॥ श्रीवाल्मीकिमहामुनिकृत शतकोटिरामचरितान्तर्गतं ॥ ॥ आनन्दरामायणम् ॥
जन्मकाण्डम्
॥ अष्टमः सर्गः ॥
॥ श्रीसद्गुरु रामचंद्राय नमः ॥
श्रीरामदास उवाच अथ प्रभाते रामेण समाहूतावुभौ शिशू । नत्वा मुनिं मातरञ्च समायां जग्मतुर्मुदा ॥ १ ॥ वाल्मीकेराज्ञया वालौ जटाकृष्णाजिनांबरौ । जन्मकांडं त्वेकमेव जगतुस्तौ पितुः पुरः ॥ २ ॥ जनैः श्रुत्वा स्वचरितं रामोऽभूदतिविस्मितः ॥ ३ ॥ आसन् जनाश्चापि सर्वे विस्मयाविष्टमानसाः । ज्ञात्वा सीताकुमारौ तौ सन्तोषं परमं ययुः ॥ ४ ॥ एतस्मिन्नन्तरे सर्वे लववाय्वस्त्रपीडिताः । शत्रुघ्नाद्या ययुस्तत्र यानस्थाश्चास्त्रजीविताः ॥ ५ ॥ अंगदाद्याः पार्थिवाश्च मोहनास्त्रैकजीविताः । ययुः सवानराः सर्वे लक्ष्मणोऽपि ययावरुक् ॥ ६ ॥ सर्वे नत्वा रामचन्द्रं तस्थुस्तस्यांतिके मुदा । अथ संमंत्र्य रामोऽपि तौ विसृज्यादरेण हि ॥ ७ ॥ राक्षसेंद्र लक्ष्मणं च शत्रुघ्नं मकरध्वजम् । खगराजं सुषेणं च जांबवन्तं वचोऽब्रवीत् ॥ ८ ॥ आनयध्वं मुनिवरं ससीतं देवसंमितम् । अद्यास्तु पर्षदां मध्ये प्रत्ययो वै सभांगणे ॥ ९ ॥ गंगाया दक्षिणेतीरे सभा कार्याऽऽयता शुभा । करोतु शपथं सीता ममाग्रे जाह्नवीतटे ॥ १० ॥ मुनीश्वराद्याः सर्वे तां जानन्तु गतकल्मषाम् । तथा ममापि वाल्मीके शुद्धिं जानंतु वेगतः ॥ ११ ॥ इति तद्वचनं श्रुत्वा लक्ष्यणाद्या महीं गताः । ऊचुयथोक्तं रामेण वाल्मीकिं लक्ष्मणादिकाः ॥ १२ ॥ रामस्य हृद्गतं सर्वं ज्ञात्वा वाल्मीकिरब्रवीत् । समर्चितान् सुमंत्राद्यान् लक्ष्मणाय समर्प्य च ॥ १३ ॥ युष्माभिः कथनीयं यद्वाक्यं श्रीराघवं प्रति । श्वः करिष्यति वै सीता शपथं जनसंसदि ॥ १४ ॥ योषितां परमो देवः पतिरेको न चापरः । पतिं विना गतिः काऽन्या नार्याश्चास्ति जगत्त्रये ॥ १५ ॥ लक्ष्मणाद्यास्ततः सर्वे राममागत्य ते पुनः । सुमंत्रादींश्चतुर्वीरान्राघवाय समर्प्य च ॥ १६ ॥ वाल्मीकेर्वचनं हर्षादूचुस्तं रघुनायकम् । वाल्मीकिवचनं श्रुत्वा तुतोष राघवोऽपि च ॥ १७ ॥ सुमंत्रं भरतं वायुपुत्रं वानरनायकः । समालिंग्य चतुर्भ्यः स पुनर्जातानमन्यत ॥ १८ ॥ सीतया पालिताः सर्वे वयं लवजितास्त्विति । कथयामासुः श्रीरामं सुमंत्रायाः सविस्तरम् ॥ १९ ॥ द्वितीये दिवसे कृत्वा सभां श्रेष्ठां मनोरमाम् । सर्वांस्तस्यां समाहूय रामो वाक्यमथाब्रवीत् ॥ २० ॥ मुनयः पार्थिवाः सर्वे शृणुत स्वस्थमानसाः । सीतायाः शपथं लोका विजानंत्वशुभं शुभम् ॥ २१ ॥ इत्युक्ता राघवेणाथ लोकाः सीतादिदृक्षवः । ब्रह्मगा, क्षत्रिणा वैश्याः शूद्राश्चैव सहस्रशः ॥ २२ ॥ सवानराः समाजग्मुस्तद्दिव्यं द्रष्टुमुद्यताः । ततो मुनिवरस्तूर्णं ससीतः समुपागतः ॥ २३ ॥ अग्रतस्तं मुनिं कृत्वा यांती किञ्चिदवाङ्मुखी । कृतांजलीर्मुदा सीता शनैर्यज्ञं विदेश तम् ॥ २४ ॥ दृष्ट्वा लक्ष्मीमिवायांतीं श्रीविष्णोरनुयायिनीम् । वानीकेः पृष्ठतः सीतां जयषं प्रचक्रिरे ॥ २५ ॥ तदा मध्ये जनौघस्य प्रविश्य मुनिपुङ्गवः । सीतासहायो वाल्मीकिस्तदा राघवमब्रवीत् ॥ २६ ॥ इयं दाशरथे सीता सुवृत्ता धर्मचारिणी । त्वया पापात्पुरा न्यक्ता ममाश्रमसमीपतः ॥ २७ ॥ लोकापवादभीतेन यमुनादक्षिणे तटे । प्रत्ययं दास्यते साऽद्य तदनुज्ञातुमर्हसि ॥ २८ ॥ इमौ तु सीतातनयौ कुशस्त्वत्तो लवो मया । लवैर्विनिर्मितः सीताभयात्प्रत्यग्रचेतसा ॥ २९ ॥ सुताविमौ तु दुर्धर्षौ तथ्यमेतद्ब्रवीमि ते । प्रचेतसोऽहं दशमः पुत्रो रघुकुलोद्वह ॥ ३० ॥ अनृतं न स्मराम्युक्तं यथेमौ तव पुत्रको । बहुन्वर्षगणान् सम्यक् तपश्चर्या मया कृता ॥ ३१ ॥ नोपश्नीयां फलं तस्या दृष्टेयं यदि मै थिली । इत्युक्त्या राघवस्यांके दक्षिणे स्थाप्य वै कुशम् ॥ ३२ ॥ लवं विन्यस्य वामांके तस्थौ तस्याग्रतो मुनिः । रामोऽपि तौ समालिंग्य मूर्ध्न्यवघ्राय सादरम् ॥ ३३ ॥ लवस्य मस्तके हस्तं संस्थाप्य जगदीश्वरः । अतिह्रस्वतरं वालं पूर्ववत्सोऽकरोच्च तम् ॥ ३४ ॥ ततो रामोऽपि तां सीता दृष्ट्वा बाहुद्वयान्विताम् । अज्ञात इव संप्राह लक्ष्मणं पुरतः स्थितम् ॥ ३५ ॥ त्वया भुजः समानीतः सीताया मां प्रदर्शितुम् । पुरा तमानयस्वाद्य चेदस्ति रक्षितस्त्वया ॥ ३६ ॥ तथेत्युक्त्वा लक्ष्यणोऽपि पेटिकानिहितं भुजम् । सीतायाः पुरतो रामं दर्शयामास सादरम् ॥ ३७ ॥ सीताभुजोपमं दृष्ट्वा भुजं मासादिभिर्युतम् । पञ्चवर्षान्तरे काले ह्यासन् सर्वेऽतिविस्मिताः ॥ ३८ ॥ एतस्मिन्नन्तरे तत्र पश्यत्सु सकलेष्वपि । भुजः स गुप्ततां प्राप्तो विश्वकर्मोद्भवः क्षणात् ॥ ३९ ॥ तद्दृष्ट्वा कौतुकं लोका ह्यभूवन्नतिविस्मिताः । रामोऽपि विस्मितः प्राह वाल्मीकिं प्रणिपत्य च ॥ ४० ॥ एवमेव महाप्राज्ञ यदुक्तं मां त्वयाऽधुना । प्रत्ययो जनितो मह्यं तव वाक्यैरकिल्बिषैः ॥ ४१ ॥ लंकायामपि दृष्टो मे वैदेह्याः प्रत्ययो महात् । देवानां पुरतस्तेन मन्दिरं संप्रवेशिता ॥ ४२ ॥ सेयं लोकभयात्ब्रह्मन्नपापाऽपि सती पुरा । सीता मया परित्यक्ता तद्भवान् क्षन्तुमर्हति ॥ ४ ३ ॥ मत्तो जातोस्ति जानामि कुशोऽयं च लवस्त्वया । लवैर्भ्रांत्या कुतो वेद्मि सीताशापभयान्मुने ॥ ४४ ॥ तथापि लोकान्सकलान्द्ररुष्टु सीताऽत्रयम् । करोतु शपथं नापि सभायां तव सन्निधौ ॥ ४५ ॥ शुद्धायां जगतामध्ये सीतामंगीकरोम्यहम् । तदा तच्छपथं दृष्टुमासंल्लोकाः समुत्सुकाः ॥ ४६ ॥ सभया जानकी चाथ तदा कौशेयवासिनी । उदङ्मुखी ह्यधोदृष्टिः प्रांजलिर्वाक्यमबवीत् ॥ ४७ ॥ रामादन्यमहं चेद्धि मनसाऽपि न चिन्तये । तर्हि मे धरणी देवि विवरं दातुमर्हसि ॥ ४८ ॥ एवं शपंत्याः सीतायाः प्रादुरासीन्महाद्भुतम् । भूतलाद्दिव्यमत्यर्थं सिंहासनमनुत्तमम् ॥ ४९ ॥ भुवो विवरमार्गेण समानीतं मनोरमम् । नागेन्द्रैर्ध्रियमाणं तद्दिव्यदेहं रविप्रभम् ॥ ५० ॥ भूदेवी जानकीं दोर्भ्यां धृत्वा दुहितरं निजाम् । स्वागतासीति तामुक्त्वाऽऽसने सा संन्यवेशयत् ॥ ५१ ॥ वस्त्रालङ्कारस्रग्गंधसुगंधैः पूज्य मैथिलीम् । समालिंग्याथ भूदेवी बीजयामास सादरम् ॥ ५२ ॥ तदा शनेः शनैर्भूम्यां गुप्तं सिंहासनं त्वभूत् । सिंहासनस्थां वैदेहीं प्रविशन्तीं रसातलम् ॥ ५३ ॥ दृष्ट्वाऽऽकाशस्थितादेवस्त्रियःसर्वास्तु सम्भ्रमात् । निरन्तराभिर्वैद्देहीं ववर्षुः पुष्पवृष्टिभिः ॥ ५४ ॥ साधुवादश्च सुमहान्बभूव सुरकीर्तितः । अन्तरिक्षे च भूमौ च सर्वं स्थावरजङ्गमम् ॥ ५५ ॥ तदा बभूव चकितं सीताशपथदर्शनात् । ऊचुस्ते वसुधा वाचो वानराश्च नरादिकाः ॥ ५६ ॥ केचिच्चिन्तापराः केचिदासन्ध्यानपरायणाः । केचिद्रामं निरीक्षन्तः केचित्सीतामचेतसः ॥ ५७ ॥ मुहूर्तमात्रं तत्सर्व तूष्णींभूतमचेतनम् । प्रविशन्तीं भुवं सीतां दृष्ट्वा संमोहितं जगत् ॥ ५८ ॥ एतस्मिन्नन्तरे रामः प्रविशन्तीं हि भूतले । विदेहजां तदा स्पृष्ट्वा वामहस्तेन संभ्रमात् ॥ ५९ ॥ यां दधार करेणादौ धृत्वा हस्तेन वै भुवम् । ततस्तां प्रार्थयामास भुवं स रघुनन्दनः ॥ ६० ॥ श्रीरामचन्द्र उवाच देवि त्वं सर्वलोकानां निवासस्थानमुत्तमम् । असि लोकैकमाता त्वं महानीरोर्ध्वतः सदा ॥ ६१ ॥ वर्तसे पुण्यरूपा त्वं वसुदा सकलान् जनान् । स्वजठरादौषधीस्त्वं करोषि विश्वतृप्तिदाः ॥ ६२ ॥ त्वं दुर्गा त्वं स्वरा लक्ष्मीर्मम विष्णोः प्रिया शुभा । त्वमेवाद्यात्र मे शक्तिर्निमिताऽसि मयैव हि ॥ ६३ ॥ निजोदराद्ददासि त्वं धातून्प्रीत्या जनान्सदा । श्रमायुक्ता त्वमेवासि सूक्तासूक्तादिकर्मसु ॥ ६४ ॥ जानकी तव कन्येयं श्वश्रूस्त्वं मेऽधुना त्विह । कन्यादानं कुरु मुदा त्वया पूर्व कृतं न हि ॥ ६५ ॥ प्रसीद देवि नोचेन्मे त्वयि क्रोधा भविष्यति । श्रीरामदास उवाच इति संप्रार्थिता चापि राघवेण महात्मना ॥ ७६ ॥ नारी काठिन्यभावात्सा नाशृणोद्राघवेरितम् । शनैः शनैरधः सीतासहिता सा जगाम ह ॥ ६७ ॥ तां गच्छन्तीं पुनर्दृऽष्ट्वा भुवं रामो धृतामपि । बभूव क्रोधताम्राक्षस्तदा लक्ष्मणमब्रवीत् ॥ ६८ ॥ चापमानय सौमित्रे शिक्षयेऽहं भुवं त्विमाम् । मत्क्षुरोपमबाणेन वसुधेयं विदेहजाम् ॥ ६९ ॥ मामद्य दास्यति क्षिप्रमस्य घातं न रोचये । ततोऽसौ लक्ष्मणानीतं करे कोदण्डमुत्तमम् ॥ ७० ॥ धृत्वा ज्यारोपणं कृत्वा शरसंधानमातनोत् । तदा ववौ महान्वायुश्चुक्षुभे लवणार्णवः ॥ ७१ ॥ तारा निपेतुर्धरणीं बभूवुः सरजा दिशः । चकम्पे धरणी सापि त्राहीति वदती मुहुः ॥ ७२ ॥ कराभ्यां जानकीं धृत्वा रामस्यांके न्यवेशयत् । श्रीरामपदयोः पृथ्वी शिरसा नमनं व्यधात् ॥ ७३ ॥ तदा खे देववाद्यानि नेदुः कुसुमवृष्टिभिः । ववर्षुर्जानकीं राम देवसंघा मुदान्विताः ॥ ७४ ॥ ततो रामोऽपि तां दृष्ट्वा पदयोर्नमतीं भुवम् । स्वक्रोधं शान्तमकरोत्कराभ्यां चापमार्गणौ ॥ ७५ ॥ विसृज्योत्थापयामास स्वकरेणावनिं प्रभुः । ततः सा राघवं नत्वा प्रसाद्य च पुनः पुनः ॥ ७६ ॥ दत्त्वा विदेहकन्यायै तं सिंहासनमुत्तमम् । सीतां स्तुत्वाऽथ ता पृष्ट्वा तथा संपूजिताऽपि च ॥ ७७ ॥ आमन्त्र्य राघवं पृथ्वी क्षणादंतर्हिताऽभवत् । तदा सीतां जनाः सर्वे पुनर्जातां तु मेनिरे ॥ ७८ ॥ जयशब्दैः प्रणमुस्तां चक्रुः पूजां पृथक पृथक् । ददौ दानान्यनेकानि तदा रामो मुदान्वितः ॥ ७९ ॥ नववाद्यनिनादाश्च सम्बभूवुः समन्ततः । ननृतुर्वारनार्यश्च तुष्टुवुर्बन्दिमागधाः ॥ ८० ॥ सीतायाः शपथो यत्र जाह्नव्या दक्षिणे तटे । सीताकुण्डमिति ख्यातं तत्र तीर्थं बभूव ह ॥ ८१ ॥ पातालस्थं जलं पुण्यं सन्तप्तमनलोपमम् । वर्ततेऽद्यापि तत्तीर्थं गीतोष्णश्वासकारणात् ॥ ८२ ॥ तदत्र जानकीकुण्डं स्मरणाद्भयनाशनम् । पत्युरायुष्यवृद्ध्यर्थं स्त्रीभिः सेव्यं सदा भुवि ॥ ८३ ॥ ततः सीतायुतो रामः पुत्राभ्यां सहितो मुदा । वस्त्रालङ्कारयुक्ताभ्यां स्नानं ह्यवभृयाह्वयम् ॥ ८४ ॥ चकार कथितोत्साहैः पूर्ववच्च सविस्तरम् । अथ यज्ञशतं पूर्णमेवं कृत्वा रघूत्तमः ॥ ८५ ॥ जातकर्मादिसंस्कारान्लवस्य विधिनाऽकरोत् । चकार नानादानानि देवान् संपूज्य भक्तितः ॥ ८६ ॥ ततो मुनीश्वरान् पूज्य पूजयामास पार्थिवान् । जनकं च सुमेधां च पजूयामास राघवः ॥ ८७ ॥ विससर्ज ऋषीन्सर्वोन् ऋत्विजो ये समागताः । द्विजाद्यास्तान् धनाद्यैश्च तोषयामासुरादरात् ॥ ८८ ॥ ततो विसृज्य विप्रांश्च पार्थिवैः सह राघवः । कुमाराभ्यां सीतया च बन्धुभिश्चागमत्पुरीम् ॥ ८९ ॥ नीराजितः पुरस्त्रीभिर्वारणस्थो रघूत्तमः । सीतया तनयाभ्यां च ययौ निजगृहं प्रति ॥ ९० ॥ तदा महोत्सवश्चासीदयोध्यायां समन्ततः । चिरकालेन वैदेह्या दर्शनं च जनैः कृतम् ॥ ९१ ॥ ततो नृपादिकान् पूज्य विससर्ज रघूद्वहः । जनकं च सुमेधां च ददावाज्ञां निजां पुरीम् ॥ ९२ ॥ ततः सीतायुतो रामः पुत्राभ्यां बन्धुभिः सह । पूर्ववत्स सुखं रेमे चिरकालं रघूद्वहः ॥ ९३ ॥ रामेण सीतया सार्धं सहस्राणि त्रयोदश । वर्षाण्यत्र कृतं राज्यं कस्मिन्कल्पे द्विजोत्तम ॥ ९४ ॥ एकादश सहस्राणि वत्सराणि महान्ति च । तथैकादश वर्षाणि मासा एकादशैव तु ॥ ९५ ॥ दिनान्येकादशैवात्र रामेण सीतया सह । अयोध्यायां कृतं राज्यं कस्मिन्कल्पे द्विजोत्तम ॥ ९६ ॥ एकादश सहस्राणि चैकादश दिनानि च । समद्वापवतीपालो रामोऽभूत् कल्पभेदतः ॥ ९७ ॥ दश३र्वसहस्राणि दशवर्षशतानि च । रामेण सीतया राज्यं कस्मिन्कल्पे कृतं द्विज ॥ ९८ ॥ इति श्रीशतकोटिरामचरितान्तर्गते श्रीमद् आनन्दरामायणे वाल्मीकीये जन्मकांडे जानकीग्रहण नामाष्टमः सर्गः ॥ ८ ॥ श्रीसीतारामचन्द्रार्पणमस्तु |