॥ श्रीवाल्मीकिमहामुनिकृत शतकोटिरामचरितान्तर्गतं ॥ ॥ आनन्दरामायणम् ॥
जन्मकाण्डम्
॥ प्रथमः सर्गः ॥
॥ श्रीसद्गुरु रामचंद्राय नमः ॥
श्रीरामदास उवाच अथ रामः सीतया स साकेते बंधुभिश्चिरम् । क्रीडां चकार विविधां दुर्लभां त्रिदशैरपि ॥ १ ॥ एकदा रघुवीरस्तु सोऽन्तर्वत्नीं विदेहजाम् । ज्ञात्वा धात्रीमुखात्तुष्टो ददौ दानान्त्यनेकशः ॥ २ ॥ ब्राह्मणान् भोजयामास कोटिशः प्रत्यहं मुदा । चकार नानालंकारान्नवीनान् रत्ननिर्मितान् ॥ ३ ॥ सीतायै दिव्यवासांसि हेमतूद्भवानि च । हरितान्यथ पीतानि रक्तानि चित्रितान्यपि ॥ ४ ॥ कारयित्वाऽथ कुशलैजनैः सूक्ष्माणि राघवः । विस्तृतान्यतिदीर्घाणि पुष्पवत्सुलघून्यपि ॥ ५ ॥ महर्घाण्यतिरम्याणि ददौ पत्न्यै मुदान्वितः । अथ मासे द्वितीयेऽह्नि रामो द्विजवरैः सह ॥ ६ ॥ वसिष्ठेन पुंसवनसंस्कारं विधिपूर्वकम् । स चकारोत्सवैर्दिव्यैः सीतायाः परमादरात् ॥ ७ ॥ सुमेधां जनकं चापि समाहूय सविस्तरम् । जनकः परमसन्तुष्टः सोऽन्तर्वत्नीं निजां सुताम् । ८ ॥ दृष्ट्वा पुंसवनोत्साहे सीतारामौ प्रपूजयत् । नानालंकारवासांसि हेमतन्तूद्भवानि च ॥ ९ ॥ हरितान्यथ पीतानि सूक्ष्माण्यथ लघूनि च । विस्तीर्णान्यथ दीर्घाणि सीतायै स ददौ मुदा ॥ १० ॥ हस्त्युष्ट्ररथतुरगान् दासीर्दासान्मनोरमान् । शिबिकाश्चापि वासांसि ददौ रामाय सादरम् ॥ ११ ॥ एवं संपूज्य श्रीरामं सीतां च जनकः स्त्रियाः । सम्मानितो राघवेण ययौ स्वां मिथिलां पुरीम् ॥ १२ ॥ अथ रामः सीतया स रेमे सन्तुष्टमानसः । गर्भातिभाराक्रांता सा सीता संन्यस्तभूषणा । १३ ॥ पांडुवर्णानना दीना कृशाऽपि नितरां बभौ । एकदा राघवं धात्र्या सूचयामास जानकी ॥ १४ ॥ ममेच्छाऽऽराममध्येऽद्य रतुमस्ति त्वया सह । तथोपवनमध्येऽपि साकेतनगराद्बहिः ॥ १५ ॥ तद्धात्र्यास्यात्प्रियावाक्यं श्रुत्वा चाहूय लक्ष्मणम् । रामोऽब्रवीच्छुभां वाच मधुरां स्मितपूर्विकाम् ॥ १६ ॥ हे सौमित्रेऽद्य सीताया जाताऽऽरामस्पृहास्ति हि । मया रंतुं ततस्त्वं हि सूचितोऽसि मयाऽधुना ॥ १७ ॥ तथेति रामवालयं सोऽप्युररीकृत्य लक्ष्मणः । गत्वा सभायामाहूय त्वरयामास सेवकान् ॥ १८ ॥ चित्रोष्णीषान्वेत्रपाणीन्प्राह वाक्यं स्मिताननः । कथनीयं हट्टमध्ये ह्यारामं याति जानकी ॥ १९ ॥ राघवेण ततो यूयं वणिजस्त्वरयन्त्विति । ततः सौमित्रिवचनाच्छ्रुत्वा ते वेत्रपाणयः ॥ २० ॥ चित्रोष्णीषा रुक्मदण्डा राजमार्गे चतुष्पथे । हट्टं वीथ्यामूर्ध्वहस्तास्तदा प्रोचुर्महास्वरैः ॥ २१ ॥ पौराश्च वणिजः सर्वे तथाऽन्ये व्यवसायिनः । शृण्वंतु हृष्टहृदयाः सीतोद्यानं प्रगच्छति ॥ २२ ॥ राघवेणाभ्यनुज्ञातैर्भवद्भिर्गम्यतां पुरः । एवं सर्वान्निवेद्याथ जग्मुस्ते लक्ष्मण चराः ॥ २३ ॥ दूतानाज्ञापयामास पुनः सौमित्रिरादरात् । वासोगेहानि चित्राणि ह्यारामेषु समंततः ॥ २४ ॥ कल्पनीयानि वेगेन शोधनीया भुवः शुभाः । जलयंत्राणि सर्वाणि शोधनीयानि सादरम् ॥ २५ ॥ मानामांगल्यवस्तूनि सुगंधीनि महान्ति च । स्थापनीयानि वै तत्र वस्त्राण्यतिलघूनि च ॥ २६ ॥ एवमादीन्यनेकानि कल्पनीयानि सादरम् । शृगारणीयाः प्रासादाः सर्वे ह्यारामसंभवाः ॥ २७ ॥ दिव्यवस्वैस्तोरणाद्येर्मुक्तागुच्छैर्विराजिताः । तथेति दूतास्ते सर्वे तथा चक्रुस्त्वरान्विताः ॥ २८ ॥ लक्ष्मणो राघवं गत्वा नत्वा तं प्राह सादरम् । उद्योगसमयोऽद्यैव वर्तते रघुनन्दन ॥ २९ ॥ कुर्यां सिद्धं हि किं यानं सीतायास्तव वा विभो । तत्सौमित्रेर्वचः श्रुत्वा जानकीं राघवोऽब्रवीत् ॥ ३० ॥ सीते यानं वदाद्य त्वं यत्ते मनसि रोचते । तद्रामवचनं श्रुत्वा शिबिकां प्राह जानकी ॥ ३१ ॥ रामोऽपि रोचयामास शिबिकामेव वै तदा । तच्छ्रुत्वा लक्ष्मणश्चापि शिबिके रत्नभूषिते ॥ ३२ ॥ हेस्तन्तूद्भवैर्वस्त्रैः सर्वत्र वेष्टिते शुभे । आनयामास दूतैः सन्मुक्ताजालविराजिते ॥ ३३ ॥ आरुरोहाथ श्रीरामः शिबिकां परया मुदा । ततः सीता पाण्डुरांगो परिमेयविभूषिता ॥ ३४ ॥ कृशांगयष्टिर्दासीभिर्दत्तहस्ता ययौ शनैः । शिबिकामारुरोहाथ पृष्ठलग्नोपबर्हणा ॥ ३५ ॥ दासीभिर्वीजिता चापि धृतार्थोऽङ्कपबर्हणा । दधार शिबिकामारुरोहाथ पृष्ठलग्नोपबर्हणा ॥ ३६ ॥ विगुफितं च मुक्ताभिः सीता स्वीयकरेण तम् । मुक्ताजालगवाक्षैश्च पश्यन्ती सा मुहुर्मुहुः ॥ ३७ ॥ राजमार्गगतान्येव कौतुकानि समन्ततः । ददर्श नृत्यं वेश्यानां सखीभिः परितो वृता ॥ ३८ ॥ ततस्ते बान्धवाः सर्वे बन्धुपत्न्यश्च मातरः । शिबिकासूपसंविष्टा दिव्यासु च पृथक् पृथक् ॥ ३९ ॥ अग्रे ते भ्रातरः सर्वे ततः सर्वाश्च मातरः । सीताद्याः बन्धुपत्न्यश्च सर्वेषां पुरतो गुरुः ॥ ४० ॥ एवं ते प्रययुः सर्वे पश्यन्तो राघवं मुहुः । ननृतुर्वारनार्यश्च नेदुर्वायान्यनेकशः ॥ ४१ ॥ तुष्टुवुर्बंदिनः सर्वे सीतां च रघुनायकम् । एव नानासमुत्साहैरारामं स ययौ मुदा ॥ ४२ ॥ राघवः सीतया युक्तः सैन्यैः सर्वत्र वेष्टितः । विवेश वासोगेहे स ससीतो रघुनन्दनः ॥ ४३ ॥ वासोगेहेषु सर्वे ते तस्थुः पौराः समन्ततः । हट्टाः समन्ततश्चासन्ननृतुर्वारयोषितः ॥ ४४ ॥ वासोगेहस्य सीताया भित्तयो वस्त्रनिर्मिताः । पञ्चक्रोशमितायामाश्चासन् विस्तारतोऽपि च ॥ ४५ ॥ पञ्चक्रोशमितारामे यत्र रेमे विदेहजा । ददर्श जानकी सम्यगाराम नृपसौख्यदम् ॥ ४६ ॥ रसालयं रसालेस्तैरशोकैः शोकवारणम् । तालैस्तमालैर्हिन्तालैः शालैः सर्वत्र शालितम् ॥ ४७ ॥ खपुरैः खपुराकारं श्रीफलैः श्रीफलं किल । गुरुश्रियं त्वगुरुभिः कपिपिगं कपित्थकैः ॥ ४८ ॥ वनश्रियः कुचाकारैर्लकुचैश्च मनोरमम् । सुधाफलसमारभिरंभाभिः परिभाषितम् ॥ ४९ ॥ सुरंगैश्चापि नारङ्गै रङ्गमण्डपवच्छ्रियः । वानीरैश्चापि जम्बीरैर्बीजपूरैः प्रपूरितम् ॥ ५० ॥ मन्दान्दोलितकर्पूरकदलीदलसंज्ञया । विश्रामाय श्रमापन्नानाह्वयतमिवाध्वगान् ॥ ५१ ॥ पुन्नाग इव पुन्नागपल्लवैः करपल्लवैः । कलयन्तमिवालोलैर्मल्लिकास्तबकस्तनम् ॥ ५२ ॥ विदीर्णदाडिमैः स्वांतं दर्शयन्ननुरागवत् । माधवीधवरूपेण श्लिष्यंतमिव कानने ॥ ५३ ॥ उदुम्बरैरवरररैरनतफलशालिभिः । check this line ब्रह्मांडकोटिबिभ्रन्तमनन्तमिव सर्वतः ॥ ५४ ॥ पनसैर्वननासाभैः शुकनासैः पलाशकैः । फलाशनाद्विरहिणां पत्रत्यक्तैरिवावृतम् ॥ ५५ ॥ कदंबवादिनो नीपान्दृष्ट्वा कंटकितैरिव । समन्ततो भ्राजमानं कंबककंबकैः ॥ ५६ ॥ नमेरुभिश्च मेरोश्च शिखरैरिव राजितम् । राजादनैश्च मदनैः सदनैरिव कामिनाम् ॥ ५७ ॥ समन्ततः पटुबटैरुच्चैः पटकुटीकृतम् । कुटजस्तबकैर्भातमधिष्ठितबकैरिव ॥ ५८ ॥ करमर्दैः करीरैश्च करजैश्च कंबकैः । सहस्रकरवद्भातमर्थिप्रत्युद्गतैः करैः ॥ ५९ ॥ नीराजितमिवोद्दीपै राजचम्पककोरकैः । सपुष्पशाल्मलीभिश्च जितपद्माकरश्रियम् ॥ ६० ॥ क्वचिच्चलदलैरुच्चैः क्वचित्काञ्चनकेतकैः । कृतमालैर्नक्तमालैः शोभमानं क्वचित् क्वचित् ॥ ६१ ॥ कर्कन्धुबन्धुजीवैश्च पुत्रजीवैर्विराजितम् । सतिंदुकेङ्गदीभिश्च करुणैः करुणालयम् ॥ ६२ ॥ गलन्मधूककुसुमैर्धरारूपधरं हरम् । स्वहस्तमुक्तमुक्ताभिरर्पयतमिवानिशम् ॥ ६३ ॥ सर्जार्जुनाञ्जनैर्वीजैर्व्यजनैर्वीज्यमानवत् । नारिकेलैः सखर्जूरैर्धृतच्छत्रमिवांबरेः ॥ ६४ ॥ अमंदैः पिचुमन्दैश्च मदारैः कोविदारकैः । पाटलातिंतिणीघोंटाशाखोटैः करहाटकैः ॥ ६५ ॥ उद्दण्डैश्चापि शेहुण्डैर्गुडपुष्पैर्विराजितम् । बकुलैस्तिलकैश्चैव तिलकांकितमस्तकम् ॥ ६६ ॥ अक्षैः प्लक्षैः सल्लकीभिर्देवदारुहरिद्रुमैः । सदाफलसदापुष्पवृक्षवल्लिविराजितम् ॥ ६७ ॥ एलालवंगमरिचकुलंजनवनावृतम् । जम्ब्वाम्रातकभल्लातशेलुश्रीपर्णिवर्णितम् ॥ ६८ ॥ शाकशंखवनं रम्यं चन्दनै रक्तचदनैः । हरीतकीकर्णिकारधात्रीवनविभूषितम् ॥ ६९ ॥ द्रावावल्लीनागवल्लीकर्णवल्लीशतावृतम् । मल्लिकायूथिकाकुंदमदयंतीसुगधितम् ॥ ७० ॥ तुलसीवृक्षषण्डैश्च शिक्त्वगस्तिद्रुमैर्युतम् । भ्रमद्भ्रमरमालाभिर्मालतीभिरलंकृतम् ॥ ७१ ॥ अलिच्छलागतं कृष्णं गोपी रंतुमनेकशः । सुगंधवातं सुखदं कामसञ्जनकं परम् ॥ ७२ ॥ नानामृगगणाकीर्णं नानापणिनिनादितम् । नानासरित्सरःस्रोतैः पल्वलैः परितो वृतम् ॥ ७३ ॥ उत्सृजन्तमिवार्थं वै पतत्पुष्पैरितस्ततः । केकिकेकारवैर्दूरात्कुर्वन्तं स्वागतं किल ॥ ७४ ॥ एतादृशं ह्युपवनं जानकी तद्ददर्श सा । तुष्टाऽभूद्दर्शनेनैव विचचार त्वितस्ततः ॥ ७५ ॥ इति श्रीशतकोटिरामचरितांतर्गते श्रीमद् आनन्दरामायणे वाल्मीकीये जन्मकाण्डे प्रथमः सर्गः ॥ १ ॥ श्रीसीतारामचन्द्रार्पणमस्तु |