॥ श्रीवाल्मीकिमहामुनिकृत शतकोटिरामचरितान्तर्गतं ॥

॥ आनन्दरामायणम् ॥

यागकाण्डम्

॥ प्रथमः सर्गः ॥
[ यागोपकरणनिवेदनम् ]

॥ श्रीसद्‌गुरु रामचंद्राय नमः ॥


श्रीरामदास उवाच -
अथ रामः सभामध्ये एकदा गुरुमब्रवीत् ।
कुम्भोदरमुनेर्वाक्यात्तीर्थयात्रा मया कृता ॥ १ ॥
इदानीं तस्य वाक्येन वाजिमेघ करोम्यहम् ।
यज्ञोपकारणानि त्वं लक्ष्मणाय वदस्व हि ॥ २ ॥
सुमुहूर्ते शुभे लग्ने श्यामकर्णाघ्रिपुच्छकः ।
तुरङ्गो दिव्यवस्त्राद्यैर्भूषियित्वा विमुच्यताम् ॥ ३ ॥
पृथ्वीप्रदक्षिणार्थं हि तत्पृष्ठेऽयुतसंख्यया ।
सेनया सह शत्रुघ्नः सुमंत्रेण सहाचिरात् ॥ ४ ॥
तद्‌रामवचनं श्रुत्वा वसिष्ठो मुनिसत्तमः ।
ज्योतिर्वित्सहितो दृष्ट्वा सुमुहूर्तं शुभोदयम् ॥ ५ ॥
आज्ञापयत्स सौमित्रिं सभायां राजसन्निधौ ।
सौमित्रेऽद्यदिनाज्ज्ञेयौ मुहूर्तः सप्तमेऽहनि ॥ ६ ॥
दीक्षार्थं रामचन्द्रस्य वाजिमेधाख्यकर्मणि ।
रामतीर्थे यज्ञभूमिः शोधनीया हलादिभिः ॥ ७ ॥
सुवर्णनिर्मितैर्दिव्यैर्ब्राह्मणैः सह सत्वरम् ।
दशक्रोशमिताऽयोध्याबहिः सर्वत्र लक्ष्मण ॥ ८ ॥
समा कर्करहीना तु लिप्ता चन्दनजातिभिः ।
मण्डपश्च विधातव्यः सर्वत्राखण्डितः शुभः ॥ ९ ॥
जम्ब्वाम्रादिनगानां च शाखाभिः कुसुमैरपि ।
पल्लवैश्च विचित्रैश्च कदलीस्तम्भमण्डितः ॥ १० ॥
समन्ततस्तोरणानि बन्धनीयानि यत्‍नतः ।
पुष्पहाराः फलादीनां मालाश्च विविधा शुभाः ॥ ११ ॥
वेद्यः सहस्रशः कार्याः सुधया चेष्टकादिभिः ।
करणीयं महत्कुण्डं सत्सान्निध्येन मृन्मयम् ॥ १२ ॥
कुण्डोपरि महत् कार्यं गोमुखं च मनोरमम् ।
खदिरस्य विचित्रं हि वसोर्धारार्थमुत्तमम् ॥ १३ ॥
सितरक्तासितैश्चैव नीलपीतादिभिः शुभः ।
नानादृषदचूर्णेश्च ह्युपधातुविनिर्मितैः ॥ १४ ॥
नानावर्णैर्विलेख्यानि स्वस्तिकानि समन्ततः ।
कमलानि विचित्राणि तथा ह्यष्टदलानि च ॥ १५ ॥
शङ्खचक्रगदापद्मवल्लयश्च सहस्रशः ।
कुसुमानि विकीर्याणि यज्ञभूम्यां समन्ततः ॥ १६ ॥
चतुर्विंशच्छुभाः कार्या यज्ञस्तम्मामहोच्छ्रिताः।
विनिर्मिताः सुवर्णेन मुक्ताहारविगुंफिताः ॥ १७ ॥
त्रितयं सर्वतोभद्रं कुण्डमध्येऽश्वदैवतम् ।
लेखनीयं तथा कुण्ड नानावणैर्विचित्रितम् ॥ १८ ॥
द्रुतं कार्याणि पात्राणि यज्ञार्थं मम पश्यतः ।
हैमाः किलोपकरणा वरुणस्य यथाऽध्वरे ॥ १९ ॥
