॥ श्रीमद् अध्यात्मरामायण ॥

॥ युद्धकाण्ड ॥

॥ तृतीयः सर्गः ॥

श्रीमहादेव उवाच

विभीषणो महाभागः चतुर्भिर्मंत्रिभिः सह ।
आगत्य गगने राम सम्मुखे समवस्थितः ॥ १ ॥
उच्चैरुवाच भोः स्वामिन् राम राजीवलोचन ।
रावणस्यानुजोऽहं ते दारहर्तुर्विभीषणः ॥ २ ॥
नाम्ना भ्राता निरस्तोऽहं त्वामेव शरणं गतः ।
हितमुक्तं मया देव तस्य चाविदितात्मनः ॥ ३ ॥
सीतां रामाय वैदेहीं प्रेषयेति पुनः पुनः ।
उक्तोऽपि न शृणोत्येव कालपाशवशं गतः ॥ ४ ॥
हन्तुं मां खड्गमादाय प्राद्रवद् राक्षसाधमः ।
ततोऽचिरेण सचिवैः चतुर्भिः सहितो भयात् ॥ ५ ॥
त्वामेव भवमोक्षाय मुमुक्षुः शरणं गतः ।
विभीषणवचः श्रुत्वा सुग्रीवो वाक्यमब्रवीत् ॥ ६ ॥
विश्वासार्हो न ते राम मायावी राक्षसाधमः ।
सीताहर्तुर्विशेषेण रावणस्यानुजो बली ॥ ७ ॥
मंत्रिभिः सायुधैरस्मान् विवरे निहनिष्यति ।
तदाज्ञापय मे देव वानरैर्हन्यतामयम् ॥ ८ ॥
ममैवं भाति मे राम बुद्ध्या किं निश्चितं वद ।
श्रुत्वा सुग्रीववचनं रामः सस्मितमब्रवीत् ॥ ९ ॥
यदीच्छामि कपिश्रेष्ठ लोकान् सर्वान् सहेश्वरान् ।
निमिषार्धेन संहन्यां सृजामि निमिषार्धतः ॥ १० ॥
अतो मयाभयं दत्तं शीघ्रमानय राक्षसम् ॥ ११ ॥
सकृदेव प्रपन्नाय तवास्मीति च याचते ।
अभयं सर्वभूतेभ्यो ददाम्येतद् व्रतं मम ॥ १२ ॥
रामस्य वचनं श्रुत्वा सुग्रीवो हृष्टमानसः ।
विभीषणमथानाय्य दर्शयामास राघवम् ॥ १३ ॥
विभीषणस्तु साष्टाङ्‌गं प्रणिपत्य रघुत्तमम् ।
हर्षगद्‍गदया वाचा भक्त्या च परयान्वितः ॥ १४ ॥
रामं श्यामं विशालाक्षं प्रसन्न-मुखपंकजम् ।
धनुर्बाणधरं शान्तं लक्ष्मणेन समन्वितम् ॥ १५ ॥
कृताञ्जलिपुटो भूत्वा स्तोतुं समुपचक्रमे ॥ १६ ॥
विभीषण उवाच
नमस्ते राम राजेन्द्र नमः सीतामनोरम ।
नमस्ते चण्डकोदण्ड नमस्ते भक्तवत्सल ॥ १७ ॥
नमोऽनन्ताय शान्ताय रामायामिततेजसे ।
सुग्रीवमित्राय च ते रघूणां पतये नमः ॥ १८ ॥
जगदुत्पत्तिनाशानां कारणाय महात्मने ।
त्रैलोक्यगुरवेऽनादि गृहस्थाय नमो नमः ॥ १९ ॥
त्वमादिर्जगतां राम त्वमेव स्थितिकारणम् ।
त्वमन्ते निधनस्थानं स्वेच्छाचारस्त्वमेव हि ॥ २० ॥
चराचराणां भूतानां बहिरन्तश्चराघव ।
व्याप्यव्यापकरूपेण भवान् भाति जगन्मयः ॥२१ ॥
त्वन्मायया हृतज्ञाना नष्टात्मानो विचेतसः ।
गतागतं प्रपद्यन्ते पपपुण्यवशात्सदा ॥ २२ ॥
तावत्सत्यं जगद्‌भाति शुक्तिकारजतं तथा
यावन्न ज्ञायते ज्ञानं चेतसा अनन्यगामिना ॥२३ ॥
त्वद् अज्ञानात्सदा युक्ताः पुत्रदारगृहादिषु ।
