| 
 ॥ अद्भुत रामायणम् ॥
 अष्टादशः सर्गः 
 रावणसैन्यनिर्याणम् - 
 
एवं स रावणो विप्राः सहस्रवदनो महान् । प्रोक्तस्तेन द्विजेनाहं श्रुत्वाश्चर्यं च विस्मिता ॥ १ ॥
 अद्यापि तन्मम हृदि जागरूकं हि वर्तते ।
 पत्या मे बाहुवीर्येण दशास्यो रावणो हतः ॥ २ ॥
 सानुगः ससुतामात्यः सभ्रातृकः सबान्धवः ।
 मत्कृते च पुरी दग्धा सेतुर्बद्धश्च वारिधौ ॥ ३ ॥
 सुग्रीवेण सहायेन तथा हनूमदादिना ।
 इदं लोकोत्तरं कर्मं कृतं लोकहितं महत् ॥ ४ ॥
 तथापि हृदि मे नैतदाश्चर्यं प्रतिभाति हि ।
 यदि तस्य वधं कुर्याद्रावणस्य दुरात्मनः ॥ ५ ॥
 तदा सम्भाव्यते कीर्तिर्जगत्स्वास्थ्यमवाप्नुयात् ।
 अतो मे हसितं विप्राः क्षमध्वं ज्वलनोपमाः ॥ ६ ॥
 आकर्ण्य मुनयः सर्वे साधु साध्विति वादिनः ।
 जानकीं प्रशशंसुस्ते सर्वलोकहितैषिणीम् ॥ ७ ॥
 राघवो वचनं श्रुत्वा सीताया वीर्यवर्द्धनम् ।
 सिंहनादं विनद्योच्चैः सर्वानाज्ञापयत्प्रभुः ॥ ८ ॥
 मुनयोऽद्यैव गन्तव्यं रावणस्य जयाय वै ।
 लक्ष्मणं भरतं चैव शत्रुघ्नं चादिशत्प्रभुः ॥ ९ ॥
 मित्र सुग्रीव हनूमन्सर्वे जाम्बवदादयः ।
 गच्छामः सहितास्तत्र सैनिकैः सह मन्त्रिभिः ॥ १० ॥
 इत्याज्ञाप्य महाबाहुः सस्मार पुष्पकं रथम् ।
 स्मरणादागतस्तत्र पुष्पको रथसत्तमः ॥ ११ ॥
 तत्रारुहन्महावीरा रामचन्द्रपुरोगमाः ।
 भरतो लक्ष्मणश्चैव शत्रुघ्नश्चामितद्युतिः ॥ १२ ॥
 सुग्रीव प्रमुखाः सर्वे वानराजितकाशिनः ।
 विभीषणो महाबाहुः सह रक्षोगणैः प्रभुः ॥ १३ ॥
 मात्रा पित्राप्यकथनादजानन्बोधितोऽनया ।
 सीतया रामकार्यार्थै निर्ययौ राघवाज्ञया ॥ १४ ॥
 सुमन्त्राद्या मन्त्रिणश्च ऋषयस्ते च निर्ययुः ।
 नानाशस्त्रप्रहरणास्तत्रायुधकलापिनः ॥ १५ ॥
 मुमुचुस्ते सिंहनादं महाघोरं महाबलाः ।
 धनुःशब्देन रामस्य सिंहनादेन चैव हि ॥ १६ ॥
 चचाल वसुधा शैलाश्चेलुः पेतुर्ग्रहाश्च खात् ।
 नद्योऽशुष्यन्समुद्वेलाः सागराश्च चकम्पिरे ॥ १७ ॥
 सुग्रीवो हनुमान्नीलो जाम्बवान्नल एव च ।
 ग्रसन्त इव ते सर्वे निर्ययू रामशासनात् ॥ १८ ॥
 स तया सीतया सार्द्धं रामचन्द्रो महाबलः ।
 कामगं पुष्पकं दिव्यमारुरोह धनुर्धरः ॥ १९ ॥
 पुष्पकं ते समारुह्या सर्व एव महाबलाः ।
 सीतया भ्रातृभिः सार्द्धं रामचन्द्रं महाबलाः ॥ २० ॥
 प्रोत्साहयन्तो वचनैर्निययुर्जितकाशिनः ।
 रामाज्ञया पुष्पकं तदाकाशपथमाश्रितम् ॥ २१ ॥
 मनोमारुतवेगेन क्षणेन गरुडो यथा ।
 जगाम पुष्करद्वीपं यत्रास्ते मानसोत्तरः ॥ २२ ॥
 मानसोत्तरमासाद्य विस्मितास्ते महाबलाः ।
 किं चित्रं किं चित्रमिति प्रोचुराश्चर्यलक्षणाः ॥ २३ ॥
 राघवो भ्रातृभिः सार्द्धं सह वानरपुङ्गवैः ।
