॥ श्रीवाल्मीकिमहामुनिकृत शतकोटिरामचरितान्तर्गतं ॥

॥ आनन्दरामायणम् ॥

यात्राकाण्डम्

॥ चतुर्थः सर्गः ॥
[ सरयूद्विधाकरणम् ]

॥ श्रीसद्‌गुरु रामचंद्राय नमः ॥


रामदास उवाच
ततः प्रातः समुत्थाय श्रुत्वा वाद्यध्वनिं तथा ।
गायनं वंदिभिगीतं सीतया सह राघवः ॥ १ ॥
कृत्वा नित्यविधिं सर्वं दत्त्वा दानानि विस्तरात् ।
ज्योतिर्विदं समाहूय गोपालाभिधमुत्तमम ॥ २ ॥
नमस्कृत्वाऽथ संपूज्य गणकं राघवोऽब्रवीत ।
भो गोपाल महाभ्द्धे त्वां पृच्छेऽहं द्विजोत्तम ॥ ३ ॥
यात्रार्थं जाह्नवीतीरं गन्तुमिच्छामि सांप्रतम् ।
अतो मुहूर्तो दातव्यः सम्यग्बुद्धया विविच्य च ॥ ४ ॥
तद्‌रामवचनं श्रुत्वा गोपाला प्राह राघवम् ।
पञ्चाङ्‌गपट्टं विस्तार्य तत्र दृष्ट्‍वा बलाबलम् ॥ ५ ॥
राम राजीवपत्राक्ष मुहूर्तस्त्वद्य वर्तते ।
पूर्वयामे महाञ्छ्रेष्ठः पुष्यनक्षत्रमंडितः ॥ ६ ॥
तस्य वक्ष्ये फलं राजन् सावधानमनाः श्रुणु ।
शृण्वन्तु मुनयः सर्वे शृणोतु ते गुरुर्महान् ॥ ७ ॥
न योगयोगं न च लग्नलग्नं न तारकाचंद्रबलं गुरोश्च ।
योगिन्य राहुर्न तदैव काले सर्वाणि कार्याणि करोति पुष्यः ॥ ८ ॥
अस्मिन्नाम सुनक्षत्रे प्रस्थानं कुरु सीतया ।
दत्तो मया मुहूतोऽयं यात्रार्थं रघुनायक ॥ ९ ॥
इति तस्य वचः श्रुत्वा लक्ष्मणं राघवोऽब्रवीत् ।
भेरीमृंदगपणवकाहलाऽऽनकगोमुखैः ॥ १० ॥
तालघर्घरदुंदुभिभिश्चैभिश्च नवभिमहान् ।
सेनायाः सूचनार्थं हि कर्तव्यः प्रथमो ध्वनिः ॥ ११ ॥
तथेति रामवचनाद्दूतानाज्ञापयत्तदा ।
नववाद्यध्वनिं तेऽपि चक्रुर्मञ्जुऽलसुस्वरम् ॥ १२ ॥
ततो रामो द्विजैर्युक्तो वसिष्ठेन पुरोधसा ।
घृतेन प्रचुरं श्राद्धं गणेशादीन् प्रपूज्य च ॥ १३ ॥
चकार प्रोक्तविधिना वसिष्ठं प्राह वै ततः ।
अग्निहोत्राणि मेऽग्रे त्वं स्थापितानि तु पुष्पके ॥ १४ ॥
नेतुमर्हमि मे मातृबंधुभिः पुरवासिनः ।
विमाने करिणीबद्धा पुष्पमालाऽतिशोभिता ॥ १५ ॥
सीतांगस्पर्शनी मार्गे मां स्पर्शतु गजस्थितम् । ं
ततः पप्रच्छ वेदेहीं केन यानेन मैथिलि ॥ १६ ॥
गमिष्यसि वद् त्व मां तदेवाज्ञापयामहम् ।
तद्‌रामवचनं श्रुत्वा सति ध्यात्वा क्षणं हृदि ॥ १७ ॥
सा प्राह मुदिता रामं करिण्या गमनं मम ।
रोचते यदि ते चित्ते तर्ह्यस्तु रघुनायक ॥ १८ ॥
तत्तस्या वचनं श्रुत्वा यानमाज्ञाप्य लक्ष्मणम् ।
सीतायै दिव्यवस्त्राणि ददौ मातृस्तथैव च ॥ १९ ॥
तथा दत्त्वा बंधुपत्‍नीर्दत्त्वा चापि गुरोः स्त्रियम् ।
