॥ श्रीवाल्मीकिमहामुनिकृत शतकोटिरामचरितान्तर्गतं ॥

॥ आनन्दरामायणम् ॥

यात्राकाण्डम्

॥ पञ्चमः सर्गः ॥
[ कुम्भोदरोपाख्यानम् ]

॥ श्रीसद्‌गुरु रामचंद्राय नमः ॥


श्रीरामदास उवाच
ततो गृहीत्वा संभारान् पूजार्थं जानकी जवात् ।
कौसल्यादिश्वश्रूभिस्तु पुष्पकं चारुरोह सा ॥ १ ॥
क्षणेन वृद्धा सरयूर्यत्र सा गङ्‌गया शुभा ।
सङ्‌गताऽस्ति महाश्रेष्ठा तत्र प्राप विदेहजा ॥ २ ॥
पतिं विनाऽग्निनानारी सीमामुल्लंघ्य न व्रजेत् ।
स दोषोऽत्र न विज्ञेयः सीतायात्रा विहायसा ॥ ३ ॥
उत्तीर्य सा विमानाग्र्यान्नमस्कृत्वाऽथ सङ्‌गमम् ।
पुरोधसा चोदिता सा नारिकेलं सवायनम् ॥ ४ ॥
भागीरथ्यै समर्प्याथ स्नात्वा चैव यथाविधि ।
सगमं पूजयामास चोपस्कारैर्यथाविधि ॥ ५ ॥
सुरामांसोपहारैश्च पक्वान्नैर्बलिभिस्तथा ।
पट्टकूलादिभिर्वस्त्रैर्मुक्ताहारैः सचंदनैः ॥ ६ ॥
दिव्यैराभरणैश्चित्रैवायनाद्यैः सविस्तरम् ।
ततः सुवासिनीः पूज्य पूजयित्वा त्वरुंधतीम् ॥ ७ ॥
वसिष्ठं ब्राह्मणांश्चापि भोजयामास विस्तरैः ।
पट्टकूलादिभिर्वस्त्रैर्दिव्यैराभरणादिभिः ॥ ८ ॥
सुवासिनीर्ब्राह्मणांश्च तोषयामास मैथिली ।
स्वयं कृत्वोपहारं न राघवार्थमुपोषिता ॥ ९ ॥
ययौ यानेन शीघ्रं सा राघवस्यान्तिकं मुदा ।
ततः श्रीरामचन्द्रोऽपि सीतया गुरुणा द्विजैः ॥ १० ॥
गङ्‌गयोः सङ्‌गमे चक्रे पूजनं स यथाविधि ।
यथा कृतं च वैदेह्या तस्माच्चापि शताधिकम् ॥ ११ ॥
ततः सहस्रशो विप्रान् भोजयामास सादरम् ।
दत्त्वा दानान्यनेकानि गोहस्तिरथवाजिनाम् ॥ १२ ॥
ततो भुक्त्या स्वयं रामः सीतया बंधुभिर्जनैः ।
सिंहासने समासीनो सौमित्रिमिदमब्रवीत् ॥ १३ ॥
ज्ञातव्यो मम वासोऽत्र रात्रीर्नम रघूत्तम ।
सीमाचारान् कुरुष्व त्वं शासनं यन्मयोच्यते ॥ १४ ॥
ब्रह्मचारी गृहस्थो वा वानप्रस्थाश्रमी यति ।
यः कश्चिद्वा समायाति पथिकः स ममाज्ञया ॥ १५ ॥
मया संपूजितो नैव गन्तुं देयः समन्ततः ।
मयाऽदृष्टो गतः कश्चित्तदा वः शासनं मम ॥ १६ ॥
तद्‌रामवचनं श्रुत्वा तथा चक्रे स लक्ष्मणः ।
च्यवनो मुनिवर्यस्तु ज्ञात्वा रामं समागतम् ॥ १७ ॥
दर्शनार्थं ययौ शीघ्रं रामेणापि सुपूजितः ।
स्थित्वासने वस्त्रगेहे राघवं वाक्यमब्रवीत् ॥ १८ ॥
