॥ श्रीवाल्मीकिमहामुनिकृत शतकोटिरामचरितान्तर्गतं ॥

॥ आनन्दरामायणम् ॥

सारकाण्डम्

॥ द्वादशः सर्गः ॥
[ श्रीरामाचा राज्याभिषेक ]

॥ श्रीसद्‌गुरु रामचंद्राय नमः ॥

श्रीशिव उवाच
अथ तां दिव्यवस्त्रैश्च भूषयित्वा विदेहजाम् ।
सुस्नातां शिबिकासंस्थां वेष्टितां वेत्रपाणिभिः ॥१॥
निन्युः श्रीरामसान्निध्यं सुग्रीवाद्याः त्वरान्विताः ।
नानावाद्यसमुत्साहैः नर्तनैवरियोषिताम् ॥२॥
ततोऽवरुह्य यानात्सा पद्‌भयां गत्वा शनैः पतिम् ।
ननाम सीता श्रीरामं लज्जिताऽऽसीत्पतेः पुरः ॥३॥
रामोऽपि दृष्ट्वा तां सीतां शुद्धां ज्ञात्वापि तां पुनः।
सर्वेषां प्रत्ययार्थं हि तदा वचनमब्रवीत् ॥४॥
यथेच्छं गच्छ वैदेहि रिपुगेहनिवासिनी ।
न त्वां अंगीकरोम्यद्य ब्रह्मणा प्रार्थितोऽप्यहम् ॥५॥
तद् रामवचनं श्रुत्वा कारयित्वा चितां शुभाम् ।
लक्ष्मणनाथ सुस्नाता सीता वचनमब्रवीत् ॥६॥
रामाद् अन्यं चेतसाऽपि नाहं जानामि पावक ।
यदिद मे वचः सत्य तर्हि त्वं शीतला भव ॥७॥
इति सा शपथं कृत्वा विवेशानलमुत्तमम् ।
ततः स देववाक्यैश्च तथा दशरथस्य च ॥८॥
वचनात् जानकीं शुद्धां ज्ञात्वा तामग्रहात्प्रभुः ।
सुभूषितां पावकेन स्वाके संस्थापिता शुभाम् ॥९॥
पंचवट्यां स्वयं तत्र पुरा न्यस्तां च पावके ।
आलिंग्य जानकी रामो निजांके संन्यवेशयत् ॥१०॥
तामसी राजसी चैव सात्विकी या त्रिधा पुरा ।
जाता रावणघातार्थं सा जातैकत्र वै तदा ॥११॥
ततो दैवैः स्तुतो रामश्चेन्द्रेण समरे मृतान्‍ ।
वानरादीन्‍ सुधावृष्ट्या जीवयामास सादरम् ॥१२॥
तत्रैकं वानरं रामो‍ऽदृष्ट्वा पप्रच्छ मारुतिम् ।
राघवं मारुतिः प्राह कुम्भकर्णेन भक्षितः ॥१३॥
यदि किंचित्तस्य कपेः नखकेशास्थिलोहितम् ।
रणेऽभविष्यत्पतितं तर्ह्यद्यामृतवृष्टितः ॥१४॥
अभविष्यत् जीवितः स सत्यं विद्धि रघूत्तम ।
सुधावृष्ट्या राक्षसास्ते जीवयिष्यंति वै पुनः ॥१५॥
इति भीत्या पुराऽस्माभिः सर्वे त्यक्ता महोदधौ ।
तन्मारुतेर्वचः श्रुत्वा यमराजं व्यलोकयत् ॥१६॥
यमोऽपि भीत्या रामाग्रे‍ऽर्पयत्तं प्लवगोत्तमम् ।
तं दृष्ट्वा राघवस्तुष्टः तदा‌ऽऽज्ञां नाकमुत्तमम् ॥१७॥
गंतुं ददौ मातलिने सो‍ऽपि नत्वा रघूत्तमम् ।
रथेन वाजियुक्तेन ययौ मघवतः पुरीम् ॥१८॥
रामस्तु मंगलस्नानं कर्तुं संप्रार्थितो‍ऽपि हि ।
विभीषणेन भरतं स्मृत्वा नांगीचकार सः ॥१९॥
ततः सर्वैर्वानरैश्च पुष्पकं चारुरोह सः ।
रथेन दारुकश्चापि गरुडो मकरध्वजः ॥२०॥
विभीषणश्चारुरोह पुष्पकं राघवाज्ञया ।
ततस्ते निर्जराः सर्वे राममामंत्र्य खे ययुः ॥२१॥
दृष्ट्वा रामं दशरथो विमानेन ययौ दिवम् ।
अथ तं राघवं प्राह पुष्पकस्थं विभीषणः ॥२२॥
राम ते प्रष्टुमिच्छामि तत्व मां वक्तुमर्हसि ।
ऐरावणगृहे राम यदा पातालमुत्तमम् ॥२३॥
पुरा गतस्तदा तूष्णीं किमर्थं त्व स्थितः प्रभो ।
कथं तौ न हतौ दुष्टौ तदैव क्षणमात्रतः ॥२४॥
