बालत्वेऽपीदृशी गुर्वी तारुण्ये किं करिष्यति ॥ ३५ ॥
वधोय़्स्यास्तव जानेऽहं मृत्युरेव भविष्यति ।
स्थापनीया न लंकायां इयमद्यैव रावण ॥ ३६ ॥
इति तस्या वचः श्रुत्वा सत्यं मेमे दशाननः ।
मंत्रिभिश्चाथ सम्मंत्र्य दुतानाज्ञापयत् तदा ॥ ३७ ॥
कंडिकेयं नीत्वाऽद्य विमाने स्थाप्य यत्‍नतः ।
त्यक्तव्या मम वाक्यात्तु वने गच्छत वेगतः ॥ ३८ ॥
ततस्ते राक्षसाः सर्वे संमील्य पुष्पकेऽथ ताम् ।
करंडिकां तु संस्थाप्य निन्युश्चाकाशवर्त्मना ॥ ३९ ॥
दशास्यपत्‍नी तानाह कार्या भूमिगता त्वियम् ।
स्थापनीया बहिर्नेयं दर्शनाद् वधकारिणी ॥ २४० ॥
गृहस्थाश्रमयुक्तो यः तथा च विजितेंद्रियः ।
वृद्धिमेष्यति तद्‍गेहे कुमारीयं शुभानना ॥ ४१ ॥
चराचरेषु सर्वत्र आत्मरूपेण यः स्थितः ।
तस्य गेहे चिरं कालं स्थास्यतीयं न संशयः ॥ ४२ ॥
इति मंदोदरीवाक्यं श्रुत्वा दूताः सविस्तरम् ।
यावत् ते गंतुमुद्युक्ताः तावत् कन्या वचोऽब्रवीत् ॥ ४३ ॥
यास्याम्यहं पुनर्लंकां राक्षसानां वधाय च ।
निधनाय दशास्यस्य सपुत्रस्य समंत्रिणः ॥ ४४ ॥
अथ तृतीयवेलायां आगत्याहं पुनस्त्विह ।
निकुम्भजं पौंड्रकं तं शतशीर्षं च रावणम् ॥ ४५ ॥
हनिष्यामि पुनर्गत्वा पुनर्यास्यामि तत्पुरीम् ।
अहं चतुर्थवेलायां अद्‍भुतं मूलकासुरम् ॥ ४६ ॥
कुंभकर्णसुतं शूरं मर्द्दयिष्याम्यहं पुनः ।
तत्तस्या वचनं श्रुत्वा हृदि विद्धो दशाननः ॥ ४७ ॥
जातास्ते राक्षसाः सर्वे भयभीताः शवोपमाः ।
रावणः चिंतयामास हंतव्याऽद्यैव बालिका ॥ ४८ ॥
तीक्ष्णं खड्ग करे धृत्वा पद्मां दुद्राव रावणः ।
हंतुकाम पतिं दृष्ट्वा मयकन्या न्यवारयत् ॥ ४९ ॥
साहसं कुरु माऽद्यैव सत्यायुषि दशानन ।
भविष्यति वधस्त्वद्य तव नास्या वचो मृषा ॥ २५० ॥
यद्‍भविष्यति भवतु तदग्रे त्यज कानने ।
कालान्तरेण यो मृत्युः तमद्य त्वं किमिच्छसि ॥ ५१ ॥
इति भार्यावचः श्रुत्वा तूष्णीमास दशाननः ।
ततः सा पेटिका दूतैः नीता यानेन वै जवात् ॥ ५२ ॥
पश्यन् वनानि सर्वाणि सीतायै मैथिलस्य च ।
कृता भूमिगता दूतैः तदा सर्वैः करंडिका ॥ ५३ ॥
ततो ययुः पुनर्लंकां दूतास्ते रावणस्य च ।
न्यवेदयन् रावणाय सर्वं वृत्तं यथाकृतम् ॥ ५४ ॥
सा भूमिः सूर्यग्रहणे विदेहेन समर्पिता ।
