॥ श्रीमद् अध्यात्मरामायण ॥

॥ अयोध्याकाण्ड ॥

॥ पंचमः सर्ग: ॥

आयान्तं नागरा दृष्ट्वा मार्गे रामं सजानकीम् ।
लक्ष्मणेन समं वीक्ष्य ऊचुः सर्वे परस्परम् ॥ १ ॥
कैकेय्या वरदानादि श्रुत्वा दुःखसमावृताः ।
बत राजा दशरथः सत्यसन्धं प्रियं सुतम् ॥ २ ॥
स्त्रीहेतोरत्यजत्कामी तस्य सत्यवता कुतः ।
कैकेयी वा कथं दुष्टा रामं सत्यं प्रियङ्‌करम् ॥ ३ ॥
विवासयामास कथं क्रूरकर्मातिमूढधीः ।
हे जना नात्र वस्तव्यं गच्छमोऽद्यैव काननम् ॥ ४ ॥
यत्र रामः सभार्यश्च सानुजो गन्तुमिच्छति ।
पश्यन्तु जानकीं सर्वे पादचारेण गच्छतीम् ॥ ५ ॥
पुंभिः कदाचिद् दृष्ट्वा वा जानकी लोकसुन्दरी ।
सापि पादेन गच्छन्ती जनसङ्‌घेष्वनावृता ॥ ६ ॥
रामोऽपि पादचारेण गजाश्वादिविवर्जितः ।
गच्छति द्रक्ष्यथ विभुं सर्वलोकैकसुन्दरम् ॥ ७ ॥
राक्षसी कैकेयीनाम्नी जाता सर्वविनाशिनी ।
रामस्यापि भवेद्दुःखं सीतायाः पादयानतः ॥ ८ ॥
बलवान् विधिरेवात्र पुंप्रयत्‍नो हि दुर्बलः ।
इति दुःखाकुले वृन्दे साधूनां मुनिपुङ्‌गवः ॥ ९ ॥
अब्रवीद् वामदेवोऽथ साधूनां सङ्‌घमध्यगः ।
मानुशोचथ रामं वा सीतां वा वच्मि तत्त्वतः ॥ १० ॥
एष रामः परो विष्णुः आदिनारायणः स्मृतः ।
एषा सा जानकी लक्ष्मीः योगमायेति विश्रुता ॥ ११ ॥
असौ शेषस्तमन्वेति लक्ष्मणाख्यश्च साम्प्रतम् ।
एष मायागुणैर्युक्तः तत्तदाकारवानिव ॥ १२ ॥
एष एव रजोयुक्तो ब्रह्माभूद् विश्वभावनः ।
सत्त्वाविष्टस्तथा विष्णुः त्रिजगत्प्रतिपालकः ॥ १३ ॥
एष रुद्रस्तामसोऽन्ते जगत्प्रलयकारणम् ।
एष मत्स्यः पुरा भूत्वा भक्तं वैवस्वतं मनुम् ॥ १४ ॥
नाव्यारोप्य लयस्यान्ते पालयामास राघवः ।
समुद्रमथने पूर्वं मन्दरे सुतलं गते ॥ १५ ॥
अधारयत्स्वपृष्ठेऽद्रिं कूर्मरूपी रघूत्तमः ।
मही रसातलं याता प्रलये सूकरोऽभवत् ॥ १६ ॥
तोलयामास दंष्ट्राग्रे तां क्षोणीं रघुनन्दनः ।
नारसिंहं वपुः कृत्वा प्रह्लादवरदः पुरा ॥ १७ ॥
त्रैलोक्यकण्टकं रक्षः पाटयामास तन्नखैः ।
पुत्रराज्यं हृतं दृष्ट्वा ह्यदित्या याचितः पुरा ॥ १८ ॥
वामनत्वमुपागम्य याञ्चया चाहरत्पुनः ।
दुष्टक्षत्रियभूभार निवृत्त्यै भार्गवोऽभवत् ॥ १९ ॥
स एव जगतां नाथ इदानीं रामतां गतः ।
रावणादीनि रक्षांसि कोटिशो निहनिष्यति ॥ २० ॥
मानुषेणैव मरणं तस्य दृष्टं दुरात्मनः ।
राज्ञा दशरथेनापि तपसाराधितो हरिः ॥ २१ ॥
पुत्रत्वाकाङ्‌क्षया विष्णोः तदा पुत्रोऽभवत् हरिः ।
स एव विष्णुः श्रीरामो रावणादिवधाय हि ॥ २२ ॥
गन्ताद्यैव वनं रामो लक्ष्मणेन सहायवान् ।
एषा सीता हरेर्माया सृष्टिस्थित्यन्तकारिणी ॥ २३ ॥
राजा वा कैकेयी वापि नात्र कारणमण्वपि ।
पूर्वेद्युर्नारदः प्राह भूभारहरणाय च ॥ २४ ॥
रामोऽप्याह स्वयं साक्षात् श्वो गमिष्याम्यहं वनम् ।
