॥ श्रीवाल्मीकिमहामुनिकृत शतकोटिरामचरितान्तर्गतं ॥

॥ आनन्दरामायणम् ॥

सारकाण्डम्

॥ द्वितीयः सर्गः ॥
[राम, लक्ष्मण, भरत, शत्रुघ्न जन्म]

॥ श्रीसद्‌गुरु रामचंद्राय नमः ॥


श्रीशिव उवाच -
एतस्मिन् अंतरे भूमिः दशास्यादि प्रपीडिता ।
ब्रह्मणा प्रार्थयामास विष्णुं सोऽपि तदाऽब्रवीत् ॥ १ ॥
भूम्यां अवतरिष्यामि भवंतु कपयः सुराः ।
गंधर्वी दुंदुभीनाम्नी भूम्याः कार्यार्थ सिद्धये ॥ २ ॥
मंथराऽग्रे भवत्वद्धा राज्यविघार्थसिद्धये ।
पश्चात् पुनर्द्वापरांते कुब्जात्वं कंसमंदिरे ॥ ३ ॥
अथ विष्णुः चैत्रमासि नवम्यां मधगे रवौ ।
सूतिकागृहमध्येऽथ कौसल्यायां पुरोऽभवत् ।
चतुर्भुजः पीतवासा मेघश्यामो महाद्युतिः ॥ ४ ॥
साऽपि दृष्ट्वा बालभावं प्रार्थयामास तं हरिम् ।
ततो जातस्तदा बालः क्षणात् रुक्मविभूषितः ॥ ५ ॥
हेमवर्णः कंजनेत्रः चंद्रास्यस्तपनप्रभः ।
ततः सुमित्रापुरतः शेषोऽभूत् बालरूपधृक् ॥ ६ ॥
आविर्भूतौ द्वौ यमलौ कैकेय्याः शंखचक्रके ।
एवं ते जनिता बालाः चत्वारः समये शुभे ॥ ७ ॥
देवदुंदुभयओ नेदुः पुष्पवृष्टिः शुभाऽपतत् ।
जातकर्मादि संस्कारान् गुरुणा नृपतिस्तदा ॥ ८ ॥
कारयामास विधिवत् अनृतुर्वारयोषितः ।
ज्येष्ठं रामं तु कौसल्या तनयं प्राह वै गुरुः ॥ ९ ॥
सुमित्रातनयं नाम्ना लक्ष्मणं गुरुरब्रवीत् ।
ततो भरतशत्रुघ नामनी प्राह वै गुरुः ॥ १० ॥
रमणात् राम एवासौ लक्षणैर्लक्ष्मणस्त्विति ।
भरणात् भरतश्चेति शत्रुघ्नः शत्रुतर्जनात् ॥ ११ ॥
अथ ववृधिरे सर्वे लक्ष्मणो राघवेण हि ।
शत्रुघ्नो भरतेनापि चकार क्रीडनादिकम् ॥ १२ ॥
रुक्मकंकणर्मजीर नूपुरैस्ते विभूषिताः ।
केयूर रशनाहार कुण्डलैः अतिशोभिताः ॥ १३ ॥
श्रृंखलाबद्धरुक्मादि निर्मितेषु वरेषु च ।
दोलकेषु च ते सर्वे दोलिता रेजिरे सुखम् ॥ १४ ॥
भाले स्वर्णमयाश्वत्थ पर्णान्यतिमहांति च ।
मुक्ताफलप्रलंबीनि शोभयंति स्म बालकान् ॥ १५ ॥
कंठे रत्‍नमणिव्रात मध्यद्वीपिनखांचिताः ।
कर्णयोः स्वर्णसंपन्न रत्‍नार्जुनसुतालकाः ॥ १६ ॥
सिंजानमणिमंजीर कटिसूत्रांगदैर्युताः ।
स्मितवक्त्राल्पदशना इंद्रनीलमणिप्रभा ॥ १७ ॥
अंगने रिंगमाणश्च संस्कारैः संस्कृताः शुभाः ।
ते तातं रंजयामासुः मातृँश्चापि विशेषतः ॥ १८ ॥
कौसल्या नृपतिश्चापि नानावस्त्रैः सुभूषणैः ।
शोभयामासुतुर्बालान् नानाव्याघ्रनखादिभिः ॥ १९ ॥
रामः स्वपितरं दृष्ट्वा भोजनस्थ त्वरान्वितः ।
दुद्राव कवलं पात्रात् गृहित्वा स पुनर्बहिः ॥ २० ॥
कौसल्या बालकं धर्तुं दुद्राव नृपनोदिता ।
न तस्याः करगश्चासीद् योग्गिनामप्यगोचरः ॥ २१ ॥
परिवृत्य स्वयं रामः करेण मृदुलेन च ।
कौसल्यास्ये नृपास्येऽपि कवलौ अकरोन्मुदा ॥ २२ ॥
एवं नानाकौतुकैश्च रंजयामास राघवः ।
नानाशिशु कीडनकैः चेष्टितैः मुग्धभाषितैः ॥ २३ ॥
बालकृत्रिमयुद्धैश्च गमनैर्मुखचुंबनैः ।
पितरौ निजचारित्रैः वाहन आरोहणादिभिः ॥ २४ ॥
ततस्ते बालकाः सर्वे वस्त्रालंकारभूषिताः ।
सभायां पितरं नत्वा तस्थुः सिंहासनोपरि ॥ २५ ॥
अत्र पित्रोपनीतास्ते गुरुणा मुनिभिर्मुदा ।
गर्भात्संवत्सरे षष्ठे जन्मतः पंचमे समे ॥ २६ ॥
ब्रह्मवर्चसकामस्य कार्यं विप्रस्य पंचमे ।
राज्ञो बालार्थिनः षष्ठे वैश्यस्यार्थार्थिनोऽष्टमे ॥ २७ ॥
विद्वद्‍भिश्चोपनयनं एवं शास्त्रेषु निर्णयः ।
गुरोराश्यात् सुमुहुर्ते वेदान् सांगांश्चतुर्विधान् ॥ २८ ॥
चक्रुर्मुखोद्‍गतानेव बालाः शास्त्रादिकान्यपि ।
ब्रह्मचर्यसमाप्तौ ते तीर्थानि जग्मुरादरात् ॥ २९ ॥
सेनया मंत्रिसहिता वसिष्ठेन समन्विताः ।
षण्मासैः पुनरागत्य साकेतं विविशुर्मुदा ॥ ३० ॥
एवं ते मतिमन्तश्च प्रिया राज्ञो वशे स्थिताः ।
पितरं रंजयामासु पौरान् जानपदानपि ॥ ३१ ॥
इति श्री शतकोटिरामचरितान्तर्गते
श्रीमद् आनंदरामायणे वाल्मीकिये सारकांडे द्वितीयः सर्गः ॥ २ ॥



श्रीसीतारामचन्द्रार्पणमस्तु


GO TOP