ब्राह्मणाय द्विजश्चापि तां कर्षयित्य्मुद्यतः ॥ ५५ ॥
पश्यन् मुहूर्तं प्रियः स प्रत्यब्दं वै पुनः पुनः ।
चिरकालेन दृष्ट्वाऽथ मुहूर्तं परमोदयम् ॥ ५६ ॥
शूद्रेण कर्षयामास भूमिं कृष्यर्थमादरात् ।
तदा हलसिताग्रेण निर्गता सा करंडिका ॥ ५७ ॥
तां गृहित्वा स शूद्रोऽपि ययौ भूमिपतिं द्विजम् ।
स मत्वा तन्निधानं तु हर्षात्प्राह द्विजोत्तमम् ॥ ५८ ॥
स्श्रेष्टस्तव मुहूर्तोऽयं महाभाग्यं तव द्विज ।
इमां हलाग्रसंभूतां गृहाण त्वं करंडिकाम् ॥ ५९ ॥
निधानपूर्रितां गुर्वीं मया यत्ऽनेन वाहिताम् ।
ततः स द्विजवर्यस्तु तां जग्नाह करंडिकाम् ॥ २६० ॥
तां आनीय विदेहाय सभामध्ये ददौ मुदा ।
नृपतिं प्राह वृत्तं तद् विप्रः श्रुत्वा नृपोऽपि सः ॥ ६१ ॥
उवाच ब्राह्मणं भक्त्या मया भूमिः समर्पिता ।
तस्यां लब्धा तया चेयं तवैवास्तु करंडिका ॥ ६२ ॥
विदेहनृपतेर्वाक्यं श्रुत्वोवाच द्विजः पुनः ।
मह्यं समर्पिता पूर्वं भूमिरेव त्वया नृप ॥ ६३ ॥
नेयं करंडिका रम्या वसुपूर्णा समर्पिता ।
यद्‍भूमौ वर्त्तते वित्तं तत् नृपस्य न संशयः ॥ ६४ ॥
मा मां अधर्म स्पृशतु गृहाणेमां करंदिकाम् ।
एवं नृपस्य विप्रेअण कलहोऽभूत् सुदारुणः ॥ ६५ ॥
तदा सभासदाः सर्वे नृपतिं वाक्यमब्रुवन् ।
मा कार्यः कलहो राजन् पश्यास्यां किं नु वर्तते ॥ ६६ ॥
तां तदोद्धाटयामास दूतैः नृपतिसत्तमः ।
तस्यां दृष्ट्वा बालिकां तु विस्मयं प्राप पार्थिवः ॥ ६७ ॥
द्विजस्त्यक्त्वा ययौ गेहं पालयामास तां नृपः ।
तदा खेचरवाद्यानि नेदुः कुसुमवृष्टिभिः ॥ ६८ ॥
ववर्षुः सुरसंघाश्च तां कन्यां जनकं नृपम् ।
गंधर्वा गायनं चक्रुः ननृतुश्चाप्सरोगणाः ॥ ६९ ॥
तदा मेने निजां कन्यां जनकस्तोषमाप सः ।
जातकं कारयामास विप्रेस्तश्याः सविस्तरम् ॥ २७० ॥
ददौ दानानि विप्रेभ्यो ननृतुर्वारयोषितः ।
मातुलुंगात् निर्गता या मातुलिंगिईति सा स्मृता ॥ ७१ ॥
अग्निवासात् अग्निगर्भा तथा रत्‍नावलीति च ।
रत्‍नांतरनिवासाच्च प्रोच्यते जगतीतले ॥ ७२ ॥
धरण्या निर्गता यस्मात् तस्मात् धरणिजेति च ।
जनकेनाविता यस्मात् जानकीति प्रकीर्त्यते ॥ ७३ ॥
सीताग्रात् निर्गता यस्मात् सीतेत्यत्र प्रगीयते ।
पद्माक्षनृपतेः कन्या तस्मात् पद्मेति सा स्मृता ॥ ७४ ॥
एवं नामानि अनंतानि सीतायाः संति भो नृप ।