तत्तस्य वचनं श्रुत्वा विहस्य राघवो‍ऽब्रवीत् ।
भ्रमराणां वधः पूर्व विधिना मारुतेः करात् ॥२५॥
प्रोक्तस्तस्मान्मया तूष्णीं प्रतीक्षा मारुतेः कृता ।
अन्यच्चापि जगत्या हि मारुतेः पौरुषं जनाः ॥२६॥
वदंतु येन श्रीराम-लक्ष्मणौ मोचितौ पुरा ।
असुराभ्यां हि पाताले सो‍ऽयं श्रीरामसेवकः ॥२७॥
इति पौरुषवृद्ध्यर्थं मारुतेर्जगतीतले ।
मम दासस्य बलिनः तथा तूष्णीं स्थितं मया ॥२८॥
नोचेद् हुंकारमात्रेण पथि हंतुं न किं क्षमः ।
ईषिकास्त्रेण काकस्य येन नेत्रं विदारितम् ॥२९॥
शतयोजनपर्यन्तं मारीचो‍ऽब्धौ पतत्रिणा ।
पुरा येन मया त्यक्तः सोऽहं किं कुण्ठितस्तदा ॥३०॥
तयोर्वधे तु पाताले न शस्त्रार्थं प्रतीक्षितम् ।
मारुतेः पौरुषार्थं हि सत्यं वेद विभीषण ॥३१॥
इति रामवचः श्रुत्वा मारुतिः स विभीषणम् ।
तदा प्राह विहस्याथ किं त्वं तद् विस्मृतो‍ऽसि हि ॥३२॥
सेतुकाले राघवेण गर्वं दृष्ट्वा मयि स्थितम् ।
लांगूलं खंडितं पूर्वं लिंगोत्पाटनहेतुना ॥३३॥
तस्य मे राघवाग्रे हि किं बलं मन्यसे‍ऽत्र हि ।
किं विलम्बो राघवाय तयोः असुरयोर्वधे ॥३४॥
वर्धिता निजदासस्य कीर्तिरत्र विभीषण ।
इति तन्मारुतेर्वाक्यं श्रुत्वा रामं विभीषणः ॥३५॥
ननाम परया भक्त्या ततः सम्यगपूजयत् ।
अथ रामः पुष्पकस्थः सीतया प्रार्थितो मुहुः ॥३६॥
तद् वाक्यगौरवात् तुष्टः त्रिजटायै वरान्ददौ ।
वस्त्रालङ्कारभूषाभिः पूर्वं तुष्टां विधाय च ॥३७॥
त्रिजटे वचनं मे‍ऽद्य श्रुणु मंगलदायकम् ।
कार्तिके माधवे माघे चैत्रे मासचतुष्ट्ये ॥३८॥
स्नात्वाऽग्रे त्रिदिनं स्नानं त्वत्प्रीत्यर्थं नरोत्तमाः ।
करिष्यंति हि तेनैव कृतकृत्या भविष्यसि ॥३९॥
यैर्नस्त्रिदिनं स्नानं न कृतं पूर्णिमोर्ध्वतः ।
तेषां मासकृतं पुण्यं हर त्वं वचनान्मम ॥४०॥
अन्यच्चापि श्रृणुष्व त्वं दीयते यो वरो मया ।
अशुचीनि गृहाण्येव तथा श्राद्धहवींषि च ॥४१॥
क्रोधाविष्टेन दत्तानि विधिवत् तत्कृतान्यपि ।
त्रिजटे तानि तुभ्यं हि श्रृण्वन्यत्त्वं मयोच्यते ॥४२॥
पादशौचं अनभ्यंगं तिलहीनं च तर्पणम् ।
सर्वं तत्त्रिजटे तुभ्यं तथा श्राद्धमदक्षिणम् ॥४३॥
इति दत्त्वा वरान्‍ रामः त्रिजटासरमान्वितः ।
स विभीषणसुग्रीव मकरध्वजवानरैः ॥४४॥
ययौ विहायसा सीतां दर्शयन्‍ कौतुकानि सः ।
पश्य सीते पुरीं लङ्कां तथा रणभुवं शुभाम् ॥४५॥
पश्य सेतुं मया बद्धं शिलाभिर्लवणार्णवे ।
एतच्च दृश्यते तीर्थं सेतुबंधमिति स्मृतम् ॥४६॥
इत्युक्त्वा रघुवीरस्तु राक्षसेंद्रस्य वाक्यतः ।
पुष्पकाद्‌भुवि चोत्तीर्य धृत्वा कोदंडमुत्तमम् ॥४७॥
बभंज सेतुं तत्कोट्या धनुष्कोटिरितीर्यते ।
अतएव हि तत्तीर्थं स्नानात् कैवल्यदायकम् ॥४८॥
कोदंडपाणिर्नाम्नाऽऽसीत् राममूर्तिश्च तत्र हि ।
एतस्मिन् अंतरे तत्र संपातिः स ययौ तदा ॥४९॥
तमालिंग्य रामचंद्रः तं प्राह स्मितपूर्वकम् ।
