॥ श्रीवाल्मीकिमहामुनिकृत शतकोटिरामचरितान्तर्गतं ॥ ॥ आनन्दरामायणम् ॥
जन्मकाण्डम्
॥ षष्ठः सर्गः ॥
॥ श्रीसद्गुरु रामचंद्राय नमः ॥
श्रीरामदास उवाच एकदा जानकी प्राह वाल्मीकिं मुनिपुंगवम् । कथयस्व व्रतं येन रामयोगो भवेन्मम ॥ १ ॥ तत्सीतावचनं श्रुत्वा वाल्मीकिस्तां वचोऽब्रवीत् । प्रतिपद्दिनमारभ्य यावत्सा नवमी सिता ॥ २ ॥ तावन्नवदिनं सीते व्रतं कुरु मयोच्यते । प्रतिपदि रामचन्द्रपादुके धातुनिर्मिते ॥ ३ ॥ कृत्वाऽर्च्य नवकमलैर्देहि मंत्रांजलिं शुभाम् । ततः पुत्राननाभ्यां त्वं जन्मकाण्डं शुभं शृणु ॥ ४ ॥ अष्टादशकमलैश्च द्वितीयायां शुभांजलिम् । मंत्रैर्देहि पूजनान्ते पतिपादुकयोर्मुदा ॥ ५ ॥ पतिं विना स्त्रिया नान्यत्पूजनीयं हि दैवतम् । जन्मकांडं द्विवारं तु शृणु भक्त्या शुचिव्रते ॥ ६ ॥ एवं वृद्धिर्नवाब्जैश्च कार्या सीते दिने दिने । नवम्यामेकाशीत्यब्जैः पूज्यस्व भर्तृपादुके ॥ ७ ॥ नववारं जन्मकांडं पुत्रास्याम्यां सुखं शृणु । ततो दशम्यां सुस्नातैकाशीति द्विजदंपतीन् ॥ ८ ॥ संपूज्य वस्त्राभरणैभोजयस्वात्र मैथिलि । दत्त्वा तेभ्यो दक्षिणास्त्वं विसर्जय प्रणम्य तान् ॥ ९ ॥ अनेन व्रतराजेन जन्मकाण्डश्रवादपि । अचिरात्पतिना योगं प्राप्स्यसि त्वं विदेहजे ॥ १० ॥ संयोगीकरणं नाम व्रतं चेदं सुपुण्यदम् । ये कुर्वत्यत्र मनुजाः स्वीयैर्योगं लभन्ति ते ॥ ११ ॥ तन्मुनेर्वचनं श्रुत्वा जानकी प्राह तं पुनः । बहून्यब्जानि साकेते पुष्पारामजलाशये ॥ १२ ॥ सन्ति कस्तत्र वै गन्तुं समर्थस्त्विह वर्तते । रामाज्ञया रामदूतैः क्रियते रक्षणं सदा ॥ १३ ॥ तत्सीतावचनं श्रुत्वा तत्पुरः संस्थितो लवः । अब्रवीन्मातरं वाक्यं पञ्चवर्षवयःस्थितः ॥ १ ४ ॥ अम्बारम्भं व्रतस्याद्य त्वं कुरुष्वाचिरादिह । अब्जान्यहं प्रदास्यामि समानीय निरन्तरम् ॥ १५ ॥ तल्लवस्य वचः श्रुत्वा विहस्यालिंग्य बालकम् । चुचुम्ब तन्मुखं सीता लवं वचनमब्रवीत् ॥ १६ ॥ पङ्कजानि कथं वत्स त्वं समानीय दास्यसि । असंख्यातै रामदूतैः क्रियते रक्षणं सदा ॥ १७ ॥ तन्मातृवचनं श्रुत्वा लवः प्राहाथ मातरम् । अम्ब त्वत्स्तन्यपानेन वाल्मीकेः शस्त्रविद्यया ॥ १८ ॥ तथाशीर्भिर्मुनेश्चापि रामस्यापि भयं न मे । पश्याम्ब पौरुष मेऽद्य मामनुज्ञातुमर्हसि ॥ १९ ॥ इत्युक्त्वा मातरं नत्वा वाल्मीकिं प्रणिपत्य च । आशीर्भिरीडितस्ताभ्यां घृततूणीरकार्मुकः ॥ २० ॥ वस्त्रालकारसंयुक्तस्त्वेकाकी रथमास्थितः । ययौ लवस्त्वयोध्यायां श्रीविहीनां जवेन सः ॥ २१ ॥ क्रोशोपरि रथं स्थाप्य पद्भ्यामाराममाययौ । तावन्मध्याह्नसमये गता आरामरक्षकाः ॥ २२ ॥ भोजनार्थं स्वगेहानि लवोऽब्जानि तदाऽहरत् । पुनः स्वस्यदने स्थित्वा गत्वाऽऽश्रमपदं मुनेः ॥ २३ ॥ नत्वा मुनिं मातरं स्वां पकजान्यर्पयन्मुदा । मुदिता जानकी चापि व्रतारम्भमथाकरोत् ॥ २४ ॥ एवं सप्तदिनान्यब्जानगनयामाम बालकः । न विदू रामदूतास्ते नीयतेऽब्जानि चेति हि ॥ २५ ॥ अथाष्टमीदिनेऽयोध्यां पूर्ववत् स लवो ययौ । आरामस्य बहिः स्थाप्य रथं पद्भ्यां ययौ लवः ॥ २६ ॥ गत्वाऽऽरामस्य कासार गृहीत्वाऽब्जानि निर्भयः । शनैर्यावद्वथं प्राप तावदारामपाऽऽययुः ॥ २७ ॥ ते त दृष्ट्वा लवं साब्जं पप्रच्छुर्विस्मयान्विताः । न त्व दृष्टः कदाऽस्माभिः श्रीरामानुचरेषु हि ॥ २८ ॥ कदारभ्य रामसेवा त्वया चाङ्गीकृता वद । यतस्त्वं निर्भयोब्जानि गृहीत्वा गच्छसि प्रभुम् ॥ ३६ ॥ रामदूतवचः श्रुत्या विहस्याह लवोऽपि सः । वाल्मीवयनुचरश्चाहं न रामदर्शनं मम ॥ ३० ॥ दासोऽहं मुनिराजस्य वाल्मीकेः शुद्धचेतसः । तदाज्ञया वै नीयन्ते कमलानि मया मुदा ॥ ३१ ॥ इति तद्वचनं श्रुत्वा वाल्मीकीय लवं तदा । ज्ञात्वा दूताः पारकीयं क्रोधाद्वचनमब्रुवन् ॥ ३२ ॥ रामस्त्वया न दृष्टोऽत्र न नः पृष्टस्त्वया पुनः । नाज्ञापितोऽसि रामेण नीयंतेऽब्जानि प्रत्यहम् ॥ ३३ ॥ न ज्ञातमेतदस्माभिस्त्विदानीं तिष्ठ मा व्रज । अपराध्यसि रामस्य त्वां नेष्यामो वयं प्रभुम् ॥ ३४ ॥ इत्युक्त्वा तस्य पन्थानं रुरुम् रामसेवकाः । चतुर्दश शस्त्रहस्ता सशता रामतो यदा ॥ ३५ ॥ तान्दृष्ट्वा स्यन्दनस्थः स लवोऽप्याह विहस्य च । यूयं गच्छत श्रीरामं मद्वृत्तं ब्रूतमादरात् ॥ ३६ ॥ यद्यस्ति पौरुषं रामे तहिं यास्यति मां प्रति । तत्तस्यवचनं श्रुत्वाक्रोधाद्दूता वचोऽब्रुवन् ॥ ३७ ॥ कथं वत्स मर्त्तुकामस्त्वमित्थं वल्गसे मुधा । बद्ध्वा त्वां वयमेवाद्य विनेष्यामो रघूत्तमम् ॥ ३८ ॥ इत्युक्त्वा ते लवं धर्तुं ययुस्तस्य रथांतिकम् । तान्दृष्ट्वा निकटं प्राप्तान् रामदूतान् लवोऽपि सः ॥ ३९ ॥ टणत्कृत्य महच्चापं शरान्संधाय वेगतः । अब्रवीत्तान्पुनर्वाक्यं माऽगन्तव्यं ममान्तिकम् ॥ ४० ॥ मार्गणैरधुना युष्मान् त्यजामि राघवान्तिके । इत्युक्त्वा तान्पुनर्दृष्ट्वाऽऽत्मानं धर्तुं समुद्यतान् ॥ ४१ ॥ रामाग्रे प्राक्षिपब्राणैर्लीलयाऽध्वरमण्डपे । चतुर्दश रामदूता लवमार्गणताडिताः ॥ ४२ ॥ निपेतुर्मूर्छिताः सर्वे रामाग्रे जाह्नवीतटे । शतशो रामदूतास्ते दृष्ट्वा चक्रुः पलायनम् ॥ ४३ ॥ लवोऽपि विजयी शीघ्रं पूर्ववत्स्वाश्रमं ययौ । समर्प्याब्जानि सीतायै सर्व वृत्तं न्यवेदयत् ॥ ४४ ॥ चतुर्दश रामदूताः स्वस्थचित्ताश्चिरेण ते । सर्व वृत्तं राषवाय कवयामासुरादरात् ॥ ४५ ॥ तच्छ्रुत्वा रामचन्द्रोऽपि विस्मयाविष्टमानसः । सहस्रदूतानारामरणक्षणार्थं प्रचोदयत् ॥ ४६ ॥ लवोऽप्यथ नवम्यां स साकेतं पूर्ववद्ययौ । सहस्रं रामदूतास्ते लवं योद्धुं समुद्यताः ॥ ४७ ॥ लवस्तानाह युष्माकं स्वामिना राघवेण हि । यदा सीता वने त्यक्ता जयश्रीश्च गता तदा ॥ ४८ ॥ युष्माकं राघवस्यापि गच्छध्वं राघवं पुनः । युष्माभिर्मा मया युद्धं कर्तव्यं मरणोन्मुखैः ॥ ४९ ॥ सीतात्यागे तु युष्माकं स्वामिनः पौरुषं न माम् । इति ते लववाग्बाणैर्भिन्नमर्मस्थलास्तदा ॥ ५० ॥ दूताः शस्त्राणि मुमुचुर्लवोपरि महास्वनैः । लवोऽपि चापमाकृष्य रामदूतान् स्वमार्गणैः ॥ ५१ ॥ प्राक्षिपत्पूर्ववद्रामं तच्छस्त्रौघं निवार्य च । आरामतो यदा दूताश्चक्रुः सर्वे पलायनम् ॥ ५२ ॥ ययौ लवः स विजयी पूर्ववत्कमलान्वितः । आश्रमं मातरं नत्वा सर्वं वृत्तं न्यवेदयत् ॥ ५३ ॥ पुत्रस्य पौरुषं श्रुत्वा तुतोष जानकी तदा । वृत्तं निवेदयामासू रामदूता रघूत्तमम् ॥ ५४ ॥ मूर्च्छां लवशरैः प्राप्ता भिन्नदेहा मखांगणे । राम राम महावाहो शृणुष्वापूर्वमादरात् ॥ ५५ ॥ पञ्चवर्षीयवालेन वयमद्य पराजिताः । वाल्मीकेर्लब्धविद्यः स न जेयो लक्ष्मागादिभिः ॥ ५६ ॥ तद्वधे मंत्रयस्वाद्य त्वमुपायं रघूत्तम । सीतात्यागादिवचनैर्नस्तवापि च बालकः ॥ ५७ ॥ चकार निदां श्रीराम गतभीस्त्वेक एव यः । तत्तेषां वचनैर्वृत्तं कृत्स्नमाकर्ण्य राघवः ॥ ५८ ॥ संमंत्र्य सचिवैदूतं वान्मीकिं प्रैषयञ्जवात् । नत्वा मुनिं रामदूतो रामवाक्यं न्यवेदयत् ॥ ५९ ॥ यस्ते शिष्यो महावीरः सोऽपराध्यस्ति वै मम । तं प्रेषयाथवा तेन त्वमागच्छस्व मन्मखम् ॥ ६० ॥ विस्मृत्यापूर्वमेव त्वं नाहूतोऽसि क्षमस्व तत् । तद्दूतवचनं श्रुत्वा रामीयं मुनिरब्रवीत् ॥ ६१ ॥ शिष्याभ्यामध्वरं चाहमेव यास्यामि त्वं व्रज । तथेति रामदूतोऽपि मुनिं नत्वा ययौ मखम् ॥ ६२ ॥ जानन्नेव भावि वृत्तमादौ रामो मुनिं मखम् । नाह्वयामास शिष्याभ्यां लौकिकीं रीतिमाश्रितः ॥ ६३ ॥ स्वीयव्रतसमाप्तिं साऽकरोत्सीताऽपि सादरम् । विष्णुदास उवाच अशक्तश्च कथं कार्यं व्रतमेतद्वदस्व माम् ॥ ६४ ॥ श्रीरामदास उवाच कांचनस्याथवा रौप्यस्याथवा ताम्रनिर्मिते । कार्ये द्वे पादुके रम्ये राघवस्य यथासुखम् ॥ ६५ ॥ अभावे कमलानां च पुष्पैरंजलिरीरिता । एकाशीतिदंपतीनां न शक्तिः पूजने तदा ॥ ६६ ॥ पूजनीयानि युग्मानि नव शक्त्याऽथवा सुखम् । स्वशक्त्या पूजनं कार्यं वित्त शाठ्यं परित्यजेत् ॥ ६७ ॥ अनेकदूरगस्यापि संयोगश्च भवेज्जवात् । भाविकार्याणि वेगेन भविष्यन्ति न संशयः ॥ ६८ ॥ इतिश्रीशतकोटिरामचरितांतर्गते श्रीमद् आनन्दरामायणे वाल्मीकीये जन्मकाण्डे षष्ठः सर्गः ॥ ६ ॥ श्रीसीतारामचन्द्रार्पणमस्तु |