अतो रामं समुद्दिश्य चिन्तां त्यजत बालिशाः ॥ २५ ॥
रामरामेति ये नित्यं जपन्ति मनुजा भुवि ।
तेषां मृत्यु भयादीनि न भवन्ति कदाचन ॥ २६ ॥
का पुनस्तस्य रामस्य दुःखशङ्‌का महात्मनः ।
रामनाम्नैव मुक्तिः स्यात् कलौ नान्येन केनचित् ॥ २७ ॥
मायामानुषरूपेण विडम्बयति लोककृत् ।
भक्तानां भजनार्थाय रावणस्य वधाय च ॥ २८ ॥
राज्ञश्चाभीष्टसिद्ध्यर्थं मानुषं वपुराश्रितः ।
इत्युक्त्वा विररामाथ वामदेवो महामुनिः ॥ २९ ॥
श्रुत्वा तेऽपि द्विजाः सर्वे रामं ज्ञात्वा हरिं विभुम् ।
जहुर्‌हृत्संशयग्रन्थिं राममेवान्वचिन्तयन् ॥ ३० ॥
य इदं चिन्तयेन्नित्यं रहस्यं रामसीतयोः ।
तस्य रामे दृढा भक्तिः भवेत् विज्ञानपूर्विका ॥ ३१ ॥
रहस्यं गोपनीयं वो यूयं वै राघवप्रियाः ।
इत्युक्त्वा प्रययौ विप्रः तेऽपि रामं परं विदुः ॥ ३२ ॥
ततो रामः समाविश्य पितृगेहमवारितः ।
सानुजः सीतया गत्वा कैकेयीं इदमब्रवीत् ॥ ३३ ॥
आगताः स्मो वयं मातः त्रयस्ते सम्मतं वनम् ।
गन्तुं कृतधियः शीघ्रं आज्ञापयतु नः पिता ॥ ३४ ॥
इत्युक्ता सहसोत्थाय चीराणि प्रददौ स्वयम् ।
रामाय लक्ष्मणायाथ सीतायै च पृथक्‌पृथक् ॥ ३५ ॥
रामस्तु वस्त्राण्युत्सृज्य वन्यचीराणि पर्यधात् ।
लक्ष्मणोऽपि तथा चक्रे सीता तन्न विजानती ॥ ३६ ॥
हस्ते गृहीत्वा रामस्य लज्जया मुखमैक्षत ।
रामो गृहीत्वा तच्चीरं अंशुके पर्यचेष्टयत् ॥ ३७ ॥
तद्दृष्ट्वा रुरुदुः सर्वे राजदाराः समन्ततः ।
वसिष्ठस्तु तदाकर्ण्य रुदितं भर्त्सयन् रुषा ॥ ३८ ॥
कैकेयीं प्राह दुर्वृत्ते राम एव त्वया वृतः ।
वनवासाय दुष्टे त्वं सीतायै किं प्रयच्छसि ॥ ३९ ॥
यदि रामं समन्वेति सीता भक्त्या पतिव्रता ।
दिव्याम्बरधरा नित्यं सर्वाभरणभूषितम् ॥ ४० ॥
रमयत्वनिशं रामं वनदुःखनिवारिणी ।
राजा दशरथोऽप्याह सुमंत्रं रथमानय ॥ ४१ ॥
रथमारुह्य गच्छन्तु वनं वनचरप्रियाः ।
इत्युक्त्वा राममालोक्य सीतां चैव सलक्ष्मणम् ॥ ४२ ॥
दुःखान्निपतितो भूमौ रुरोदाश्रुपरिप्लुतः ।
आरुरोह रथं सीता शीघ्रं रामस्य पश्यतः ॥ ४३ ॥
रामः प्रदक्षिणं कृत्वा पितरं रथमारुहत् ।
लक्ष्मणः खड्गयुगलं धनुस्तूणीयुगं तथा ॥ ४४ ॥
गृहीत्वा रथमारुह्य नोदयामास सारथिम् ।
तिष्ठ तिष्ठ सुमंत्रेति राजा दशरथोऽब्रवीत् ॥ ४५ ॥
गच्छ गच्छेति रामेण नोदितोऽचोदयद्‍रथम् ।
रामे दूरं गते राजा मूर्च्छितः प्रापतद्‌भुवि ॥ ४६ ॥
पौरास्तु बालवृद्धाश्च वृद्धा ब्राह्मणसत्तमाः ।
तिष्ठ तिष्ठेति रामेति क्रोशन्तो रथमन्वयुः ॥ ४७ ॥
राजा रुदित्वा सुचिरं मां नयन्तु गृहं प्रति ।
कौसल्याया राममातुः इत्याह परिचारकान् ॥ ४८ ॥
किञ्चित्कालं भवेत्तत्र जीवनं दुःखितस्य मे ।
अत ऊर्ध्वं न जीवामि चिरं रामं विना कृतः ॥ ४९ ॥