 सिंहनादं ननादोच्चैर्धनुश्चापि व्यकर्षयत् ॥ २४ ॥
 स शब्दस्तुमुलो भूत्वा पृथिवीं चान्तरिक्षकम् ।
 पातालविवरांश्चैव पूरयामास सर्वतः ॥ २५ ॥
 रावणः सहसोत्तस्थौ किमेतदिति सम्वदन् ।
 तत्राथ राक्षसाः क्रुद्धाः सर्व एव विनिर्ययुः ॥ २६ ॥
 अहो कुतः स्विच्छब्दोऽयं साधु सर्वैर्निरूप्यताम् ।
 इत्याभाष्य राक्षसेन्द्रो राक्षसेन्द्रैर्महाबलैः ॥ २७ ॥
 नगरान्निर्ययौ शीघ्रं सन्दष्टोष्ठपुटो बली ।
 द्वादशादित्यसङ्काशः सहस्रवदनो महान् ॥ २८ ॥
 द्विसहस्रभुजोद्रिक्तो द्विसहस्रविलोचनः ।
 महामेघसमाध्वाने वडवाग्निसमः क्रुधा ॥ २९ ॥
 शतयोजनविस्तीर्णे रथे सूर्यसमत्विषि ।
 नानायुधानि संगृह्य परिघप्रासतोमरान् ॥ ३० ॥
 भुशुण्डि परशून्घण्टां लौहमुद्गर चक्रकम् ।
 पाशांश्च विविधान्गृह्य बाणान्कर्मारमार्जितान् ॥ ३१ ॥
 विपाठान्क्षुरधारांश्च अर्धचन्द्राकृतीनपि ।
 नानायुधसहस्राणि नानाविध धनूंषि च ॥ ३२ ॥
 प्रगृह्य सहसा प्रायाद्यत्र रामो धनुर्धरः ।
 लोचनैः क्रोधसन्दीप्तैरुल्काभिरिव दीपितः ॥ ३३ ॥
 कोऽयमित्यब्रवीत्क्रोधादनलं प्रोद्वमन्निव ।
 सिंहनादं मम पुरे रिपुत्वाद्विससर्ज ह ॥ ३४ ॥
 ममापि रिपुरस्तीति दुर्यशः समुपस्थितम् ।
 इन्द्राद्याः ककुभां नाथा भृत्या प्राणपरीप्सया ॥ ३५ ॥
 पातालविवरे स्वर्गं स्वर्गे पातालमेककम् ।
 करोमि सहसैवाहं मानवानां तथैकताम् ॥ ३६ ॥
 मेरुप्रभृतिशैलांश्च चूर्णयाम्यणुसंख्यया ।
 देवलोकं नृणां कुर्यान्नृलोकं त्रिदिवौकसाम् ॥ ३७ ॥
 उद्धृत्य पृथिवीं छिद्यामनन्तं नखराग्रकैः ।
 ब्रह्मा मां वारयामास सांत्वयन्प्रियभाषितैः ॥ ३८ ॥
 अन्यथा राक्षसमृते नारक्षं जगतीतले ।
 सूर्याचन्द्रमसौ भूत्वा तिथिप्रणयनं त्वहम् ॥ ।३९ ॥
 बलाहकत्वमिन्द्रत्वं पृथ्वीसेवादिकाः क्रियाः ।
 कुर्यां यमत्वं वह्नित्वं वरुणत्वं धनेशताम् ॥ ४० ॥
 इत्येवं बहुधा गर्जन्नाजगामान्तिकं हरेः ।
 सेनाध्यक्षा राक्षसेन्द्रा राज्ञा सार्द्धं समागताः ॥ ४१ ॥
 नानाप्रहरणोपेता नानारथपदातिनः ।
 एकैकस्यापि पर्याप्ता जगती नेति मन्महे ॥ ४२ ॥
 केषांचिदपि नामानि भारद्वाज निबोध मे ।
 कोटिशो मनसः पूर्णः शलः पालो हलीमुखः ॥ ४३ ॥
 पिच्छलः कौणपश्चक्रः कालवेगः प्रकालकः ।
 हिरण्यबाहुः शरणः कक्षकः कालदन्तकः ॥ ४४ ॥
 पुच्छाण्डको मण्डलकः पिण्डसेक्ता रभेणकः ।
 उच्छिखः करभो भद्रो विश्वजेता विरोहणः ॥ ४५ ॥
 शिली शलकरो मूकः सुकुमारः प्ररेषणः ।
 मुद्गरः शशरोमा च सुरोमा च महाहनुः ॥ ४६ ॥
 पारावतः पारियात्रः पाण्डुरो रोहिणः कृशः ।
 विहङ्गः शरभो मोदः प्रमोदः सहतापनः ॥ ४७ ॥
 कृकरः कुण्डलो वेणी वेणीस्कन्धः कुमारकः ।
 बाहुकः शंखवेगश्च धूर्तकः पातपातकौ ॥ ४८ ॥