रमन्ते विषयान्सर्वान् अन्ते दुःखप्रदान्विभो ॥ २४ ॥
त्वमिन्द्रोऽग्निर्यमो रक्षो वरुणश्च तथानिलः ।
कुबेरश्च तथा रुद्रः त्वमेव पुरुषोत्तम ॥ २५ ॥
त्वं अणोरपि अणीयांश्च स्थूलात् स्थूलतरः प्रभो ।
त्वं पिता सर्वलोकानां माता धाता त्वमेव हि ॥ २६ ॥
आदिमध्यान्तरहितः परिपूर्णोऽच्युतोऽव्ययः ।
त्वं पाणिपादरहितः चक्षुःश्रोत्रविवर्जितः ॥ २७ ॥
श्रोता द्रष्टा ग्रहिता च जवनस्त्वं खरान्तक ।
कोशेभ्यो व्यतिरिक्तस्त्वं निर्गुणो निरुपाश्रयः ॥ २८ ॥
निर्विकल्पो निर्विकारो निराकारो निरीश्वरः ।
षड्भावरहितोऽनादिः पुरुषः प्रकृते परः ॥ २९ ॥
मायया गृह्यमाणस्त्वं मनुष्य इव भाव्यसे ।
ज्ञात्वा त्वां निर्गुणमजं वैष्णवा मोक्षगामिनः ॥ ३० ॥
अहं त्वत्पादसद्‌भक्ति नीःश्रेणीं प्राप्य राघव ।
इच्छामि ज्ञानयोगाख्यं सौधमारोढुमीश्वर ॥ ३१ ॥
नमः सीतापते राम नमः कारुणिकोत्तम ।
रावणारे नमस्तुभ्यं त्राहि मां भवसागरात् ॥ ३२ ॥
ततः प्रसन्नः प्रोवाच श्रीरामो भक्तवत्सलः ।
वरं वृणीष्व भद्रं ते वाञ्छितं वरदोऽस्म्यहम् ॥ ३३ ॥
विभीषण उवाच
धन्योऽस्मि कृतक्‍त्योऽस्मि कृतकार्योऽस्मि राघव ।
त्वत्पाददर्शनादेव विमुक्तोऽस्मि न संशयः ॥ ३४ ॥
नास्ति मत्‌सदृशो धन्यो नास्ति मत्‌सदृशः शुचिः ।
नास्ति मत्‌सदृशो लोके राम त्वन्मूर्तिदर्शनात् ॥ ३५ ॥
कर्मबन्धविनाशाय त्वज्ज्ञानं भक्तिलक्षणम् ।
त्वद्ध्यानं परमार्थं च देहि मे रघुनन्दन ॥ ३६ ॥
न याचे राम राजेन्द्र सुखं विषयसम्भवम् ।
त्वत्पादकमले सक्ता भक्तिरेव सदास्तु मे ॥ ३७ ॥
ओं इत्युक्‍त्वा पुनः प्रीतो राम प्रोवाच राक्षसम् ।
शृणु वक्ष्यामि ते भद्रं रहस्यं मम निश्चितम् ॥ ३८ ॥
मद्‌भक्तानां प्रशांतानां योगिनां वीतरागिणाम् ।
हृदये सीतया नित्यं वसाम्यत्र न संशयः ॥ ३९ ॥
तस्मात्त्वं सर्वदा शान्तः सर्वकल्मषवर्जितः ।
मां ध्यात्वा मोक्ष्यसे नित्यं घोरसंसारसागरात् ॥ ४० ॥
स्तोत्रमेतत्पठेद्यस्तु लिखेद्यः श्रुणुयादपि ।
मत्‌प्रीतये ममाभिष्टं सारूप्य समवाप्नुयात् ॥ ४१ ॥
इत्युक्‍त्वा लक्ष्मणं प्राह श्रीरामो भक्तभक्तिमान् ।
पश्यत्विदानीं एवैष मम सन्दर्शने फलम् ॥ ४२ ॥
लङ्‌काराज्येऽभिषेक्ष्यामि जलं आनय सागरात् ।
यावच्चन्द्रश्च सूर्यश्च यावत्तिष्ठति मेदिनी ॥ ४३ ॥
यावन्मम कथा लोके तावद्‌राज्यंकरोत्वसौ ।
इत्युक्‍त्वा लक्ष्मणेनाम्बु ह्यानाय्य कलशेन तम् ॥ ४४ ॥
लङ्‌काराज्याधिपत्यार्थं अभिषेकं रमापतिः ।
कारयामास सचिवैः लक्ष्मणेन विशेषतः ॥ ४५ ॥
