॥ श्रीमद् अध्यात्मरामायण ॥

॥ युद्धकाण्ड ॥

॥ षोडशः सर्गः ॥

श्रीमहादेव उवाच

रामेऽभिषिक्ते राजेन्द्रे सर्वलोकसुखावहे ।
वसुधा सस्यसम्पन्ना फलवन्तो महीरुहाः ॥ १ ॥
गन्धहीनानि पुष्पाणि गन्धवन्ति चकाशिरे ।
सहस्रशतमश्वानां धेनूनां च गवां तथा ॥ २ ॥
ददौ शतवृषान्पूर्वं द्विजेभ्यो रघुनन्दनः ।
त्रिंशत्कोटि सुवर्णस्य ब्राह्मणेभ्यो ददौ पुनः ॥ ३ ॥
वस्त्राभरणरत्‍नानि ब्राह्मणेभ्यो मुदा तथा ।
सूर्यकान्तिसमप्रख्यां सर्वरत्‍नमयीं स्रजम् ॥ ४ ॥
सुग्रीवाय ददौ प्रीत्या राघवो भक्तवत्सलः ।
अङ्‌गदाय ददौ दिव्ये ह्यङ्‌गदे रघुनन्दनः ॥ ५ ॥
चन्द्रकोटिप्रतीकाशं मणिरत्‍नविभूषितम् ।
सीतायै प्रददौ हारं प्रीत्या रघुकुलोत्तमः ॥ ६ ॥
अवमुच्यात्मनः कण्ठाद् हारं जनकनन्दिनी ।
अवैक्षत हरीन् सर्वान् भर्तारं च मुहुर्मुहुः ॥ ७ ॥
रामस्तामाह वैदेहीं इङ्‌गितज्ञो विलोकयन् ।
वैदेहि यस्य तुष्टासि देहि तस्मै वरानने ॥ ८ ॥
हनूमते ददौ हारं पश्यतो राघवस्य च ।
तेन हारेण शुशुभे मारुतिर्गौरवेण च ॥ ९ ॥
रामोऽपि मारुतिं दृष्ट्वा कृताञ्जलिमुपस्थितम् ।
भक्त्या परमया तुष्ट इदं वचनमब्रवीत् ॥ १० ॥
हनूमंस्ते प्रसन्नोऽस्मि वरं वरय काङ्‌क्षितम् ।
दास्यामि देवैरपि यत् दुर्लभं भुवनत्रये ॥ ११ ॥
हनूमानपि तं प्राह नत्वा रामं प्रहृष्टधीः ।
त्वन्नाम स्मरतो राम न तृप्यति मनो मम ॥ १२ ॥
अतस्त्वन्नाम सततं स्मरन् स्थास्यामि भूतले ।
यावत्स्थास्यति ते नाम लोके तावत्कलेवरम् ॥ १३ ॥
मम तिष्ठतु राजेन्द्र वरोऽयं मेऽभिकाङ्‌क्षितः ।
रामस्तथेति तं प्राह मुक्तस्तिष्ठ यथासुखम् ॥ १४ ॥
कल्पान्ते मम सायुज्यं प्राप्स्यसे नात्र संशयः ।
तमाह जानकी प्रीता यत्र कुत्रापि मारुते ॥ १५ ॥
स्थितं त्वामनुयास्यन्ति भोगाः सर्वे ममाज्ञया ।
इत्युक्तो मारुतिस्ताभ्यां ईश्वराभ्यां प्रहृष्टधी ॥ १६ ॥
आनन्दाश्रुपरीताक्षो भूयो भूयः प्रणम्य तौ ।
कृच्छाद्ययौ तपस्तप्तुं हिमवन्तं महामतिः ॥ १७ ॥
ततो गुहं समासाद्य रामः प्राञ्जलिमब्रवीत् ।
सखे गच्छ पुरं रम्यं शृङ्‌गवेरमनुत्तमम् ॥ १८ ॥
मामेव चिन्तयन्नित्यं भुङ्‌क्ष्व भोगान्निजार्जितान् ।
अन्ते ममैव सारूप्यं प्राप्स्यसे त्वं न संशयः ॥ १९ ॥
इत्युक्‍त्वा प्रददौ तस्मै दिव्यानि आभरणानि च ।
राज्यं च विपुलं दत्त्वा विज्ञानं च ददौ विभुः ॥ २० ॥
रामेणालिङ्‌गितो हृष्टो ययौ स्वभवनं गुहः ।
ये चान्ये वानराः श्रेष्ठा अयोध्यां समुपागताः ॥ २१ ॥
अमुल्याभरणैर्वस्त्रैः पूजयामास राघवः ।
सुग्रीवप्रमुखाः सर्वे वानराः सविभीषणाः ॥ २२ ॥
यथार्हं पूजितास्तेन रामेण परमात्मना ।
प्रहृष्टमनसः सर्वे जग्मुरेव यथागतम् ॥ २३ ॥
सुग्रीवप्रमुखाः सर्वे किष्किन्धां प्रययुर्मुदा ।
विभीषणस्तु सम्प्राप्य राज्यं निहतकण्टकम् ॥ २४ ॥
रामेणः पूजितः प्रीत्या ययौ लङ्‌कामनिन्दितः ।
राघवो राज्यमखिलं शशासाखिलवत्सलः ॥ २५ ॥
अनिच्छन्नपि रामेण यौवराज्येऽभिषेचितः ।
लक्ष्मणः परया भक्त्या रामसेवापरोऽभवत् ॥ २६ ॥
रामस्तु परमात्मापि कर्माध्यक्षोऽपि निर्मलः ।
कर्तृत्वादि विहीनोऽपि निर्विकारोऽपि सर्वदा ॥ २७ ॥