राम राजीवपत्राक्ष गङ्‍गाया दक्षिणे तटे ।
आश्रमः कीकटे देशे ममास्ति परमः शुभः ॥ १९ ॥
कंदमूलफलार्थं हि विघ्नं कुर्वन्ति मागधाः ।
ममाश्रमे राजदूतास्तेभ्यो रक्षा विधीयताम् ॥ २० ॥
च्यवनस्य वचः श्रुत्वा टणत्कृत्य महद्धनुः ।
बाणं मुक्त्वाश्रमात्तस्य परितः परिखोपमाम् ॥ २१ ॥
चकार रेखां बाणेन दुष्टैर्गन्तुं च ह्यक्षमाम् ।
रामबाणकृता रेखा यत्र तत्र पुरी शुभा ॥ २२ ॥
रामरेखेति नाम्नाऽऽसीत्तया चैव मता नदी ।
च्यवनश्च ततो हृष्टो राघवं वाक्यमब्रवीत् ॥ २३ ॥
निंद्यः स कीकटो देशो वर्तते रघुनन्दन ।
तव वाक्याद्‌भविष्यन्ति तत्र पुण्यस्थलानि हि ॥ २४ ॥
तर्हि त्वयाद्य वक्तव्यं वचनं मे सुखास्पदम् ।
तन्मुनेर्वचनं श्रुत्वा वाक्यं रामस्तमब्रवीत् ॥ २५ ॥
कीकटेषु गया पुण्या नदी पुण्या तु पुनपुनाः ।
आश्रमस्ते महापुण्यः पुण्यं राजवनं परम् ॥ २६ ॥
भविष्यति न सन्देहो मम वाक्यान्मुनीश्वर ।
च्यवनस्तेन सन्तुष्टो रामं दृष्ट्‍वाऽऽश्रमं ययौ ॥ २७ ॥
एतस्मिन्नन्तरे तस्य सत्रे रामेण निर्मिते ।
प्रत्यहं कोटिशो विप्रा भुञ्जन्ति यथिभिः सह ॥ २८ ॥
कुंभोदरो मुनिः प्रागत्सीमाचारांतिकं तदा ।
गङ्‍गायात्राप्रसंगेन गयां गन्तुं समुद्यतः ॥ २९ ॥
समागतः प्रयागाच्च दूतान्दृष्ट्‍वाऽब्रवीद्वचः ।
हे दूता उत्तरं देयं यूयं कस्याज्ञया स्थिताः ॥ ३० ॥
आकाशचुंबिनश्चित्रा इमेऽग्रे कस्य वै ध्वजाः ।
हनुमत्कोविदारांडजेशबाणांकिताः शुभाः ॥ ३१ ॥
श्वेतनीलहरित्पीतवर्णाः परमशोभनाः ।
दृश्यन्तेऽग्रे पताकाश्च श्रूयते जयनिःस्वनः ॥ ३२ ॥
तत्तस्य वचनं श्रुत्वा दूताः प्रोचुस्त्वरान्विताः ।
रामो राजीवपत्राक्षोऽयोध्यायाः पालकः प्रभुः ॥ ३३ ॥
सोऽग्रे यात्रार्थमायातो वयं तस्याज्ञया स्थिताः ।
सत्रमन्नस्य रामेण निर्मितं चात्र वर्तते ॥ ३४ ॥
क्षुधार्तस्त्वं सुखं गच्छ भुक्त्वा पीत्वा सुखं व्रज ।
तत्तेषां वचनं श्रुत्वा परिवृत्य मुनिः पुनः ॥ ३५ ॥
आगतो येन मार्गेण तेन मार्गेण संययौ ।
गच्छन्तं तं मुनिं दृष्ट्‍वा रामदूतास्त्वरान्विताः ॥ ३६ ॥
रुद्ध्वा मार्ग मुनेस्तस्य वचनं प्रोचुरादरात् ।
किमर्थं त्वं परावृत्य मुने गच्छसि वै पुनः ॥ ३७ ॥
आगतोऽसि पथा येन तेनैव त्वं वदस्व नः ।
