॥ श्रीमद् अध्यात्मरामायण ॥

॥ युद्धकाण्ड ॥

॥ प्रथमः सर्ग: ॥

श्रीमहादेव उवाच
यथावद्‌भाषितं वाक्यं श्रुत्वा रामो हनूमतः ।
उवाचानन्तरं वाक्यं हर्षेण महतावृतः ॥ १ ॥
कार्यं कृतं हनुमता देवैरपि सुदुष्करम् ।
मनसापि यदन्येन स्मर्तुं शक्यं न भूतले ॥ २ ॥
शतयोजनविस्तीर्णं लङ्‌घयेत्कः पयोनिधिम् ।
लङ्‌कां च राक्षसैर्गुप्तां को वा धर्षयितुं क्षमः ॥ ३ ॥
भृत्यकार्यं हनुमता कृतं सर्वमशेषतः ।
सुग्रीवस्येदृशो लोके न भूतो न भविष्यति ॥ ४ ॥
अहं च रघुवंशश्च लक्ष्मणश्च कपीश्वरः ।
जानक्या दर्शनेनाद्य रक्षिताः स्मो हनूमता ॥ ५ ॥
सर्वथा सुकृतं कार्यं जानक्याः परिमार्गणम् ।
समुद्रं मनसा स्मृत्वा सीदतीव मनो मम ॥ ६ ॥
कथं नक्रझषाकीर्णं समुद्रं शतयोजनम् ।
लङ्‌घयित्वा रिपुं हन्यां कथं द्रक्ष्यामि जानकीम् ॥ ७ ॥
श्रुत्वा तु रामवचनं सुग्रीवः प्राह राघवम्
समुद्रं लङ्‌घयिष्यामो महानक्रझषाकुलम् ॥ ८ ॥
लङ्‌कां च विधमिष्यामो हनिष्यामोऽद्य रावणम् ।
चिन्तां त्यज रघुश्रेष्ठः चिन्ता कार्यविनाशिनी ॥ ९ ॥
एतान्पश्य महासत्त्वान् शूरान्वानरपुङ्‌गवान् ।
त्वत्प्रियार्थं समुद्युक्तान् प्रवेष्टुमपि पावकम् ॥ १० ॥
समुद्रतरणे बुद्धिं कुरुष्व प्रथमं ततः ।
दृष्ट्वा लङ्‌कां दशग्रीवो हत इत्येव मन्महे ॥ ११ ॥
नहि पश्यामहं कञ्चित् त्रिषु लोकेषु राघव ।
गृहीतधनुषो यस्ते तिष्ठेद् अभिमुखो रणे ॥ १२ ॥
सर्वथा नो जयो राम भविष्यतो न संशयः ।
निमित्तानि च पश्यामि तथा भूतानि सर्वशः ॥ १३ ॥
सुग्रीववचनं श्रुत्वा भक्तिवीर्यसमन्वितम् ।
अङ्‌गीकृत्यात्ब्रवीद्‍रामो हनूमन्तं पुरःस्थितम् ॥ १४ ॥
येन केन प्रकारेण लङ्‌घयामो महार्णवम् ।
लङ्‌कास्वरूपं मे ब्रूहि दुःसाध्यं देवदानवैः ॥ १५ ॥
ज्ञात्वा तस्य प्रतिकारं करिष्यामि कपीश्वरः ।
श्रुत्वा रामस्य वचनं हनूमान्विनयान्वितः ॥ १६ ॥
उवाच प्राञ्जलिर्देव यथा दृष्टं ब्रवीमि ते ।
लङ्‌कां दिव्या पुरी देव त्रिकूटशिखरे स्थिता ॥ १७ ॥
स्वर्णप्राकारसहिता स्वर्णाट्टलकसंयुता ।
परिखाभिः परिवृता पूर्णाभिर्निर्मलोदकैः ॥ १८ ॥
