॥ श्रीवाल्मीकिमहामुनिकृत शतकोटिरामचरितान्तर्गतं ॥

॥ आनन्दरामायणम् ॥

यात्राकाण्डम्

॥ नवमः सर्गः ॥
[ रामोत्तरयात्रान्तनगरप्रवेशः ]

॥ श्रीसद्‌गुरु रामचंद्राय नमः ॥


रामदास उवाच
उत्तराभिमुखो समस्ततः पश्यन् स्थलानि सः ।
ययौ पर्वततीर्थं च ततो ज्वालामुखीं ययौ ॥ १ ॥
पश्यन्स्थलानि संप्राप तप्तां श्रीमणिकर्णिकाम् ।
करतोयानदीतोये स्नात्वा न ययौ विभुः ॥ २ ॥
तरणे दोषमाकर्ण्य पर्यवर्तत राघवः ।
कर्मनाशनदीस्पर्शात्करतीयाविलंघनात् ॥ ३ ॥
गंडकीबाहुतरणाद्धर्मः स्खलति कीर्तनात् ।
गत्वा देवप्रयागं चालकनंदातटेन वै ॥ ४ ॥
नरनारायणौ गत्वा दर्शनान्मुक्तिदौ नृणाम् ।
बदरिकाश्रमे रामः केदारेश विलोक्य सः ॥ ५ ॥
हिमाद्रौ देवगधर्वसेविते धातुमंडले ।
महापथं ततो गत्वा ययौ तन्मानसं सरः ॥ ६ ॥
यस्माद्विनिर्गता गंगा सरयूः पापनाशिनी ।
कंजानि यत्र हैमानि यत्र हंसाः सहस्रशः ॥ ७ ॥
रक्तनेत्रांघ्रिवदना मुक्ताभक्षणतत्पराः ।
यत्प्रदेशे चित्रभूम्यां देवगंधर्वकिन्नराः ॥ ८ ॥
अप्सरोभिस्तथा स्त्रीभिः क्रीडां कुर्वत्यहनिशम् ।
तत्र स्नात्वा मानसेऽथ गत्वा बिन्दुसरोवरम् ॥ ९ ॥
स्नात्वा दानादिकं कृत्वा हिमालयगिरिस्थिताम् ।
दृष्ट्‍वा ब्रह्मसभां दिव्यां मेरुस्थसदृशीं पराम् ॥ १० ॥
राघवः सीतया सर्वैरवरुह्य स पुष्पकात् ।
प्रणमंतं सुरेंद्राद्यैरालिंग्य चतुराननम् ॥ ११ ॥
ब्रह्मणा सहितान्देवान् पूजयामास विस्तरैः ।
विधिस्तं पूजयामास कामधेनुं न्यवेदयत् ॥ १२ ॥
विमानाग्रे कामधेनु संस्थाप्य रघुनंदनः ।
सुरैर्ब्रह्मादिभिः साकं कैलासमगमत्तदा ॥ १३ ॥
राममागतमाज्ञाय कैलासे गिरिजापतिः ।
ग्रत्युञ्जगाम पार्वत्या रामचंद्र वृषस्थितः ॥ १४ ॥
शंभुमागतमाज्ञाय राघवः पुष्पकाञ्जवात् ।
अवरुह्य नमस्कृत्य शिवेनालिंगितः स्थितः ॥ १५ ॥
उमाऽपि सीतामालिंग्य दिव्यालंकारचदनैः ।
पूजयामास वस्त्राद्यैः सूर्यकोटिसमप्रभैः ।
ताटंके नूपुरे दिव्ये केयूरे चूडकद्वयम् ॥ १६ ॥
किंकिणीरवसंयुक्तरशनां चंद्रभास्करौ ।
सीमंतभूषणौ हारान्मणिमुक्ताविचित्रितान् ॥ १७ ॥
ददौ जनकनंदिन्यै पार्वती तोषपूरिता ।
त‍तः शंभुस्तदा प्राह राघव पूज्य वैभवैः ॥ १८ ॥
राम त्वन्नाभिकमले ब्रह्माऽयं चतुराननः ।
ततो जातो विधेश्चाहं रोदनाद्‌रुद्रसंज्ञकः ॥ १९ ॥
पौत्रस्तव रघुश्रेष्ठ तवाज्ञापरिपालकः ।
संहारः क्रियते राम आज्ञया तव सादरात् ॥ २० ॥
यदा मया तु प्रलये तदा पापं क्व ते गतम् ।
यद्दशास्यवधाद्भीतस्तीर्थयात्रां करोषि हि । २१ ॥
क्रीडेयं तव राजेंद्र सुखं क्रीडस्व सीतया ।
क्रियते लोकशिक्षार्थ जानामि तव चेष्टितम् ॥ २२ ॥
एवं नानाविधैस्तस्य चारित्र्यैरीड्य राघवम् ।
ददौ सिंहासनं छत्रं चामरे मंचकोत्तमम् ॥ २३ ॥
