॥ श्रीमद् अध्यात्मरामायण ॥

॥ सुन्दरकाण्ड ॥

॥ प्रथमः सर्ग: ॥

श्रीमहादेव उवाच
शतयोजनविस्तीर्ण समुद्रं मकरालयम् ।
लिलङ्‌घयिषुरानन्द सन्दोहो मारुतात्मजः ॥ १ ॥
ध्यात्वा रामं परात्मनं इदं वचनमब्रवीत् ।
पश्यन्तु वानराः सर्वे गच्छन्तं मां विहायसा ॥ २ ॥
अमोघं रामनिर्मुक्तं महाबाणमिवाखिलाः ।
पश्याम्यद्यैव रामस्य पत्‍नीं जनकनन्दिनीम् ॥ ३ ॥
कृतार्थोहं कृतार्थोहं पुनः पश्यामि राघवम् ।
प्राणप्रयाणसमये यस्य नाम सकृत्स्मरन् ॥ ४ ॥
नरस्तीर्वा भवाम्भोधिं अपारं याति तत्पदम् ।
किं पुनस्तस्य दूतोऽहं तदङ्‌गाङ्‌गुलिमुद्रिक ॥ ५ ॥
तमेव हृदये ध्यात्वा लङ्‌घयाम्यल्पवारिधिम् ।
इत्युक्‍त्वा हनुमान्बाहू प्रसार्यायतवालधिः ॥ ६ ॥
ऋजुग्रीवोर्ध्वदृष्टिः सन्नाकुञ्चितपदद्वयः ।
दक्षिणाभिमुखस्तूर्णं पुप्लुवेऽनिलविक्रमः ॥ ७ ॥
आकशात्त्वरितं देवैः वीक्ष्यमाणो जगाम सः ।
दृष्ट्वानिलसुतं देवा गच्छन्तं वायुवेगतः ॥ ८ ॥
परीक्षणार्थं सत्त्वस्य वानरस्येदमब्रुवन् ।
गच्छत्येष महासत्त्वो वानरो वायुविक्रमः ॥ ९ ॥
लङ्‌कां प्रवेष्टुं शक्तो वा न वा जानीमहे बलम् ।
एवं विचार्य नागानां मातरं सुरसाभिधाम् ॥ १० ॥
अब्रवीत् ‍देवतावृन्दः कौतूहलसमन्वितः ।
गच्छ त्वं वानरेन्द्रस्य किञ्चिद्विघ्नं समाचर ॥ ११ ॥
ज्ञात्वा तस्य बलं बुद्धिं पुनरेहि त्वरान्विता ।
इत्युक्ता सा ययौ शिघ्रं हनुमद्विघ्नकारणात् ॥ १२ ॥
आवृत्य मार्गं पुरतः स्थित्वा वानरमब्रवीत् ।
एहि मे वदनं शीघ्रं प्रविशस्व महामते ॥ १३ ॥
देवैस्त्वं कल्पितो भक्ष्यः क्षुधासम्पीडितात्मनः ।
तामाह हनुमान्मातः अहं रामस्य शासनात् ॥ १४ ॥
गच्छामि जानकीं द्रष्टुं पुनरागम्य सत्वरः ।
रामाय कुशलं तस्याः कथयित्वा त्वदाननम् ॥ १५ ॥
निवेक्ष्ये देहि मे मार्गं सुरसायै नमोऽस्तु ते ।
इत्युक्‍त्वा पुनरेवाह सुरसा क्षुधितास्म्यहम् ॥ १६ ॥
प्रविश्य गच्छ मे वक्‍त्रं नो चेत्त्वां भक्षयाम्यहम् ।
इत्युक्तो हनुमानाह मुखं शीघ्रम् विदारय ॥ १७ ॥
प्रविश्य वदनं तेऽद्य गच्छामि त्वरयान्वितः ।
इत्युक्‍त्वा योजनायाम देहो भूत्वा पुरः स्थितः ॥ १८ ॥
दृष्ट्वा हनूमतो रूपं सुरसा पञ्चयोजनम् ।
मुखं चकार हनुमान द्विगुणं रूपमादधत् ॥ १९ ॥
ततश्चकार सुरसा पञ्च योजनानां च विंशतिम् ।