साधु साध्विति ते सर्वे वानराः तुष्टुवुर्भृशम् ।
सुग्रीवोऽपि परुष्वज्य विभीषणमथाब्रवीत् ॥ ४६ ॥
विभीषण वयं सर्वे रामस्य परमात्मनः ।
किङ्‌करास्तत्र मुख्यस्त्वं भक्‍त्या रामपरिग्रहात् ।
रावणस्य विनाशे त्वं साहाय्यं कर्तुमर्हसि ॥ ४७ ॥
विभीषण उवाच
अहं कियान्सहायत्वे रामस्य परमात्मनः ।
किं तु दास्यं करिष्येऽहं भक्त्या शक्त्या ह्यमायया ॥ ४८ ॥
दशग्रीवेण सन्दिष्टः शुको नाम महासुरः ।
संस्थितो ह्यम्बरे वाक्यं सुग्रीवं इदमब्रवीत् ॥ ४९ ॥
त्वामाह रावणो राजा भ्रातरं राक्षसाधिपः ।
महाकुलप्रसूतस्त्वं राजासि वनचारिणाम् ॥ ५० ॥
मम भ्रातृसमानस्त्वं तव नास्त्यर्थविप्लवः ।
अहं यद्‌अहरं भार्यां राजपुत्रस्य किं तव ॥ ५१ ॥
किष्किन्धां याहि हरिभिः लङ्‌का शक्या न दैवतैः ।
प्राप्तुं किं मानवैरल्प सत्त्वैः वानरयूथपैः ॥ ५२ ॥
तं प्रापयन्तं वचनं तूर्णं उत्प्लुत्य वानराः ।
प्रापद्यन्त तदा क्षिप्रं निहन्तुं दृढमुष्टिभिः ॥ ५३ ॥
वानरैर्हन्यमानस्तु शुको राममथाब्रवीत् ।
न दूतां घ्नन्ति राजेन्द्र वानरान्वारय प्रभो ॥ ५४ ॥
रामं श्रुत्वा तदा वाक्यं शुकस्य परिदेवितम् ।
मा वधिष्टेति रामस्तान् वारयामास वानरान् ॥ ५५ ॥
पुनरम्बरमासाद्य शुकः सुग्रीवमब्रवीत् ।
ब्रूहि राजन्दशग्रीवं किं वक्ष्यामि व्रजाम्यहम् ॥ ५६ ॥
सुग्रीव उवाच
यथा वाली मम भ्राता तथा त्वं राक्षसाधम ।
हन्तव्यस्त्वं मया यत्‍नात् सपुत्रबलवाहनः ॥ ५७ ॥
ब्रूहि मे रामचन्द्रस्य भार्यां हृत्वा क्व यास्यसि ।
ततो रामाज्ञया धृत्वा शुकं बध्वान्वरक्षयत् ॥ ५८ ॥
शार्दूलोऽपि ततः पूर्वं दृष्ट्वा कपिबलं महत् ।
यथावत्‌कथयामास रावणाय स राक्षसः ॥ ५९ ॥
दीर्घचिन्तापरो भूत्वा निःश्वसन्नास मन्दिरे ।
ततः समुद्रमावेक्ष्य रामो रक्तान्तलोचनः ॥ ६० ॥
पश्य लक्ष्मण दुष्टोऽसौ वारिधिर्मामुपागतम् ।
नाभिनन्दति दुष्टात्मा दर्शनार्थं ममानघ ॥ ६१ ॥
जानाति मानुषोऽयं मे किं करिष्यति वानरैः ।
अद्य पश्य महाबाहो शोषयिष्यामि वारिधिम् ॥ ६२ ॥
पादेनैव गमिष्यन्ति वानरा विगतज्वराः ।
इत्युक्‍त्वा क्रोधताम्राक्ष आरोपितधर्नुर्धरः ॥ ६३ ॥
तूणीराद्‌बाणमादाय कालाग्निसदृशप्रभम् ।
सन्धाय चापमाकृष्य रामो वाक्यमथाब्रवीत् ॥ ६४ ॥
पश्यन्तु सर्वभूतानि रामस्य शरविक्रमम् ।
इदानीं भस्मसात् कुर्यां समुद्रं सरितां पतिम् ॥ ६५ ॥
एवं ब्रूवति रामे तु सशैल वनकानना ।
चचाल वसुधा द्यौश्च दिशश्च तमसावृताः ॥ ६६ ॥