 शंकुकर्णः पिटरकः कुटीरमुखसेचकौ ।
 पूर्णांगदः पूर्णमुखः प्रभाषः शकुलिर्हरिः ॥ ४९ ॥
 अमाहिठः कामठकः सुषेणो मानसो व्ययः ।
 भैरवी मुण्डदेवाङ्गः पिशङ्गश्चोडपालकः ॥ ५० ॥
 ऋषभो वेगवान्नाम पिण्डारकमहाहनू ।
 रक्ताङ्गः सर्वसारङ्गः समृद्धः पाटवासकौ ॥ ५१ ॥
 वराहको रावणकः सुचित्रश्चित्रवेगिकः ।
 पराशरस्तरुणिको मणिस्कन्धस्तथारुणिः ॥ ५२ ॥
 सेनाध्यक्षा महाब्रह्मन्कीर्तिताः कीर्तिवर्धनाः ।
 प्राधान्येन बहुत्वात्तु न सर्वे परिकीर्तिताः ॥ ५३ ॥
 न शक्या परिसंख्यातुं ये युद्धाय समागताः
 नीलरक्ता सिता घोरा महाकाया महाबलाः ॥ ५४ ॥
 सप्तशीर्षा द्विशीर्षाश्च पञ्चशीर्षास्तथापरे ।
 कालानल महाघोरा हुताशसमविग्रहाः ॥ ५५ ॥
 महाकाया महावेगाः शैलशृङ्गसमुच्छ्रयाः
 योजनायामविस्तीर्णाद्वियोजनसमुच्छ्रयाः ॥ ५६ ॥
 कामरूपाः कामबला दीप्तानलसमत्विषः ।
 अन्ये च बहवः शूराः शूलपट्टिशधारिणः ॥ ५७ ॥
 दिव्य प्रहरणोपेता नानावेषविभूषिताः ।
 शृणु नामानि चान्येषां येऽन्ये राव्रणसैनिकाः ॥ ५८ ॥
 शंकुकर्णो निकुम्भश्च पद्मः कुमुद एव च ।
 अनन्तो द्वादशभुजस्तथा कृष्णोपकृष्णकौ ॥ ५९ ॥
 घ्राणश्रवाः कपिस्कन्धः काञ्चनाक्षो जलन्धमः ।
 अक्षसन्तर्दनो ब्रह्मन्कुनदीकस्तमोऽभ्रकृत् ॥ ६० ॥
 एकाक्षो द्वादशाक्षश्व तथैवैकजटाभिधः ।
 सहस्त्रबाहुर्विकटो व्याघ्राख्यः क्षितिकम्पनः ॥ ६९ ॥
 पुण्यनामानुनामा च सुवक्त्रः प्रियदर्शनः ।
 परिश्रितः कोकनदः प्रियमाल्यानुलेपनः ॥ ६२ ॥
 अजोदरो गजशिराः स्कन्धाक्षः शतलोचनः ।
 ज्वालाजिह्वः करालश्च सितकेशो जटी हरिः ॥ ६३ ॥
 चतुर्दंष्ट्रोष्ठजिह्वश्च मेघनादः पृथुश्रवाः ।
 विकृताक्षो धनुर्वक्त्रो जाठरो मारुताशनः ॥ ६४ ॥
 उदाराक्षो रथाक्षश्च वज्रनाभो वसुप्रभः ।
 समुद्रवेगो विप्रेन्द्रः शैलकम्पी तथैव च ॥ ६५ ॥
 वृषमेषप्रवाहश्च तथा नान्दोपनन्दकौ ।
 धूम्रश्वेतः कलिङ्गश्च सिद्धार्थो वरदस्तथा ॥ ६६ ॥
 प्रियकश्चैकनन्दश्च गोनन्दश्च प्रतापवान् ।
 आनन्दश्च प्रमोदश्च स्वस्तिको धुवकस्तथा ॥ ६७ ॥
 क्षेमबाहुः सुबाहुश्च सिद्धपात्रश्च सुव्रतः ।
 गोव्रजः कनकापीडो महापारिषदेश्वरः ॥ ६८ ॥
 गायनो दमनश्चैव बाणः खड्गश्च वीर्यवान् ।
 वैताली गतिताली च तथा कथकवातिकौ ॥ ६९ ॥
 हंसजः पङ्कदिग्धाङ्गः समुद्रोन्मादनश्च ह ।
 रणोत्कटः प्रहासश्च वेतसिद्धश्च नन्दकः ॥ ७० ॥
 एते पुरा रावणसैन्यपाला नानायुधप्राहरणा रणेषु ।
 हंसेषु मेषेषु वृषेपु वीरा रामं प्रतस्तुः कृतसिंहनादाः ॥ ७१ ॥
 इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये
 अद्भुतोत्तरकाण्डे रावणसैन्यनिर्याणं नामाष्टादशः सर्गः ॥ १८ ॥
 
 GO TOP 
 |