॥ श्रीवाल्मीकिमहामुनिकृत शतकोटिरामचरितान्तर्गतं ॥ ॥ आनन्दरामायणम् ॥
यात्राकाण्डम्
॥ षष्ठः सर्गः ॥
॥ श्रीसद्गुरु रामचंद्राय नमः ॥
श्रीरामदास उवाच ततो रामो विमानेन गत्वा किंचित्तु पश्चिमाम् । दिशं ययौ प्रयागं च त्रिवेणी यत्र वर्त्तते ॥ १ ॥ क्रोशमात्रे विमानं तन्मुक्त्वा रामः ससीतया । पद्भ्यां शनैः शनैरेव त्रिवेणीसंगमं ययौ ॥ २ ॥ नारिकेलं वायनेन समर्प्य रघुनंदनः । चतुरंगुलमानं हि केशबन्धं सभूषणम् ॥ ३ ॥ ददौ संछिद्य सीतायाः स्वयं क्षौरमथाकरोत् । लक्ष्मणाद्यैबंधुभिश्च वपनं रघुनंदनः ॥ ४ ॥ मातृभिः कारयामास कृत्वा चैकमुपोषणम् । द्वितीये दिवसे प्राप्ते कृत्वा श्राद्धं सतर्पणम् ॥ ५ ॥ मासमात्रं माघमासे वासं कृत्वा सविस्तरम् । अष्टतीर्थी ततो गत्वा दत्त्वा दानान्यनेकेशः ॥ ६ ॥ दृष्ट्वाऽक्षयवटं रम्यं निद्रास्थानं निजालये । किंचिद्विहस्य श्रीरामः सीतया भ्रातृभिः सह ॥ ७ ॥ पूजां कृत्वा त्रिवेण्याश्च वस्त्रैर्दिव्यैः सुभूषणैः । गंगाजलैः काचकुम्मान् शतशोऽथ सहस्रशः ॥ ८ ॥ पूरयित्वाविमानाग्र्ये स्थाप्य तीर्थं पुरोहितान् । पूजयित्वा सविस्तारं नत्वा चैव पुनः पुनः ॥ ९ ॥ तान् पृष्ट्वा पुष्पके स्थित्वा ययावाकाशवर्त्मना । विन्ध्याचलं समाश्रित्य यत्र दुर्गा तु वर्तते ॥ १० ॥ तत्र स्नात्वा तीर्थविधि पूर्ववच्च विधाय सः । तां विंध्यवासिनीं पूज्य वस्त्रैराभरणादिभिः ॥ ११ ॥ कृत्वा दानान्यनेकानि तोष्य तीर्थपुरोहितान् । ययौ काशीं पुष्पकस्थः श्रीरामः सीतयासुखम् ॥ १२ ॥ एतस्मिन्नन्तरे काश्यां काशिस्थाः पुष्पकं तु तत् । कोटिसूर्यप्रतीकाशं दृष्ट्वा पश्चिमतो दिशम् ॥ १३ ॥ यत् प्राचीं काश्याभिमुखमागच्छन्तं महोज्ज्वलम् । चक्रुस्तर्कान्वितर्कांश्च शतशोऽट्टालसंस्थिताः ॥ १४ ॥ केचिदूचुश्च दावाग्निस्त्वयं पर्वतमस्तके । सूर्येण विस्मृतः पथा भ्रमणाद्भ्रांतिमाप सः ॥ १५ ॥ इति केचिञ्जनाः प्रोचुः केचिदूचुस्त्वयं मुनिः । नारदस्तु समायाति केचित्तत्र बभाषिरे ॥ १६ ॥ पतत्यसौ रविः स्वर्गात् केचिद्द्रोणाचलान्वितः । वायुपुत्रोऽयमिति ते प्रोचुः काशीनिवासिनः ॥ १७ ॥ केचिदूचुः शशी स्वर्गान्मृगेण विनिपातितः । केचिदूचुश्च विश्वेशं केचिदूचुः सुदर्शनम् ॥ १८ ॥ केचिदूचुः सुवर्णाद्रिं केचित्प्रोचुररुन्धतीम् । केचित्पतत्रिराजानं केचिच्च प्रलयानलम् ॥ १९ ॥ केचित्प्रोचुर्महाघोरं वह्न्यस्त्रं केन मोचितम् । केचित्प्रोचुः सहस्रास्यस्त्वयं मणिविराजितः ॥ २० ॥ एवं वदंतस्ते यानं ददृशुः पुष्पकं महत् । महाकोलाहलं चक्रुः प्रोचुस्त्वयं समागतः ॥ २१ ॥ रामोऽयोध्यापतिः श्रीमान् मानं कर्तुं सनागरः । विश्वनाथोऽपि तच्छ्रुत्वा पार्वत्या वृषभस्थितः ॥ २२ ॥ प्रत्युज्जगाम श्रीरामं काशीस्थैः परिवेष्टितः । उपायनं राघवस्य गृहात्वा बहुविस्तरम् ॥ २३ ॥ एतस्मिन्नंतरे रामस्तं देहलिविनायकम् । पूज्य विश्वेश्वरं दृष्ट्वा ननाम शिरसा तदा ॥ २४ ॥ आलिंगितः शिवेनाथ गृहीत्वोपायनं शिवात् । स्वयं वस्त्रैराभरणैः पूजयामास शंकरम् ॥ २५ ॥ विवेश काशिनाथस्य घृत्वा हस्तेन सत्करम् । तावुभौ वाहनं मुक्त्वा जग्मतुर्मणिकर्णिकाम् ॥ २६ ॥ ततः सीतायुतो रामश्चक्रपुष्पकरिणीजले । समर्प्य श्रीफलं स्नात्वा सचैलं क्षौरपूर्वकम् ॥ २७ ॥ नित्ययात्रां विधायाथ कृत्वा चैकमुपोषणम् । तीर्थश्राद्धादि संपाद्य पंचतीर्थीं विधाय च ॥ २८ ॥ अंतर्गृहीं महायात्रां मानसद्वयमेव च । द्विचत्वारिंशल्लिगानि ह्यष्टलिंगानि वै ततः ॥ २९ ॥ षट्पञ्चाशच्च गणपांस्तथाऽष्टौ भैरवान् पुनः । योगिनीश्च चतुःषष्टीस्तथा दुर्गाश्च वै नव ॥ ३० ॥ तथाऽष्टदिक्पदींश्चापि तथा चैव नवग्रहान् । क्षेत्रप्रदक्षिणां पचक्रोशीयात्रां रघूत्तमः ॥ ३१ ॥ चतुर्दशेमा यात्रास्तु कृत्वा चैव सविस्तरम् । रामेश्वरं महालिंगं वरुणायास्तटे शुभे ॥ ३२ ॥ काश्या वायव्यदिग्भागे सीमायां स्थाप्य सूत्तमम् । रामतीर्थं स्वीयनाम्ना भागीरथ्यां चकार सः ॥ ३३ ॥ एतस्मिन्नन्तरे तत्र वायुपुत्रः समागतः । वृत्तं श्रुत्वा राघवस्य यात्राः कर्तुं गतस्त्विति ॥ ३४ ॥ सीतारामौ नमस्कृत्य स्नात्वा भागीरथे जले । स्वनाम्ना शंकरं तीर्थमकरोञ्जाह्नवीतटे ॥ ३५ ॥ घट्टं बबंध गंगायास्तटे रम्यं दृषन्मयम् । काश्यामद्यापि तन्नाम्ना घट्टोऽस्ति परमः शुभः ॥ ३६ ॥ तथा चकार रामोऽपि घट्टबंधनमुत्तमम् । दृश्यते प्रत्यहं यत्र काश्यां रामः ससीतया ॥ ३७ ॥ चकार पंचगंगायां कार्तिकस्नानमुत्तमम् । काशीवासं वर्षमेकं चकार धर्मतत्परः ॥ ३८ ॥ तीर्थवासार्थिनः सर्वान् सन्तर्प्य च पृथक् पृथक् । रत्नैर्हिरण्यैर्वासोभिरश्वाभरणधेनुभिः ॥ ३९ ॥ विचित्रैश्च दशाऽमत्रैः स्वर्णरौप्यादिनिर्मितैः । अमृतस्वादुपक्वान्नैः पायसैश्च सशर्करैः ॥ ४० ॥ सगोरसैरन्नदानैर्धान्यदानैरनैकधा । गन्धचन्दनकपूरैस्ताम्बूलैश्चारुचामरैः ॥ ४१ ॥ सतूलैर्मृदुपर्यंकैर्दीपिकादर्पणासनैः । शिबिकादासदासीभिर्वाहनैः पशुभिर्गृहैः ॥ ४२ ॥ चित्रध्वजपताकाभिरुल्लोचैश्चंद्रचारुभिः । नानाव्रतैर्महाश्रेष्ठैः सध्वजारापणाादिभिः ॥ ४३ ॥ वर्षाशनप्रदानैश्च गृहोपस्करसंयुतैः । उपानत्पादुकाभिश्च यतेश्चापि तपस्विनः ॥ ४४ ॥ योग्यैः पट्टदुकूलैश्च मृदुलैश्चित्रकम्बलै । दण्डैः कमण्डलुयुतैरजिनैमृगसम्भवैः ॥ ४५ ॥ कोपीनैरुच्चमंचैश्च परिचारककाञ्चनैः । मठैविद्यार्थिनामन्नैरातथ्यर्थं महाधनैः ॥ ४६ ॥ बहुधौषधदानैश्च भिषजां जीवनादिभिः । महापुस्तकसंभारैर्लेखकानां च जीवनैः ॥ ४७ ॥ रसायनैरमूल्यैश्च पत्रदानैरनेकशः । ग्रीष्मे प्रपार्थद्रविणैर्हमन्तेऽग्नीष्टकेन्धनेः ॥ ४८ ॥ छत्राच्छादनकाद्यर्थैर्वर्षाकालोचितैर्बहु । रात्रौ पाठप्रदापेश्च पादाभ्यजनकादिभिः ॥ ४९ ॥ पुराणपाठकांश्चापि प्रतिदेवालयं धनैः । देवालये नृत्यगीतकरणार्थैरनेकशः ॥ ५० ॥ देवालये सुधाकार्यैर्जीर्णोद्धारैरनेकशः । चित्रलेखनमूल्यैश्च रङ्गशालादिमण्डनैः ॥ ५१ ॥ आरार्तिकैर्गुग्गुलैश्च दशांगादिसुधूपकैः । कर्पूरवर्तिकाद्यैश्च दवाचार्थेरनेकशः ॥ ५२ ॥ पञ्चामृतानां स्नपनैः सुगन्धस्नपनैरपि । देवार्थं मुखवासैश्च देवोद्यानैरनेकशः ॥ ५३ ॥ महापूजार्थं माल्यादिगुम्फनार्थैस्त्रिकालतः । शखभेरीमृदंगादिवाद्यनादैः शिवालये ॥ ५४ ॥ घण्टागडुककुम्भादिस्नानोपस्करभाजनैः । श्वेतमार्जनवस्त्रैश्च सुगन्धैर्यक्षकर्दमैः ॥ ५५ ॥ जपहोमैः स्तोत्रपाठैः शिवनामोच्चभाषणैः । रासक्रीडादिसंयुक्तैश्चलनैः सप्रदक्षिणैः ॥ ५६ ॥ एवमादिभिरुद्दण्डैः क्रियाकाण्डैरनेकशः । वर्षमेकमुषित्वा तु कृत्वा तीर्थान्यनेकशः ॥ ५७ ॥ दीनानाथांश्च सन्तर्प्य नत्वा विश्वेश्वरं विभुम् । ब्रह्मचर्यादिनियमैर्ऋतुकालागमेन च ॥ ५८ ॥ सत्यसम्भाषणेनापि तीर्थमेवं प्रसाद्य च । नत्वा पुनर्विश्वनाथं कालराजं गणाधिपम् ॥ ५९ ॥ अन्नपूर्णा दण्डपाणिं दृष्ट्वा स्तुत्वा प्रणम्य च । अनुज्ञातः शिवेनाथ विमानेन रधूत्तमः ॥ ६० ॥ यवावाकाशमार्गेण गंगाया दक्षिणे तटे । कर्मनाशां नदीं दृष्ट्वा च्यवनस्याश्रमं ययौ ॥ ६१ ॥ रामचन्द्रः पुष्पकस्थः स्नात्वा नत्वा मुनीश्वरम् । रामतीर्थं च रामेशं चकार तत्र राघवः ॥ ६२ ॥ निजबाणकृतां रेखां दर्शयामास तान् जनान् । काश्या अप्यधिकान्यत्र दत्त्वा दानन्यनेकशः ॥ ६३ ॥ ययौ यानेन दिव्येन स्वर्णभद्रस्य संगमम् । यानि यानि हि तीर्थानि राघचश्च गमिष्यति ॥ ६४ ॥ उत्तरोत्तरतस्तेषु दानाधिक्यं करिष्यति । यत्र यत्र रघुश्रेष्ठो गमिष्यति ससीतया ॥ ६५ ॥ तत्र तीर्थान्यनेकानि भविष्यन्ति महान्ति च । शेषोऽपि तेषां संख्यां हि वक्तुं नात्र क्षमो भवेत् ॥ ६६ ॥ तेषु तीर्थानि श्रेष्ठानि षड् ज्ञेयानि मनीषिभिः । बन्धूनां चैवचत्वारि सीतायाः पञ्चमं स्मृतम् ॥ ६७ ॥ षष्ठमजनिपुत्रस्य सर्वत्रैवं विनिश्चयः । रामः स्नान्वा स्वर्णभद्रगगयोः संगमे मुदा ॥ ६८ ॥ त्रिरात्रं समतिक्रम्य गण्डकीसंगमं ययौ । कस्मिंस्तीर्थे त्रिरात्रं च पञ्चगत्रमथ क्वचित् ॥ ६९ ॥ सप्तरात्रं क्वचिच्चापि पक्षमेकमथ क्वचित् । अष्टादशैकविंशद्वा त्रिमासं च क्वचित्प्रभुः ॥ ७० ॥ चकार वासं तीर्थेषु धर्मान् कुर्वन् यथासुखम् । गंडकीसंगमे स्नात्वा नेपाले जगदीश्वरम् ॥ ७१ ॥ दृष्ट्वा हरिहरक्षेत्रं ययौ रघुकुलोद्वहः । एवं कुर्वन् स तीर्थानि सर्वाणि रघुनन्दनः ॥ ७२ ॥ पुनः पुनः संगमं च ययौ जाह्नविदक्षिणे । वैकुण्ठनगरं गत्वा जरासंधपुरं ययौ ॥ ७३ ॥ वैकुंठाया जले स्नात्वा ततो रामो ययौ गयाम् । फल्गुनद्याग्तटे पूर्वं मुक्त्वा तद्यानमुत्तमम् ॥ ७४ ॥ नत्वा विष्णुपदं दिव्यं पुनर्यानान्तिकं ययौ । तां निशां समतिक्रम्य प्रभाते रघुनन्दनः ॥ ७५ ॥ स्नातुं फल्गुनदीतोये ययौ तीर्थं द्विजैः सह । एतस्मिन्नन्तरे सोता सखीभिः परिवेष्टिता ॥ ७६ ॥ ययौ स्नातुं फल्गुनद्यां स्नात्वा पूज्य सुवासिनीः। सैकते सा क्षणं तस्थौ पूजनार्थ महेश्वरीम् ॥ ७७ ॥ वालुकापंचपिंडैश्च दुर्गां कर्तु समुद्यता । गृहीत्वा वामहस्तेन सार्द्रां सा सिकतां तदा ॥ ७८ ॥ सव्येन कृत्वा पिण्डं तु यावत्सा पाणिना भुवि । स्थापयामास तावत्तु ददर्श जगतीतलात् ॥ ७९ ॥ विनिर्गतं दशरथश्वशुरस्य करं शुभम् । दक्षिणं निजहस्ताच्च गृहीत्वा पिण्डमुत्तमम् ॥ ८० ॥ गच्छन्तं भूतलं रम्यं तद्दृष्ट्वा कौतुकं पुनः । द्वितीयं स्थापयामास भुवि पिंडं तु सैकतम् ॥ ८१ ॥ सोऽपि नीतः पूर्ववच्च ह्येवमष्टोत्तरं शतम् । ददौ पिंडान् कौतुकेन ततः श्रान्ता विदेहजा ॥ ८२ ॥ मनसा पूज्य दुर्गां सा ययौ यानं त्वरान्विता । तद्वृत्तं न सखीभिस्तु ज्ञातं रामेण वाऽपि न ॥ ८३ ॥ तयाऽपि कथितं नैव किं रामो मां वदिष्यति । इति भीत्या ततो रामः पचतीर्थं विगाह्यच ॥ ८४ ॥ प्रेतपर्वतमासाद्य पिंडदानमथाकरोत् । कनिष्ठिकाया निष्कास्य निजनामांकितांशुभाम् ॥ ८५ ॥ कांचनीं मुद्रिकां रम्यां दक्षिणाभिमुखस्तदा । अपहतेति मंत्रेण चकार भुवि राघवः ॥ ८६ ॥ रेखात्रयं तदद्यापि दृश्यते तत्र वै स्फुटम् । आस्तीर्य स कुशांस्तत्र पिण्डान् सक्तुमयाञ्छुभान् ॥ ८७ ॥ तिलाज्यमधुययुक्तान् दातुं रामः समुद्यतः । सव्येन पाणिना पिण्डं गृहीत्वा रघुनन्दनः ॥ ८८ ॥ यावत्पश्यति भूम्यां तुन ददर्श पितुः करम् । तदाश्चर्येण विप्रास्ते राममूचुस्त्वरान्विताः ॥ ८९ ॥ निष्क्रामंत्यत्र सर्वेषां पितॄणां दक्षिणाः कराः । न दृश्यते तव पितुः कारणं नात्र विद्महे ॥ ९० ॥ रामोऽपि विस्मयाविष्टश्चकितः प्राह लक्ष्मणम् । जानीषे कारणं किंचिदत्र त्वं बुद्धिमानसि ॥ ९१ ॥ स प्राह राघवास्माभिर्यदा गोदावरीं गतम् । इङ्गुदीफलपिण्याकपिण्डदाने तदा करः ॥ ९२ ॥ अस्माभिः स्वपितुर्दृष्टः सोऽत्र नैव प्रदृश्यते । ममापि जातमाश्चर्यं सीतां त्वं प्रष्टुमर्हसि ॥ ९३ ॥ तच्छछ्रुत्वा जानकी शीघ्रं प्राह किंचिद्भयातुरा । मयाऽपराधितं किंचित्तत्क्षमस्व रघूत्तम ॥ ९४ ॥ तत्तस्या वचनं श्रुत्वा राघवः प्राह तां पुनः । वद तथ्यं न भेतव्यं कारणं किं ममांतिकम् ॥ ९५ ॥ यथा वृत्तं तया सर्वं राघवाय निवेदितम् । तच्छ्रूत्वा राघवः प्राह कः साक्षी तव कर्मणि ॥ ९६ ॥ सा प्राह चूतवृक्षोऽस्ति दृष्टः स नेत्युवाच ह । तदा शमः सीतया स फलहीनः स कीकटः ॥ ९७ ॥ भव मे वचनाच्चूत यतो मिथ्या त्वयेरितम् । पुनः सा राघवं प्राह फल्गुः साक्ष्यं प्रदास्यति ॥ ९८ ॥ साऽपि रामेण पृष्टाऽथ नेत्युवाच भयातुरा । साऽपि शप्ता रामपत्न्याऽधोमुखी मम वाक्यतः ॥ ९९ ॥ वह यस्मान्मृषा चोक्तं त्वया सत्येपि कर्मणि । ततः मीना पुनः प्राह साक्ष्यं मेऽत्र निवासिनः ॥ १०० ॥ दास्यन्ति मे द्विजाः सर्वे तदा मन्निकटस्थिताः । तेऽपि पृष्टा गघवेण नेत्यूचुर्भयविह्वलाः ॥ १०१ ॥ दद्मः साक्ष्यं तर्हि रामः शापं नस्तु प्रदास्यति । निवारिता कथं नेयं तदा सीतेति चिन्त्य ते ॥ १०२ ॥ ताँस्तदा जानकी शापं ददौ तीर्थनिवासिनः । युष्माकं नात्र संतृप्तिः कदा द्रव्यैर्भविष्यति ॥ १०३ ॥ द्रव्यार्थं सकलान् देशान् भ्रमध्व्ं दीनरूपिणः । ततः सा जानकीप्राह ओतुः साक्ष्यं प्रदास्यति ॥ १०४ ॥ सोऽपि पृष्टो नेत्युवाच रामं सीता शशाप ताम् । पुच्छाग्रं स्वपुरः कृत्वा पदा मन्निकटोऽपि सन् ॥ १०५ ॥ मृषेरितं यतस्तस्मात्पुच्छे ह्यस्पृश्यतां भज । ततः सा जानकी प्राह गौर्मे साक्ष्यं प्रदास्यति ॥ १०६ ॥ साऽपि पृष्टा नेत्युवाच रामं सीता शशाप ताम् । अपवित्रा भवास्ये त्वं मम वाक्येन धेनुके ॥ १०७ ॥ ततः सीताश्वत्थवृक्षं साक्ष्यार्थं प्राह राघवम् । स पृष्टो नेत्युवाचाथ तं सीताऽथाशपत्क्रुधा ॥ १०८ ॥ भवाचलदलस्त्वं हि मद्गिराऽश्वत्थपादप । पुनः सीता पतिं प्राह मम साक्षी प्रभाकरः ॥ १०९ ॥ स पृष्टः प्राह तथ्यं हि तुष्टिर्जाता पितुस्तव । एतस्मिन्नंतरे तत्र विमानेनार्कवर्चसा ॥ ११० ॥ राजा दशरथो राममागत्यालिंग्य वै दृढम् ॥ प्राह स्वया तारितोऽहं नरकादतिदुस्तरात् । मथिल्याः पिण्डदानेन जाता मे तृप्तिरुत्तमा ॥ १११ ॥ तथापि लोकशिक्षार्थं गयाश्राद्धं त्वमाचर । पितरं प्राह रामोऽपि किमर्थं हि त्वयाऽत्र वै ॥ ११२ ॥ त्वरया सिकतापिण्डः संगृहीतो वदस्व माम् । स प्राहात्र गयायां तु बहुविघ्नानि राघव ॥ ११३ ॥ भवंति श्राद्धसमये कृता तस्मात्त्वरा मया । इति रामं समाभाष्य गृहीत्वा राघवादपि ॥ ११४ ॥ किंचित्क्रव्यं विमानेन ययौ दशरथस्तदा । ततो रामः प्रेतगिरौ पिण्डदान विधाय च ॥ ११५ ॥ गत्वा प्रेतशिलायां च दत्त्वा काकबलिं ततः । धर्मारण्यं ततो गत्वा कृत्वैकोनपदेषु हि ॥ ११६ ॥ सक्तुऽना च तिलाज्यैश्च पायसैश्च सशर्करैः । पृथग्वै पिण्डदानानि वटश्राद्धं विधाय च ॥ ११७ ॥ अष्टतीर्थी ततः कृत्वा ततः संध्यां स्थलत्रये । कृत्वा यथाविधानेन दत्त्वा दानान्यनेकशः ॥ ११८ ॥ गदाधरं ततः पूज्य महाविभवपूर्वकम् । सेचयामास तोयैश्च चूतवृक्षं सकीकटम् ॥ ११९ ॥ एको मुनिः कुभकुशाग्रहस्तश्चतूस्य मूले सलिलं दधार । आम्रश्च सिक्तः पितरश्च तृप्ता एका क्रिया द्व्यर्थकरी प्रसिद्धा ॥ १२० ॥ कृत्वा विष्णुपदे पूजां विमानारोपणादिभिः । मासत्रयमतिक्रम्य गयायां रघुनन्दनः ॥ १२१ ॥ विमानेन ययौ प्राचीं दिशं संतोषयन् जनान् । फल्गुनद्यास्तटे पूर्वे विमानं यत्र सस्थितम् ॥ १२२ ॥ तत्र रामगयानाम्नी भूमिर्विप्रैरुदीर्यते । रामेश्वरो रामतीर्थं वर्तते तत्र पावनम् ॥ १२३ ॥ रामोऽपि फल्गुनद्याश्च गङ्गायाः संगमं ययौ । गयाबहिः फल्गुरेव ज्ञेया सा तु महानदी ॥ १२४ ॥ ततो ययौ मुद्गलस्य नूतनाश्रममुत्तमम् । यम्मिनुदग्वहा गङ्गा जाह्नवी पापनाशिनी ॥ १२५ ॥ ततेःऽग्रे जानकी ज्ञात्वा भूमौ दिव्यं प्रदास्यति । तस्या दिव्यस्थले रामस्तीर्थमादौ चकार सः ॥ १२६ ॥ बंधूनां च पृथक् तत्र संति तीर्थानि सर्वतः । सीतया च कृतं तत्र स्वनाम्ना तीर्थमुत्तमम् ॥ १२७ ॥ ज्ञात्वा भविष्यत्यग्रे मत्तीर्थं चेति सविस्तरम् । यदा भुमौ प्रदास्यामि दिव्यं तीर्थं तदाऽस्तुमे ॥ १२८ ॥ रामस्ततो विमानेन गतश्चोत्तरवाहिनीम् । नाम्ना पुग्। तथा गङ्गां यत्रास्ति परमार्थदा ॥ १२९ ॥ पर्वतौ यत्र गङ्गायामस्ति बिल्वेश्वरोऽपि च । ततः श्रावजनाथेशं नत्वा रावणनिर्मितम् ॥ १३० ॥ ततः शनैर्विमानेन पश्यन्नानास्थलानि सः । ययौ भागीरथीमध्याद्यत्र भिन्ना सिता पुनः ॥ १३१ ॥ प्रयागाद्योजनशतमाने देशे रघूद्वहः । ततो गङ्गाऽब्धिसयोगसहस्रे पुष्पकेन सः ॥ १३२ ॥ गत्वा स्नात्वा ततो यत्र कालिंदीसंगताऽर्णवे । तत्र गत्वा रघुश्रेष्ठस्ततः पश्यन् स्थलानि सः ॥ १३३ ॥ नानापुण्यानि तीर्थानि दृष्ट्वा श्रीपुरुषोत्तमम् । पूर्वसागतीरस्थं दत्त्वा दानान्यनेकशः ॥ १३४ ॥ ततः शनैः पुष्पकेण दृष्ट्वा नानाविधान् सुरान् । दृष्ट्वा नाना नदीः सर्वा नानादेशान्विलंघ्यच ॥ १३५ ॥ गोदातीरे स्वनाम्ना तु कृत्वा गिरिमनुत्तमम् । सप्तगोदावरीभेद संगमेषु महोदधौ ॥ १३६ ॥ स्नात्वा दक्षिणमार्गेण ततो रामो ययौ पुनः । पूर्वदेशे नृपतिभिर्मानितः पूजितोऽपि च ॥ १३७ ॥ गृहीत्वा स्वकरं तेभ्यस्तैः सहैव शनैः शनैः । विमानेन सुखेनैव तीर्थान्यन्यानि सेवितुम् ॥ १३८ ॥ श्रीरामो याम्यदिग्जानि दक्षिणाभिमुखो ययौ । एवं प्रोक्ता पूर्वदेशयात्रा रामेण या कृता ॥ १३९ ॥ इति श्रीमदानन्दरामायणे यात्राकाण्डे पूर्वदेशतीर्थयात्रावर्णनं नाम षष्ठः सर्गः ॥ ६ ॥ श्रीसीतारामचन्द्रार्पणमस्तु |