ततो दत्त्वा वगिप्ठ च विप्रान्दत्त्वा ततः परम् ॥ २० ॥
दत्त्वा वस्त्राणि बंधुभ्यः स्वयं जग्राह राघवः ।
बद्ध्वा शस्राण्यनेकानि त्वरयित्वा विदेहजाम् ॥ २१ ॥
नत्वा मातृर्गुरूंश्चापि मंत्रिभिः परिवारितः ।
आरुह्य शिबिकां गमः सभा प्रति समाययौ ॥ २२ ॥
ततः सिंहासने स्थित्वा लक्ष्मणं प्राह राघवः ।
द्वितीयः सूचनार्थं हि नववाद्यध्वनिः पुनः ॥ २३ ॥
आज्ञापनीयः सौमित्रे तच्छ्रुत्त्वा राघवेरितम् ।
आज्ञा प्रमाणमित्युक्त्वाऽऽज्ञापयद्‌ध्वनिमुत्तमाम् ॥ २४ ॥
कर्तुं दूतास्तेऽपि चक्रुर्ध्वनिं मेघापमां ततः ।
ततः प्राह रघुश्रेष्ठः पुनः सौमित्रिमादरात् ॥ २५ ॥
सुमंत्रः स्थाप्यतां पुर्या रक्षणार्थं ममाज्ञया ।
गच्छत्वग्रे तु भरतो पश्चादायातु शत्रुहा ॥ २६ ॥
मत्पृष्ठे त्वं समागच्छ ततः सीतानुगच्छतु ।
तस्याःपृष्ठे च त्वत्पत्‍नी ह्युर्मिला सानुगच्छतु ॥ २७ ॥
तत्पृष्ठे मांडवी रम्या दयिता भरतस्य सा ।
अनुगच्छतु तत्पृष्ठे श्रुतकीर्त्यनुगच्छतु ॥ २८ ॥
शत्रुघ्नस्य प्रिया भार्या विमानैः पुरयोषितः ।
मातृभिस्ताः सभायां तु पश्यंन्तः कौतुकं मुदा ॥ २९ ॥
सीताद्याः करिणिष्वद्य स्थापयित्वा ममान्तियम ।
आगतव्यं त्वया शीघ्रं ततोऽहं गजमाश्रये ॥ ३० ॥
तथेति रामवचनात्तथा ताः करिणीषु सः ।
आरोहयित्वा श्रीरामं समागच्छत्वरान्वितः ॥ ३१ ॥
समागतं लक्ष्मणं तं दृष्ट्‍वा रामो महामनाः ।
सुमंत्राय ददौ वस्त्रं तदधीनां पुरीं व्यधात् ॥ ३२ ॥
ततो मुहूर्तसमये धृत्वा लक्ष्मणसत्कग्म ।
सिंहासनात्समुत्तीर्य महानागान्तिकं ययौ ॥ ३३ ॥
गजं प्रदक्षिणं कृत्वा सोपानेन स राघवः ।
गजदन्तोद्‌भवेनारुरोह नागं सुखं शनैः ॥ ३४ ॥
तदा दुंदुभिनिर्घोषान् नववाद्यस्वरान वरान् ।
वादयामासुर्गंभीरान् राजदूताः सहस्रशः ॥ ३५ ॥
बभूवुर्यन्त्रशब्दाश्च ननृतुर्वारयोषितः ।
वादयन्ति स्म वाद्यानि गजवाजिरथोपरि ॥ ३६ ॥
जयशब्दान् वेदघोषान् द्विजाश्चक्रुर्महास्वनैः ।
केऽपि पिच्छोद्‌भवं चित्रं रत्‍नदण्डविराजितम् ॥ ३७ ॥
चामरं बीजयामास विजयः पार्श्वसंस्थितः ।
अन्यस्तु वालव्यजनं बीजयामास पृष्ठतः ॥ ३८ ॥
कलशैः शतसाहस्रैर्मुक्ताहारैस्तु शोभितम् ।
रत्नदण्डं सुविस्तीर्णं छत्रमन्यो दधार तत् ॥ ३९ ॥
तत्पृष्ठे गजमारुह्य लक्ष्मणः शीघ्रमाययौ ।
सीताद्यास्ताः समाजग्मुः सौमित्रिगजपृष्ठतः ॥ ४० ॥
पश्यंत्यः कौतुकान्येव जालरंध्रैः समंततः ।
पुष्पकं चापि गगनमार्गेणैव शनैः शनैः ॥ ४१ ॥