बंधोर्नाम्नाऽत्र तीर्थं त्वं कुरु सेतौ महत्तमम् ॥५०॥
तथेति रामवचनात् भ्रातुः संतोषकाम्यया ।
तीर्थं चकार सम्पातिः जटायुमिति विश्रुतम् ॥५१॥
ततो रामाज्ञया यानं संपातिश्चारुरोह सः ।
ततो यानेन तां सीतां दर्शयन्‍ कौतुकानि हि ॥५२॥
ययौ रामेश्वरं पूज्य तथा श्रीरघुनंदनः ।
सीतेऽत्र पश्य मंत्रार्थं एकांते संस्थितं पुरा ॥५३॥
अत्र दर्भेषु शयनं कृतं पश्य विदेहजे ।
नवग्रहार्थं प्रक्षिप्तान् पाषाणान् पश्य सागरे ॥५४॥
तूष्णीमेव स्थितं पश्य सागरं मम वाक्यतः ।
एवं तां दर्शयन्‍ रामः किष्किंधां प्रययौ क्षणात् ॥५५॥
वानराणां स्त्रियः सर्वा विमाने स्थाप्य राघवः ।
ययौ तां दर्शयन्‍ सीतां कौतुकानि समंततः ॥५६॥
प्रवर्षणगिरिं पश्य ऋष्यमूकाचलं तथा ।
पंपासरोवरं पश्य कृष्णां भीमरथीं शुभाम् ॥५७॥
पश्य पंचवटीं रम्या गोदातीरविराजिताम् ।
अगस्तेराश्रमं पश्य सुतीक्ष्णस्याश्रमं तथा ॥५८॥
पश्य अत्रेः आश्रमं सीते चित्रकूटं समीक्षय ।
कालिंदीं जाह्नवीं पश्य भारद्वाजाश्रमं तथा ॥५९॥
इत्युक्त्वा जानकीं रामो भारद्वाजार्थितस्तदा ।
तस्थौ तस्याश्रमे यानात् अवरुह्य यथासुखम् ॥६०॥
माघशुक्लचतुर्थ्यां हि पूर्णे वर्षे चतुर्द्दशे ।
भारद्वाजोऽपि तपसा स्वर्गं निर्माय भूतले ॥६१॥
पूजयामास श्रीरामं सीतावानरसंयुतम् ।
रामोऽपि हृदि संमन्त्र्य मारुतिं वाक्यमब्रवीत् ॥६२॥
अयोध्यां गच्छ भरतं मद्‌वृत्तं कथयस्व तम् ।
सखायं श्रृङ्‌गवेरे मे वृत्तं कथय केवटम् ॥६३॥
तथेति गुहकं गत्वा कपिर्वृत्तं न्यवेदयत् ।
गुहकोऽपि मुदा युक्तः तदा रामांतिकं ययौ ॥६४॥
ततोऽयोध्यां ययौ वेगात् मारुतिः स विहायसा ।
नंदिग्रामे‍ऽपि भरतः पूर्णे वर्षे चतुर्दशे ॥६५॥
नागते राघवे वह्निं सन्नद्धोऽभूत्प्रवेशितुम् ।
शत्रुघ्नं भरतः प्राह रावणेन रणांगणे ॥६६॥
श्रीरामलक्ष्मणौ वीरौ हतौ मन्येऽद्य नागतौ ।
आकारिता मया सर्वे नृपा एते बलैर्युताः ॥६७॥
लंकां गत्वा राघवस्य साहाय्यं कर्तुमिच्छता ।
सोऽहमग्निं विशाम्यद्य रवावस्ताचलं गते ॥६८॥
त्वं गच्छ पार्थिवैर्लंकां हत्वा युद्धे दशाननम् ।
मोचयित्वा जनकजां ततो नः पारलौकिकम् ॥६९॥
रामादीनां त्रिबंधूनां कर्तुमर्हसि सादरम् ।
इति तद्वाक्यमाकर्ण्य पौरा जानपदा नृपाः ॥७०॥
शत्रुघ्नो मातरः सर्वा उर्मिलाद्याः स्त्रियश्च ताः ।
सुमंत्राद्या मंत्रिणश्च पौरनार्यश्च सेवकाः ॥७१॥
भरतं वेष्टयामासुः खेदाद् विह्वलमानसाः ।
भरतः सांत्वयन्‍ सर्वान् ययौ तां सरयूं नदीम् ॥७२॥
चितां कृत्वा ततः स्नात्वा ददौ दानान्यनेकशः ।
सप्त प्रदक्षिणाः कृत्वा वह्निं ध्यात्वा रघूत्तमम् ॥७३॥
सीतां तां लक्ष्मणं वीरं नत्वा मातृर्गुरुं मुनीन्‍ ।
आराध्यदेवतां ध्यात्वा ह्युत्तराभिमुखः स्थितः ॥७४॥
रवौ न्यस्तेक्षणः सायं प्रतीक्षन्‍ संस्थितः क्षणम् ।
महान्कोलाहलश्चासीत् तदा स्त्रीपुरुषैः कृतः ॥७५॥