आसनानि ऋषीणां च निद्रार्थं च सहस्रशः ।
वासोगेहानि कार्याणि तृणैः पर्णैश्च खर्परैः ॥ २० ॥
पाकशाला विधातव्या कार्या शालाऽशनस्य च ।
ऋषिशाला विधातव्याःस्त्रीशालाश्च शुभावहाः ॥ २१ ॥
यज्ञोपकरणानां च शाला परमसुन्दरी ।
सभाः कार्या नृपाणां च वरवस्त्रैर्विचित्रिताः ॥ २२ ॥
आसनार्थ महार्हाणि वस्त्राणि च समन्ततः ।
आस्तीर्याणि तथा राजपृष्ठभागाश्रयाणि च ॥ २३ ॥
पक्षिपिच्छैः सुकार्पासभेदैः सम्पूरितानि हि ।
कशिपूपबर्हणानि विचित्राणि महान्ति च ॥ २४ ॥
स्थापनीयानि सदसि महार्हाषि तु लक्ष्मण ।
स्थापनीयानि पानार्थं पात्राणि विविधानि च ॥ २५ ॥
नानारसैः पूरितानि तथा पक्वफलादिभिः ।
नानासुगन्धद्रव्यैश्च रागैर्नानाविधैरपि ॥ २६ ॥
मद्यैर्विचित्रैर्मधुरैस्तथा मादकवस्तुभिः ।
नानासुगंधतैलैश्च काचकुम्भाः सहस्रशः ॥ २७ ॥
स्थापनीयाश्चन्दनैश्च सुगंधैरक्षतादिभिः ।
नानोपस्करयुक्तानां ताम्बूलानां सहस्रशः ॥ २८ ॥
स्थापनीयानि पात्राणि चामराणि सहस्रशः ।
व्यंजनानिविचित्राणि तथादर्शाविचित्रिताः ॥ २९ ॥
स्थापनीयाश्च क्रीडार्थं क्रीडोपकरणानि च ।
स्थापनीयानि सदसि नृपाणां चित्रितानि च ॥ ३० ॥
मृत्पात्रसम्भवाः कार्याः शतशः पुष्पवाटिकाः ।
जलयन्त्राणि कार्याणि सर्वत्र विविधानि च ॥ ३१ ॥
नानाविचित्रवर्णानां वयसां पंजराः शुभाः ।
हेमरत्‍नमौक्तिकैश्च प्रवालैर्वसनेर्वरैः ॥ ३२ ॥
कमनीयाश्च भूषाभिस्तोयान्नाद्यैः प्रपूरिताः ।
बन्धनीया मण्डपेषु नर्तितव्योऽप्सरोगणः ॥ ३३ ॥
धूपयन्तु सुधूपाश्च सुगायन्तु हि गायकाः ।
वादनीयानि वाद्यानि बहूनि विविधानि च ॥ ३४ ॥
पूजोपकरणाद्यैश्च पात्राणि पूरितानि हि ।
पृथक् पृथक् सभास्वेव स्थापनीयानि लक्ष्मण ॥ ३५ ॥
तथा ऋषिसभायां तु दर्भाश्च समिधस्तथा ।
दण्डाः कमण्डलुयुताः स्थापनीयाः सहस्रशः ॥ ३६ ॥
बहिर्वासाँश्च कौपीनान् वल्कलान्यजिनानि च ।
पूजाद्रव्याणि हव्यानि जलकुम्भाः सहस्रशः ॥ ३७ ॥
शौचार्थं मृत्तिकाः शुद्धा दंतकाष्ठानि पादुकाः ।
गैरिका मुखयुद्ध्यर्थं नानाऽवस्तूनि कल्पय ॥ ३८ ॥
तथा नारीसभायां तु पूजापात्राण्यनेकशः ।
सौभाग्यद्रव्यपूर्णानि सुगन्धेः पूरितान्यपि ॥ ३९ ॥
वायनानि विचित्राणि स्थापनीयानि लक्ष्मण ।
कबर्यः कञ्जलानां च पात्राणि कुंकुमानि च ॥ ४० ॥
करंडस्थानि रम्याणि भूषणान्युज्ज्वलानि च ।
