॥ श्रीवाल्मीकिमहामुनिकृत शतकोटिरामचरितान्तर्गतं ॥

॥ आनन्दरामायणम् ॥

विवाहकाण्डम्

॥ नवमः सर्गः ॥
[ रामवंशविस्तारकथनम् ]

॥ श्रीसद्‌गुरु रामचंद्राय नमः ॥


श्रीरामदास उवाच
गत्वाऽयोध्यापुरीं दूता रामं वृत्तं न्यवेदयन् ।
रामोऽपि श्रूत्वा तद्वृत्तं सीतायै संन्यवेदयत् ॥ १ ॥
ततो मुहूर्ते श्रीरामः सावरोधानुजैः सह ।
पौरैर्जानपदैः सर्वैः सुहृद्‌भिः सेनया सह ॥ २ ॥
नारदेन ययौ कांतिमाद्यां मुक्तिपुरीं प्रति ।
ततः श्रुत्वा कंबुकंठः शीघ्रं राघवमागतम् ॥ ३ ॥
स प्रत्युद्‌गम्य विनयान्नत्वा संपूजयन्मुदा ।
यपूकेतु ततः पूज्य वारणस्थं पुरीं शनैः ॥ ४ ॥
वारस्त्रीनृत्यगीतैश्च तूर्यघोषैर्निनाय सः ।
ततः कांतिपुरीस्थास्ताः स्त्रियः प्रासादसंस्थिताः ॥ ५ ॥
दृष्ट्‍वा रामं यूपकेतुं ववर्षुः पुष्पवृष्टिभिः ।
ततो रामः शनैर्वस्तुं कल्पितं गृहमुत्तमम् ॥ ६ ॥
गत्वा दृष्ट्‍वा मुहूर्तं तु पूर्वोक्तकौतुकैः सुखम् ।
यृपकेतोर्विवाह स चकार परमोत्सवैः ॥ ७ ॥
ततो विवाहं निर्वृत्य कंबुकंठेन पूजिताः ।
हस्त्यश्वरथपादातदासदासीजनादिभिः ॥ ८ ॥
ययौ मदनसुन्दर्या रामोऽयोध्यापुरीं निजाम् ।
ततो विवेश नागरीं नेदुर्वाद्यानि वै तदा ॥ ९ ॥
ननृतुर्वारनार्यश्च तुष्टुवुर्मागधादयः ।
प्रासादस्थाः स्त्रियो रामं ववर्षुः पुष्पवृष्टिभिः ॥ १० ॥
मार्गे नीराजितः स्त्रीभिर्विवेश निजमन्दिरम् ।
कारयित्वा रमापूजां ददौ दानान्यनेकशः ॥ ११ ॥
सुहृदः पूजयामास राघवो वसनादिभिः ।
ततो विसर्जयामास सर्वान्स्वस्वस्थलं प्रति ॥ १२ ॥
अथ सप्त कुमाराश्च लवाद्याः स्वस्ववेश्मनि ।
चक्रुः क्रीडां पृथक् स्त्रीभ्यां कुशश्चंपिकयाऽकरोत् ॥ १३ ॥
चंपिकायां दुहितरः कुशाञ्जाताः शुभा नव ।
कुशस्याग्रे कुमुद्वत्यां भविष्यंत्यष्ट सूनवः ॥ १४ ॥
भविष्यति तथा कन्या त्वेका चंपकमालिनी ।
ज्येष्ठः पुत्रोऽतिथिरिति नाम्ना राज्यं करिष्यति ॥ १५ ॥
चतुर्दश सुमत्याद्याः स्त्रियः सर्वाः क्रमेण हि ।
सुषुवुस्तनयानष्ट कन्यैकाऽपि पृथक् पृथक् ॥ १६ ॥
स द्वादशशतं पौत्रान्पौत्रीश्चैव मनोरमाः ।
त्रयोविंशद्‍रामचन्द्रो लालयामास सीतया ॥ १७ ॥
कुमुद्वतीभाविपुत्रसहिताः शिशवः शुभाः ।
विंशच्छतमासंस्ते तथा पौत्र्यस्तडित्प्रभाः ॥ १८ ॥
चतुर्विशन्मिताश्चासन् सर्वाश्चोद्वाहिता नृपैः ।
तथा श्रीरामपौत्रैश्च नृपकन्या ह्यनेकशः ॥ १९ ॥
काश्चित्स्वयंवरेणैव काश्चिद्‍राक्षसयोगतः ।
काश्चिद्‍गांधर्वयोगेन काश्चिद्वैवाहकर्मणा ॥ २० ॥
परिणीताः पौरुषेण तासां संख्या न विद्यते ।
तासां हि संततिं वक्तुं कः समर्थो भवेदिह ॥ २१ ॥
एवं स यूपकेतोश्च विवादश्चरमः शुभः ।
संपाद्य नारदः श्रीमान्सभायां रघुनन्दनम् ॥ २२ ॥