आकाशनील वर्णाभ वपुषाऽनेन जानकी ॥ ७५ ॥
लब्धा रामेण पद्माक्ष - प्रतिज्ञा सफलीकृता ।
एवं त्वया यथा पृष्टं तथा त्वां विनिवेदितम् ॥ ७६ ॥
चतस्रस्त्वं स्नुषास्त्वत्र कर्तुमर्हसि बो नृप ।
श्रीशिव उवाच -
एतस्मिन् अंतरे तत्र पूर्वं दशरथेन च ॥ ७७ ॥
समाहूता ययुः सैन्यैः स्त्रीपुत्रैः श्वसुराश्च ते ।
कोसलो मगधेशश्च कैकेयश्च युधाजितः ॥ ७८ ॥
मानयामास तान् राजा जनकोऽपि मुदान्वितः ।
ततो दशरथं पूज्य श्रीरामं लक्ष्मणं तथा ॥ ७९ ॥
भरतं चापि शत्रुघ्नं संपूज्याभरणादिभिः ।
निनाय जनकस्तुष्टः स्वपुरीं परमोत्सवैः ॥ २८० ॥
तदा रामो नृपं नत्वा राज्ञा चालिंगितो मुहुः ।
वसिष्ठं गाधिजं नत्वा कौसलादिं प्रणम्य च ॥ ८१ ॥
राज्ञो दशरथस्याग्रे तैः स्त्रीभिर्बंधुभिः सह ।
गजारूढो ययावग्रे तेऽप्यभूवन् गजस्थिताः ॥ ८२ ॥
नदस्तु वाद्यसंघेषु स्तुवत्सु मागधादिषु ।
नर्तत्सु वारनारीषु विवेश नगरीं प्रभुः ॥ ८३ ॥
तदा७सीत्संभ्रमः पौरः स्=त्रीणां श्रीरामदर्शने ।
विसृज्य स्वीयकृत्यानि दुद्रुवुर्गोपुरादिषु ॥ ८४ ॥
कट्यां निधाय बालांश्च ददृशू रघुनंदनम् ।
राजमार्गगतं रामं ववर्षुः पुष्पवृष्टिभिः ॥ ८५ ॥
एवं महोत्सवैः वास - स्थलं दशरथ्ः सुतैः ।
ययौ वस्त्रान्नतोयौघैः परिपूर्णं मनोरमम् ॥ ८६ ॥
कृत्वा ज्योतिर्विदा लग्न - दिवसस्य विनिश्चयम् ।
मंडपांश्च तोरणानि पताकाश्च ध्वजान् तथा ॥ ८७ ॥
रोपयामासुः सर्वत्र मंत्रिणो मिथिलां पुरीम् ।
मार्गान् चंदनलिप्ताश्च पुष्पैः आच्छादिता अपि ॥ ८८ ॥
मालाभिः तोरणैः पुष्प - घोषाद्यैस्ते चकाशिरे ।
ततो मुहूर्तसमये वधूच्छिष्टां निशां शुभाम् ॥ ८९ ॥
सुतैलाढ्यां स्त्रियः सर्वाः कौसल्याद्यस्तु मातरः ।
रामादीन् परिलिप्यादौ नीराजनपुरःसरम् ॥ २९० ॥
करकुंभान् तोयपूर्णान् चतुर्दिक्षु सदीपकान् ।
संस्थाप्य स्नापयामासुः महावाद्यपुरःसरम् ॥ ९१ ॥
तदाभ्यंगं स्वयं चापि कृत्वा सस्नुश्च मातरः ।
रामादीन् पुरतः कृत्वा वस्त्रालंकारभूषिताः ॥ ९२ ॥
अभ्यंगपूर्वकं सस्नौ राजा दशरथोऽपि सः ।
समाहूय नृपस्त्रीश्च सभायां स्वस्तिके गुरुः ॥ ९३ ॥
मुक्ताविनिर्मिते राज्ञः पार्श्वे वामे न्यवेशयत् ।
अग्रे रामादिकान् कृत्वा ताः स्त्रियोऽवनताननाः ॥ ९४ ॥