जगाम संस्थितास्तत्र पुरनार्यो रघूत्तमम् ।
पश्यंत्योऽथ कौतुकानि ववर्षुः पुष्पवृष्टिभिः ॥ ४२ ॥
ततस्ते तुरगारूढा गजारूढा रथे स्थिताः ।
नेमिरेखोपमाः सर्वे स्थितास्ते रामपार्श्वयोः ॥ ४३ ॥
चक्रुः प्रणामान् श्रीरामं संस्थिता हारबंधवत् ।
रामोऽपि कंजहस्ताभ्यां प्रणामानभ्यनंदयत् ॥ ४४ ॥
एवं गच्छति राजेन्द्रे रामचन्द्रे शनैः पथि ।
गजोपरि सवीणास्ते नटा गानं प्रचक्रिरे ॥ ४५ ॥
एवं पश्यन् स रामोऽपि पुष्पारामादिकौतुकम् ।
हट्टान् चित्राणि वेश्यानां नृत्यानि विविधानि च ॥ ४६ ॥
सुस्वराण्यथ वाद्यानि शृण्वन् मार्गे शनैः शनैः ।
वेष्टितश्चतुरङ्‌गिण्या सेनया स समंततः ॥ ४७ ॥
प्राप सेनानिवासाय कल्पितां भुवमुत्तमाम् ।
अयोध्यामिव तां दृष्ट्‍वाऽवतरद्‌राघवो गजात् ॥ ४८ ॥
अभिनंद्य प्रणामांश्च पुनर्वीरकृतान् मुहुः ।
लक्ष्मणस्य करं धृत्वा स्वकरेण रमापतिः ॥ ४९ ॥
वस्त्रगेहं संप्रविश्य तस्थौ सिंहासने पुनः ।
सीताद्यास्ताः स्त्रियः सर्वा विविशुर्वस्त्रसद्मनि ॥ ५० ॥
ततः श्रीरामचन्द्रोऽपि लक्ष्मणं वाक्यमब्रवीत् ।
सीमायाः क्रोशमात्रेऽद्य शतदूतान् पृथक् पृथक् ॥ ५१ ॥
एकैकस्यां दिशि त्वं मे वचनात्स्थापयस्व भोः ।
योजनोपरि सौमित्रे त्वष्टदिक्षु समंततः ॥ ५२ ॥
नियोजयस्व शतशो वाजिवाहान् ममाज्ञया ।
तथेत्युक्त्वा लक्ष्मणोऽपि तथा सर्वं चकार सः ॥ ५३ ॥
ततो विप्रैः सुहृद्‌भिश्च विविधान्नैर्मनोरमैः ।
घृतेन श्राद्धशेषेण भोजनं राघवो व्यधात् ॥ ५४ ॥
तांबूलैर्दक्षिणां दत्त्वा नानाविप्रेभ्य आदरात् ।
मुखशुद्धिं स्वयं कुत्वा तस्थौ सिंहासने पुनः ॥ ५५ ॥
श्रूत्वा शास्त्रपुराणानि वेदान्तांश्चापि सादरम् ।
सायंसंध्यादिकं कृत्वा हुत्वा होमं यथाविधि ॥ ५६ ॥
सिंहासने समासीनो वेश्यानां नृत्यमुत्तमम् ।
पश्यन् शृण्वन् गायनं च नीत्वा यामद्वयां निशाम् ॥ ५७ ॥
ततः सुष्वाप पर्यङ्‌के सीतया सह राघवः ।
द्वितीये दिवसे तत्र स्थित्वा रामस्तु कौतुकैः ॥ ५८ ॥
नीत्वा समग्रं सुदिनं तृतीये दिवसे पुनः ।
पूर्ववद्वाद्यघोषाद्यैः शनैः स्थानांतरं ययौ ॥ ५९ ॥
क्वचिद्दिनमतिक्रम्य क्वचिद्‍द्वे त्रीणि राघवः ।
स्थित्वा पश्यन्कौतुकानि रञ्जयन् जनकात्मजान् ॥ ६० ॥
शनैः शनैर्ययौ मार्गे मासेनैकेन राघवः ।
प्राप जीर्णं मुद्गलेन त्यक्तमाश्रममुत्तमम् ॥ ६१ ॥
राममागतमाज्ञाय मुद्गलो नूतनाश्रमात् ।
भागीरथ्या दक्षिणतः प्राप रामांतिकं तदा ॥ ६२ ॥