स्वानन्देनापि तुष्टः सन् लोकानामुपदेशकृत् ।
अश्वमेधादियज्ञैश्च सर्वैर्विपुलदक्षिणैः ॥ २८ ॥
अयजत् परमानन्दो मानुषं वपुराश्रितः ।
न पर्यदेवन् विधवा न च व्यालकृतं भयम् ॥ २९ ॥
न व्याधिजं भयं चासीत् ‍रामे राज्यं प्रशासति ।
लोके दस्युभयं नासीत् अनर्थो नास्ति कश्चन ॥ ३० ॥
वृद्धेषु सत्सु बालानां नासीन्मृत्युभयं तथा ।
रामपूजापराः सर्वे सर्वे राघवचिन्तकाः ॥ ३१ ॥
ववर्षुजलदास्तोयं यथाकालं यथारुचि ।
प्रजाः स्वधर्मनिरता वर्णाश्रमगुणान्विताः ॥ ३२ ॥
औरसानिव रामोऽपि जुगोप पितृवत्प्रजाः ।
सर्वेलक्षणसंयुक्तः सर्वधर्मपरायणः ॥ ३३ ॥
दशवर्षसहस्राणि रामो राज्यमुपास्त सः ॥ ३४ ॥
इदं रहस्यं धनधान्यऋद्धिमत्
दिर्घायुरारोग्यकरं सुपुण्यदम् ।
पवित्रमाध्यात्मिकसंज्ञितं पुरा
रामायणं भाषितमादिशम्भुना ॥ ३५ ॥
शृणोति भक्त्या मनुजः समाहितो
भक्त्या पठेद्वा परितुष्टमानसः ।
सर्वाः समाप्नोति मनोगताशिषो
विमुच्यते पातककोटिभिः क्षणात् ॥ ३६ ॥
रामाभिषेकं प्रयतः शृणोति यो
धनाभिलाषि लभते महद्धनम् ।
पुत्राभिलाषी सुतमार्यसम्मतं
प्राप्नोति रामायणमादितः पठन् ॥ ३७ ॥
शृणोति योऽध्यात्मिकरामसंहितां
प्राप्नोति राजा भुवमृद्धसम्पदम् ।
शत्रून्विजित्यारिभिरप्रधर्षितो
व्यपेतदुःखो विजयी भवेन्नृपः ॥ ३८ ॥
स्त्रीयोऽपि शृण्वन्त्यधिरामसंहितां
भवन्ति ता जीविसुताश्च पूजिताः ।
वन्ध्यापि पुत्रं लभते सुरूपिणं
कथामिमां भक्तियुता शृणोति या ॥ ३९ ॥
श्रद्धान्वितो यः शृणुयात्पठेन्नरो
विजित्य कोपं च तथा विमत्सरः ।
दुर्गाणि सर्वाणि विजित्य निर्भयो
भवेत्सुखी राघवभक्तिसंयुतः ॥ ४० ॥
सुराः समस्ता अपि यान्ति तुष्टतां
विघ्नाः समस्ता अपयान्ति शृण्वताम् ।
अध्यात्मरामायणमादितो नृणां
भवन्ति सर्वा अपि सम्पदः परा ॥ ४१ ॥
रजस्वला वा यदि रामतत्परा
शृणोति रामायणमेतदादितः ।
पुत्रं प्रसूते ऋषभं चिरायुषं
पतिव्रता लोकसुपूजिता भवेत् ॥ ४२ ॥
पूजयित्वा तु ये भक्त्या नमस्कुर्वन्ति नित्यशः ।
सर्वैः पापैर्विनिर्मुक्ता विष्णोर्यान्ति परं पदम् ॥ ४३ ॥
अध्यात्मरामचरितं कृत्स्नं शृण्वन्ति भक्तितः ।
पठन्ति वा स्वयं वक्‍त्रात् तेषां रामः प्रसीदति ॥ ४४ ॥
राम एव परं ब्रह्म तस्मिंस्तुष्टेऽखिलात्मनि ।
धर्मार्थकाममोक्षाणां यद् यदिच्छति तद्‌भवेत् ॥ ४५ ॥
श्रोतव्यं नियमेनैत ‍रामायणमखण्डितम् ।
आयुष्यमारोग्यकरं कल्पकोट्यघनाशनम् ॥ ४६ ॥
देवाश्च सर्वे तुष्यन्ति ग्रहाः सवे महर्षयः ।
रामायणस्य श्रवणे तृप्यन्ति पितरस्तथा ॥ ४७ ॥
अध्यात्मरामायणमेतद् अद्‌भूतं
वैराग्यविज्ञानयुतं पुरातनम् ।
पठन्ति शृण्वन्ति लिखन्ति ये नरा -
स्तेषां भवेऽस्मिन्न पुनर्भवो भवेत् ॥ ४८ ॥
आलोड्याअखिलवेदराशिमसकृत् यत्तारकं ब्रह्म तद्
रामो विष्णुरहस्यमूर्तिरिति यो विज्ञाय भूतेश्वरः ।
उद्‍धृत्याखिलसारसङ्‌ग्रहमिदं संक्षेपतः प्रस्फुटं
श्रीरामस्य निगूढतत्त्वमखिलं प्राह प्रियायै भवः ॥ ४९ ॥
इति श्रीमद् अध्यात्मरामायणे उमामहेश्वरसंवादे युद्धकाण्डे षोडशः सर्गः ॥ १६ ॥

GO TOP




॥ समाप्तमिदं युद्धकाण्डम् ॥