हरिद्राकुंकुमालिप्त - चरणा रेजिरेऽङ्गणे ।
वसिष्ठो ब्राह्मणैर्युक्तो राज्ञा रामादिभिर्मुदा ॥ ९५ ॥
लृत्वा गणपतेः पूजां पुण्याह्नादित्रयं पुनः ।
देशाचारं न प्रमदा आचारादीन् अकरोन्नृपः ॥ ९६ ॥
तोयकुंभं मंडपादि - कानां पूजनमाचरत् ।
कौसल्याद्याः स्त्रियः सर्वा हरित् पीतारुणैर्वरैः ॥ ९८ ॥
हेमतंत्वंकितैः वस्त्रैः विरेजुः मंडपांगणे ।
जनकश्च नृपैर्युक्तो महावाद्यपुरःसरम् ॥ ९९ ॥
रामादीन् स निजं गेहं नेतुकामः समाययौ ।
मंडपे पूजयामस रामादीन् जनकस्तदा ॥ ३०० ॥
हेमतंतुद्‌भवैः दिव्यैः वस्त्रैः आभरणादिभिः ।
तदा विरेजुस्ते बालाः सर्वे प्रमुदिताननाः ॥ १ ॥
ततस्ते वारनेंद्रस्था दिव्यचामरवीजिताः ।
शृण्वतो वाद्यघोषांश्च वर्षिता पुष्पवृष्टिभिः ॥ २ ॥
हरिद्रांकितधान्यैश्च मांगल्यैः मौक्तिकादिभिः ।
मातृभिः वारणस्त्रीषु संस्थिताभिः मुहुर्मुहुः ॥ ३ ॥
एवं ते राघवाद्याश्च पुरस्त्रीभिः निरीक्षिताः ।
प्रासादोपरि संस्थाभिः लाजाभिः वर्षिता मुहुः ॥ ४ ॥
ददृशुः नर्तनान्यग्रे वारस्त्रीणां स्मिताननाः ।
वाटिकाः पुष्पवृक्षाणां वरमृत्पात्रनिर्मिताः ॥ ५ ॥
तथा कृत्रिमवृक्षांश्च पताकाश्च ध्वजान् तथा ।
वह्निसंगादोषधीनां पुष्पवृक्षविनिर्मितान् ॥ ६ ॥
तडित्प्रभोपमान् चापि गगनान्तर्विराजितान् ।
वह्निसंज्ञादोषधीभ्यः प्राकारान् विविधान् वरान् ॥ ७ ॥
चंद्रज्योत्स्नाकृत्रिमांश्च केकीचक्रोपमादिकान् ।
ददृशुर्वारणेंद्रस्था एवं ते राघवादयः ॥ ९ ॥
तदा देवा विमानस्था ददृशुः कौतुकं मुदा ।
एवं नानोत्सवैर्बाला ययुर्जनक मंदिरम् ॥ ३१० ॥
अवरुह्य गजेंद्रेभ्यः तस्थुस्ते मंडपांगणे ।
मधुपर्कविधानानि विष्टरादीनि च क्रमात् ॥ ११ ॥
तयोर्गुरू चक्रतुस्तौ वसिष्ठगौतमात्मजौ ।
वाल्मीक्यादि मुनिगणैः वेष्टितौ तुष्टमानसौ ॥ १२ ॥
ततः पूजां वधूनां च मुदा दशरथो नृपः ।
चकार गुरुणा युक्तः तदा स मंडपांगणे ॥ १३ ॥
ततो लग्नमुहूर्तो तान् वधूभिश्च पृथग्वरान् ।
वेदिकासु स्थितान् कृत्त्वा दम्पत्योरंतरे पटान् ॥ १४ ॥
कृत्त्वा मंगलघोषांश्च मुनिभिश्चक्रतुर्गुरू ।
तदा तूष्णीं सभायां ते शुश्रुवौः सकला जनाः ।
पुष्पौघैः पीतधान्यैश्च ववृषुर्दम्पतीन् स्त्रियः ॥ १५ ॥
श्रीदेवीतनयौ शिवः सुखकरौ
मित्रः शशी कंपनः ।