एतस्मिन् अंतरे खस्थः तं दृष्ट्वा वायुनंदनः ।
प्रवेष्टुमुद्यतं वेगाद्‌ भरतं गद्‍गदस्वनः ॥७६॥
अब्रवीन्मधुरं वाक्यं सुधया सेचयन्निव ।
मा विशस्वानलं वीर राघवो‍ऽद्य समागतः ॥७७॥
सीतया लक्ष्मणेनापि भारद्वाजाश्रमं प्रति ।
वानरैः सहितं रामं श्वस्त्वं पश्यसि निश्चयात् ॥७८॥
रामोऽत्युत्कंठितस्त्वां हि द्रष्टुमस्ति जटाधर ।
इति तद्‍वाक्‌सुधावृष्टि सेचितो भरतो मुदा ॥७९॥
वन्हिं नत्वा परावृत्य ननाम वायुनंदनम् ।
भरतं मारुतिश्चापि नत्वाऽऽलिंग्य सविस्तरम् ॥८०॥
श्रावयामास श्रीराम-वृत्तं संतोषकारकम् ।
तच्छुत्वा भरतस्तुष्टः शोभयामास तां पुरीम् ॥८१॥
अयोध्यां तोरणाद्यैश्च पौरैः प्रत्युज्जगाम तम् ।
मस्तके पादुके बद्‍ध्वा पुरस्कृत्याथ वारणम् ॥८२॥
माघस्य सितपंचम्यां प्राप्ते पंचदशे‍ऽब्दके ।
प्रभाते भरतो याम्ये ददर्श पुष्पकं खगम् ।।८३॥
ननाम राघवं दृष्ट्वा साष्टांगं भरतस्तदा ।
रामो‍ऽप्यालिंग्य भरतं कृत्वा रूपाण्यनेकशः ॥८४॥
एककाले जनान्‍ सर्वान् पृथक्‍ स परिषस्वजे ।
आदौ पश्चान्न रामेण कृतमालिंगनं तदा ॥८५॥
रामान्‍ दृष्ट्वा ह्यसंख्यातान्‍ जनाश्चासन् सुविस्मिताः ।
समाश्वास्याथ भरतं राघवः साश्रुलोचनः ॥८६॥
ननाम शिरसा मातृः वसिष्ठं चाप्यरुन्धतीम् ।
ततो वाद्यनर्तनाद्यैः नन्दिग्रामं ययौ शनैः ॥८७॥
श्मश्रुकर्मोद्वर्तनं च तैलाभ्यंगं तु बंधुभिः ।
नंदिग्रामेऽकरोत् रामो नानामांगल्यवस्तुभिः ॥८८॥
नववाद्यसुघोषाश्च नेदुः सर्वत्र सुस्वराः ।
नार्यो नीराजयामासू रत्‍नदीपै रघूत्तमम् ॥८९॥
ततः सीता नमस्कृत्य कौसल्याद्याश्च मातरः ।
वसिष्ठं ब्राह्मणान् वृद्धान् वंदनीयान्यथाक्रमम् ॥९०॥
ततः सीतां समालिंग्य कौसल्याद्याश्च मातरः ।
स्नापयामासुः मांगल्य द्रव्यैर्वाद्यपुरःसरम् ॥९१॥
वस्त्रालंकारभूषाभिः शुशुभे जानकी तदा ।
भरतः पादुके ते तु राघवस्य सुपूजिते ॥९२॥
योजयामास रामस्य पादयोर्भक्तिसंयुतः ।
ततो‍ऽतिविनयात्प्राह भरतो रघुनंदनम् ॥९३॥
राज्यमेतत् न्यासभूतं मया निर्यापितं तव ।
कोष्ठागारं बलं कोशं कृतं दशगुणं मया ॥९४॥
त्वत्तेजसा जगन्नाथ पालयस्व पुरं स्वकम् ।
तथेति राघवश्चोक्त्वा भरतं संन्यवेशयत् ॥९५॥
ततः स दिव्यवस्त्राणि परिधाय रघूत्तमः ।
सीतया रथमारुह्य वाद्यघोषैर्जनस्वनैः ॥९६॥
वारांगनानृत्यगीतैः ययौ निजपुरीं प्रति ।
पौरनार्यश्च सौधस्था ववर्षुः पुष्पवृष्टिभिः ॥९७॥
चकुर्नीराजनं मार्गे नानाबलिपुरःसरम् ।
रामो रथात्तदोत्तीर्य सीतां संप्रेष्य वै गृहम् ॥९८॥
पुष्पकं प्राह गच्छ त्वं कुबेरं वह सर्वदा ।
तथेति रामवचनात् जगाम पुष्पकं तु तत् ॥९९॥
अथ रामः सभामध्ये विवेश कपिभिः सह ।
ददौ कपिभ्यो गेहानि वस्तुं रम्याणि सादरम् ॥१००॥
अथ रामस्य राज्यार्थं अभिषेकं गुरुस्तदा ।
चकार सुमुहूर्ते वै महामंगलपूर्वकम् ॥१०१॥
हनुमत्प्रमुखाद्यैश्च चतुःसिंधुजलं शुभम् ।