नानोपवनशोभाढ्या दिव्यवापीभिरावृता ।
गृहैर्विचित्रशोभाढ्यैः मणिस्तम्भमयैः शुभैः ॥ १९ ॥
पश्चिमद्वारमासाद्य गजवाहाः सहस्रशः ।
उत्तरे द्वारि तिष्ठन्ति साश्ववाहाः सपत्तयः ॥ २० ॥
तिष्ठन्त्यर्बुदसङ्‌ख्याकाः प्राच्यामपि तथैव च ।
रक्षिणो राक्षसा वीरा द्वारं दक्षिणमाश्रिताः ॥ २१ ॥
मध्यकक्षेऽप्यसङ्‌ख्याता गजाश्वरथपत्तयः ।
रक्षयन्ति सदा लङ्‌कां नानास्त्रकुशलाः प्रभो ॥ २२ ॥
सङ्‌क्रमैर्विविधैर्लङ्‌का शतघ्नीभिश्च संयुता ।
एवं स्थितेऽपि देवेश शृणु मे तत्र चेष्टितम् ॥ २३ ॥
दशनानबलौघस्य चतुर्थांशो मया हतः ॥ ।
दग्ध्वा लङ्‌कां पुरीं स्वर्ण-प्रासादो धर्षितो मया ॥ २४ ॥
शतघ्न्यः सङ्‌क्रमाश्चैव नाशिता मे रघूत्तम ।
देव त्वद्दर्शनादेव लङ्‌का भस्मीकृता भवेत् ॥ २५ ॥
प्रस्थानं कुरु देवेश गच्छामो लवणाम्बुधेः ।
तीरं सह महावीरैः वानरौघैः समन्ततः ॥ २६ ॥
श्रुत्वा हनूमतो वाक्यं उउवाच रघुनन्दनः ।
सुग्रीव सैनिकान्सर्वान् प्रस्थानायाभिनोदय ॥ २७ ॥
इदानीमेव विजयो मुहुर्तः परिवर्तते ।
अस्मिन्मुहुर्ते गत्वाहं लङ्‌कां राक्षससङ्‌कुलाम् ॥ २८ ॥
सप्राकारां सुदुर्धर्षां नाश्यामि सरावणाम् ।
आनेष्यामि च सीतां मे दक्षिणाक्षि स्फुरत्यधः ॥ २९ ॥
प्रयातु वाहिनी सर्वा वानराणां तरस्विनाम् ।
रक्षन्तु युथपाः सेनां अग्रे पृष्ठे च पार्श्वयोः ॥ ३० ॥
हनूमन्तमथ आरुह्य गच्छाम्यग्रेऽङ्‌गदं ततः ।
आरुह्य लक्ष्मणो यातु सुग्रीवं त्वं मया सह ॥ ३१ ॥
गजो गवाक्षो गवयो मैन्दो द्विविद एव च ।
नलो नीलः सुषेणश्च जाम्बवांश्च तथापरे ॥ ३२ ॥
सर्वे गच्छन्तु सर्वत्र सेनायाः शत्रुघातिनः ।
इत्याज्ञाप्य हरीन् रामः प्रतस्थे सहलक्ष्मणः ॥ ३३ ॥
सुग्रीवसहितो हर्षात् सेनामध्यगतो विभुः ।
वारणेन्द्रनिभाः सर्वे वानराः कामरूपिणः ॥ ३४ ॥
क्ष्वेलन्तः परिगर्जन्तो जग्मुस्ते दक्षिणां दिशम् ।
भक्षयन्तो ययुः सर्वे फलानि च मधूनि च ॥ ३५ ॥
ब्रुवन्तो राघवस्याग्रे हनिष्यामोऽद्य रावणम् ।
एवं ते वानरश्रेष्ठा गच्छन्त्यतुलविक्रमाः ॥ ३६ ॥
हरिभ्यामुह्यमानौ तौ शुशुभाते रघुत्तमौ ।