सर्वे ते मुनयश्चला दश दिशः
सर्पा मृगेंद्राः खगाः ।
नद्यःपुण्यसरोवराणि दितिजाः
तीर्थानि कंजासनः ।
चेंद्रो वह्न्यमरा नदी जलधयः
कुर्वंतु वो मंगलम् ॥ १६ ॥
तदेव लग्नं सुदिनं तदेव
ताराबलं चम्द्रबलं तदेव ।
विद्याबलं दैवबलं तदेव
काशीपतेर्यत् स्मरणं विधेयम् ॥ १७ ॥
एवं मंगलशब्दैश्च महावाद्यपुरःसरम् ।
तेषांमंतःपटान् मुक्त्वा ॐपुण्योऽस्तूचतुर्गुरू ॥ १८ ॥
तासां ते पाणिग्रहण विधानं विधिपूर्वकम् ।
लाजाहोमादिकं सर्वं चक्रुः मंगलपूर्वकम् ॥ १९ ॥
तदा महावाद्यघोषा निनेदुर्मंडपांगणे ।
ननृतुर्वारनार्यश्च जगुर्मागधवंदिनः ॥ ३२० ॥
नटामंगलगीतैश्च तुष्टुवुस्ते महास्वनैः ।
तदा दानान्यनेकानि चक्रतुस्तौ नृपोत्तमौ ॥ २१ ॥
अथ ते बालकाः सर्वे वधूः स्थाप्य कटीषु वै ।
कौसल्यादि वनिताभिः जग्मुस्ते भोजनगृहान् ॥ २२ ॥
तत्राम्रसिंचनं चक्रुः संपूज्य त्वां च मामपि ।
ततो रामादिकाः सर्वे स्वस्वपत्‍न्या पृथङ्मुखाः ॥ २३ ॥
चक्रुस्ते भोजनाः हृष्टाः स्त्रीभिः सर्वत्र वेष्टिताः ।
राजा दशरथश्चापि सुहृद्भिश्च नृपोत्तमैः ॥ २४ ॥
पौरैर्जानपदैः इष्टैः मुनिभिः परिवारितः ।
जनकस्य गृहं गत्वा चकार भोजनं मुदा ॥ २५ ॥
कौसल्याद्याः स्त्रियः स्त्रीभिः चक्रुर्भोजनमुत्तमम् ।
सुमेधया प्रार्थितास्ता वंदिताश्च मुहुर्मुहुः ॥ २६ ॥
एवं नानासमुत्साहान् चकार जनको मुदा ।
अथ ते बालकाः सर्वे स्त्रीवाक्यान् मातृसन्निधौ ॥ २७ ॥
स्वस्वपत्‍न्याः पादयोः स्वशिरोभिः नमनं मुहुः ।
चक्रुस्तुष्टतसस्ते तास्ता नेमुः पृथ पृथ ।
कुंकुमांकित पादाश्च तेषां अंकेषु ता ददुः ॥ २८ ॥
श्रीराम समवाप्य भूमितनयां
आद्यां जगत्स्वामिनीं ।
सर्वात्मा वरहेतुसुंदरतनुः
कारुण्यपूर्णेक्षणः ।
विद्युत्वर्णविराजमानवसनः
त्रैलोक्यचूडामणिः ।
शोभामाप जगत्त्रयेऽप्यनुपमां
मुक्ताविराजद्गलः ॥ २९ ॥
चतुर्थे दिवसे रात्रौ वंशपात्रविराजितैः ।
दीपैर्नीराजिताः सर्वे विरेजू राघवादयः ॥ ३३० ॥
रामादीनां पारिबर्हान् ददौ स जनकस्तदा ।
नियुतान् वारनेंद्रांश्च शिबिकाश्चापि तन्मिताः ॥ ३१ ॥
तुरगान् दशलक्षांश्च नियुतान् स्यंदनान् ददौ ।
नानालंकारवासाम्सि गोदासीसेवकादिकान् ॥ ३२ ॥
ददौ स राघवदिभ्यो येषां सख्या न विद्यते ।