समानीय नृपैः सर्वैः महावाद्यपुरःसरम् ॥१०२॥
छत्रं च तस्य जग्राह पृष्ठसंस्थः स लक्ष्मणः ।
दधारं सव्यपार्श्चस्थः चामरं भरतस्तदा ॥१०३॥
शत्रुघ्नो वामपार्श्वस्थो दधार व्यजनं शुभम् ।
हनुमान्पादुके दिव्ये दधार पुरतः स्थितः ॥१०४॥
वायव्यादिचतुष्कोण संस्थितास्ते महौजसः ।
सुग्रीवाद्यास्तदा चासन् चत्वारो राघवेक्षणाः ॥१०५॥
सुग्रीवो जलपात्रं च वरादर्शं विभीषणः ।
दधार हस्ते तांबूल-पात्रं स वालिनन्दनः ॥१०६॥
वस्त्रकोशं जांबवांश्च दधार वेगवत्तरः ।
तस्थौ सिंहासने रामः सपृष्ठांकोपबर्हणः ॥१०७॥
सौमित्रिवामपार्श्वेऽथ संपातिः संस्थितोऽभवत् ।
वामपार्श्वे भरतस्य गुहकः संस्थितो‍ऽभवत् ॥१०८॥
शत्रुघ्न वामपार्श्वेऽथ संस्थितो मकरध्वजः ।
हनुमद्वामपार्श्वे च गरुडः संस्थितोऽभवत् ॥१०९॥
सुग्रीवादिचतुर्णां ते वामपार्श्वेषु संस्थिताः ।
श्रीचित्ररथविजय सुमंत्रदारुकास्तथा ॥११०॥
नानाराजोपकरण धृतहस्ता महौजसः ।
ययुर्देवासुराः सर्वे यक्षगंधर्वकिन्नराः ॥१११॥
ओषध्यः पर्वता वृक्षाः सागराश्चाथ निम्नगाः ।
माला‍ञ्च कांचनीं वायुर्ददौ वासवचोदितः ॥११२॥
सर्वरत्‍नसमायुक्तं मणिकांचनभूषितम् ।
ददौ हारं नरेंद्राय स्वयं शक्रस्तु भक्तितः ॥११३॥
प्रजगुर्देवगंधर्वा ननृतुर्वारयोषितः ।
देवदुन्दुभयो नेदुः पुष्पवृष्टिः पपात खात् ॥११४॥
ततोऽकरवं स्तुतिमहं भरतेनाभिपूजितः ॥११५॥
श्रीशिव उवाच
सुग्रीवमित्रं परमं पवित्रं सीताकलत्रं नवमेघगात्रम् ।
कारुण्यपात्रं शतपत्रनेत्रं श्रीरामचद्रं सततं नमामि ॥११६॥
संसारसारं निगमप्रचारं धर्मावतारं हृतभूमिभारम् ।
सदाऽविकारं सुखसिंधुसारं श्रीरामचद्रं सततं नमामि ॥११७॥
लक्ष्मीविलासं जगतां निवासं लंकाविनाशै भुवनप्रकाशम् ।
भूदेववासं शरदिन्दुहासं श्रीरामचद्रं सततं नमामि ॥११८॥
मंदारमालं वचने रसालं गुणैर्विशालं हतसप्ततालम् ।
क्रव्यादकालं सुरलोकपालं श्रीरामचद्रं सततं नमामि ॥११९॥
वेदांतगानं सकलैः समानं हृतारिमानं त्रिदशप्रधानम् ।
गजेंद्रयानं विगतावसानं श्रीरामचन्द्रं सततं नमामि ॥१२०॥
श्यामाभिरामं नयनाभिरामं गुणाभिरामं वचनाभिरामम् ।
विश्वप्रणामं कृतभक्तकामं श्रीरामचन्द्रं सततं नमामि ॥१२१॥
लीलाशरीरं रणरङ्गधीर विश्वैकसारं रघुवंशहारम् ।
गंभीरनादं जितसर्ववादं श्रीरामचन्द्रं सततं नमामि ॥१२२॥
खले कृतांतं स्वजने विनीतं सामोपगीतं मनसा प्रतीतम् ।
रागेण गीतं वचनादतीतं श्रीरामचन्द्रं सततं नमामि ॥१२३॥
श्रीरामचन्द्रस्य वराष्टकं त्वां मयेरितं देवि मनोहरं ये ।
पठन्ति श्रृण्वन्ति गृणंति भक्त्या ते स्वीयकामान् प्रलभन्ति नित्यम् ॥१२४॥
इति स्तुत्वा रामचन्द्रं सभायां संस्थितस्त्वहम् ।
एतस्मिन् अंन्तरे तत्र राजा दशरथो महान्‍ ॥१२५॥
दृष्ट्वा रामं ससीतं च विमानस्थोऽर्कसन्निभः ।
स्तुत्वा रामं परात्मान राज्यस्थं बंधुवेष्टितम् ॥१२६॥