इति तेषां वचः श्रत्वा निर्बन्धान्मुनिरप्यसौ ॥ ३८ ॥
तूष्णीं स्थित्वा क्षणं ध्यात्वा निश्चयं कृतवान् हृदि ।
इदानीं राघवोऽध्यायां यात्रां कृत्वा गमिष्यति ॥ ३९ ॥
नानादेशेषु सर्वत्र नृणां तद्दर्शनं कथम् ।
भविष्यति तथाऽन्यत्र रामतीर्थानि भूतले ॥ ४० ॥
भविष्यन्ति कथं नॄणां महत्पापहराणि च ।
कथं रामेश्वरा भूम्यां भविष्यन्ति गतिप्रदाः ॥ ४१ ॥
अतः किञ्चित्करोम्यद्य येन रामस्तु भूतले ।
यात्रोद्देशेन सर्वत्र सीतया सह यास्यति ॥ ४२ ॥
अनेन लोकशिक्षाऽपि भविष्यति न संशयः ।
इति निश्चित्य स मुनिः प्राह दूतान्स्मयन्निव ॥ ४३ ॥
दूताः शृणुत मे वाक्यं हतो येन दशाननः ।
ब्रह्मपुत्रो बन्धुपुत्रैर्न कृतं तीर्थसेवनम् ॥ ४४ ॥
तथा यज्ञः कृतो नैव तस्यान्नं नाहमश्नियाम् ।
दीयतां मम मार्गो हि भवद्भिर्वचनं मम ॥ ४५ ॥
कथनीयं राघवाय यात्रायज्ञान् करिष्यति ।
इति तस्य वचः श्रुत्वा विमस्याविष्टमानसाः ॥ ४६ ॥
दत्त्वा मार्गं शापभीत्या दूता रामांतिकं ययुः ।
रामं नत्वा शनैस्तस्य कर्णे वृत्तं न्यवेदयन् ॥ ४७ ॥
राघवोऽपि मुनेस्तस्य ज्ञात्वाऽभिप्रायमुत्तमम् ।
सर्व वृत्तं सभामध्ये चकार सस्मितः स्फुटम् ॥ ४८ ॥
मत्रिभिर्बन्धुभिश्चैव वसिष्ठेन पुरोधसा ।
मन्त्रयित्वा मुनेर्वाक्यं सत्यं मेने रमापतिः ॥ ४९ ॥
ततो निश्चितवान् रामः सभामध्ये पुरोधसा ।
आदौ कार्या तीर्थयात्रा यज्ञाः कार्यास्ततः परम् ॥ ५० ॥
ततो रामाज्ञया दूता गत्वाऽयोध्यां पुरीं प्रति ।
तद्वृत्तं च सविस्तारं सुमंत्राय न्यवेदयन् ॥ ५१ ॥
सुमंत्रोऽपि च तद्वृत्तं श्रुत्वा वस्त्रधनानि च ।
उष्ट्राश्वरथनागाद्यैः प्रेषयामास सादरम् ॥ ५२ ॥
पुष्पकं च तदा प्राह रामः शक्तिस्तवासि हि ।
यद्यप्यद्य गिरा मे त्वं शीघ्रमेव यथाबलम् ॥ ५३ ॥
उष्ट्राश्वरथनागाद्यैर्निवासं च तवोदरे ।
करिष्यंति सविस्तारं तथा विस्तीणतां भज ॥ ५४ ॥
सर्वेषां भारवाहार्थं शक्तिरस्तु यथासुखम् ।
कस्मिन्काले सूक्ष्मरूपं महद्‌रूपं कदापि च ॥ ५५ ॥
यथाकामा मया शक्तिस्तव दत्ता न संशयः ।
तच्छ्रुत्वा रामवचनं पुष्पकं दशयोजनम् ॥ ५६ ॥
समंततस्तथोच्चं हि व्यवर्धत द्वियोजनम् ।
शताट्टाललैश्च सोपानैहेमरत्‍नोद्भवैश्चितम् ॥ ५७ ॥
कोटिसूर्यप्रतीकाशं नानाधातुविचित्रितम् ।