तं दृष्ट्‍वा राघवश्चापि नत्वा सम्पूज्य सादरम् ।
वासोगेहे समासीनं पप्रच्छ विनयान्मुनिम् ॥ ६३ ॥
त्वयाऽयमाश्रमस्त्यक्तः किमर्थं मुनिसत्तम ।
तत्त्वं वद महाभाग यथावच्च सविस्तरम् ॥ ६४ ॥
तद्‌रामवचनं श्रुत्वा मुद्गलो वाक्यमब्रवीत् ।
अद्य धन्योऽस्म्यहं राम निवृत्तं वनवासतः ॥ ६५ ॥
यत्त्वां पश्यामि नेत्राभ्यां चिरकालेन राघव ।
भरतप्राणरक्षार्थं यदा नीता ममाश्रमात् ॥ ६६ ॥
दिव्यौषध्यस्तदा जातं पूर्वं ते दर्शनं मम ।
मयाऽयमाश्रमस्त्यक्तः किमर्थं तद्‌ब्रवीमि ते ॥ ६७ ॥
सान्निध्यं नात्र गङ्‌गायाः सरय्वा अपि नात्र वै ।
इति मत्वा मया त्यक्तश्चाश्रमोयं महत्तमः ॥ ६८ ॥
अत्र सिद्धिं गताः पूर्वं शतशोऽथ सहस्रशः ।
मुनीश्वरा मयाप्यत्र तपस्तप्तं कियद्दिनम् ॥ ६९ ॥
इ्ति राम समाख्यातमाश्रमस्य च मोचने ।
कारणं च त्वया पृष्टं किमग्रे श्रोतुमिच्छसि ॥ ७० ॥
तन्मुनेर्वचनं श्रुत्वा पुनस्तं प्राह राघवः ।
किं कृत्वा तेऽत्र वसतिर्ंभविष्यति मुने वद ॥ ७१ ॥
तद्‌रामवचनं श्रुत्वा राघवं प्राह मुद्गलः ।
यद्यत्र सरयूनद्याः संगमो हि भविष्यति ॥ ७२ ॥
जाह्नव्या तर्ह्यहं चात्र वत्स्ये राम यथासुखम् ।
तत्तस्य वचनं श्रुत्वा राघवः प्राह तं पुनः ॥ ७३ ॥
किमर्थ सरयूः श्रेष्ठा कुतः प्राप्ता धरातलम् ।
तत्त्वं वद महाभाग सविस्तारं ममाग्रतः ॥ ७२ ॥
तद्‌रामवचनं श्रुत्वा मुद्गलो वाक्यमब्रवीत् ।
तवैव चरितं राम मन्मुखाच्छ्रोतुमिच्छसि ॥ ७५ ॥
तर्हि ते संप्रवक्ष्यामि तच्छृणुष्व रघूत्तम ।
शंखासुरो महान्देत्यो वेदान् पूर्वं जहार हि ॥ ७६ ॥
क्षिप्त्वा तांश्च समुद्रे हि स्वयमासीन्महोदधौ ।
तदर्थं च त्वया मात्स्यं वपुर्धृत्वा महत्तरम् ॥ ७७ ॥
हतः शंखासुरो वेदास्त्वया दत्तास्तु वेधसे ।
ततो हर्षेण महता पूर्वरूपं त्वया धृतम् ॥ ७८ ॥
तदा हर्षेण नेत्रात्ते पतिताश्चाश्रुबिंदवः ।
हिमालये ततो जाता नदी पुण्या शुभोदका ॥ ७९ ॥
साक्षान्नारायणस्यैव आनन्दाश्रुसमुद्भवा ।
शनैर्बिन्दुसरः प्राप तस्माच्च मानसं ययौ ॥ ८० ॥
एतस्मिन्नन्तरे राम पूर्वजस्ते महत्तमः ।
वैवस्वतो मनुयष्टुमुद्युक्तो गुरुमब्रवीत् ॥ ८१ ॥
अनादिसिद्धाऽयोध्येयं विशेषेणापि वै मया ।
रचिता निजवासार्थमत्र यज्ञं करोम्यहम् ॥ ८२ ॥
यदि ते रोचते चित्ते तच्छ्रुत्वा गुरुरब्रवीत् ।
अत्र तीर्थ वरं नास्ति नास्ति श्रेष्ठा महानदी ॥ ८३ ॥
यद्यत्रैवास्ति ते चित्तं यष्टुं नृपतिसत्तम ।
