॥ श्रीवाल्मीकिमहामुनिकृत शतकोटिरामचरितान्तर्गतं ॥ ॥ आनन्दरामायणम् ॥
विलासकाण्डम्
॥ सप्तमः सर्गः ॥
॥ श्रीसद्गुरु रामचंद्राय नमः ॥
श्रीरामदास उवाच एकदा राघवं द्रष्टुं तथा स्नातुं मघावपि । शिष्यैः समाययौ व्यासो मुनिभिः परिवेष्टितः ॥ १ ॥ समागतं मुनिं श्रुत्वा तं प्रत्युद्गम्य राघवः । ननाम शिरसा भक्त्या निनाय निजमंदिरम् ॥ २ ॥ दत्त्वा वरासनं तस्मै द्विजेभ्यश्चापि वै पृथक् । दत्त्वाऽऽसनानि दिव्यानि चकार पूजनं पृथक् ॥ ३ ॥ कामधेनूद्भवै रत्नैर्मणिभ्यां संभवैरपि । व्यासं तं भोजयामास मुनिभिर्जानकीपतिः ॥ ४ ॥ तांबूलं दक्षिणां दत्त्वा प्रअद्धकरसम्पुटः । पप्रच्छ कुशलं तस्मै व्यासाय रघुनन्दनः ॥ ५ ॥ सीता तं बीजयामास व्यासं सत्यवतीसुतम् । एतस्मिन्नन्तरे व्यासो रामाय कुशलं निजम् ॥ ६ ॥ निवेद्य पृष्ट्वा तन्क्षेमं तमाह कौतुकात्पुनः । राम राम महावाहो यथा राज्यं त्वया भुवि ॥ ७ ॥ भुज्यते न तथान्येन केनापि पृथिवीभृता । पुरा भुक्तं न कोऽप्यग्रे भोक्ष्यते पृथिवीपतिः ॥ ८ ॥ अन्यत्तेऽत्र महद्धैर्यमेकपत्नीव्रतं प्रति । दृष्ट्वातिविस्मयश्चित्ते जायते मे रघूत्तम ॥ ९ ॥ कः सहेतात्र तारुण्यकामदावानलं नृपः । पदस्थे यौवने चापि त्वमेवास्मिन्बव्रते क्षमः ॥ १० ॥ इति व्यासवचः श्रुत्वारामो व्यासं वचोऽब्रवीत् । मया त्रयः कृताः संति नियमा मुनिसत्तम ॥ ११ ॥ मुखाद्विनिर्गतं वाच्यमेकमेव विनिश्चितम् । न क्रियते मृषा तच्च नोच्यते ह्यपरं पुनः ॥ १२ ॥ अन्यत्सीता विनाऽन्या स्त्री कौसल्यासदृशी मम । न क्रियते परा पत्नी मनसाऽपि न चिंतये ॥ १३ ॥ तथा यं हन्तुमिच्छामि बाणेनैकेन कोपतः । निहन्यते तदैकेन नान्यं बाण सृजाम्यहम् ॥ १४ ॥ इत्थं त्रयः कृताः पूर्वं नियमास्त्वत्र भो मुने । सत्या एव भवत्वग्रेऽखडितास्तव वाक्यतः ॥ १५ ॥ तथैवास्त्विति सोऽप्याह व्यासः श्रीराघवं तदा । पुनराह मुनिः श्रीमान् व्यासः श्रीराघवं प्रति ॥ १६ ॥ एकपत्नीव्रतस्यास्य फलेनापरजन्मनि । त्वं कृष्णरूपेण बह्वीर्नारीर्भोक्ष्यसि राघव ॥ १७ ॥ तन्मुनेर्वचनं श्रत्वा विहस्य राघवोऽब्रवीत् । बह्वीश्च कामिनीर्भोक्तुं कृष्णरूपधरोऽप्यहम् ॥ १८ ॥ द्वारिकायां यदाऽग्रे हि द्वापरे मुनिसत्तम । येन व्रतेन दानेन नियमेनाथवा मुने ॥ १९ ॥ बहुनारीर्निश्चयेन प्राप्स्यामीति वदस्व माम् । इति रामवचः श्रुन्वा व्यासो राघवमब्रवीत् ॥ २० ॥ सम्यक्पृष्टं त्वया राम दानं ते प्रवदाम्यद्रम् । एकपत्नीव्रतादेव यद्यपि त्वं च स्त्रीर्बहु ॥ २१ ॥ लभिष्यसि तथाप्यद्य दानं तव वदाम्यहम् । सोताभारसुवणेन मूर्तिमेकां रघूत्तम ॥ २२ ॥ एवं षोडशमूर्तीश्च कारय त्वं पृथक् पृथक् । देहि त्वं सरयूनद्यास्तीरे विप्रेभ्य आदरात् ॥ २३ ॥ वस्त्रालङ्कारभूषाद्यैर्दक्षिणाभिश्च ताः शुभाः । अनेन बहुनारीस्त्वं लभिष्यस्यन्यजन्मनि ॥ २४ ॥ तथेति राघवश्चापि मूर्तीः कृत्वा मनोरमाः । ददौ ताः सरयूनद्यां ब्राह्मणेभ्यस्तु षोडश ॥ २५ ॥ ततस्ते ब्राह्मणास्तुष्टा रामायाशीर्ददुर्मुदा । दत्तमेकगुणं राजन् सहस्रगुणितं पुरा ॥ २६ ॥ अस्माकं वचनाद्दानफलं तव भविष्यति । षोडशस्त्रीसहस्राणि त्वं लभिष्यसि निश्चयात् ॥ २७ ॥ तयास्त्वित्याह रामोऽपि ततो विप्रान्व्यसर्जयत् । प्रणम्य पूजितं व्यासं ददावाज्ञां रघूद्वहः ॥ ।२८ ॥ अथैकदा रामचन्द्रः सीतया सरयूतटे । मधुमासे वस्त्रगेहे स्थितः क्रीडा चकार सः ॥ २९ ॥ एतस्मिन्नंतरेऽयोध्यां नानादेशनिवासिनः । रामतीर्थे मधौ स्नातुं समाजग्मुः सहस्रशः ॥ ३० ॥ सुरा यक्षाः किन्नराश्च गन्धर्वाः पन्नगा नगाः । वल्ल्यश्च सरितः सर्वास्तीर्थानि मुनयो नृपाः ॥ ३१ ॥ अप्सरसः पन्नगाश्च खगाः क्षेत्राणि वानराः । अथैका देवपत्न्यो ज्ञात्वाऽस्पृश्यां विदेहजाम् ॥ ३२ ॥ परस्परं ताः समंत्र्य निशीथे राघवं प्रति । समाजग्मुर्दिव्यवस्त्ररत्नाभरणभूषिताः ॥ ३३ ॥ रामसौंदर्येसंभ्रान्ताः कामबाणप्रपीडिताः । ता दृष्ट्वा रामदूतास्ते पप्रच्छू रक्षणस्थिताः ॥ ३४ ॥ यूषं किमर्यं संप्राप्ता निशीथेऽत्र भयावहे । कथयध्वं हि नः सर्वं मा शङ्कां कुरुतात्र हि ॥ ३५ ॥ ता ऊचूः राघवं द्रष्टुं समायाता वयं स्त्रियः । अधुना चेद्राघवस्य दर्शनं न भविष्यति ॥ ३६ ॥ जातो वधस्तदाऽस्माकं जीवितानि नदीजले । इति तासां वचः श्रूत्वा दूतास्ते राघवं जवात् ॥ ३७ ॥ दास्या निवेदयामासुः स्त्रीवृत्तं तत्सविस्तरम् । श्रुत्वा दासीमुखाद्रामः सैकते मञ्चके स्थितः ॥ ३८ ॥ समाहूय स्त्रियः सर्वा ददर्श रघुनायकः । ताश्चापि दृष्ट्वा श्रीरामं मेनिरे कृतकृत्यताम् ॥ ३९ ॥ ततस्ता राघवं नत्वा लञ्जयाऽधोमुखाः स्त्रियः । पीडिताः कामबाणैश्च तस्थुः श्रीरामसन्निधौ ॥ ४० ॥ ताः पप्रच्छ राघवोऽप्यागमनस्याथ कारणम् । ता राघव तदा प्रोचुः सर्वं वेत्सि त्वमीश्वर ॥ ४१ ॥ ज्ञात्वा तासां रामचन्द्रो हृद्गतं प्राह ताः पुनः । एकपत्नीव्रतं मेऽस्ति चैतञ्जन्मनि भोः स्त्रियः ॥ ४२ ॥ न ज्ञेयं मे मृषा वाक्यं गम्यतां स्वस्थलं जवात् । माऽभूदधर्मो मद्राज्ये राज्ञां वै निरयप्रदः ॥ ४३ ॥ इति राघववाग्बाणैभिन्नमर्मस्थलाः स्त्रियः । ययुर्मूर्छां क्षणादेव सिकतायां सहस्रशः ॥ ४४ ॥ ता मूर्छाविह्वला दृष्ट्वा रामो विह्वलमानसः । नारीः संतोषयन् प्राहं हे नार्यः श्रूयतां मम ॥ ४५ ॥ वाक्य खेदापहं वोऽद्य द्वापरे कृष्णरूपधृक् । अहं व्रजे भविष्यामि नन्दगोपेशपालिते ॥ ४६ ॥ तदा देवास्तु गोपाला भावि मद्वरदानतः । भविष्यन्ति सुरेशश्च नन्दस्तत्र भविष्यति ॥ ४७ ॥ भविष्यथ तदा यूयं गोपिकाः सकला व्रजे । युष्माकं पूरयिष्यामि यथेच्छं वाञ्छितं तदा ॥ ४८ ॥ रासक्रीडां हि युष्माभिः करिष्यामि न संशयः । वृन्दावने तु कालिंद्यां सैकते निशि वै चिरम् ॥ ४९ ॥ भवध्वं स्वस्थचित्ताश्च गच्छध्वं स्वस्थलं मुदा । इति रामवचोरूप-सुधया जीविताः स्त्रियः ॥ ५० ॥ किंचित्तुष्टहृदो रामं नत्वा जग्मुर्निजं स्थलम् । एतस्मिन्तरे तत्र मधुस्नानार्थमादरात् ॥ ५१ ॥ मायापुर्याः समायाता रम्या गुणवती शुभा । श्रारामचन्द्र उवाच का सा प्रोक्ता गुणवती किंशीला कस्य कन्यका ॥ ५२ ॥ तद्वदस्व सविस्तार कस्यासीत्प्रमदा पुरा । इति शिष्यवचः श्रुत्वा रामदासोऽब्रवीत्पुनः ॥ ५३ ॥ इति श्रीशतकोटिरामचरितांतर्गते श्रीमद् आनन्दरामायणे वाल्मीकीये विलासकाण्डे देवपत्नीवरदानं नाम सप्तमः सर्गः ॥ ७ ॥ श्रीसीतारामचन्द्रार्पणमस्तु |