॥ श्रीवाल्मीकिमहामुनिकृत शतकोटिरामचरितान्तर्गतं ॥

॥ आनन्दरामायणम् ॥

यात्राकाण्डम्

॥ तृतीयः सर्गः ॥
[दूतान् आज्ञाकरणम् ]

॥ श्रीसद्‌गुरु रामचंद्राय नमः ॥


पार्वत्युवाच
को रामदासः कुत्रस्थो विष्णुदासश्च कः स्मृतः ।
कथं वदिष्यति गुरुस्तन्मां कथय विस्तरात् ॥ १ ॥
श्रीशिव उवाच
भारते दण्डकारण्ये गोदानाभौ विराजिते ।
क्षेत्रेऽब्जके नृसिंहाख्यो मुनिरग्रे भविष्यति ॥ २ ॥
रामनामा तु तत्पुत्रस्तच्छिष्यो विष्णुरित्यपि ।
गुरुशिष्यौ गमसेवासक्तौ नित्यं भविष्यतः ॥ ३ ॥
दास्यत्वाज्जानकीजानेस्तावुभो भूसुरोर्रमौ ।
रामदासविष्णुदामाविति लोके परां प्रथाम् ॥ ४ ॥
गमिष्यतोऽग्रे भो देवि गौतम्या दक्षिणे तट ।
रामदासः पितुः श्राद्धं गयायां संविधाय च ॥ ५ ॥
पृथिव्यां यानि तीर्थानि तानि गत्वा यथाक्रमम् ।
अध्यापयिष्यति च्छात्रान् गोदानाभौ गृहाश्रमी ६ ॥
एकदाविष्णुदासः स श्रुत्वा नानाविधाः कथाः ।
रामदासमुखात्सारकाण्डं रामायणोद्‌भवम् ॥ ७ ॥
श्रुत्वा किंचित्प्रष्टुमना रामदासं वदिष्यति ।
विष्णुदास उवाच
गुरो ते प्रष्टुमिच्छामि तत्त्वं वक्तुमिहार्हसि ॥ ८ ॥
सारकाण्डं मया त्वत्तः श्रुतं रामायणस्थितम् ।
न किञ्चित्सौख्यलेशोऽपि जानक्याराघवस्य च ॥ ९ ॥
श्रुतोऽत्र कापि राज्यस्य विस्तारोऽपि च न श्रुतः ।
कथं यागाः कृतास्तेन सन्ततिस्तस्य न श्रुता ॥ १० ॥
सुतानां बंधुपुत्राणां विवाहादिकमश्रुतम् ।
तत्सर्व विस्तरात्त्वत्तः श्रोतुमिच्छाऽस्ति मे गुरो । ११ ॥
तत्त्वं वद महाभाग रघुवीरस्य चेष्टितम् ।
रम्यं पवित्रमानन्ददायकं पातकापहम् ॥ १२॥
रामदास उवाच
सम्यक् पृष्टं त्वया वत्स रामचन्द्रकथानकम् ।
मंगलं रघुनाथस्य प्रोच्यते यत्सविस्तरम् ॥ १३ ॥
सावधानमनास्त्वं तच्छृणु पातकनाशनम् ।
यथा श्रुतं मया पूर्वं तुष्ट्यर्थं तै वदाम्यहम् ॥ १४ ॥
हत्वा दशाननं रामो राज्यं निहतकंटकम् ।
अयोध्यायां मुक्तिपुर्यां शशास नीतिमत्तमः ॥ १५ ॥
न दुर्भिक्षं न चौर्यं च नापमृत्युर्न चेतयः ।
न दारिद्र्यं भयं चिन्ता व्याधयश्च कदाचन ॥ १६ ॥
न भिक्षार्थी न दुर्वृत्तो नु पापात्मा न निष्ठुरः ।
न क्रोधी न कृतघ्नोऽपि रामे राज्यं प्रशासनि ॥ १७ ॥
एकदा जानकी कान्तमेकान्ते प्राह लज्जिता ।
स्मितवक्त्रा चारुनासा दिव्यालङ्‌कारमण्डिता ॥ १८ ॥
चामरव्यग्रहस्ता सा विनयावनतानना ।