वक्‍त्रं चकार हनुमान् त्रिंशत् योजनसम्मितम् ॥ २० ॥
ततश्चकार सुरसा पञ्चाशद्योजनायतम् ।
वक्त्रं तदा हनूमांस्तु बभूवाङ्‌गुष्ठसन्निभः ॥ २१ ॥
प्रविश्य वदनं तस्याः पुनरेत्य पुरः स्थितः ।
प्रविष्टो निर्गतोऽहं ते वदनं देवि ते नमः ॥ २२ ॥
एवं वदन्तं दृष्ट्वा सा हनूमन्तमथब्रवीत् ।
गच्छ साधय रामस्य कार्यं बुद्धिमतां वर ॥ २३ ॥
देवैः सम्प्रेषिताहं ते बलं जिज्ञासुभिः कपे ।
दृष्ट्वा सीतां पुनर्गत्वा रामं द्रक्ष्यामि गच्छ भोः ॥ २४ ॥
इत्युक्‍त्वा सा ययौ देव-लोकं वायुसुतः पुनः ।
जगाम वायुमार्गेण गरुत्मानिव पक्षिराट् ॥ २५ ॥
समुद्रोऽप्याह मैनाकं मणिकाञ्चनपर्वतम् ।
गच्छत्येष महासत्त्वो हनूमान् मारुतात्मजः ॥ २६ ॥
रामस्य कार्यसिद्ध्यर्थं तस्य त्वं सचिवो भव ।
सगरैर्वर्द्धितो यस्मात् पुराहं सागरोऽभवम् ॥ २७ ॥
तस्यान्वये बभूवासौ रामो दाशरथिः प्रभुः ।
तस्य कार्यार्थसिद्ध्यर्थं गच्छत्येष महाकपिः ॥ २८ ॥
त्वमुत्तिष्ठ जलात्तूर्णं त्वयि विश्रम्य गच्छतु ।
स तथेति प्रादुरभूत् जलमध्यान्महोन्नतः ॥ २९ ॥
नाना मणिमयैः शृङ्‌गैः तस्योपरि नरकृतिः ।
प्राह यान्तं हनूमन्तं मैनाकोऽहं महाकपे ॥ ३० ॥
समुद्रेण समादिष्टः त्वद्विश्रामाय मारुते ।
आगच्छामृतकल्पानि जग्ध्वा पक्वफलानि मे ॥ ३१ ॥
विश्रमात्र क्षणं पश्चाद् गमिष्यसि यथासुखम् ।
एवमुक्तोऽथ तं प्राह हनूमान्मारुतात्मजः ॥ ३२ ॥
गच्छतो राम कार्यार्थं भक्षणं मे कथं भवेत् ।
विश्रामो वा कथं मे स्याद् गन्तव्यं त्वरितं मया ॥ ३३ ॥
इत्युक्‍त्वा स्पृष्टशिखरः कराग्रेण ययौ कपिः ।
किञ्चिद्दूरं गतस्यास्य छायां छायाग्रहोऽग्रहीत् ॥ ३४ ॥
सिंहिका नाम सा घोरा जलमध्ये स्थिता सदा ।
आकाशगामिनां छायां आक्रम्याकृष्य भक्षयेत् ॥ ३५ ॥
तया गृहितो हनूमान् ह्चिन्तयामास वीर्यवान् ।
केनेदं मे कृतं वेग-रोधेन विघ्नकारिणा ॥ ३६ ॥
दृश्यते नैव कोऽप्यत्र विस्मयो मे प्रजायते ।
एवं विचिन्त्य हनूमान् अधो दृष्टिं प्रसारयत् ॥ ३७ ॥
तत्र दृष्ट्वा महाकायां सिंहिकां घोररूपिणीम् ।
पपात सलिले तूर्णं पद्‌भ्यां एवाहनद्रुषा ॥ ३८ ॥
पुनरुत्प्लुत्य हनूमान् दक्षिणाभिमुखो ययौ ।
ततो दक्षिणमासाद्य कूलं नानाफलद्रुमम् ॥ ३९ ॥
नानापक्षिमृगाकीर्णं नानापुष्पलतावृतम् ।