चुक्षुभे सागरो वेलां भयाद् योजनं अत्यगात् ।
तिमिनक्रझषा मीनाः प्रतप्ताः परितत्रसुः ॥ ६७ ॥
एतस्मिन्नन्तरे साक्षात् सागरो दिव्यरूपधृक् ।
दिव्याभरणसम्पन्नः स्वभासा भासयन् दिशः ॥ ६८ ॥
स्वान्तःस्थ दिव्यरत्‍नानि कराभ्यां परिगृह्य सः ।
पादयोः पुरतः क्षिप्त्वा रामस्योपायनं बहु ॥ ६९ ॥
दण्डवत् प्रणित्याह रामं रक्तान्तलोचनम् ।
त्राहि त्राहि जगन्नाथ राम त्रैलोक्यरक्षक ॥ ७० ॥
जडोऽहं राम ते सृष्टः सृजता निखिलं जगत् ।
स्वभावं अन्यथा कर्तुं कः शक्तो देवनिर्मितम् ॥ ७१ ॥
स्थूलानि पञ्चभूतानि जडान्येव स्वभावतः ।
सृष्टानि भवतैतानि त्वदाज्ञां लङ्‌घयन्ति न ॥ ७२ ॥
तामसादहमो राम भूतानि प्रभवन्ति हि ।
कारणान् उगमात्तेषां जडत्वं तामसं स्वतः ॥ ७३ ॥
निर्गुणस्त्वं निराकारो यदा मायागुणान् प्रभो ।
लीलयाङ्‌गीकरोषि त्वं तदा वैराजनामवान् ॥ ७४ ॥
गुणात्मनो विराजश्च सत्त्वाद्देवा बभूविरे ।
रजोगुणात् प्रजेशाद्या मन्योर्भूतपतिस्तव ॥ ७५ ॥
त्वामहं मायया छन्नं लीलया मानुषाकृतिम् ॥ ७६ ॥
जडबुद्धिर्जडो मुर्खः कथं जानामि निर्गुणम् ।
दण्ड एव हि मुर्खाणां सन्मार्गप्रापकः प्रभो ॥ ७७ ॥
भूतानाममरश्रेष्ठ पशूनां लगुडो यथा ।
शरणं ते व्रजामीशं शरण्यं भक्तवत्सल ।
अभयं देहि मे राम लङ्‌कामार्गं ददामि ते ॥ ७८ ॥
श्रीराम उवाच
अमोघोऽयं महाबाणः कस्मिन्देशे निपात्यताम् ।
लक्ष्यं दर्शय मे शीघ्रं बाणस्यामोघपातिनः ॥ ७९ ॥
रामस्य वचनं श्रुत्वा करे दृष्ट्वा महाशरम् ।
महोदधिर्महातेजा राघवं वाक्यमब्रवीत् ॥ ८० ॥
रामोत्तरप्रदेशे तु द्रुमकुल्य इति श्रुतः ।
प्रदेशस्तत्र बहवः पापात्मानो दिवानिशम् ॥ ८१ ॥
बाधन्ते मां रघुश्रेष्ठ तत्र ते पात्यतां शरः ।
रामेण सृष्टो बाणस्तु क्षणात् आभीरमण्डलम् ॥ ८२ ॥
हत्वा पुनः समागत्य तूणीरे पूर्ववत्स्थितः ।
ततोऽब्रवीत् रघुश्रेष्ठं सागरो विनयान्वितः ॥ ८३ ॥
नलः सेतुं करोत्वस्मिन् जले मे विश्वकर्मणः ।
सुतो धीमान् समर्थोऽस्मिन् कार्ये लब्धवरो हरिः ॥ ८४ ॥
कीर्तिं जानन्तु ते लोकाः सर्वलोकमलापहाम् ।
इत्युक्‍त्वा राघवं नत्वा ययौ सिन्धूरदृश्यताम् ॥ ८५ ॥
ततो रामस्तु सुग्रीव लक्ष्मणाभ्यां समन्वितः ।
नलं आज्ञापयच्छीघ्रं वानरै सेतुबन्धने ॥ ८६ ॥
ततोऽतिहृष्टः प्लवगेन्द्रयूथपैः
महानगेन्द्रप्रतिमैर्युतो नलः ।
बबन्धं सेतुं शतयोजनायतं
सुविस्तृतं पर्वतपादपैर्दृढम् ॥ ८७ ॥

इति श्रीमद् अध्यात्मरामायणे उमामहेश्वरसंवादे
युद्धकाण्डे तृतीयः सर्गः ॥ ३ ॥

GO TOP