॥ श्रीवाल्मीकिमहामुनिकृत शतकोटिरामचरितान्तर्गतं ॥

॥ आनन्दरामायणम् ॥

विवाहकाण्डम्

॥ पञ्चमः सर्गः ॥
[ जलदेवीजीवदानं बालिकामोचनम् ]

॥ श्रीसद्‌गुरु रामचंद्राय नमः ॥


श्रीरामदास उवाच
एकदा रघुवीरः स सीतया बालबंधुभिः ।
पौरैमन्त्रिजनैरिष्टैः पुष्पकस्थो ययौ वनम् ॥ १ ॥
पश्यन्नानाकोतुकानि रंजयन् जानकीं मुदा ।
ययौ स दण्डकारण्यमगस्तेराश्रमान्तिकम् ॥ २ ॥
राममागमाकर्ण्य कुंभजन्मा मुनीश्वरः ।
प्रत्युद्गम्य रघुश्रेष्ठं निनाय स्वाश्रमं प्रति ॥ ३ ॥
ततः स मुनिवर्यस्तु स्नात्वा रहसि संस्थितः ।
अन्नपूर्णां महालक्ष्मीं चिंतयामास चेतसि ॥ ४ ॥
तदा तत्तपसा तुष्टाऽऽविर्बभूव सुरेश्वरी ।
ददौ तस्मै पायसेन पूरिते पात्रमुत्तमम् ॥ ५ ॥
अन्नपूर्णा मुनिं प्राह स्थाल्यास्तु विविधानि हि ।
पक्वान्नानि यथेष्टानि निष्कास्य तव भामिनी ॥ ६ ॥
सर्वेषामग्रतः शीघ्रं करोतु परिवेषणम् ।
इत्युक्त्वा साऽन्नपूर्णा तं मुनिमन्तर्दधे तदा ॥ ७ ॥
लोपामुद्रा मुनेः पत्नी स्थाल्या निष्कास्य वेगतः ।
दिव्यान्नानि विचित्राणि सर्वेषां पुरतस्तदा ॥ ८ ॥
समर्चितानां विप्राणां चकार परिवेषणम् ।
अथ तुष्टं रघुश्रेष्ठ कंकणे रत्ननिर्मिते ॥ ९ ॥
ददौ मुदा कुम्भजन्मा सीतायै दिव्यकुंडले ।
एवं संपूजितस्तेन मुनिना रघुनन्दनः ॥ १० ॥
सहितोऽगस्तिना स्थित्वा पुष्पके पूर्ववत्पुनः ।
पश्यन्तौ दण्डकारण्ये कौतुकानि समंततः ॥ १ १ ॥
विचचार रघुश्रेष्ठो दर्शयामास मैथिलीम् ।
नानावृक्षान्पर्वतांश्च नदीः पक्षिकुलान्मृगान् ॥ १ २ ॥
पञ्चाप्सरसरो नाम ददर्शासौ भ्रमन् सरः ।
तत्तटे राघवो रात्रौ निवासमकरोन्मुदा ॥ १ ३ ॥
एतस्मिन्नंतरे रात्रौ नृत्यमप्सरसां शुभम् ।
शुश्राव मधुरं गीतं सीतया मंचके प्रभुः ॥ १ ४ ॥
तेऽपि सर्वे शुश्रुवुस्तन्नृत्यं गीतं च सुस्वरम् ।
अदृष्ट्‍वाऽप्सरसस्तत्र तदा स रघुनन्दनः ॥ १५ ॥
पप्रच्छ कुभजन्मानं गीतं नृत्यं कुतस्त्विदम् ।
श्रूयते मुनिशार्दूल वदस्व त्वं सविस्तरम् ॥ १ ६ ॥
इति रामवचः श्रुत्वा तमगस्तिर्वचोऽब्रवीत् ।
राम राजीवपत्राक्ष किं त्वं वेत्सि न वै त्विदम् ॥ १७ ॥
सर्वानेतान्मन्मुखेन वृत्तं श्रावयितुं मुदा ।
चेन्मां पृच्छसि तर्ह्यद्य तवाग्रे प्रवदाम्यहम् ॥ १८ ॥
पुरा गन्धर्वराजस्य पुत्र्यः पंच मनोरमाः ।
अरजस्का मुदा क्रीडां चक्रुरत्र सरोवरे ॥ १९ ॥
एतस्मिन्नंतरे राम नागकन्याः सरोवरात् ।
क्रीडार्थं निर्ययुः सप्त बहिरप्राप्तयौवनाः ॥ २० ॥
तासां परस्परं मैत्री बभूव रघुनन्दन ।
तत्र ता नागकन्याश्च तथा गन्धर्वकन्यकाः ॥ २१ ॥
यातायातं सदा चक्रुः क्रीडार्थं सरसस्तटे ।
तपता मुनिना तत्र मुहुर्वाक्यैर्निवारिताः ॥ २२ ॥
माऽगच्छध्वं मन्निकटे चेति ता बालभावतः ।
अमानयंस्तद्वाक्यस्य समाजग्मुनिरन्तरम् ॥ २३ ॥
इन्द्रेण बोधिताश्चापि तत्तपोध्वसनं प्रति ।