कलशै शतसाहस्रै हेमरत्‍नविघट्टितैः ॥ ५८ ॥
जालरंध्रैगवाक्षैश्च मुक्ताहारैविभूषितम् ।
कपाटैर्देर्पणोद्भूतैर्जलयंत्रशतैवृतम् ॥ ५९ ॥
पुष्पाणां वाटिकाभिश्च नानापक्षिनिनादितम् ।
सर्पमस्तकजा यत्र शतशोऽथ सहस्रशः ॥ ६० ॥
निशायां मणयश्चित्राः प्रभा विस्तारयंति हि ।
गोपुराणि च भासन्ते शतशोम मइमस्य ॥ ६१ ॥
तत्र प्राथमिकायां तु पंक्तौ श्रीराघवाज्ञया ।
उष्ट्राश्वरथनागादीन् दूताश्चारोहयंस्तदा ॥ ६२ ॥
द्वितीयायां काष्ठचयान् तृणोलूखलमूसलान् ।
तृतीयायां धान्यराशीन् पाकामत्राणि वै ततः ॥ ६३ ॥
पंचम्यां तु शतघ्नीश्च ततः शस्त्राण्यनेकशः ।
तत ऊर्ध्वं राजवाहानश्वोष्ट्ररथवारणान् ॥ ६४ ॥
अष्टमायां राजकोशान् वस्त्रधान्यविनिर्मितान् ।
हट्टशालास्ततः श्रेष्ठा दासादासांस्ततः परम् ॥ ६५ ॥
नटादीनां ततः शाला वारस्त्रीणां ततः परम् ।
ततो वीरानघ्रिगांश्च तेभ्यः श्रेष्ठांस्ततः परम् ॥ ६६ ॥
गच्छन्ति तुरगैर्ये तान् पंचदश्यर्पिता ततः ।
रथयोग्यांस्ततोप्यूर्ध्वं गजांश्चैव ततः परम् ॥ ६७ ॥
आरोहयंस्ततो दूतान् राज्ययोग्याधिकारिणः ।
सुहृन्पुत्रजनस्त्रीभिनृपान्माडलिकांस्ततः ॥ ६८ ॥
ततोऽप्यूर्ध्वं राघवस्य सुहृदश्च पुरौकसः ।
ततो भोजनशालाश्च विंशच्चैव मनोरमाः ॥ ६९ ॥
पाकशालास्ततः पंच स्त्रीणां भोक्तुं ततो दश ।
तत उर्ध्वं हि बन्धूनां मात्तॄणां च गृहाणि च ॥ ७० ॥
तत ऊर्ध्वं राघवस्य सभा सिंहासनान्विता ।
ततोप्यूर्ध्वं च सीताया गेहं नानासखोवृतम् ॥ ७१ ॥
ततोऽप्यूर्ध्वं राघवस्य क्रीडास्थानं तु सीतया ।
ततोप्यूर्ध्वं षष्टितमायां राज्ञां सुहृदां स्त्रियः ॥ ७२ ॥
ततः स्त्रीणां सभार्थं हि सप्त शालाः शुभावहाः ।
चित्रशाला द्वादशाथ वयसां पंच वै ततः ॥ ७३ ॥
पुष्पारामदीकानां हि पंच शालास्ततः शुभाः ।
ततोऽप्यूर्ध्वं तु शालायां घटीयंत्रादिकौतुकम् ॥ ७४ ॥
व्याघ्रादीनां ततः शाला त्वेका रम्याऽतिविस्तृता ।
ततोप्यूर्ध्वमग्निहोत्रशाला श्रीराघवस्य च ॥ ७५ ॥
ततः शिवार्चनस्यैका शाला ज्ञेया शुभावहा ।
विप्राणां च ततः शालाः शाला विद्यार्थिनां ततः ॥ ७६ ॥
यतीनां च ततः शाला वाद्यशाला ततः परम ।
जलशाला ततः श्रेष्ठा जलयंत्रान्विता ततः ॥ ७७ ॥