एवं सम्मानितास्तेन ते बाला जनकेन हि ॥ ३३ ॥
पूर्ववत् उत्सवाद्यैश्च स्वस्वपत्‍न्या समन्विताः ।
ततः सैन्येन स्वपुरीं गन्तुं पुर्या बहिर्ययौ ॥ ३५ ॥
सीताद्या निर्ययुः मुग्धाः साश्रुनेत्राः सुविह्वलाः ।
सुमेधास्ताः समालिंग्य सांत्वयित्वा व्यसर्जयत् ॥ ३६ ॥
अथ राजा दशरतो जनकं विन्यवर्तयन् ।
तदा दशरथं प्राह जनकं साश्रुलोचनः ॥ ३७ ॥
स्व्हसन् कवोष्णम्लानास्यो विरहाद् गद्‍गदाक्षरः ।
एतावत् कालपर्यंतं सीताद्या लालिता मया ॥ ३८ ॥
अधुना त्वं इमास्त्वग्रे लालयस्व कृतेक्षणैः ।
इत्युक्त्वा नृपतिं नत्वा मिथिलां जनको ययौ ॥ ३९ ॥
ततो दशरथश्चापि स्नुषास्त्रीतनयादिभिः ।
नृपैः सैन्येन स्वपुरीं ययौ मार्गे शनैः शनैः ॥ ३४० ॥
अथ गच्छति श्रीरामे मैथिलात् योजनत्रयम् ।
निमित्तानि अतिघोराणि ददर्श नृपसत्तमः ॥ ४१ ॥
नत्वा वसिष्ठं प्रपच्छ किमिदं मुनिपुंगव ।
निमित्तानीह दृश्यंते विषमाणि समंततः ॥ ४२ ॥
वसिष्ठं अतो प्राह भयं आगामि सूच्यते ।
पुनरप्यभयं तेऽद्य शीघ्रमेव भविष्यति ॥ ४३ ॥
मृगाः प्रदक्षिणं यांति त्वां पश्य शुभसूचकाः ।
एवं वै वदतस्तस्य ववौ घोरतरोऽनिलः ॥ ४४ ॥
मुष्णन् चक्षूंषि सर्वेषां पांसुवृष्टिभिरर्दयत् ।
धनुः परशुहस्तं च साक्षात् कालमिव स्थितम् ॥ ४६ ॥
कार्तवीर्यांतकं रामं दृप्तक्षत्रियमर्दनम् ।
प्राप्तं दशरथस्याग्रे रक्तास्य रक्तलोचनं ॥ ४७ ॥
तं दृष्ट्वा भयसंत्रस्तो राजा दशरथस्तदा ।
अर्घ्यादिपूजां विस्मृत्य त्राहि त्राहिईति चाब्रवीत् ॥ ४८ ॥
दंडत्प्रवणिपत्याह पुत्रप्राणान् प्रयच्छ मे ।
इति ब्रुवंतं राजानं अनादृत्य रघूत्तमम् ॥ ४९ ॥
उवाच निष्ठूरं वाक्यं क्रोधात् प्रचलितेंद्रियः ।
त्वं राम इति मन्नाम्ना चरसि क्षत्रियाधम ॥ ३५० ॥
द्वंद्वयुद्धं प्रयच्छाशु यदि त्वं क्षत्रियोऽसि मे ।
पुराणं जर्जरं चापं भंक्त्वा त्वं कत्थसे मुधा ॥ ५१ ॥
इदं तु वैष्णवं चापं आरोपयसि चेद्‌गुणम् ।
तर्हि युद्धं त्वया सार्द्धं न करोमि नृपात्मज ॥ ५२ ॥
नो चेत् सर्वान् हनिष्यामि क्षत्रियांतकरस्त्वहम् ।
इति तद्वचनं श्रुत्वा राघवो वाक्यमब्रवीत् ॥ ५३ ॥
वयं एकगुणाः स्वामिन् यूयं चैव गुणाधिकाः ।
गोविप्रदेवनारीषु राघवा नास्त्रधारिणः ॥ ५४ ॥
मयैतैश्च जीवितानि तव पादार्पितानि हि ।
