॥ अद्‌भुत रामायणम् ॥

पञ्चदशः सर्गः

हनुमत्कृतः श्रीरामचन्द्रस्तवराजः -

ध्यात्वा हृदिस्थं प्रणिपत्य मूर्ध्ना बद्धाञ्जलिर्वायुसुतो महात्मा ।
ओंकारमुच्चार्य विलोक्य देवमन्तःशरीरे निहितं गुहायाम् ॥ १ ॥
रामं महात्मानमकुण्ठशक्तिं सनन्दमुख्यैः स्तुतमप्रमेयम् ।
तुष्टाव च ब्रह्ममयैर्वचोभिरानन्दपूर्णायतमानसः सन् ॥ २ ॥
त्वामेकमीशं परमं पुराणं प्राणेश्वरं राममनन्तयोगम् ।
नमामि सर्वान्तरसन्निविष्टं प्रचेतसं ब्रह्ममयं पवित्रम् ॥ ३ ॥
पश्यन्ति त्वां मुनयो ब्रह्मयोनिं दान्ताः शान्ता विमलं रुक्मवर्णम् ।
ध्यात्वात्मस्थमचलं स्वे शरीरे कविं परेभ्यः परमं परञ्च ॥ ४ ॥
त्वत्तःप्रसूता जगतः प्रसूतिः सर्वात्मसृष्टेः परमाणुभूतः ।
अणोरणीयान्महतोमहीयांस्त्वामेव सर्वे प्रवदन्ति सन्तः ॥ ५ ॥
हिरण्यगर्भो जगदन्तरात्मा त्वत्तोऽधिजातः पुरुषः पुराणः ।
स जायमानो भवता विसृष्टो यथाविधानं सकलं ससर्ज ॥ ६ ॥
त्वत्तो वेदाः सकलाः सम्प्रवृत्तास्त्वय्येवान्ते संस्थितिं ते लभन्ते ।
पश्यामि त्वां जगतो हेतुभूतं नृत्यंन्तं स्वे हृदये सन्निविष्टम् ॥ ७ ॥
त्वयैवेदं भ्राम्यते ब्रह्मचक्रं मायावी त्वं जगतामेकनाथः ।
नमामि त्वां शरणं सम्प्रपद्ये योगात्मानं चित्पतिं दिव्यनृत्यम् ॥ ८ ॥
पश्यामि त्वां परमाकाशमध्ये नृत्यन्तं ते महिमानं स्मरामि ।
सर्वात्मानं बहुधा सन्निविष्टं ब्रह्मानन्दमनुभूयानुभूय ॥ ९ ॥
ओंकारस्ते वाचको मुक्तिबीजं त्वमक्षरं प्रकृतौ गूढरूपम् ।
त्वं त्वां सत्यं प्रवदन्तीह सन्तः स्वयंप्रभं भवतो यत्प्रकाशम् ॥ १० ॥
स्तुवन्ति त्वां सततं सर्वदेवा नमन्ति त्वामृषयः क्षीणदोषाः ।
शान्तात्मानः सत्यसन्धं वरिष्ठं विशन्ति त्वां यतयो ब्रह्मनिष्ठाः ॥ ११ ॥
एको वेदो बहुशाखो ह्यनन्तस्त्वामेवैकं बोधयत्येकरूपम् ।
संवेद्यं त्वां शरणं ये प्रसन्नास्तेषां शान्तिः शाश्वती नेतरेषाम् ॥ १२ ॥
भवानीशोऽणिमादिमांस्तेजोराशिर्ब्रह्म विश्वं परमेष्ठी वरिष्ठः ।
आत्मानन्दं चानुभूयानुशेते स्वयंज्योतिर्वचनो नित्यमुक्तः ॥ १३ ॥
एका देवस्त्वं करोषीह विश्वं त्वं पालयस्यखिलं विश्वरूपः ।
त्वय्येवान्ते विलयं विन्दतेदं नमामि त्वां शरणं त्वां प्रपन्नः ॥ १४ ॥
त्वामेकमाहुः परमं च रामं प्राणं बहन्तं हरिमित्रमीशम् ।
इन्दुं मृत्युमनलं चेकितानं धातारमादित्यमनेकरूपम् ॥ १५ ॥
त्वमक्षरं परमं वेदितव्यं त्वमस्य विश्वस्य परं निधानम् ।
त्वमव्ययः शाश्वतो धर्मगोप्ता सनातनस्त्वं पुरुषोत्तमोऽसि ॥ १६ ॥
त्वमेव विष्णुश्चतुराननस्त्वं त्वमेव रुद्रो भगवानपीशः ।
त्वं विश्वनाभिः प्रकृतिः प्रतिष्ठा सर्वेश्वरस्त्वं परमेश्वरोऽसि ॥ १७ ॥
त्वामेकमाहुः पुरुषं पुराणमादित्यवर्णं तमसः परस्तात् ।
चिन्मात्रमव्यक्तमचिन्त्यरूपं खं ब्रह्मशून्यं प्रकृतिं निर्गुणं च ॥ १८ ॥
यदन्तरा सर्वमिदं विभाति यदव्ययं निर्मलमेकरूपम् ।
किमप्यचिन्त्यं तव रूपमेकं यदन्तरा यत्प्रतिभाति तत्त्वम् ॥ १९ ॥
योगेश्वरं रूपमनन्तशक्तिं परायणं ब्रह्मतनुं पवित्रम् ।
नमाम सर्वे शरणार्थिनस्त्वां प्रसीद भूताधिपते प्रसीद ॥ २० ॥
त्वत्पादपद्मस्मरणादशेषं संसारबीजं विलयं प्रयाति ।
मनो नियम्य प्रणिधाय कायं प्रसादयाम्येकरसं भवन्तम् ॥ २१ ॥
नमोऽस्तु रामाय भवोद्‌भवाय कालाय सर्वैककहराय तुभ्यम् ।
नमो ऽरस्तु रामाय कपर्दिने ते नमोऽग्नये दर्शय रूपमग्र्यम् ॥ २२ ॥
ततः स भगवान् रामो लक्ष्मणेन सह प्रभुः ।
संहृत्य परमं रूपं प्रकृतिस्थोऽभवत्स्वयम् ॥ २३ ॥
स तस्य स्तवमाकर्ण्य वायुपुत्रस्य धीमतः ।
प्राह गम्भीरया वाचा हनूमन्तं रघूत्तमः ॥ २४ ॥
स्तोष्यन्ति येऽनया स्तुत्या ते यास्यन्ति परां गतिम् ।
स्थिरो भव हनूमंस्त्वं कार्यमौपयिकं कुरु ॥ २५ ॥
इत्यार्षे श्रीमद्‌रामायणे वाल्मीकीये आदिकाव्ये
अद्‌भुतोत्तरकाण्डे हनूमत्कृतस्तवराजे पश्चदशः सर्गः ॥ १५ ॥

GO TOP