ततोऽप्यूर्ध्वमार्द्रवस्त्रशोषणार्थमनुत्तमाः ।
शतशालास्त्विमाः पूर्णाश्चक्रुस्ते रामसेवकाः ॥ ७८ ॥
रामोऽपि दृष्ट्‍वा ताः सर्वा आरुरोह स्वयं तदा ।
ततो नदत्सु वाद्येषु स्तुवस्तु मागधादिषु ॥ ७९ ॥
नर्तत्सु वारनारीषु पताकासु चलत्सु च ।
प्रकाशयन् दश दिशो विमानं राघवाज्ञया ॥ ८० ॥
अगमत्पूर्यदिग्भागात् प्रतीचीं नपनोपमम् ।
विहायसा वायुवेगं किंकिणीजालमण्डितम् ॥ ८१ ॥
ययौ प्रयागाभिमुखं श्रीरामध्वजचिह्नितस् ।
विष्णदास उवाच
कथं रामम्य चत्वारो ध्वजाः प्रोक्ताः पुरा त्वया ॥ ८२ ॥
तत्सर्वं विस्तरेणाद्य श्रोतुमिच्छामित्वन्मुखात् ।
श्रीरामदास उवाच
शैशवे रघुनाथस्तु स्वपितृस्यंदनस्थितः ॥ ८३ ॥
अतः सोप्यस्य रामस्य कोविंदारध्वजः स्मृतः ।
बाणध्वजाकितरथमारुह्य ताटिकां वने ॥ ८४ ॥
जघानैकेन बाणेन तस्माद्बाणध्वजः स्मृतः ।
छिन्नं वज्रध्वजं दृष्ट्‍वा रावणेन स राघवः ॥ ८५ ॥
ध्वजेऽकरोद्वायुपुत्रं तस्मात्प्रोक्तः कपिध्वजः ।
रणे विमूर्छितं दृष्ट्‍वा रामो मातलिनं तदा ॥ ८६ ॥
स्थितः स्वीयरथे दिव्ये तस्माच्च गरुडध्वजः ।
शुक्लायां हि पताकायां कोविदारोऽस्ति वै शुभः ८७ ॥
बाणःशुभोऽस्ति नीलायां हरितायां तु मारुतिः ।
पीताया गरुडो ज्ञेयः श्रीरामस्यंदनोपरि ॥ ८८ ॥
चतुर्षु स्यदनेष्येवं चत्वारः कीर्तिता ध्वजाः ।
कोविदारध्वजो रामः श्रीरामो मार्गणध्वजः ॥ ८९ ॥
कपिध्वजो राघवेन्द्रो भूपेशो गरुडध्वजः ।
एव नामान्यनंतानि प्रच्यन्ते राघवस्य हि ॥ ९० ॥
तस्माद्‌रामध्वजाः प्रोक्ताश्चत्वारश्च मया तव ।
वज्रध्वजांकितरथे स्थित्वा रामेण संगरः ॥ ९१ ॥
कृतस्तस्माद्‌राघवेद्रं तं वदंत्यशनिध्वजम् ।
यतो रामध्वजस्यैकमेव चिह्नं न विद्यते ॥ ९२ ॥
तम्माच्छिष्य मया प्रोक्ताश्चत्वारो राघवप्रियाः ।
कोविदारांकितरथे सुमंत्रः सारथिः स्मृतः ॥ ९३ ॥
बाणध्वजांकितरथे सूतश्चित्ररथः स्मृतः ।
वायुपुत्रांकितरथे सारथिर्विजयः स्मृतः ॥ ९४ ॥
रामस्य दारुकः सूतः स्यंदने गरुडांकिते ।
एवं शिष्य त्वया पृष्टं श्रीरामध्वजकारणम् ॥ ९५ ॥
त्वया पूर्व मया तच्च तवाग्रेऽद्य निवेदितम् ॥ ९६ ॥
इति श्रीमदानन्दरामायणे यात्राकाण्डे
कुम्भोदरोपाख्यानं नाम पंचमः सर्गः ॥ ५ ॥



श्रीसीतारामचन्द्रार्पणमस्तु

GO TOP