ततो ददर्श नगरं त्रिकुटचलमूर्धनि ॥ ४० ॥
प्राकारैर्बहुभिर्युक्तं परिखाभिश्च सर्वतः ।
प्रवेक्ष्यामि कथं लङ्‌कां इति चिन्तापरोऽभवत् ॥ ४१ ॥
रात्रौ वेक्ष्यामि सूक्ष्मोऽहं लङ्‌कां रावणपालिताम् ।
एवं विचिन्त्य तत्रैव स्थित्वा लङ्‌कां जगाम सः ॥ ४२ ॥
धृत्वा सूक्ष्मं वपुर्द्वारं प्रविवेश प्रतापवान् ।
तत्र लङ्‌कापुरी साक्षात् राक्षसीवेषधारिणी । ॥ ४३ ॥
प्रविशन्तं हनूमन्तं दृष्ट्वा लङ्‌का व्यतर्जयत् ।
कस्त्वं वानररूपेण मां अनादृश्य लङ्‌किनीम् ॥ ४४ ॥
प्रविश्य चोरवत् रात्रौ किं भवान्कर्तुमिच्छति ।
इत्युक्‍त्वा रोषताम्राक्षी पदेनाभिजघान तम् ॥ ४५ ॥
हनूमानपि तां वामं मुष्टिनावज्ञयाहनत् ।
तदैव पतिता भूमौ रक्तं उद्वमती भृशम् ॥ ४६ ॥
उत्थाय प्राह सा लङ्‌का हनूमन्तं महाबलम् ।
हनूमन् गच्छ भद्रं ते जिता लङ्‌का त्वयानघ ॥ ४७ ॥
पुराहं ब्रह्मणा प्रोक्ता ह्यष्टाविंशतिपर्यये ।
त्रेतायुगे दाशरथी रामो नारायणोऽव्ययः ॥ ४८ ॥
जनिष्यते योगमाया सीता जनकवेश्मनि ।
भूभारहरणार्थाय प्रार्थितोऽयं मया क्वचित् ॥ ४९ ॥
सभार्यो राघवो भ्राता गमिष्यति महावनम् ।
तत्र सीतां महाकायां रवणोऽपहरिष्यति ॥ ५० ॥
पश्चात्‌रामेण साचिव्यं सुग्रीवस्य भविष्यति ।
सुग्रीवो जानकीं द्रष्टुं वानरान् प्रेषयिष्यति ॥ ५१ ॥
तत्रैको वानरो रात्रौ आगमिष्यति तेऽन्तिकम् ।
त्वया च भर्सितः सोऽपि त्वां हनिष्यति मुष्टिना ॥ ५२ ॥
तेनाहता त्वं व्यथिता भविष्यसि यदानघे ।
तदैव रावणस्यान्तो भविष्यति न संशयः ॥ ५३ ॥
तस्मात् त्वया जिता लङ्‌का जितं सर्वं त्वयानघ ।
रावणान्तःपुरवरे क्रीडाकाननमुत्तमम् ॥ ५४ ॥
तन्मध्येऽशोकवनिका दिव्यपादपसङ्‌कुला ।
अस्ति तस्यां महावृक्षः शिंशपा नाम मध्यगः ॥ ५५ ॥
तत्रास्ते जानकी घोर-राक्षसीभिः सुरक्षिता ।
दृष्ट्वैव गच्छ त्वरितं राघवाय निवेदय ॥ ५६ ॥
धन्याहमप्यद्य चिराय राघव
स्मृतिर्ममासीद्‌भवपाशमोचिनी ।
तद्‌भक्तसङ्‌गोऽप्यतिदुर्लबो मम
प्रसीदतां दाशरथिः सदा हृदि ॥ ५७ ॥
उल्लङ्‌घितेऽब्धौ पवनात्मजेन
धरासुतायाश्च दशाननस्य ।
पुस्फोर वामाक्षि भुजश्च तीव्रं
रामस्य दक्षाङ्‌गमतीन्द्रियस्य ॥ ५८ ॥
इति श्रीमद् अध्यात्मरामायणे उमामहेश्वरसंवादे
सुन्दरकाण्डे प्रथमः सर्गः ॥ १ ॥

GO TOP