यथेच्छं घातयास्माकं विप्रैर्युद्धं करोमि न ॥ ५५ ॥
इति ब्रुवति रामे वै चचाल वसुधा भृशम् ।
क्रुद्धं दृष्ट्वा जामदग्न्यं क्षत्रियांतं उपस्थितम् ॥ ५६ ॥
अंधकारो बभूवाथ चुक्षुभुः सप्त सागराः ।
रामो दाशरथिर्वीरो वीक्ष्य तं भार्गवं रुषा ॥ ५७ ॥
धनुराच्छिद्य तद् हस्तात् आरोप्य गुनमंजसा ।
तूणीरात् बाणमादाय संधायाकृष्य वीर्यवान् ॥ ५८ ॥
उवाच भार्गवं रामः श्रुणु ब्रह्मन् वचो मम ।
लक्ष्यं दर्शय बाणस्य ह्यमोघो रामसायकः ॥ ५९ ॥
लोकान् पादयुगं वापि वद शीघ्रं ममाज्ञया ।
एवं वदति श्रीरामे भार्गवो विकृताननः ॥ ३६० ॥
संस्मरन् पूर्ववृत्तांतं इदं वचनमब्रवीत् ।
राम राम महाबाहो जाने त्वां परमेश्वरम् ॥ ६१ ॥
पुराणपुरुषं विष्णुं जगत् सर्ग लयोद्‍भवम् ।
बाल्येऽहं तपसा विष्णुं आराधयितुमंजसा ॥ ६२ ॥
गत्वा हि तीर्थे गोमत्याः तपसा तोष्य शार्ङ्‌‌गिणाम् ।
अहर्निशं महात्मानं नारायणमनन्यधीः ॥ ६३ ॥
यस्यांशेन मया भूम्यां अवतारो धृतोस्ति हि ।
भूभारहरणार्थाय कार्तवीर्यवधेप्सया ॥ ६४ ॥
ततः प्रसन्नो देवेशः शंखचक्रगदाधरः ।
उवाच मां रघुश्रेष्ठ प्रसन्नमुखपंकजः ॥ ६५ ॥
श्रीभगवान् उवाच -
उत्तिष्ठ तपसो ब्रह्मन् विहितं ते तपो महत् ।
मच्चिदंशेन युक्तस्त्वं जहि हैहयपुंगवम् ॥ ६६ ॥
कार्तवीर्यं पितृहणं यदर्थं तपसा श्रमः ।
ततस्त्रिःसप्त कृत्वस्त्वं हत्वा क्षत्रियमंडलम् ॥ ६७ ॥
कृस्नां भूमिं कश्यपाय दत्त्वा शांतिमुपावह ।
त्रेतायुगे दाशरथिः भूत्वा रामोऽहमव्ययः ॥ ६८ ॥
उत्पस्त्स्ये परया भक्त्या तदा द्रक्ष्यसि मां पुनः ।
मत्तेजः पुनरादास्ये त्वयि दत्तं मया कृतम् ॥ ६९ ॥
तदा तपश्चरन् लोके तिष्ठ त्वं ब्रह्मणो दिनम् ।
इत्युक्त्वाऽन्तर्दधे देवः तथा सर्वं मया कृतं ॥ ३७० ॥
स एव विष्णुस्त्वं राम जातोऽसो ब्रह्मणाऽर्थितः ।
मयि ते स्थितं तु त्वत्तेजः त्वयैव पुनराहृतम् ॥ ७१ ॥
अद्य मे सफलं जन्म प्रतीतोऽसि मम प्रभो ।
नमोऽस्तु जगतां नाथ नमस्ते भक्तिभावन ॥ ७२ ॥
नमः कारुणिकानंत रामचंद्र नमोऽस्तु ते ।
देव यद्यत्कृतं पुण्यं मया लोकजिगीषया ॥ ७३ ॥
तत्सर्वं तव बाणाय भूयाद् राम नमोऽस्तु ते ।
ततो मुक्त्वा शरं रामः तत्कर्म भस्मसात्करोत् ॥ ७४ ॥
ततः प्रसन्नोभगवान् श्रीरामः करुणामयः ।
