॥ श्रीमद् अध्यात्मरामायण ॥

॥ युद्धकाण्ड ॥

॥ पंचदशः सर्गः ॥

श्रीमहादेव उवाच

ततस्तु कैकयीपुत्रो भरतो भक्तिसंयुतः ।
शिरस्यञ्जलिमाधाय ज्येष्ठं भ्रातरमब्रवीत् ॥ १ ॥
माता मे सत्कृता राम दत्तं राज्यं त्वया मम ।
ददामि तत्ते च पुनः यथा त्वमददा मम ॥ २ ॥
इत्युक्‍त्वा पादयोर्भक्त्या साष्टाङ्‌गं प्रणिपत्य च ।
बहुधा प्रार्थयामास कैकेय्या गुरुणा सह ॥ ३ ॥
तथेति प्रतिजग्राह भरताद् राज्यमीश्वरः ।
मायामाश्रित्य सकलां नरचेष्टामुपागतः ॥ ४ ॥
स्वाराज्यानुभवो यस्य सुखज्ञानैकरूपिणः ।
निरस्तातिशयानन्दः रूपिणः परमात्मनः ॥ ५ ॥
मानुषेण तु राज्येन किं तस्य जगदीशितुः ।
यस्य भ्रूभङ्‌गमात्रेण त्रिलोकी नश्यति क्षणात् ॥ ६ ॥
यस्यानुग्रहमात्रेण भवन्त्याखण्डलश्रियः ।
लीलासृष्टमहासृष्टेः कियत् एतत् रमापतेः ॥ ७ ॥
तथापि भजतां नित्यं कामपूरविधित्सया ।
लीलामानुषदेहेन सर्वमप्यनुवर्तते ॥ ८ ॥
ततः शत्रुघ्नवचनात् निपुणः श्मश्रुकृन्तकः
सम्भाराश्चाभिषेकार्थं आनीता राघवस्य हि ॥ ९ ॥
पूर्वं तु भरते स्नाते लक्ष्मणे च महात्मनि ।
सुग्रीवे वानरेन्द्रे च राक्षसेन्द्रे विभीषणे ॥ १० ॥
विशोधितजटः स्नातः चित्रमाल्यानुलेपनः ।
महार्हवसनोपेतः तस्थौ तत्र श्रिया ज्वलन् ॥ ११ ॥
प्रतिकर्म च रामस्य लक्ष्मणश्च महामतिः ।
कारयामास भरतः सीताया राजयोषितः ॥ १२ ॥
महार्हवस्त्राभरणैः अलञ्चक्रुः सुमध्यमाम् ।
ततो वानरपत्‍नीनां सर्वासामेव शोभना ॥ १३ ॥
अकारयत कौसल्या प्रहृष्टा पुत्रवत्सला ।
ततः स्यन्दनमादाय शत्रुघ्नवचनात् सुधीः ॥ १४ ॥
सुमन्‍त्रः सूर्यसङ्‌काशं योजयित्वाग्रतः स्थितः ।
आरुरोह रथं रामः सत्यधर्मपरायणः ॥ १५ ॥
सुग्रीवो युवराजश्च हनुमांश्च विभीषणः ।
स्नात्वा दिव्याम्बरधरा दिव्याभरणभूषिताः ॥ १६ ॥
राममन्वीयुरग्रे च रथाश्व-गजवाहनाः ।
सुग्रीवपत्‍न्यः सीता च ययुर्यानैः पुरं महत् ॥ १७ ॥
वज्रपाणिर्यथा देवैः हरिताश्वरथे स्थितः ।
प्रययौ रथमास्थाय तथा रामो महत्पुरम् ॥ १८ ॥
सारथ्यं भरतश्चक्रे रत्‍नदण्डं महाद्युतिः ।
श्वेतातपत्रं शत्रुघ्नो लक्ष्मणो व्यजनं दधे ॥ १९ ॥
चामरं च समीपस्थो न्यवीजयद् अरिन्दमः ।
शशिप्रकाशं त्वपरं जग्राह असुरनायकः ॥ २० ॥
दिग्विजैः सिद्धसङ्‌घैश्च ऋषिभिर्दिव्यदर्शनैः ।
स्तूयमानस्य रामस्य शुश्रुवे मधुरध्वनिः ॥ २१ ॥
मानुषं रूपमास्थाय वानरा गजवाहनाः ।