नक्षत्रैः सेवितौ यद्वत् चन्द्रसूर्यौ इवाम्बरे ॥ ३७ ॥
आवृत्य पृथिवीं कृत्स्नां जगाम महती चमूः ।
प्रस्फाटयन्तः पुच्छाग्रान् उद्वहन्तश्च पादपान् ॥ ३८ ॥
शैलान् आरोहयन्तश्च जग्मुर्मारुतवेगतः ।
असङ्‌ख्याताश्च सर्वत्र वानराः परिपूरिताः ॥ ३९ ॥
हृष्टास्ते जग्मुरत्यर्थ रामेण परिपालिताः ।
गता चमूर्दिवारात्रं क्वचित् न्न् असज्जत क्षणम् ॥ ४० ॥
काननानि विचित्राणि पश्यन् मलयसह्ययोः ।
ते सह्यं समतिक्रम्य मलयं च तथा गिरिम् ॥ ४१ ॥
आययुश्चानुपूर्व्येण समुद्रं भीमनिःस्वनम् ।
अवतीर्य हनूमन्तं रामः सुग्रीवसंयुतः ॥ ४२ ॥
सलिलाभ्याशमासाद्य रामो वचनमब्रवीत् ।
आगताः स्मो वयं सर्वे समुद्रं मकरालयम् ॥ ४३ ॥
इतो गन्तुमशक्यं नो निरुपायेन वानराः ।
अत्र सेनानिवेशोऽस्तु मंत्रयामोऽस्य तारणे ॥ ४४ ॥
श्रुत्वा रामस्य वचनं सुग्रीवः सागरान्तिके ।
सेनां न्यवेश्यत्क्षिप्रं रक्षितां कपिकुञ्जरैः ॥ ४५ ॥
ते पश्यन्तो विषेदुस्तं सागरं भीमदर्शनम् ।
महोन्नततरङ्‌गाढ्यं भीमनक्रभयंकरम् ॥ ४६ ॥
अगाधं गगनाकारं सागरं वीक्ष्य दुःखिताः ।
तरिष्यामः कथं घोरं सागरं वरुणालयम् ॥ ४७ ॥
हन्तव्योऽस्माभिरद्यैव रावणो राक्षसाधमः ।
इति चिन्ताकुलाः सर्वे रामपार्श्वे व्यवस्थिता ॥ ४८ ॥
रामः सीतामनुस्मृत्य दुःखेन महतावृतः ।
विलप्य जानकीं सीतां बहुधा कार्यमानुषः ॥ ४९ ॥
अद्वितीयश्चिदात्मैकः परमात्मा सनातनः ।
यस्तु जानाति रामस्य स्वरूपं तत्त्वतो जनः ॥ ५० ॥
तं न स्पृश्यति दुःखादि किमुतानन्दमव्ययम् ।
दुःखहर्षभयक्रोध लोभमोहमदादयः ॥ ५१ ॥
अज्ञानलिङ्‌गन्येतानि कुतः सन्ति चिदात्मनि ।
देहाभिमानिनो दुःखं न देहस्य चिदात्मनः ॥ ५२ ॥
सम्प्रसादे द्वयाभावात् सुखमात्रं हि दृश्यते ।
बुद्ध्याद्यभावात्संशुद्धे दुःखं तत्र न दृश्यते ।
अतो दुःखादिकं सर्वं बुद्धेरेव न संशयः ॥ ५३ ॥
रामः परात्मा पुरुषः पुराणो
नित्योदितो नित्यसुखो निरीहः ।
तथापि मायागुणसङ्‌गतोऽसौ
सुग्रीव दुःखीव विभाव्यतेऽबुधैः ॥ ५४ ॥
इति श्रीमद् अध्यात्मरामायणे उमामहेश्वरसंवादे
युद्धकाण्डे प्रथमः सर्गः ॥ १ ॥

GO TOP