राम राजीवपत्राक्ष रावणारे मम प्रभो ॥ १९ ॥
किञ्चिद्विज्ञप्तुमिच्छामि यद्यनुज्ञां करोषि हि ।
विज्ञापयामि तर्हि त्वां धर्ममूलं महोदयम् ॥ २० ॥
तत्सीतावचनं श्रुत्वा जानकी प्राह राघवः ।
हे सीते कंजनयने मम प्राणसुखास्पदे ॥ २१ ॥
शीघ्रं वदस्व यत्तेऽस्ति चित्ते तत्कारवाण्यहम् ।
इति राघवसम्मानवचनैर्जनकात्मजा ॥२२ ॥
नितरां तोषपूरौघपरिपूर्णाऽब्रवीत्पतिम् ।
श्रीसीतोवाच
यदा त्वं राघवश्रेष्ठ दण्डकं वचनात्पितुः ॥ २३ ॥
मया सौमित्रिणा साकं पूर्वं स्वनगराद्‌गतः ।
शृंगवेरपुरं गत्वा जाह्नव्यास्तरणे यदा ॥ २४ ॥
नौकायां स्थितमस्माभिर्भागीरथ्यां तदा पुरा ।
संकल्पितं मया किंचित्तत्त्वां वक्ष्याम्यहं प्रभो ॥ २५ ॥
देवि गंगे नमस्तेऽस्तु निवृत्ता वनवासतः ।
रामेण सहिताऽहं त्वां लक्ष्मणेन च पूजये ॥ २६ ॥
सुरामांसोपहारैश्च नानावलिभिरादृता ।
इत्युक्तं वचनं पूर्व तज्ज्ञातं भवताऽपि च ॥ २७ ॥
ततश्चतुर्दशे वर्षे विमानेन यदाऽऽगतम् ।
तदा भरतशत्रुघ्नकौसल्याविरहातुरा ॥ २८ ॥
अहं तद्विस्मृता रामा स्मृतिजाताऽद्य मे प्रभो ।
तन्मत्संकल्पपूर्त्यर्थं गन्तुमर्हसि जाह्नवीम् ॥ २९ ॥
मया मातृबंधुभिस्त्वमिति ते प्रार्थयाम्यहम् ।
रोचते यदि ते चित्ते न त्वामात्तापयाम्यहम् ॥ ३० ॥
इति सीतावचः श्रुत्वा प्रहस्य रघुनन्दनः ।
सीतामालिंग्य बाहुभ्यां हर्षयन् तामुवाच सः ॥ ३१ ॥
एतद्वचनचातुर्यं कुतो जानासि मैथिलि ।
न तत्ते वचनं देवि गङ्‌गां प्रति ममैव तत् ॥ ३२ ॥
वचनात्तव वैदेहि श्वो गन्ता जाह्नवीं प्रति ।
क्व ते वांछाऽस्ति दयिते गङ्‌गां गन्तुं वदस्व मे ॥ ३३ ॥
तच्छ्रुत्वा तत्र वै स्थातुं सेनायोग्यसमं मृदु ।
ऋजुं कर्तु हि पन्थानं दूतानाज्ञापयाम्यहम् ॥ ३४ ॥
ततः सीताऽब्रवीद्‌वाक्यं पुनः श्रीरामचोदिता ।
यत्र गङ्‌गा च सरयू संगताऽस्ति रघूद्वह ॥ ३५ ॥
तत्र गङ्‌गोत्तरे देशे गंतुमिच्छति मे मनः ।
इति सीतावचः श्रुत्वा तथेत्युक्त्वा रघूद्वहः ॥ ३६ ॥
द्वारपालं समाहूय पटैराच्छाद्य जानकीम् ।
आज्ञापयच्च तं रामः शीघ्रं गच्छ ममाज्ञया ॥ ३७ ॥
लक्ष्मणं वचनं मे त्वं कथयस्व सविस्तरम् ।
ज्ञायव्यः श्वो ममोद्योगः सीतायाश्चैव कौतुकात् ॥ ३८ ॥
सरयूसङ्‌गमे गङ्‌गापूजनार्थं त्वया सह ।
मातृभिर्मन्त्रिभिः सैन्यैः सुहद्‌भिर्भरतेन च ॥ ३९ ॥
शत्रुघ्नेन पुरिस्थैश्च जनैर्विप्रैर्यथासुखम् ।