रामनामसहस्रेण सूतोक्तनातिभक्तितः ।
स्तुत्वा श्रीराघव पृष्ट्‍वा ययावाकाशवर्त्मना ॥ २३ ॥
श्रीरामदास उवाच
एवं रामेण साकेतपुर्यां भोगाश्चिरं सुखम् ।
भुक्तास्तेषां वर्णनेऽत्र कः समर्थो भवेन्नरः ॥ २४ ॥
एक एव समर्थोऽभूद्वाल्मीकिस्तपसा निधिः ।
शतकोटिमितं येन नानाक्रीडादिसंयुतम् ॥ २५ ॥
वर्णितं रामचरितं महामंगलकारकम् ।
यत्स्मृत्वापि मया किंचित्त्वदग्रे परिवर्णितम् ॥ २६ ॥
एवं रामस्त्वयोध्यायां पुत्रैः पौत्रे समन्वितः ।
प्रपौत्रैः पौत्रपौत्रैश्च रंजयामास जानकीम् ॥ २७ ॥
एवं विवाहकाण्डं च शिष्य त्वा परिवर्णितम् ।
नवसर्गैः पवित्रं च श्रवणान्मंगलप्रदम् ॥ २८ ॥
विवाहकाण्डं परमं ये शृण्वत्यपि मानवाः ।
तै स्त्रीभिः पुत्रपौत्रैश्च वियोगं नाप्नुवंति हि ॥ २९ ॥
धर्मार्थी प्राप्नुयाद्धर्मं धनार्थी धनमाप्नुयात् ।
कामानाप्नोति कामार्थी मोक्षार्थी मोक्षमाप्नुयात् ॥ ३० ॥
स्त्रीकामुकैर्नरैरेतत्पठनीयं निरंतरम् ।
विवाहकाण्डं परमं प्राप्नुवंत्यत्र ते वधूः ॥ ३१ ॥
पतिकामा कुमारी चेत्स्नात्वा श्रोष्यति भक्तितः ।
विवाहकाण्डमेतद्वै मनोज्ञं पतिमाप्नुयात् ॥ ३२ ॥
सभार्यश्चेत्पठेदेतच्छृणुयाद्वाऽत्र भक्तितः ।
इह स्त्रिया सुखं भुक्त्वाऽप्सरोभिर्दिवि मोदते ॥ ३३ ॥
सधवा शृणुयादेतद्या नारी कांडमुत्तमम् ।
विवाहाख्यं कदा भर्त्रा वियोगं नाप्नुयात्तु सा ॥ ३४ ॥
सप्तदशदिनैरस्य कार्यं स्त्रीकामुक्तैर्मुहुः ।
अनुष्ठानं वर्षमेकं मूर्खोऽपि स्त्रियमाप्नुयात् ॥ ३५ ॥
प्रथमे दिवसे सर्गं पठेद्‍द्वौ च परेऽहनि ।
नवमे दिवसे सर्गान्क्रमेण संपठेन्नव ॥ ३६ ॥
दशमे दिवसेऽष्टैव क्षयस्त्वेकेन वै क्रमात् ।
एवं सप्तदशदिनैरनुष्ठानं स्मृतं बुधैः ॥ ३७ ॥
अथवा सकलं कांडं प्रथमे दिवसे पठेत् ।
परेऽहनि द्विवारं हि नवमे दिवसे क्रमात् ॥ ३८ ॥
नववारं पठेच्चेदं दशमे दिवसे ततः ।
अष्टवारं पठेत्कांडं क्षयस्त्वेवं क्रमात्स्मृतः ॥ ३९ ॥
एवं नरो वर्षमेकमनुष्ठानात्स्त्रियं लभेत् ।
स्मितवक्त्रां चारुनासां दिव्यरूपां मनोहराम् ॥ ४० ॥
विवाहकाण्डं परमं पवित्र-
     मानन्ददं मङ्‌गलकारकं च ।
स्त्रीदं मनोज्ञं श्रुतिसौख्यदं वै
     नरैः सदा संश्रवणीयमेतत् ॥ ४१ ॥
आनन्दरामायणमध्यसंस्थं
     विवाहकाडं परमं हि षष्ठम् ।
शृण्वंति भक्त्या भुवि मानवा ये
     लभन्ति कामानखिलान्मनोज्ञान् ॥ ४२ ॥
इति श्रीशतकोटिरामचरितांतर्गते श्रीमद् आनन्दरामायणे
विवाहकाण्डे रामवंशविस्तारकथनं नाम नवमः सर्गः ॥ ९ ॥
विवाहकांडे सर्गा आनंदरामायणे नवैव ज्ञातव्याः ।
पञ्चशताश्चश्लोकाः पञ्चाशीत्युपरिष्ठाः ॥ १ ॥



श्रीसीतारामचन्द्रार्पणमस्तु

GO TOP