हरिद्रादीनि वस्तूनि कंचुक्यो वसनानि च ॥ ४१ ॥
स्थापनीयानि व्यजनचामरादीनि सादरम् ।
सुहृदां लेखनीयानि पत्राणि च समंततः ॥ ४२ ॥
राममुद्रांकितान्यद्य तथा दूता महाजवाः ।
जनकाय प्रेषणीयाः कैकेयनृपसन्निधौ ॥ ४३ ॥
कौसल्यायाः सुमित्रायाः पितरौ प्रति लक्ष्मण ।
श्यामांघ्रिः श्यामकर्णश्च श्यामपुच्छः सितः शुभः ॥ ४४ ॥
महार्द्राभरणैर्वस्त्रैदिव्यवीरासनेन च ।
शोभनीयश्चामराद्यैर्मुक्ताहारैर्मेनोरमैः ॥ ४५ ॥
हेमीभिः शृङ्खलाभिश्च वेणीबन्धविभूषणैः ।
तस्य भाले हेमपत्रे लेखनोयं स्फुटाक्षरैः ॥ ४६ ॥
कोसलेन्द्रस्य रामस्य यज्ञाङ्गतुरगो ह्ययम् ।
ज्ञेयः सर्वैनृपैर्मुक्तः कर्तु भूम्याः प्रदक्षिणाम् ॥ ४७ ॥
यस्यास्ति सारं तेनाश्वो बन्धनीयोऽयमुत्तमः ।
नोचेत् कोशांश्च निजान् पुरस्कृत्य बलैः सह ॥ ४८ ॥
स्वकुटुम्बैर्नागरैश्च तथा जानपदैः सह ।
आगन्तव्यं नृपतिभिर्यज्ञांगाश्वानुवर्तिभिः ॥ ४९ ॥
यज्ञभूमिमयोध्यायां युद्धैर्जित्वा महोद्धतान् ।
एवं पत्रं बन्धयित्वा मुक्तामणिविचित्रितैः ॥ ५० ॥
प्रवतंसैः शोभयित्वा सिद्धः कार्यश्च मंडपे ।
सिद्धः कार्यः स शत्रुघ्नः सैन्येन परिवेष्टितः ॥ ५१ ॥
रथारुःढोऽश्वरक्षार्थं सुमंत्रेण समन्वितः ।
नानापुण्यनदीनां च जलकुम्भान् सहस्रशः ॥ ५२ ॥
नानादेशान्मृदश्चापि शत्रुघ्नेनानयस्व हि ।
शोभनीया पुरी रम्या पताकाध्वजतोरणैः ॥ ५३ ॥
देवालये सुधा देया तथा प्रासादमस्तके ।
देवालयाभ्यन्तरेऽद्य चित्रशाला मनोरमाः ॥ ५४ ॥
लेखनीया विधातव्या रत्‍नदीपाः सदैव हि ।
पूजोपकरणादीनि प्रतिदेवालयेष्वपि ॥ ५५ ॥
स्थापयस्व समस्तानि वाद्यान्याज्ञापयस्व भोः ।
राजमार्गाः शोधनीयाः सेचनीपाश्च चन्दनैः ॥ ५६ ॥
सौधराजिषु सर्वत्र चित्राणि विविधानि च ।
लेखनीयानि रम्याणि मुक्ताहाराः समंततः ॥ ५७ ॥
प्रवालमणिवैदूर्यकाश्मीरस्फटिकादिभिः ।
नानाविधाश्च कुसुमैर्हाराः पक्वफलादिभिः ॥ ५८ ॥
बन्धनीयाश्च सर्वत्र जालरन्ध्रैर्विशेषतः ।
एवं यद्यन्मया प्रोक्तं तत्कुरुष्वाविचारतः ॥ ५९ ॥
तद्गुरोर्वचनं श्रृत्वा तथेत्युक्त्वा स लक्ष्मणः ।
कारयामास तत्सर्वं गुरोर्वाक्याच्छताधिकम् ॥ ६० ॥
इति श्रीशतकोटिरामचरितान्तर्गत श्रीमद् आनन्दरामायणे
वाल्मीकीये यागकाण्डे यागोपकरणनिवेदनं नाम प्रथमः सर्गः ॥ १ ॥



श्रीसीतारामचन्द्रार्पणमस्तु

GO TOP