उवाच रामं संतुष्टः सुरानीकविराजितः ।
दशरथ उवाच
धन्योऽहं कृतकृत्योऽहं धन्यौ तौ पितरौ मम ॥१२७॥
धन्यो देशः कुलं धन्यं यस्त्वां राज्याभिषेचितम् ।
पश्याम्यद्य महाबाहो धन्या सा जननी तव ॥१२८॥
या कौसल्या समुत्साहं नेत्राभ्यां तेऽद्य पश्यति ।
इत्युक्तवन्तं राजानं नमाम स रघूत्तमः ॥१२९॥
कौसल्याद्या राजदाराः सर्वे ते पौरवासिनः ।
लक्ष्मणो भरतश्चैव शत्रुघ्नस्तेऽथ मंत्रिणः ॥१३०॥
नमस्कारान्नृपं चक्रुः विमानस्थं मुदान्विताः ।
तान्‍ राजाऽपि पृथक्‍ पृष्ट्वा सर्वैः देवगणैर्युतः ॥१३१॥
पूजितो रामचन्द्रेण मया सह न्यवर्तत ।
ययुः स्वं स्वं पदं सर्वे मया राज्ञा सुरास्तदा ॥१३२॥
रामेऽभिषिक्ते राजेन्द्र सर्वलोकसुखावहे ।
वसुधा सस्यसंपन्ना फलवंतो महीरुहाः ॥१३३॥
गंधहीनानि पुष्पाणि गंधवन्ति चकाशिरे ।
सहस्रं शतमश्वानां धेनूनां रघुनंदनः ॥१३४॥
ददौ शतं वृषाणां च द्विजेभ्यो वसु कोटिशः ।
सूर्यकांतिसमप्रख्यां सर्वरत्‍नमयीं स्रजम् ॥१३५॥
सुग्रीवाय ददौ प्रीत्या राघवो हर्षसंयुतः ।
अवतंसं ददौ श्रेष्ठं राक्षसेंद्राय राघवः ॥१३६॥
अंगदाय ददौ दिव्ये राघवो बाहुभूषणे ।
चंद्रकोटिप्रतीकाशं मणिरत्‍नविभूषितम् ॥१३७॥
सीतायै प्रददौ हारं प्रीत्या रघुकुलोत्तमः ।
सा तं हारं ददौ वायु-पुत्राय सा मनस्विनी ॥१३८॥
तेन हारेण शुशुभे मारुतिर्गौरवेण च ।
तदा दृष्ट्वा हनूमन्तं रामो वचनमब्रवीत् ॥१३९॥
मारुते त्वां प्रसन्नोऽस्मि वरं वरय कांक्षितम् ।
हनूमानपि तं प्राह नत्वा रामं प्रहृष्टधीः ॥१४०॥
त्वन्नाम स्मरतो राम मनस्तृप्यति नो मम ।
अतस्त्वन्नाम सततं स्मरन् स्थास्यामि भूतले ॥१४१॥
यावत्स्थास्यति ते नाम लोके तावत् कलेवरम् ।
मम तिष्ठतु राजेंद्र वरोऽयं मेऽभिकांक्षितः ॥१४२॥
यत्र यत्र कथा लोके प्रचरिष्यति ते शुभा ।
तत्र तत्र गतिर्मेऽस्तु श्रवणार्थं सदैव हि ॥१४३॥
देवालयात् नदीतीरात् तीर्थाद्वापि जलाशयात् ।
विनाऽन्यत्र स्थले तेस्तु कथा षड्‍घटिकोर्ध्वतः ॥१४४॥
रामस्तथेति तं प्राह मुक्तस्तिष्ठ यथासुखम् ।
कल्पांते मम सायुज्यं प्राप्स्यसे नात्र संशयः ॥१४५॥

तमाह जानकी प्रीता यत्र कुत्रापि मारुते ।
स्थितं त्वामनुयास्यंति भोगाः सर्वे ममाज्ञया ॥१४६॥
ग्रामारामपत्तनेषु व्रजखेटकसद्मसु ।
वनदुर्गपर्वतेषु सर्वदेवालयेषु च ॥१४७॥
नदीषु क्षेत्रतीर्थेषु जलाशयपुरेषु च ।
वाटिकोपवनाश्वत्थ वटवृंदावनादिषु ॥१४८॥
त्वन्मूर्तिं पूजयिष्यंति मायया विघ्नशांतये ।
भूतप्रेतपिशाचाद्या नश्यंति स्मरणात्तव ॥१४९॥
ये चान्ये वानराद्याश्च ह्ययोध्यां समुपागताः ।
अमूल्याभरणैर्वस्त्रैः पूजिता राघवेण ते ॥१५०॥
सुग्रीवप्रमुखाः सर्वे वानराः सविभीषणाः ।
मकरध्वजसंपाति गुहकाः पार्थिवादयः ।
यथार्हं पूजितास्तेन रामेण वसनादिभिः ॥१५१॥
ततः सर्वैर्भोजनार्थं राघवः संस्थितोऽभवत् ।
