॥ श्रीवाल्मीकिमहामुनिकृत शतकोटिरामचरितान्तर्गतं ॥ ॥ आनन्दरामायणम् ॥
विवाहकाण्डम्
॥ सप्तमः सर्गः ॥
॥ श्रीसद्गुरु रामचंद्राय नमः ॥
श्रीरामदास उवाच अथ ते गणकाः सर्वे वसिष्ठस्तत्पुरोधसः । कुमारीणां विभागांश्च चक्रुः श्रीराघवाग्रतः ॥ १ ॥ कंजाननां लवायाथ कजाक्षीमंगदाय च । गणका निश्चयं चक्रुः कंजांघ्रीं चित्रकेतवे ॥ २ ॥ कलावतीं पुष्कराय तथा तक्षाय कालिकाम् । सुबाहवे च कमलां मालतीं यूपकेतवे ॥ ३ ॥ गणकैः सप्त ता एवं नागकन्या विनिश्चिताः । चंद्रिकामंगदायाथ चन्द्रास्यां चित्रकेतवे ॥ ४ ॥ चञ्चलाख्यां पुष्कराय तक्षाय चपलां तथा । सुबाहवे तु ह्यचलां प्रोचुस्ते गणकादयः ॥ ५ ॥ एवं गधर्वकन्यास्ताः पंच विप्रैर्विनिश्चिताः । एवं हि निश्चयं कृत्वा गणकादीन् रघूत्तमः ॥ ६ ॥ विसृज्य मैथिलीं गत्वा सर्वं वृत्तं न्यवेदयत् । ततो ययुः कोटिशस्ते पार्थिवाश्च मुनीश्वराः ॥ ७ ॥ सप्तद्वीपांतरस्थाश्च सावरोधाः सबालकाः । नानावाहनसंस्थाश्च पौरैर्जानपदैनिजैः ॥ ८ ॥ तैः साऽयोध्यापुरी व्याप्ता विरेजे नितरां तदा । ययौ विभीषणश्चाथ सुग्रीवोऽपि प्लवंगमैः ॥ ९ ॥ ययौ स भूरिकीर्तिश्च पुत्राभ्यां शीघ्रमादरात् । ययौ स जनकश्चापि युधाजित्स ययौ तदा ॥ १० ॥ कौसल्यायाः सुमित्राया बांधवाद्याः समाययुः । अथ रामस्तु वैशाखशुक्ले द्विजवरैः सह ॥ ११ ॥ पुरोधसा सुहृद्भिश्च स्नानमभ्यंगपूर्वकम् । कृत्वा लवाय मांगल्यस्नानार्थं स्त्रीः प्रचोदयत् ॥ १२ ॥ ततो मुहूर्तसमये वधूच्छिष्टां निशां लवम् । सम्यग् लिप्य सुतैलार्द्रां सीताद्या मातरस्तदा ॥ १३ ॥ स्वयं सस्नुर्मुदा सर्वास्तूर्यनादैः सबालकाः । अथ रामो देवकस्य प्रतिष्ठां ब्राह्मणैः सह ॥ १४ ॥ आदौ कृत्वा गणपतेः पूजां सम्यग्यथाविधि । पुण्याहादित्रयं चापि कृत्वा पूर्व सविस्तरम् ॥ १५ ॥ चकार विधिवत्तुष्टः पूजयामास वै मुनीन् । ततो मुहुर्तसमये गत्वा पन्नगमंदिरम् ॥ १६ ॥ लवस्य कंजनयनाविवाहं विनिवर्तयत् । चतुर्थे दिवसे वंशपात्रस्थै रत्नदीपकैः ॥ १७ ॥ नीराजितस्तदा रामो विरेजे मंडपे स्त्रिया । ततो निजगृहं गत्वा पूर्वोक्तैरुत्सवादिभिः ॥ १८ ॥ लवेन कारयामास लक्ष्मीपूजनमुत्तमम् । ततो दानान्यनेकानि ददौ स रघुनन्दनः ॥ १९ ॥ ततस्ते पार्थिवाः सर्वे तथा ते पन्नगा अपि । सुहृदश्चाथ गंधर्वाः पौरा जानपदादयः ॥ २० ॥ पजूयामासुः श्रीरामं वस्त्रैराभरणादिभिः । तथा तान् लक्ष्मणादींश्च कुशाद्यांश्चापि बालकान् ॥ २१ ॥ ततस्ता नृपपत्न्यश्च सुहृत्पत्न्यः पृथक् पृथक् । नागपत्न्यश्च गंधर्वपत्न्यश्चान्यास्तथा स्त्रियः ॥ २२ ॥ सीताद्याः पजूयामासुर्वस्त्रैराभरणादिभिः । सीताऽपि ताः सुहृत्पत्नीस्तथा पार्थिवकामिनीः ॥ २३ ॥ पूजयामास विधिवद्वस्त्रैराभरणादिभिः । रामोऽपि सुहृदः पौरान गन्धर्वान्पन्नगान्नृपान् ॥ २४ ॥ वस्त्रैराभरणैर्यानैः पूजयामास सादरम् । एवं वैशाखामासे तु सिते पक्षे लवस्य च ॥ २५ ॥ कृत्वा विवाह रामः स कृष्णपक्षे तु माधवे । चकार पर्वूद्धर्वाद्विवाहं ह्यंगदस्य च ॥ २६ ॥ चित्रकेतोः पुष्करस्य विवाहो रघुनन्दनः । ज्येष्ठमासे शुक्लकृष्णपक्षयोरकरोन्मुदा ॥ २७ ॥ ततः सर्वान्नृपांदीश्च ददावाज्ञां सुपूजितान् । ततः पुनस्तानाहूय पूर्ववन्मार्गशीर्षके ॥ २८ ॥ तक्षस्याथ सुबाहोश्च विवाहावकरोत्प्रभुः । ततः सर्वान्नृपान् रामो ददावाज्ञां सुहृज्जनान् ॥ २९ ॥ ततः पुनस्तानाहूय माघमासे सुहृन्नृपान् । यूपकेतोरंगदस्य चित्रकेतोर्महोत्सवैः ॥ ३० ॥ विवाहानकरोद्रामः पार्थिवान्न व्यसर्जयत् । पुष्करस्याथ तक्षस्य सुबाहोश्च महोत्सवैः ॥ ३१ ॥ चकार फाल्गुने मासि विवाहान् जानकीधवः । एवं कृत्वा विवाहांश्च रामो द्वादश सादरम् ॥ ३२ ॥ नृपैः संपूजितः सर्वान्पूज्याज्ञां नृपतीन् ददौ । पूजयित्वा मुनींश्चापि विससर्ज रघूद्वहः ॥ ३३ ॥ गधर्वपन्नगाः सप्त ते साकेतेऽत्र संस्थिताः । रामं मुक्त्वा न ते नैजं स्थलं जग्मुर्मुदान्विताः ॥ ३४ ॥ मंत्रिणः प्रेषयामासुः स्वस्वराज्येषु ते पृथक् । यदा रामः स वैकुण्ठमग्रे गच्छति कालतः ॥ ३५ ॥ तदा सांतानिकाँल्लोकांस्ते गच्छन्ति न संशयः । अथ रामः पन्नगानां गन्धर्वाणां च सद्मसु ॥ ३६ ॥ वाषिकेषूत्सवेष्वत्र सावरोधः सुहज्जनैः । पौरैः स्वीयैर्भोजनादि गत्वा ह्यंगीकरोत्सदा ॥ ३७ ॥ सदा महोत्सवाश्चासन्नयोध्यायां गृहे गृहे । आनन्दः सकलानासीन्नासीत्कुत्राप्यमंगलम् ॥ ३८ ॥ अथ तेषां राघवेण पुत्राणां च पृथक् पृथक् । अष्ट कृत्वा तु गेहानि पृथक्कृत्वा च शांतयः ॥ ३९ ॥ तेषु ते स्थापिताः सर्वे स्वस्वस्त्रीभ्यां पृथक् सुखम् । तथा ते लक्ष्मणाद्याश्च पृथग्गेहेषु वांधवाः ॥ ४० ॥ पूर्वमेव स्थापिताश्च स्वस्वपन्या मुदान्विताः । सुमित्रायाः स सौमित्रिः स्वीयगेहेऽवसत्सुखम् ॥ ४१ ॥ कैकेयी भरतस्याथ गेहे मासमुवास सा । तस्थौ शत्रुघ्नगेहेऽपि मासमेकं यथासुखम् ॥ ४२ ॥ एवं मा पुत्रयोर्गेहेऽकरोद्वास मुदान्विता । कौसल्या सा रामगेहे तस्थौ सीतातिसेविता ॥ ४३ ॥ ते मये बांधवाः पुत्रा निजयानैश्च सेवकैः । स्वदासीगोधनाद्यैश्च सुखमापुः पृथक् पृथक् ॥ ४४ ॥ अय न लक्षणाद्याश्च कुशाद्या बालका अपि । स्वस्वगेहेषु वै प्रातः स्नात्वा होमान् शिवार्चनम् ॥ ४५ ॥ गोद्विजार्चादि संपाद्य ततस्ते राघवं ययुः । नत्वा रामं जानकीं ते तस्थुर्दिव्यासनोपरि ॥ ४६ ॥ तेषां सर्वाः स्त्रियश्चापि स्नात्वा दुर्गां प्रपूज्य च । गत्वा सीतां प्रणेमुस्तास्तस्थुः सीताज्ञयाऽऽसने ॥ ४७ ॥ ततस्ते लक्ष्मणाद्याः कुशाद्याः स्वगुरोर्मुखात् । कथां पौराणिकीं श्रुत्वा जग्मुः स्वं स्वं गृहं प्रति ॥ ४८ ॥ ततः सर्वे रामगेहे समाहूता मुदान्विताः । उपाहारान् पृथक् चक्रुर्मध्याह्ने भोजनान्यपि ॥ ४९ ॥ एवं तेषां स्त्रियश्चापि समाहूतास्तु सीतया । उपाहारान् भोजनानि चक्रुः सीतागृहे सदा ॥ ५० ॥ कदा मुदा स्वीयगेहे राघवेणाथ सीतया । उपाहारान् भोजनानि चक्रुस्ते ब्राह्मणादिभिः ॥ ५१ ॥ एवं तैर्बन्धुभिर्बालैः प्रापतुर्नितरां सुखम् । सीतारामौ कदा नासीत्कलहः क्वापि कस्य हि ॥ ५२ ॥ इति श्रीशतकोटिरामचरितांतर्गते श्रीमद् आनन्दरामायणे वाल्मीकीये विवाहकाण्डे द्वादशविवाहवर्णनं नाम सप्तमः सर्गः ॥ ७ ॥ श्रीसीतारामचन्द्रार्पणमस्तु |