पानपात्रं भोजनस्य पात्र हैमं मनोरमम् ।
कंकणे कुण्डले बाहुभूषणे मुकुटोत्तमम् ॥ २४ ॥
रामं प्रस्थापयामास बद्ध्वा चिन्तामणिं हृदि ।
हृदि चिन्तामणिं दृष्ट्‍वा राघवस्य विदेहजा ॥ २५ ॥
प्राहातिलज्जिता रामं गौर्मे चिन्तामणिस्तव ।
तथेति राघवोऽप्युक्त्वा विमानेन जनैः सह ॥ २६ ॥
ययौ नत्वा शंकरं हि कृत्वा यज्ञार्थसूचनाम् ।
आकारयित्वाऽथ विधिं मासैकेनाध्वराय हि ॥ २७ ॥
भागीरथ्यास्तटेनैव हरिद्वारं ययौ जवात् ।
कुरुक्षेत्रं विगाह्याथ इन्द्रप्रस्थं ततो ययौ ॥ २८ ॥
दृष्ट्‍वा मधुवनं रम्यं ययौ वृन्दावनं ततः ।
गोकुल वीक्ष्य रामस्तु गोवर्धनमगाच्छनैः ॥ २९ ॥
गत्वाऽथावंतिकां पुण्यां क्षिप्रतिरिविराजिताम् ।
महाकाल पुरस्कृत्य पश्यंस्तीर्थान्यनेकशः ॥ ३० ॥
दृष्ट्‍वा गजाह्वयं क्षेत्रं सागरं कूपमीक्ष्य च ।
ययौ स नैमिषारण्ये गोमत्यां स विगाह्य च ॥ ३१ ॥
सूतं पौराणिकं दृष्ट्‍वा शौनकादीन् प्रपूज्य च ।
स्नात्वा तद्‌ब्रह्मवैवर्तसरस्यथ रघूत्तमः ॥ ३२ ॥
तमसां तां विगाह्याथ ददर्श नगरीं निजाम् ।
राममागतमाज्ञाय सुमंत्रो वेगवत्तरः ॥ ३३ ॥
अयोध्यां भूषयामास प्रोच्चैर्नानाविधध्वजैः ।
तोरणैश्च पताकाभिः पुष्पहारैमनोरमैः ॥ ३४ ॥
शोधयित्वा राजामार्गान् सेचयित्वा तु चंदनं ।
विकीर्णकुसुमैदिव्यैर्बलिदीपैर्विराजितान् ॥ ३५ ॥
वारणेंद्रं पुरस्कृत्य सेनया परिवेष्टितः ।
प्रत्युज्जगाम राजेन्द्रं पुष्पकस्थं त्वरान्वितः ॥ ३६ ॥
दंडवत्प्रणिपत्याथ दत्त्वा चोपायनानि तत् ।
आलिंगितो राघवेण मेने स कृतकृत्यताम् ॥ ३७ ॥
ततो वाद्यनिनादैश्च नर्तनैर्वारयोषिताम् ।
वेदघोषैर्द्विजानां च रामतीर्थं ययौ शनैः ॥ ३८ ॥
स्नात्वा तत्सरयूतोये यत्र तीर्थं सुपुण्यदम् ।
स्वयमेव कृतं पूर्व नित्यकर्मार्दमादरात् ॥ ३९ ॥
वसिष्ठोक्तविधानेन कृत्वा चैकमुपोषणम् ।
दधिश्राद्धं विधायाथ दत्त्वा दानान्यनेकशः ॥ ४० ॥
तृतीये दिवसे रामो विमानेन विहायसा ।
पुर्या विलंघ्य प्राकारान् हेमरत्नविनिर्मितान् ॥ ४१ ॥
अयोध्यां शोभितां रम्यां गोपुराट्टालमंडिताम् ।
वीथीहट्टसमायुक्तां चतुष्पथविराजिताम् ॥ ४२ ॥
पश्यन् स्वीयं राजसभाद्वारं प्राप रघूत्तमः ।
यानं भूमंडलं प्राप्य सुखमासीत्स्थिरं तदा ॥ ४३ ॥
ततः सुमंत्रपत्नीभिर्दध्योदनविनिर्मिताः ।
बलयः कांस्यपात्रस्था जलतैलघटास्तथा ॥ ४४ ॥
सीताराघवयोर्देहादुत्तार्य शतशस्तदा ।
नीत्वा त्यक्त्वा विदूरे तु स्नात्वा रामगृहं ययुः ॥ ४५ ॥
ततो रामो विमानाग्र्यादवरुह्य स बंधुभिः ।
नागरैस्तेर्नृपतिभिः सभायां संविवेश ह ॥ ४६ ॥
तस्थौ सिंहासने रामश्चिंतामणिविराजितः ।
तस्थुर्नृपाः सभायां श्रीराघवेणातिमानिताः ॥ ४७ ॥
सीताऽपि निजगेहं सा विचित्ररत्ननिर्मितम् ।