मुनिश्चापि तपोनाशं दृष्ट्‍वा शापादिना तदा ॥ २४ ॥
विना शापेन तासां स दण्डं सम्मंत्रयद्‌हृदि ।
आत्मवाक्यगौरवेण जलदेवीः प्रचोदयत् ॥ २५ ॥
तद्वाक्याञ्जलदेव्यस्ता मध्याह्ने स्वीयमंदिरम् ।
निन्युर्धृत्वा बलादेव यत्र केषां गतिर्न हि ॥ २६ ॥
गंधर्वाः पन्नगा यत्र गंतुं शक्ता न चाभवन् ।
तपोऽन्ते स मुनिः स्वर्गं गतस्ता ह्यत्र संस्थिताः ॥ २७ ॥
ताः सर्वा जलदेवीनां गेहं संत्यधुना प्रभो ।
इदं वृत्तमाधुनिकं विद्धि राम स्मयप्रदम् ॥ २८ ॥
ता ह्यत्र जलदेवीनां जलान्तर्गतसद्मनि ।
कुर्वन्ति नृत्यगीतानि तासां संश्रूयते ध्वनिः ॥ २९ ॥
एवं राम यथा पृष्टं त्वया सर्वं मया तथा ।
वृत्तं तवाग्रे कथितं कुरु येन हितं भवेत् ॥ ३० ॥
सर्वासां नागकन्यानां गांधर्वीणां तथा विभौ ।
मुनिना चोदितश्चेत्थं तदा सीनापतिर्मुदा ॥ ३१ ॥
लक्ष्मणं प्राह मे चापमानयाद्य क्षणादिह ।
मुक्त्वा बाणं मोचयामि दग्ध्वा देवीजलस्थिताः ॥ ३२ ॥
कन्यकाः पन्नगानां च तया गंधर्वकन्यकाः ।
इति तद्‌राम वाक्यं स श्रुत्वा सौमित्रिरादरात् ॥ ३३ ॥
शीघ्रं चापं सतूणीरं ददौ श्रीराघवं प्रति ।
ततः कोदण्डमुद्यम्य टणत्कृत्य रघूद्वहः ॥ ३४ ॥
शरं जग्राह तूणीरं निजनामांकितं शितम् ।
तदा चचाल धरणी चुक्षुभुः सप्त सागराः ॥ ३५ ॥
ववौ घोरतरो वायू रजोव्याप्ता दिशोऽभवन् ।
तारा निपेतुर्धरणीं दुद्रुवुर्वनचारिणः ॥ ३६ ॥
पर्वताः कंपिता आसन् ववर्षुलोहितं घनाः ।
तज्ज्ञात्वा जलदेव्यस्ताः श्रुत्वा चापध्वनिं महत् ॥ ३७ ॥
भयभीताः समाजग्मुस्ताभिः सर्वाभिरादरात् ।
प्रणेमुस्तास्तदा रामं बालिकास्तास्तु द्वादश ॥ ३८ ॥
राघवायार्पयामासुदिव्यभूषणभूषिताः ।
राघवं जलदेव्यस्ताः प्रार्थयामासुरादरात् ॥ ३९ ॥
राम राम महाबाहोऽस्माभिर्यदपराधितम् ।
तत्क्षमस्व रघुश्रेष्ठ मा मुंच स्वपतत्रिणम् ॥ ४० ॥
न कश्चित्सूर्यवंशेऽभूत्स्त्रीषु शस्त्रप्रहारकः ।
त्वयाऽपि रक्षिता पूर्वं स्त्रीत्वाद्‌भूर्जाह्नवीतटे ॥ ४१ ॥
यदाऽनया तु शपथः कृतो मैथिलकन्यया ।
ताटिकादिराक्षसीषु यत्कृतं बाणमोचनम् ॥ ४२ ॥
ब्रह्मघ्नीषु त्वया पूर्णं तत्सर्वेषां हिताय च ।
इति तासां वचः श्रुत्वा विहस्य रघुनन्दनः ॥ ४३ ॥
स्थापयामास तूणीरे पूर्ववत्तं स्वमार्गणम् ।
ततस्ताभिः पूजितः स तदा हृष्टो रघूत्तमः ॥ ४४ ॥
जलदेवीर्ददावाज्ञां स्वस्थलं गम्यतामिति ।
एतस्मिन्नन्तरे तत्र गंधर्वाश्चाथ पन्नगाः ॥ ४५ ॥
विदित्वा सकल रामकृतं रामांतिकं ययुः ।
नत्वा रामं ससीतं च तथा तं कुम्भसंभवम् ॥ ४६ ॥
उपायनान्यनेकानि समर्प्य रघुनन्दनम् ।
ऊचुस्ते मंजुल वाक्यं प्रबद्धकरसंपुटाः ॥ ४७ ॥
इति श्रीशतकोटिरामचरितांतर्गते श्रीमद् आनन्दरामायणे वाल्मीकीये
विवाहकाडे जलदेवीजीवदानं बालिकामोचनं नाम पञ्चमः सर्गः ॥ ५ ॥



श्रीसीतारामचन्द्रार्पणमस्तु

GO TOP