रामेण प्राणाहुतयो गृहीताश्चेति मारुतिः ॥१५२॥
निरीक्ष्योड्डीय वेगेन रामाग्रे भोजनस्य च ।
त्रिपदायां स्थितं पात्रं हैमं पक्वान्नपूरितम् ॥१५३॥
निनाय वामहस्तेन धृत्वा च विहसन्मुदा ।
स्वयं भुक्त्वा रामशेषं प्राक्षिपत् वानरानपि ॥१५४॥
तदा विभीषणाद्याश्च स्वीयपात्राणि वेगतः ।
विसृज्य मारुतिं स्तुत्वा त्वया सम्यक् कृतं त्विति ॥१५५॥
तत्क्षिप्तं राघवोच्छिष्टं बुभुजुः संभ्रमान्विताः ।
महान्‍ कोलाहलश्चासीत् रामोच्छिष्टार्थमादरात् ॥१५६॥
सीतारामौ तन्निरीक्ष्य मुदा जहसतुस्तदा ।
एवं नानाकौतुकानि कुर्वन्तौ राघवांतिके ॥१५७॥
सुग्रीवाद्याः सुखं तस्थुः तोषयंतः कियद्दिनम् ।
एतस्मिम् अंतरे तत्र पुष्पकं चागमत्पुनः ॥१५८॥
प्राह देव कुबरेण प्रेषितं त्वामहं पुनः ।
मामाह यत्कुबेरस्तर् श्रुणुष्व त्वं रघूत्तम ॥१५९॥
जितस्त्वं रावणेनादौ पश्चात् रामेण निर्जितः ।
अतस्त्वं राघवं नित्यं वह यावद्वसेद्‌भुवि ॥१६०॥
यदा गच्छेत् रघुश्रेष्ठो वैकुण्ठं याहि मां तदा ।
तच्छ्रुत्वा राघवः प्राह सुग्रीवादीन्यथास्थले ॥१६१॥
स्थाप्य शीघ्रं अयोध्यायां राजद्वाराद्‌बहिर्वस ।
तथेति रामवचनात् वानराद्यान् यथास्थले ॥१६२॥
स्थाप्य शीघ्रं अयोध्यायां राजद्वाराद्‌बहिः स्थितम् ।
चकार राज्यं धर्मेण लङकायां स विभीषणः ॥१६३॥
शशास राज्यं पाताले धर्मेण मकरध्वजः ।
चकार तार्क्ष्यः संपातिं यौवराज्यपदे निजे ॥१६४॥
शशास राज्यं कपिभिः किष्किन्धायां कपीश्वरः ।
श्रृङ्गबेरपुरे राज्यं गुहकश्चाकरोन्मुदा ॥१६५॥
नत्वा रामं वायुपुत्रो ययौ तप्तुं हिमालयम् ।
सर्वे विभीषणाद्याश्च पंचमे सप्तमेऽहनि ॥१६६॥
दर्शनार्थं राघवस्य साकेतं प्रययुः सदा ।
पंच सप्त दिनान्यत्र स्थित्वा श्रीराघवांतिकम् ॥१६७॥
यातायातं सदा चक्रुः स्वस्वराज्याद् रघूत्तमम् ।
रामोऽपि राज्यमखिल शशासाखिलवत्सलः ॥१६८॥
अनिच्छंतं हि सौमित्रिं यौवराज्येऽभ्यषेचयत् ।
लक्ष्मणः परया भक्त्या रामसेवापरोऽभवत् ॥१६९॥
विश्वामित्राध्वरे पूर्वं रणयागस्य पूर्णता ।
न कृता या राघवेण सा कृता स्वपदे तदा ।
रणयागः सविस्ताराद् वर्ण्यते श्रृणु पार्वति ॥१७०॥
रणांगणं यज्ञकुण्डं तत्र वै ह्यपलायनम् ।
तच्च वेदविधानं हि ब्रह्मसत्वं प्रकीर्तितम् ॥१७१॥
कर्मणश्च घटाटोपो ज्ञेयः शस्त्रखणस्वनः ।
संमार्जनं स्रुक् स्रुवयोः ज्ञेयं पाषाणघर्षणम् ॥१७२॥
शस्त्राणां मलशोधार्थं क्रियते यद् रणांगणे ।
भूमौ शराणां विस्तारः परिस्तरणमुत्तमम् ॥१७३॥
परिसमूहनं धैर्यं वह्निकालानलो महान्‍ ।
स्रुवेण बाणरूपेण मांसाहुतिसमर्पणम् ॥१७४॥
रक्तधारा वसोर्धारा हाहाकारो भयानकः ।
स ‌ॐकारवषट्‍कारघोषो ज्ञेयो रणाध्वरे ॥१७५॥
अग्नेर्ज्वाला शस्त्रतेजो धूम्रः स्वेदस्रुवो रणे ।
ज्वालानिचयशांत्यर्थं पृषदाज्यस्य सेचनम् ॥१७६॥
यत्तद् अत्र तु वीराणां अस्त्रमोचनमुत्तमम् ।