सेनानिवेशस्थानानि योजनार्द्धान्तराणि च ॥ ४० ॥
पूरितामन्नतोयाद्यैः कल्पनीयानि वै पृथक् ।
इति रामवचः श्रुत्वा स तथेति त्वरान्वितः ॥ ४१ ॥
आज्ञाप्रमाणमित्युक्त्वा नत्वा रामं पुनः पुनः ।
कथयामास सौमित्रिं रामवाक्यं सविस्तरम् ॥ ४२ ॥
तद्‌रामवचनं श्रुत्वा यौवराज्यपदस्थितः ।
सभायां मन्त्रिभिर्युक्तो लक्ष्मणो दूतवचनं ॥ ४३ ॥
अङ्‌गीकृतं रामवाक्यमिति रामं वदस्व तत् ।
तच्छ्रत्वा त्वरितं दूतः कथयामास राघवम् ॥ ४४ ॥
सभायां लक्ष्मणश्चापि दूतानाज्ञापयत्तदा ।
रुक्मदण्डकरान् चित्रोष्णीषयुक्तान् विभूषितान् ॥ ४५ ॥
गच्छध्वं त्वरिता यूयं कथयध्वं जनान्पुरि ।
अयोध्यायां राघवस्य श्वो यात्रार्थं –समुद्यमः ॥ ४६ ॥
तथेत्युक्त्वा जवाद्दूता राजमार्गेषु सर्वतः ।
दीर्घस्वरेण ते प्रोचुश्चोर्ध्वं कृत्वाऽऽत्मसत्कृतम् ॥ ४७ ॥
हे जनाः शृणुत स्वस्थाः श्वः सीतारामयोर्मुदा ।
समुद्योगोऽस्ति पूजार्थं सरय्वाः सङ्‌गमं प्रति ॥ ४८ ॥
भागीरथ्यां सुहृद्‌भिश्च सावरोधैर्बलैः सह ।
इति संश्राव्य सकलान् जनान साकेतवासिनः ॥ ४९ ॥
ते दूता राजभवने लक्ष्मणं तं पुनर्ययुः ।
संश्राव्य ते जनांश्चारा रामोद्योगं न्यवेदयन् ॥ ५० ॥
सभायां लक्ष्मणश्चापि समाहूयानुजैर्जवात् ।
तक्षकानिष्टिकाकारान् दृषत्कर्मसु नैष्ठिकान् ॥ ५१ ॥
लोहकारांश्चर्मकारान् भित्तिकर्मादिनैष्ठिकान् ।
क्रयविक्रयकर्तृंश्च काष्ठनिर्जीवकारिणः ॥ ५२ ॥
वासोगृहविदग्धाश्च महिषैर्जलवाहिनः ।
नानाकर्मसु निष्णाता रज्जुकुद्दालधारिणः ॥ ५३ ॥
एतानाज्ञापयामास तोषणाद् वसनादिभिः ।
संमानितान्स सौमित्रिः कथयामास सादरम् ॥ ५४ ॥
समुद्योगं राघवस्य सीतायाः श्वो बलैः सह ।
ऋजुर्मार्गो विधातव्यः समः कर्करवर्जितः ॥ ५५ ॥
निम्ना भूमिः समाकार्यां उच्चा भूमिः समाऽपि च ।
छिद्यंतां पार्वता वृक्षा मार्गस्था दुःखदायकाः ॥ ५६ ॥
वाप्यः कूपास्तडागाश्च शोधनीयाः सहस्रशः ।
नवीनाश्चापि कर्तव्याः सताया निर्जले वने ॥ ५७ ॥
सेनानिवेशस्थानानि योजनार्द्धे सविस्तरे ।
कल्पनीयानि युष्माभिः पूरितान्यन्नवारिभिः ॥ ५८ ॥
चुल्ल्यो रम्या विधातव्याः पाकशालाः सभित्तयः ।
वस्त्रैर्गृहाणि कार्याणि तृणैश्चापि सहस्रशः ॥ ५९ ॥
आरक्तखर्परैराच्छादितानि चित्रितानि हि ।
नानागृहाणि कार्याणि पूरितान्यन्नवारिभिः ॥ ६० ॥