भेरीशङ्‌खनिनादैश्च मृदङ्‌ग-पणवानकैः ॥ २२ ॥
प्रययौ राघवश्रेष्ठः तां पुरीं समलङ्‌कृताम् ।
ददृशुस्ते समायान्तं राघवं पुरवासिनः ॥ २३ ॥
दूर्वादलश्यामतनुं महार्ह-
किरीटरत्‍नाभरणाञ्चिताङ्‌गम् ।
आरक्तकञ्जायतलोचनान्तं
दृष्ट्वा ययुर्मोदमतीव पुण्याः ॥ २४ ॥
विचित्ररत्‍नाञ्चितसूत्रनद्ध-
पीताम्बरं पीनभुजान्तरालम् ।
अनर्घ्यमुक्ताफलदिव्यहारै-
र्विरोचमानं रघुनन्दं प्रजाः ॥ २५ ॥
सुग्रीवमुख्यैर्हरिभिः प्रशान्तै-
र्निषेव्यमाणं रवितुल्यभासम् ।
कस्तूरिकाचन्दनलिप्तगात्रं
निवीतकल्पद्रुमपुष्पमालम् ॥ २६ ॥
श्रुत्वा स्त्रियो राममुपागतं मुदा
प्रहर्षवेगोत्कलिताननश्रियः ।
अपास्य सर्वं गृहकार्यमाहितं
हर्म्याणि चैवारुरुहुः स्वलङ्ंकृताः ॥ २७ ॥
दृष्ट्वा हरिं सर्वदृगुत्सवाकृतिं
पुष्पैः किरन्त्यः स्मितशोभिताननाः ।
दृग्भिः पुनर्नेत्रमनोरसायनं
स्वानन्दमूर्तिं मनसाभिरेभिरे ॥ २८ ॥
रामः स्मितस्निग्धदृशा प्रजास्तथा
पश्यन् प्रजानाथ इवापरः प्रभुः ।
शनैर्जगामाथ पितुः स्वलङ्‌कृतं
गृहं महेन्द्रालयसन्निभं हरिः ॥ २९ ॥
प्रविश्य वेश्मान्तरसंस्थितो मुदा
रामो ववन्दे चरणौ स्वमातुः ।
क्रमेण सर्वापितृयोषितः प्रभु-
र्ननाम भक्त्या रघुवंशकेतुः ॥ ३० ॥
ततो भरतमाहेदं रामः सत्यपराक्रमः ।
सर्वसम्पत्समायुक्तं मम मन्दिरमुत्तमम् ॥ ३१ ॥
मित्राय वानरेन्द्राय सुग्रीवाय प्रदीयताम् ।
सर्वेभ्यः सुखवासार्थं मन्दिराणि प्रकल्पय ॥ ३२ ॥
रामेणैवं समादिष्टो भरतश्च तथाकरोत् ।
उवाच च महातेजाः सुग्रीवं राघवानुजः ॥ ३३ ॥
राघवस्याभिषेकार्थं चतुःसिन्धुजलं शुभम् ।
आनेतुं प्रेषयस्वाशु दूतांस्त्वरितविक्रमान् ॥ ३४ ॥
प्रेषयामास सुग्रीवो जाम्बवन्तं मरुत्सुतम् ।
अङ्‌गदं च सुषेणं च ते गत्वा वायुवेगतः ॥ ३५ ॥
जलपूर्णान् शातकुम्भ कलशांश्च समानयन् ।
आनीतं तीर्थसलिलं शत्रुघ्नो मन्‍त्रिभिः सह ॥ ३६ ॥
राघवस्याभिषेकार्थं वसिष्ठाय न्यवेदयत् ।
ततस्तु प्रयतो वृद्धो वसिष्ठो ब्राह्मणैः सह ॥ ३७ ॥
रामं रत्‍नमये पीठे ससीतं संन्यवेशयत् ।
वसिष्ठो वामदेवश्च जाबालिर्गौतमस्तथा ॥ ३८ ॥
वाल्मीकिश्च तथा चक्रुः सर्वे रामाभिषेचनम् ।
कुशाग्र तुलसीयुक्त पुण्यगन्ध जलैर्मुदा ॥ ३९ ॥
अभ्यषिञ्चन् रघुश्रेष्ठं वासवं वसवो यथा ।
ऋत्विग्भिर्ब्राह्मणै श्रेष्ठैः कन्याभिः सह मन्‍त्रिभिः ॥ ४० ॥
सर्वौषधिरसैश्चैव दैवतैर्नभसि स्थितैः ।