आनयस्व नदीं रम्यां मानसात्पातकापहाम् ॥ ८४ ॥
तद्गुरोर्वचनाद्‌राजा मनुर्वैवसेतो महान् ।
टणत्कृत्य महच्चापं सन्दधे शरमुत्तमम् ॥ ८५ ॥
सशरो मानसं भित्त्वा तस्मान्निष्कास्य तां नदीम् ।
अयोध्यामानयामास पंथान दर्शयन्निव ॥ ८६ ॥
शरमार्गानुसारेणायोध्यायां प्राप वै नदी ।
महोदधौ पूर्वदेशे मिलिता रघुनन्दन ॥ ८७ ॥
आनीता सा शरेणैव शरयूश्चेति कथ्यते ।
सरोवरात्समुद्भूता सरयुश्चेति केचन ॥ ८८ ॥
ततो भगीरथेनेयं कपिलक्रोधवह्निना ।
विनिर्दग्धान् पूर्वजान् वै सागरान् प्रेषितु दिवम् ॥ ८९ ॥
भागीरथी समानीता त्वत्पादाब्जसमुद्‌भवा ।
तपसा शंकरं तोष्य सरय्वा मिलिताऽथ सा ॥ ९० ॥
वरदानात्कलौ शंभोर्गङ्‌गा ख्यातिं गमिष्यति ।
अग्रे सागरपर्यतमेनां गङ्‌गां वदंति हि ॥ ९१ ॥
तव पादसमुद्भूता या विश्वं पाति जाह्नवी ।
इयं तु नेत्रसंभूता किमद्याग्रे वदाम्यहम् ॥ ९२ ॥
कोटिवर्षसहस्रैश्च कोटिवर्षशतैरपि ।
महिमा सरयूनद्याः कोऽपि वस्तुं न वै क्षमः ॥ ९३ ॥
इति राम समाख्यातं यथा पृष्टं त्वया मम ।
मुनेस्तद्वचनं श्रुत्वा लक्ष्मणं प्राह राघवः ॥ ९४ ॥
सरयूमानयस्वात्र शरं मुक्त्वा ममाज्ञया ।
तथेति रामवचनाद्धृत्वा चापं स लक्ष्मणः ॥ ९५ ॥
शरं मुक्त्वा तटं भित्त्वा सरयूमानयत्क्षणात् ।
सरयू सा द्विधा भूत्वा मुद्गलाश्रममाययौ ॥ ९६ ॥
जाह्नव्या मिलिता सापि तां दृष्ट्‍वा राघवोऽब्रवीत् ।
अत्र स्थित्वा लक्ष्मणेन दारितेयं महानदी ॥ ९७ ॥
अतो दद्रीति नाम्नाऽत्र नगरी ख्यातिमेष्यति ।
दद्रीयं जगतीमध्ये बदर्याश्च यवाधिका ॥ ९८ ॥
भविष्यति न संदेहस्तव वासाद्विशेषतः ।
ततः सीतां समाहूय राघवो वाक्यमब्रवीत् ॥ ९९ ॥
मुद्गलस्याश्रमेऽत्रैव सा नीता सरयूर्नदी ।
पश्य सौमित्रिणा मुक्त्वा शां मन्नामचिह्नितम् ॥ १०० ॥
नारीभिर्मातृभिः सीते पुष्पकेणातिभास्वता ।
वृद्धा सा सरयूर्यत्र संगताऽस्ति महानदी ॥ १०१ ॥
जाह्नव्या संगमं जं हि गच्छस्व गुरुणा द्विजैः ।
पूजयित्वा सविस्तारं यथोक्तं वचनं पुरा ॥ १०२ ॥
आगच्छस्व ततः शीघ्रमत्र त्वं मम सन्निधौ ।
विशेषान्मुद्गलस्यापि सन्निधावद्य वै पुनः ॥ १०३ ॥
नवीनसरयूनद्या भागीरथ्यास्तु संगमे ।
पूजनं त्वं मया साकं कर्तुमर्हसि मैथिलि ॥ १०४ ॥
तथेति रामवचनमंगीकृत्य विदेहजा ।
पूजासंभारमादातुं विवेश वसनगृहम् ॥ १०५ ॥
इति श्रीमदानन्दरामायणे यात्राकाण्डे
सरयूद्विधाकरणं नाम चतुर्थः सर्गः ॥ ४ ॥



श्रीसीतारामचन्द्रार्पणमस्तु

GO TOP