ज्ञानेन सह जीवस्य बलिर्दीपबलिः स्मृतः ॥१७७॥
ये देहलोभिनो जीवा बलिदीपहराः स्मृताः ।
रामहस्तान्मृतिं त्यक्त्वा ये कुर्वन्ति पलायनम् ॥१७८॥
देहबन्धात् न मुक्तास्ते बलिभक्षणदोषतः ।
पूर्णाहुतिः शिरोभिर्हि ज्ञेयास्तत्र प्रदक्षिणाः ॥१७९॥
उच्चाटनं हि सव्येन वीराणां जयहेतवे ।
नैजं पदप्रदान च ज्ञेया सा दक्षिणाऽध्वरे ॥१८०॥
सुरैर्या पुष्पवृष्टिस्तत् ज्ञेयं विप्राभिषेचनम् ।
जयसम्पादनं युद्धे श्रेयःसंपादनं हि तत् ॥१८१॥
चराचराणां आनन्दो ज्ञेयः स निजगोत्रिणाम् ।
भूतानां तर्पण विप्र-भोजनं सम्प्रकीर्तितम् ॥१८२॥
एवं सुबाहुना युद्धे राघवस्य रणाध्वरः ।
तथा गाधिजयज्ञेऽपि द्वौ तौ ज्ञेयौ सहैव हि ॥१८३॥
कृताऽध्वर समाप्तिस्तु विश्वामित्रेण वै पुरा ।
विसर्जितो न रामेण दृष्ट्वाऽतृप्तं रणाध्वरे ॥१८४॥
कालानलं पुनस्तस्य तृप्त्यर्थ‍ं वाऽकरोन्मतिम् ।
कृत्वा भूमेर्महत्पात्रं विराधरुधिरेण हि ॥१८५॥
पात्रस्य प्रोक्षणं कृत्वा चित्राहुत्यर्थमादरात् ।
रामः शूर्पणखायाश्च घ्राणं कर्णौ विभेद यत् ॥१८६॥
प्राणाहुतिभ्यो रामेण त्रिशिराः खरदूषणौ ।
मारीचश्च कबन्धश्च पंच ते निहताः क्षणात् ॥१८७॥
शिखाबंधविमोक्षार्थं शबरी भवबंधनात् ।
कृता मुक्ता तु रामेण जलस्पर्शनहेतवे ॥१८८॥
नेत्रयोर्निहतो बाली दत्तं तद् रुधिरं तदा ।
क्वाथिर्लंकापुरी दग्धा कुंभकर्णस्तथौदनः ॥१८९॥
पक्वान्नं इद्रजिद्‍ ज्ञेयः शाकार्थं राक्षसा हताः ।
वरान्नं सारणो ज्ञेयः प्रहस्तो वटकः स्मृतः ॥१९०॥
निकुंभः पर्पटो ज्ञेयः कुंभस्तु लवणं स्मृतः ।
पायसार्थं कालनेमिस्तु अतिकायः स शर्करः ॥१९१॥
क्षीरमैरावणो ज्ञेयो घृतं मैरावणः स्मृतः ।
दध्योदनः समाप्तौ तु आहवे च स रावणः ॥१९२॥
हत्वा निवेदितः पात्रे तस्य कालानलस्य च ।
उच्छिष्टबलिसंत्यागः केशत्वक्कीकसादिनाम् ॥१९३॥
संत्यागो‌ऽत्र रणे ज्ञेयः तदा तृप्तो बभूव सः ।
ततो रणाध्वरस्यात्र राघवेण विसर्जनम् ॥१९४॥
अयोध्यायां प्रवेशो हि कृतस्तत्ते वदाम्यहम् ।
अध्वरावभृथस्नानं ज्ञेयं राज्याभिषेचनम् ॥१९५॥
मंगलानि समस्तानि यज्ञांगविहितानि हि ।
ज्ञातव्यानीति रामेण रणयागो विसर्जितः ॥१९६॥
एवं प्रोक्तो मया देवि रणयागः सविस्तरः ।
रामोऽथ परमात्मापि कार्याध्यक्षोऽतिनिर्मलः ॥१९७॥
कर्तृत्वादिविहीनोऽपि निर्विकारोऽपि सर्वदा ।
स्वानन्देनापि संतुष्टो लोकानामुपदेशकृत् ॥१९८॥
चकार विविधान्‍ धर्मान्‍ गार्हस्थ्यं अनुलंब्य च ।
न पर्यदेवन्‍ विधवा न च व्यालकृतं भयम् ॥१९९॥
न व्याधिजं भयं चासीत् रामे राज्यं प्रशासति ।
औरसानिव रामोऽपि जुगोप पितृवत् प्रजाः ॥२००॥
सीतया बन्धुभिः सार्द्धं साकेते सुखमाप सः ।
इदं युद्धचरित्रं ते प्रोक्तं देवि मया तव ॥२०१॥
इति शतकोटिरामचरितांतर्गते
श्रीमद् आनंदरामायणे वाल्मीकीये सारकाण्डे
युद्धचरिते रामराज्याभिषेकवर्णनं नाम द्वादशः सर्गः ॥१२॥


GO TOP