ततो गृहं प्रविश्यैव कौसल्यायाः पपात ह ।
मूर्च्छितश्च चिराद्‌बुद्ध्वा तूष्णीमेवावतस्थिवान् ॥ ५० ॥
रामस्तु तमसातीरं गत्वा तत्रावसत्सुखी ।
जलं प्राश्य निराहारो वृक्षमूलेऽस्वपद्विभुः ॥ ५१ ॥
सीतया सह धर्मात्मा धनुष्पाणिस्तु लक्ष्मणः ।
पालयामास धर्मज्ञः सुमंत्रेण समन्वितः ॥ ५२ ॥
पौराः सर्वे समागत्य स्थितास्तस्याविदूरतः ।
शक्ता रामं पुरं नेतुं नोचेद्‍गच्छामहे वनम् ॥ ५३ ॥
इति निश्चयमाज्ञाय तेषां रामोऽतिविस्मितः ।
नाहं गच्छामि नगरं एते वै क्लेशभागिनः ॥ ५४ ॥
भविष्यन्तीति निश्चित्य सुमंत्रं इदमब्रवीत् ।
इदानीमेव गच्छामः सुमंत्र रथमानय ॥ ५५ ॥
इत्याज्ञप्तः सुमंत्रोऽपि रथं वाहैरयोजयत् ।
आरुह्य रामः सीता च लक्ष्मणोऽपि ययुर्द्रुतम् ॥ ५६ ॥
अयोध्याभिमुखं गत्वा किञ्चिद्दूरं ततो ययुः ।
तेऽपि राममदृष्ट्वैव प्रातरुत्थाय दुःखिताः ॥ ५७ ॥
रथनेमिगतं मार्गं पश्यन्तस्ते पुरं ययुः ।
हृदि रामं ससीतं ते ध्यायन्तस्तथुरन्वहम् ॥ ५८ ॥
सुमंत्रोऽपि रथं शीघ्रं नोदयामास सादरम् ।
स्फीतान् जनपदान् पश्यन् रामः सीतासमन्वितः ॥ ५९ ॥
गङ्‌गातीरं समागच्छत् शृंगवेराविदूरतः ।
गङ्‌गां दृष्ट्वा नमस्कृत्य स्नात्वा सानन्दमानसः ॥ ६० ॥
शिंशिपावृक्षमूले स निषसाद रघूत्तमः ।
ततो गुहो जनैः श्रुत्वा रामागममहोत्सवम् ॥ ६१ ॥
सखायं स्वामिनं द्रष्टुं हर्षात्तूर्णं समापतत् ।
फलानि मधुपुष्पादि गृहीत्वा भक्तिसंयुतः ॥ ६२ ॥
रामस्याग्रे विनिक्षिप्य दण्डवत् प्रापतद्‌भुवि ।
गुहमुत्थाप्य तं तूर्णं राघवः परिषस्वजे ॥ ६३ ॥
संपृष्टकुशलो रामं गुहं प्राञ्जलिरब्रवीत् ।
धन्योऽहमद्य मे जन्म नैषादं लोकपावन ॥ ६४ ॥
बभूव परमानदः स्पृष्ट्वा तेऽङ्‌गं रघूत्तम ।
नैषादराज्यमेतत्ते किङ्‌करस्य रघूत्तम ॥ ६५ ॥
त्वदधीनं वसन्नत्र पालयास्मान् रघूद्वह ।
आगच्छ यामो नगरं पावनं कुरु मे गृहम् ॥ ६६ ॥
गृहाण फलमूलानि त्वदर्थं सञ्चितानि मे ।
अनुगृह्णीष्व भगवन् दासस्तेऽहं सुरोत्तम ॥ ६७ ॥
रामस्तमाह सुप्रीतो वचनं शृणु मे सखे ।
न वेक्ष्यामि गृहं ग्रामं नव वर्षाणि पञ्च च ॥ ६८ ॥
दत्तमन्येन नो भुञ्जे फलमूलादि किञ्चन ।
राज्यं ममैतत्तं सर्वं त्वं सखा मेऽतिवल्लभः ॥ ६९ ॥
वटक्षीरं समानाय्य जटामुकुटमादरात् ।
बबन्ध लक्ष्मणेनाथ सहितो रघुनन्दनः ॥ ७० ॥
जलमात्रं तु सम्प्राश्य सीतया सह राघवः ।
आस्तृतं कुशपर्णाद्यैः शयनं लक्ष्मणेन हि ॥ ७१ ॥
उवास तत्र नगर प्रासादाग्रे यथा पुरा ।
सुष्वाप तत्र वैदेह्या पर्यङ्‌क इव संस्कृते ॥ ७२ ॥
ततोऽविदूरे परिगृह्य चापं
सबाणतूणीरधनुः स लक्ष्मणः ।
ररक्ष रामं परितो विपश्यन्
गुहेन सार्धं सशरासनेन ॥ ७३ ॥
इति श्रीमद् अध्यात्मरामयणे उमामहेश्वरसंवादे
अयोध्याकाण्डे पञ्चमः सर्गः ॥ ५ ॥

GO TOP