चतुर्भिलोकपालैश्च स्तुवद्‌भिः सगणैस्तथा ॥ ४१ ॥
छत्रं च तस्य जग्राह शत्रुघ्नः पाण्डुरं शुभम् ।
सुग्रीवराक्षसेन्द्रौ तौ दधतुः श्वेतचामरे ॥ ४२ ॥
मालां च काञ्चनीं वायुः ददौ वासवचोदितः ।
सर्वरत्‍नसमायुक्तं मणिकाञ्चनभूषितम् ॥ ४३ ॥
ददौ हारं नरेन्द्राय स्वयं शक्रस्तु भक्तितः ।
प्रजगुर्देवगन्धर्वा ननृतुश्चाप्सरोगणाः ॥ ४४ ॥
देवदुन्दुभयो नेदुः पुष्पवृष्टिः पपात खात् ।
नवदूर्वादलश्यामं पद्मपत्रायतेक्षणम् ॥ ४५ ॥
रविकोटि प्रभायुक्त किरीटेन विराजितम् ।
कोटिकन्दर्पलावण्यं पीताम्बरसमावृतम् ॥ ४६ ॥
दिव्याभरणसम्पन्नं दिव्यचन्दनलेपनम् ।
अयुतादित्यसङ्‌काशं द्विभुजं रघुनन्दनम् ॥ ४७ ॥
वामभागे समासीनां सीतां काञ्चनसन्निभाम् ।
सर्वाभरणसम्पन्नां वामाङ्‌के समुपस्थिताम् ॥ ४८ ॥
रक्तोत्पलकराम्भोजां वामेनालिङ्‌ग्य संस्थितम् ।
सर्वातिशयशोभाढ्यं दृष्ट्वा भक्तिसमन्वितः ॥ ४९ ॥
उमया सहितो देवः शङ्‌करो रघुनन्दनम् ।
सर्वदेवगणैर्युक्तः स्तोतुं समुपचक्रमे ॥ ५० ॥
श्रीमहादेव उवाच
नमोऽस्तु रामाय सशक्तिकाय
नीलोत्पल श्यामलकोमलाय ।
किरीटहाराङ्‌गद भूषणाय
सिंहासनस्थाय महाप्रभाय ॥ ५१ ॥
त्वमादिमध्यान्तविहीन एकः
सृजस्यवस्यत्सि च लोकजातम् ।
स्वमायया तेन न लिप्यसे त्वं
यत्स्वे सुखेऽजस्ररतोऽनवद्यः ॥ ५२ ॥
लीलां विधत्से गुणसंवृतस्त्वं
प्रपन्नभक्तानुविधानहेतोः ।
नानावतारैः सुरमानुषाद्यैः
प्रतीयसे ज्ञानिभिरेव नित्यम् ॥ ५३ ॥
स्वांशेन लोकं सकलं विधाय तं
बिभर्षि च त्वं तदधः फणीश्वरः ।
उपर्यधो भान्वनिलोडुपौषधि-
प्रवर्षरूपोऽवसि नैकधा जगत् ॥ ५४ ॥
त्वमिह देहभृतां शिखिरूपः
पचसि भुक्तं अशेषमजस्रम् ।
पवनपञ्चकरूपसहायो
जगदखण्डमनेन बिभर्षि ॥ ५५ ॥
चन्द्रसूर्यशिखिमध्यगतं यत्
तेज ईश चिदशेषतनूनाम् ।
प्राभवत्तनुभृतामिव धैर्यं
शौर्यमायुरखिलं तव सत्त्वम् ॥ ५६ ॥
त्वं विरिञ्चिशिवविष्णुविभेदात्
कालकर्मशशिसूर्यविभागात् ।
वादिनां पृथगिवेश विभासि
ब्रह्म निश्चितमनन्यदिहैकम् ॥ ५७ ॥
मत्स्यादिरूपेण यथा त्वमेकः
श्रुतौ पुराणेषु च लोकसिद्धः ।
तथैव सर्वं सदसद्विभाग-
स्त्वमेव नान्यद्‌भवतो विभाति ॥ ५८ ॥
यद्यत्सुसमुत्पन्नमनन्तसृष्टौ-
उत्पत्स्यते यच्च भवच्च यच्च ।
न दृश्यते स्थावरजङ्‌गमादौ
त्वया विनातः परतः परस्त्वम् ॥ ५९ ॥
तत्त्वं न जानन्ति परात्मनस्ते
जनाः समस्तास्तव माययातः ।
त्वद्‌भक्तसेवामलमानसानां