जामदग्न्यं तदा प्राह वरं वरय चेति सः ॥ ७५ ॥
ततः प्रीतेन मनसा भार्गवो राममब्रवीत् ।
यदि मेऽनुग्रहो राम तवास्ति मधुसूदन ॥ ७६ ॥
त्वत्‍भक्तसंगः त्वत्पादे मम भक्तिः सदा७स्तु वै ।
तथेति राघवेणोक्तः परिक्रम्य प्रणम्य तम् ॥ ७७ ॥
पूजितः तद् अनुज्ञातो महेंद्रचलमन्वगात् ।
रावणेन जिता देवाः सगर्वो रावणो महान् ॥ ७८ ॥
शस्रबाहुना बद्धः सोऽर्जुनो भार्गवेण हि ।
हतः क्षणेन समरे सोऽद्य श्रीर्भागवोऽपि च ॥ ७९ ॥
जितः तद्धनुषा बाण मोचनात् राघवेण हि ।
एवं श्रीरामचंद्रस्य पौरुषं किं वदाम्यहम् ॥ ३८० ॥
अथ राजा दशरथो रामं मृतं इवागतम् ।
दृढं आलिंग्य हर्षेण नेत्राभ्यां जलमुत्सृजन् ॥ ८१ ॥
ततः प्रीतेन मनसा स्वस्थचित्तः पुरीं ययौ ।
अयोध्यायां सुमंत्रोऽपि नृपं श्रुत्वा समागतम् ॥ ८२ ॥
नगरीं शोभयामास पताका ध्वजतोरणैः ।
वारनेंद्रं पुरस्कृत्य राम प्रत्युद्ययौ जवात् ॥ ८३ ॥
अथो नदस्तु वाद्येषु राजा पुतैः सुहृज्जनैः ।
विवेश नगरं पौरैः पश्यन् नृत्यादिकं पथि ॥ ८४ ॥
रामादयः स्वपत्‍न्या ते गजसंस्था ययुः पुरीम् ।
ननृतुर्वारनार्यश्च तुष्टवुर्मागधादयः ॥ ८५ ॥
एवं राजा गृहं गत्वा बालकैः स्वीयसद्मनि ।
रमापूजाः कारयित्वा ददौ दानान्यनेकशः ॥ ८६ ॥
तदाऽलंकारवस्त्राद्यैः सुहृदः पार्थिवादयः ।
रामादीन् पूजयामासुः तथा दशरथं नृपम् ॥ ८७ ॥
दशरथोऽपि तान् सर्वान् पूजयामास वैभवैः ।
ततस्ते सुहृदः सर्वे नृपाश्च स्वस्थलं ययुः ॥ ८८ ॥
प्रीत्या युधाजितं राजा स्थापयामास स्वांतिकम् ।
रामाद्या रमयामासुः स्वस्वदारैः स्वसद्मसु ॥ ८९ ॥
पार्वति उवाच -
श्रीविष्णोस्तु चिदंशेन जामदग्न्यस्त्वया स्मृतः ॥ ३९० ॥
श्रीशिव उवाच -
अष्टावंशेन विध्रुता अवताराश्च विष्णुना ॥ ९१ ॥
रामकृष्णावतारौ च पूर्णरूपेण तौ धृतौ ।
वरिष्ठौ सकलेष्वेव अवतारेषु तौ उभौ ॥ ९२ ॥
तयोरपि वरः पूर्वः सत्यसंधो जितेंद्रियः ।
ज्ञेयो रामावतारो हि नानेन सदृशः परः ॥ ९३ ॥
कृष्णः कृष्णरुचिर्ज्ञेयः श्रीरामो रुक्मसंरुचिः ।
एवं गिरींद्रजे प्रोक्तं सीतायाश्च स्वयंवरम् ।
अस्य सर्गस्य श्रवणात् मंगलं लभ्यते नरैः ॥ ३९४ ॥
इति श्री शतकोटिरामचरितान्तर्गते
श्रीमद् आनंदरामायणे वाल्मीकिये सारकांडे तृतीयः सर्गः ॥ ३ ॥


GO TOP