॥ अद्‌भुत रामायणम् ॥

सप्तविंशतितमः सर्गः

श्रीसीतारामयोरयोध्यागमनम् -

रामस्तु पुष्करारूढः सीतामालिंग्य बाहुना ।
अयोध्यामगमद्वीरः काकुत्स्थकुलनन्दनः ॥ १ ॥
रथनेमिस्वनं श्रुत्वा रामदर्शनलालसाः ।
भ्रातरो भरताद्यास्ते योधमुख्याश्च ते तथा ॥ २ ॥
राममागतमाज्ञाय ससीतं सऋषिव्रजम् ।
प्रणेमुः सहसाऽऽगत्य आनन्दाश्रुकणाकुलाः ॥ ३ ॥
वानरान् राक्षतान्तर्यानानय्य स्वपुरं हि सः ।
सर्वं तत्कथयामास रामः कमललोचनः ॥ ४ ॥
तच्छ्रुत्वा विस्मिताः सर्वे साधु साध्विति वादिनः ।
सीतां तत्त्वेन विज्ञाय रामं च मधुसूदनम् ॥ ५ ॥
तदेवं चिन्तयन्तस्ते स्वं स्वं स्थानं ययुर्मुदा ।
विसृष्टा रामभद्रेण सान्त्वपूर्वं महात्मना ॥ ६ ॥
ऋषयश्चाभिनन्द्यैनं ससीतं रघुनन्दनम् ।
आशीर्भिर्वर्धयामासुर्ययुश्चापि यथागतम् ॥ ७ ॥
रामोऽपि सीतया सार्द्धं भ्रातृभिश्च महात्मभिः ।
चक्रे निष्कण्टकां पृथ्वीं देवानां च महद्धितम् ॥ ८ ॥
यज्ञान् बहुविधांश्चक्रे सरयूतीर उत्तमे ।
दशवर्षसहस्राणि दशवर्षशतानि च ॥
किञ्चिदभ्यधिकं चैव रामो राज्यमकारयत् ॥ ९ ॥
देवकिन्नरगन्धर्वा विद्याधरमहोरगाः ।
रामं नमन्ति सततं गुणारामं रमापतिम् ॥ १० ॥
एतत्ते कथितं भद्र भारद्वाज महामते ।
तेषु किंचिदिहाश्चर्यमुक्तं रामकथाश्रयम् ॥ ११ ॥
सर्वं न वक्तुमिच्छामि पुनरुक्तिभयाद्‌द्विज ।
ब्रह्मणा गोपितं तच्च अतोऽपि न तदुक्तवान् ॥ १२ ॥
अद्‌भुतोत्तरकाण्डे तत्कथितं वेदसम्मितम् ।
शृणोत्यधीते यश्चैतत्स ब्रह्म परमाप्नुयात् ॥ १३ ॥
श्लोकमेकं तदर्धं वा शृणुयाद्यच्च मानवः ।
प्रातर्मध्याह्नयोगे वा स याति परमां गतिम् ॥ १४ ॥
पंचविंशतिसाहस्रं रामायणमधीत्य यत् ।
फलमाप्नोति पुरुषस्तदस्य श्लोकमात्रतः ॥ १५ ॥
न श्रुतं नाप्यधीतं वा येना श्रुतमिदं द्विज ।
स गर्भान्निःसृतो नैव यथा भ्रूणस्तथैव सः ॥ १६ ॥
रामायणमिदं श्रुत्वा न मातुर्जठरे विशेत् ।
वेदाश्चत्वार एकत्र तुलया चेदमेकतः ॥ १७ ॥
विधात्रा तुलितं शास्त्रं सर्वदेवाग्रतो द्विज ।
इदं तु सर्ववेदेभ्यो गौरवादतिरिच्यते ॥ १८ ॥
शक्राय स्वर्णदीतीरे पुरा पृष्ठोऽहमब्रुवम् ।
तदेव तव चाख्यातमद्‌भुतोत्तरकाण्डकम् ॥ १९ ॥
रामायणं महारत्‍नं ब्रह्महृत्क्षीरधावभूत् ।
नारदान्तः समासाद्य क्रमान्मम हृदि स्थितम् ॥ २० ॥
तत्सर्वं ब्रह्मणो लोके निःशेषमवतिष्ठते ।
किंचिदुर्व्यां च पाताले त्रिदिवे शक्रसन्निधौ ॥ २१ ॥
विरंचिर्नारदोऽहं च त्रय एवास्य पारगाः ।
चतुर्थो नोपपद्येत बुद्ध्वेदं सुस्थिरो भव ॥ २२ ॥
यदुक्तमद्‌भुते काण्डे पुनस्ते कथयाम्यहम् ।
श्रीरामजन्मवृत्तान्तः श्रीमतीचरितं महत् ॥ २३ ॥
दण्डकारण्यकस्थानां शोणितेन महात्मनाम् ।
नारदस्य च शापेन लक्ष्म्याश्चैवापराधतः ॥ २४ ॥
मन्दोदरीगर्भनिष्ठा वैदेही जन्म चोक्तवान् ।
रामस्य विश्वरूपं च भार्गवेण च वीक्षितम् ॥ २५ ॥
ऋष्यमूके हनुमता चतुर्बाहू रघूत्तमः ।
दृष्टो भिक्षुस्वरूपेण सुग्रीवसख्यमुक्तवान् ॥ २६ ॥
लक्ष्मणांगजतापेन शोषणं वारिधेः पुनः ।
प्राप्तराज्यस्य रामस्य मुनीनां सन्निधौ तथा ॥ २७ ॥
सीतायाः कथनं श्रुत्वा सहस्रास्यस्य रक्षसः ।
मानसोत्तरशैलेन्द्रे स्थितिं ज्ञात्वा रघूद्वहः ॥ २८ ॥
जगाम पुष्करद्वीपं भ्रातृभिः सह वानरैः ।
सीताया ऐश्वरं रूपं रावणस्य वधस्तथा ॥ २९ ॥
अयोध्याऽऽगमनं रामस्यैष वृत्तान्तसंग्रहः ।
वृत्तान्तसंग्रहं चापि पठित्वा रामभक्तिमान् ॥
जायते मुनिशार्दूल नात्र कार्या विचारणा ॥ ३० ॥
पठेच्च यो रामचरित्रमेतत्पुनाति पापात्सुकृतं लभेत ।
तीर्थाभिषेकं समरे जयं च स सर्वयज्ञस्य महत्फलं च ॥ ३१ ॥
भजेत यो राममचिन्त्यरूपमेकेन भावेन च भूमिपुत्रीम् ।
एतत्सुपुण्यं शृणुयात्पठेद्वा भूयो भवेन्नो जठरं जनन्याः ॥ ३२ ॥
इत्यार्षे श्रीमद्‌रामायणे वाल्मीकीये आदिकाव्ये अद्‌भुतोत्तरकाण्डे
श्रीसीतारामयोरयोध्यागमनं नाम सप्तविंशतितमः सर्गः ॥ २७ ॥

GO TOP