कामधेनुं पुरस्कृत्य प्रविवेशातिहर्षिता ॥ ४८ ॥
ततो रामः कामधेनुसंभूतैतपाचितैः ।
परमान्नैः षड्‌रसैश्च भोजयामास भूसुरान् ॥ ४९ ॥
अचांडालांस्तर्पयित्वा स्वयं कृत्वाऽशनं तदा ।
निद्रार्थं नृपतीन् याने स्थलमाज्ञापयत्तदा ॥ ५० ॥
पंचरात्रं नृपान् प्रीत्या स्थापयित्वा स्वसन्निधौ ।
वस्त्रालंकारतुरगैस्तोषयित्वा सविस्तरम् ॥ ५१ ॥
तान् प्रोवाच रमानाथः प्रबद्धकरसंपुटान् ।
मम यज्ञांगतुरगं दृष्ट्‍वा तत्पृष्ठगैः पुनः ॥ ५२ ॥
आगन्तव्यं जानपदैः स्वसैन्यैर्नागरैः सह ।
इत्याज्ञां रघुवीरस्य ह्यंगीकृत्य नृपोत्तमाः ।
ययुः स्वं स्वं पुरं देशं स्वबलैः परिवेष्टिताः ॥ ५३ ॥
सुग्रीवाद्यान्वानरांश्च परिवारसमन्वितान् ।
आज्ञापयित्वा सद्मानि स्थापयामास स्वांतिके ॥ ५४ ॥
वाजिमेधानन्तरं हि प्रेषयिष्याम्यहं त्विति ।
ततो दुंदुभिनिर्घोषं स्वपुर्यां घोषयत्तदा ॥ ५५ ॥
अद्यारभ्य जनैः सर्वैरयोध्यानगरीस्थितैः ।
यैः कैश्चिदत्र पथिकैर्भिन्नपाकैर्न भुज्यताम् ॥ ५६ ॥
यावत्करोम्यहं भूम्यां राज्यं सीतासमन्वितः ।
निजगार्हस्थ्यमालंब्य ये वर्तन्ते नरोत्तमाः ॥ ५७ ॥
ते कुर्वन्तु सुखं पाकं स्वस्वगेहेषु भक्तितः ।
निर्बन्धो मम न ज्ञेयो वर्तितव्यं यथासुखम् ॥ ५८ ॥
इत्याज्ञाप्य जनान् रामः सुखतस्थौ स सीतया ।
अयोध्यायां तु सर्वत्र वेदघोषो गृहे गृहे ॥ ५९ ॥
मंगलानि समुत्साहा नर्तनं वारयोषिताम् ।
बभूवुश्च पुराणानि कीर्तनानि हरेः कथाः ॥ ६० ॥
एवमासीत्सुसंतुष्टा साकेतनगरी शुभा ।
एवं प्रोक्तं मया शिष्य यात्राकाण्डमनुत्तमम् ॥ ६१ ॥
ये शृण्वंति नरा भक्त्या तेषां यात्राफलं भवेत् ।
यात्राधनार्जनोद्योगे यात्राकाण्डमिदं वरम् ॥ ६२ ॥
पठित्वा ये तु गच्छंति सुखेनायांति ते गृहम् ।
ब्रह्महत्यादिपापानि कृतानि मानवैः सकृत् ॥ ६३ ॥
यात्राकांडमिदं जप्त्वा शुद्धिस्तेभ्यो भविष्यति ।
सर्वतीर्थावगाहैश्च यत्फलं परिकीर्तितम् ॥ ६४ ॥
यात्राकाण्डमिदं श्रत्वा तत्फलं प्रतिपद्यते ।
धनार्थी धनमाप्नोति कामी कामानवाप्नुयात् ॥ ६५ ॥
पापी पूतो भवेत्सद्यो यत्राकाण्डश्रवादिना ।
यः कश्चित्प्रातरुत्थाय कृतशौचविधिर्नरः ॥ ६६ ॥
तीर्थानां च वरं काण्डमिदं पुण्यं पठिष्यति ।
तस्य रामश्च संतुष्टः पूरयिष्यति वांछितम् ॥ ६७ ॥
सर्वतीर्थावगाहस्य फल तस्य भवेद्ध्रुवम् ।
यानि कानि च पापानि जन्मांतरकृतानि च ॥ ६८ ॥
तानि सर्वाणि नश्यन्ति यात्राकाण्डश्रवादिना ॥ ६९ ॥
इति श्रीशतकोटिरामचरितांतर्गत
श्रीमदानन्दरामायणे वाल्मीकीये यात्राकाण्डे
रामोत्तरयात्रान्तनगरप्रवेशो नाम नवमः सर्गः ॥ ९ ॥
यात्राकाण्डे च सर्गा वै नव प्रोक्ता मनीषिभिः ।
पंचत्रिंशोत्तराः सप्तशतश्लोका भवापहाः ॥ १ ॥



श्रीसीतारामचन्द्रार्पणमस्तु

GO TOP