पुष्पाणां वाटिकाः कार्यो शतशोऽथ सहस्रशः ।
मार्गे मार्गे कौतुकार्थं भित्तौ चित्राण्यनेकशः ॥ ६१ ॥
नरस्कंधगताश्चित्रवाटिकाश्च सहस्रशः ।
पुष्पाणां वाटिकाश्चारुमृत्पात्रनिर्मिताः शुभा ॥ ६२ ॥
मार्गे मार्गे गायकानां स्थलान्यपि सहस्रशः ।
सेनानिवासस्थानेषु हस्त्यश्वरथवाजिनाम् ॥ ६३ ॥
सहस्रशो विधातव्याः शालाः पूर्णास्तृणादिभिः ।
सुगंधचदनैमार्गाः सेचनीयाः समंततः ॥ ६४ ॥
नेमिरेखाऽपि ग मार्गे विचित्रवसनैर्गृहाः ।
पुष्पंराच्छादनीयास्ते दृढाः सन्तु समंततः ॥ ६५ ॥
शृंगारैरतिचित्रैश्च हस्त्युष्टरथवाजिनः ।
वस्त्रालङ्‌कारघण्टाभिः शोभनीयाः सहस्रशः ॥ ६६ ॥
शकटेषु तथोष्ट्रैषु वारणेषु रथादिषु ।
शतघ्न्यः परिघा बाणाः शक्तयः कार्मुकान्यपि ॥ ६७ ॥
स्थापनीयानि शतशा विधातव्या ध्वजा अपि ।
चतुर्ष्वपि विधातव्या ध्वजा रामरथेषु हि ॥ ६८ ॥
हनुमत्कोविदाराण्डजेशबाणांकिताः शुभाः ।
चतुर्ष्वपि बंधनीयाः पताकाः स्यंदनेषु हि ॥ ६९ ॥
हरितश्वेतपीतनीलवर्णाः परमशोभनाः ।
गजपृष्ठे राघवार्थं हरिद्‌वर्णाङ्‌कितासनम् ॥ ७० ॥
रुक्ममाणिक्यरचितं सितच्छत्रोपशोभितम् ।
स्थापनीयं महादिव्यं मुक्ताहारविराजितम् ॥ ७१ ॥
सीतार्थ करिणीपृष्ठे नीलवर्णं महासनम् ।
क्क्मविद्रुमवेदूर्यरत्नमुक्ताविराजितम् ॥ ७२ ॥
मुक्ताफलहेमतंतुगणैराच्छादितं वरम् ।
सिद्ध कार्यं महादिव्यं स्वर्णकुंभविराजितम् ॥ ७३ ॥
पुष्पमालास्तोरणनि बंधनीयानि वै पथि ।
नृत्यंतु वारवेश्याश्च स्तुतिं कुर्वन्तु वन्दिनः ॥ ७४ ॥
द्रव्यैर्वस्त्रैराभरणैः पूजाद्रव्यैश्च गोरसैः ।
पात्रैनानाविधैर्दिव्यैः पूग्णीया रथोत्तमाः ॥ ७५ ॥
अन्यच्चापि मया नोक्तं यद्यद्योग्यं हि तत्पथि ।
सिद्ध कार्यं हि योगेन येन तुष्यति राघवः ॥ ७६ ॥
इति सन्दिश्य मेधावी लक्ष्मणः सह मंत्रिभिः ।
सायं सन्ध्यादिकं कर्तुं जगाम निजमन्दिरम् ॥ ७७ ॥
सौमित्रेराज्ञया तेऽपि तथा चक्रुर्यथोदिताः ।
संतुष्टास्ते यथायोग्यं रामसंतोषहेतवे ॥ ७८ ॥
रामोऽपि सीतया सार्द्धं मन्दिरे रत्ननिर्मिते ।
मञ्चके पुष्पशय्यायां सीतामालिङ्‍ग्य वे दृढम् ॥ ७९ ॥
रुक्मनेपथ्ययुक्ताभिर्दासीभिश्च मुहुर्मुहुः ।
वीजितो वालव्यजनैर्निशि सुप्तः सुखं तदा ॥ ८० ॥
इति श्रीमदानन्दरामायणे यात्राकाण्डे दूताज्ञाकरणं नाम तृतीयः सर्गः



श्रीसीतारामचन्द्रार्पणमस्तु

GO TOP