विभाति तत्त्वं परमेकमैशम् ॥ ६० ॥
ब्रह्मादयस्ते न विदुः स्वरूपं
चिदात्मतत्त्वं बहिरर्थभावाः ।
ततो बुधस्त्वामिदमेव रूपं
भक्त्या भजन्मुक्तिमुपैत्यदुःखः ॥ ६१ ॥
अहं भवन्नाम गृणन्कृतार्थो
वसामि काश्यां अनिशं भवान्या ।
मुमूर्षमाणस्य विमुक्तयेऽहं
दिशामि मन्‍त्रं तव राम नाम ॥ ६२ ॥
इमं स्तवं नित्यमनन्यभक्त्या
शृण्वन्ति गायन्ति लिखन्ति ये वै ।
ते सर्वसौख्यं परमं च लब्ध्वा
भवत्पदं यान्तु भवत्प्रसादात् ॥ ६३ ॥
इन्द्र उवाच
रक्षोऽधिपेनाखिलदेव सौख्यं
हृतं च मे ब्रह्मवरेण देव ।
पुनश्च सर्वं भवतः प्रसादात्
प्राप्तं हतो राक्षसदुष्टशत्रुः ॥ ६४ ॥
देवा ऊचुः
हृता यज्ञभागा धरादेवदत्ता
मुरारे खलेनादिदैत्येन विष्णो ।
हतोऽद्य त्वया नो वितानेषु भागाः
पुरावद्‌भविष्यन्ति युष्मत्प्रसादात् ॥ ६५ ॥
पितर ऊचुः
हतोऽद्य त्वया दुष्टदैत्यो महात्मन्
गयादौ नरैर्दत्तपिण्डादिकान्नः ।
बलादत्ति हत्वा गृहीत्वा समस्तान्-
इदानीं पुनर्लब्ध्सत्त्वा भवामः ॥ ६६ ॥
यक्षा ऊचुः
सदा विष्टिकर्मण्यनेनाभियुक्ता
वहामो दशास्यं बलाद्दुःखयुक्ताः ।
दुरात्माहतो रावणो राघवेश
त्वया ते वयं दुःखजाताद्विमुक्ताः ॥ ६७ ॥
गन्धर्वा ऊचुः
वयं सङ्‌गीतनिपुणा गायन्तस्ते कथामृतम् ।
आनन्दामृतसन्दोह युक्ताः पूर्णाः स्थिताः पुरा ॥ ६८ ॥
पश्चाद्दुरात्मना राम रावणेनाभिविद्रुताः ।
तमेव गायमानाश्च तद् आराधनतत्पराः ॥ ६९ ॥
स्थितास्त्वया परित्राता हतोऽयं दुष्टराक्षसः ।
एवं महोरगाः सिद्धाः किन्नरा मरुतस्तथा ॥ ७० ॥
वसवो मुनयो गावो गुह्यकाश्च पतत्त्रिणः ।
सप्रजापतयश्चैते तथा चाप्सरसां गणाः ॥ ७१ ॥
सर्वे रामं समासाद्य दृष्ट्वा नेत्रमहोत्सवम् ।
स्तुत्वा पृथक् पृथक् सर्वे राघवेणाभिवन्दिताः ॥ ७२ ॥
ययुः स्वं स्वं पदं सर्वे ब्रह्मरुद्रादयस्तथा ।
प्रशंसन्तो मुदा रामं गायन्तस्तस्य चेष्टितम् ॥ ७३ ॥
ध्यायन्तस्त्वभिषेकार्द्रं सीतालक्ष्मणसंयुतम् ।
सिंहासनस्थं राजेन्द्रं ययुः सर्वे हृदि स्थितम् ॥ ७४ ॥
खे वाद्येषु ध्वनत्सु प्रमुदितहृदयैर्देववृन्दैः स्तुवद्‌भिः-
वर्षद्‌भिःपुष्पवृष्टिं दिवि मुनिनिकरै रीड्यमानः समन्तात् ।
रामः श्यामः प्रसन्नस्मितरुचिरमुखः सूर्यकोटिप्रकाशः
सीतासौमित्रिवातात्मजमुनिहरिभिः सेव्यमानो विभाति ॥ ७५ ॥
इति श्रीमद् अध्यात्मरामायणे उमामहेश्वरसंवादे
युद्धकाण्डे पञ्चदशः सर्गः ॥ १५ ॥

GO TOP