॥ श्रीवाल्मीकिमहामुनिकृत शतकोटिरामचरितान्तर्गतं ॥ ॥ आनन्दरामायणम् ॥
यागकाण्डम्
॥ नवमः सर्गः ॥
॥ श्रीसद्गुरु रामचंद्राय नमः ॥
श्रीरामदास उवाच श्रीरामेऽवभृथस्नाते शभुर्ब्रह्मादिभिः सुरैः । रामं वेदस्तवैः स्तुत्वा प्रत्युवाच पुरः स्थितः ॥ १ ॥ अद्य धन्या वयं सर्वे यत्त्वां स्नातं सुमंगलम् । पश्यामो वाज्यवभृथे सीतया बंधुभिः सह ॥ २ ॥ अस्माकं हर्षकालोऽयं देवदेव दयानिधे । तस्मादयं सदा पुण्यः श्रेष्ठकालो भविष्यति ॥ ३ ॥ त्वं चाप्यंगीकुरुष्वाद्य देह्यस्मै सुबहून्वरान् । अन्यन्नश्चात्र प्रत्यब्दं येन ते दर्शनं भवेत् ॥ ४ ॥ तथा कुरु रघुश्रेष्ठ तीर्थायास्मै वरान्वद । अन्यानि च त्वया पूर्वं यानि भूम्यां कृतानि हि ॥ ५ ॥ यात्राकाले सुतीर्थानि लिंगान्यपि निजाख्यया । तेषामपि वरानद्य वद त्वं मम वाक्यतः ॥ ६ ॥ पुरीषु श्रेष्ठाऽयोध्येयं त्वया वाच्याऽद्य राघव । नदीषु सरयूः श्रेष्ठा वरैः कार्याऽद्य मद्गिरा ॥ ७ ॥ तच्छंभुवचनं श्रुत्वा प्रहस्य रघुनन्दनः । हर्षकालेऽब्रवीद्वाक्यं यत्त्रैलोक्योपकारकम् ॥ ८ ॥ श्रीराम उवाच यत्प्रार्थितं त्वया शंभो तदेव हृदि मे स्थितम् । शृणुष्व वचनं मेऽद्य यद्धर्षात्प्रोच्यते शुभम् ॥ ९ ॥ सर्वेषामेव मासानां श्रेष्ठश्चायं मधुर्भवेत् । वैशाखात् कार्तिकः श्रेष्ठः कार्तिकान्माघ एव च ॥ १० ॥ माघमासाद्वरश्चायं चैत्रमासो भविष्यति । चैत्रमासेऽभवञ्जन्म मम यस्मात्तथा पुनः ॥ ११ ॥ वाजिमेधावभृथेषु स्नानेनापि विशेषतः । सर्वेषामधिकश्चास्तु मधुस्ते वाक्यगौरवात् ॥ १२ ॥ चैत्रमासे कृतं दत्तं हुतं स्नातं विचिंतितम् । सर्वं कोटिगुणं प्रोक्तमयोध्यायां विशेषतः ॥ १३ ॥ सर्वासु प्रथमा चेयं पुरीषु नगरी मम । अयोध्या मुक्तिदात्री तु भविष्यति गिरा मम ॥ १४ ॥ अन्यत्र यत्कृतं पुण्यं षष्टिसंवत्सरैः शुभम् । तदत्र दिवसैकेन भविष्यति नृणां सदा ॥ १५ ॥ पुरीणां मथुरा ज्ञेया राजधानी शुभप्रदा । त्वयाऽस्यै याचितो यस्माद्वरार्थमहमादरात् ॥ १६ ॥ तव वाक्याद्गौरवेण तव काश्याः शताधिका । भविष्यति पुरी चेयमयोध्या मम वल्लभा ॥ १७ ॥ नदीषु सरयूश्चेयं श्रेष्ठाऽस्तु वचनान्मम । सरयूसदृशी नान्या नदी भूता भविष्यति ॥ १८ ॥ अस्यामपि मया चेदं रामतीर्थं विनिर्मितम् । निजतेजप्रतापेन तीर्थेषु मुकुटोपमम् ॥ १९ ॥ भविष्यति न संदेहः सर्वपातकनाशनम् । तथा यानि पृथिव्यां हि मया तीर्थानि वै पुरा ॥ २० ॥ लिंगान्यपि स्वीयनाम्ना कृतानि तानि शंकर । स्नाने दर्शनार्चाद्यैर्मुक्तिदाऽन्यत्र संतु वै ॥ २१ ॥ रामतीर्थे चैत्रमासे प्रत्यब्दं भुवि मानवैः । स्नातव्यं विधिना सम्यङ्नियमैर्मम वाक्यतः ॥ २२ ॥ यच्छ्रेयश्चाश्वमेधेन यद्गोमेधेन वै फलम् । यत्फलं सोमयागेन तच्चैत्रेऽत्रावगाहनात् ॥ २३ ॥ सूर्यग्रहे कुरुक्षेत्रे यच्छ्रेयः स्नानदानतः । तच्छ्रेयः स्यान्मघौ स्नानादयोध्यायां सुरेश्वर ॥ २४ ॥ अयोध्यायां रामतीर्थे सरयूजलसंस्थिताः । चैत्रस्नानं प्र??नास्ते नरा मोक्षभागिनः ॥ २५ ॥ यथा माघे प्रयागे हि स्नातव्यं सुखमिच्छता । कार्तिकेऽपि तथा काश्यां पंचगंगाजले स्मृतः ॥ २६ ॥ द्वारकायां यथा प्रोक्ता वैशाखे चक्रतीऽर्थके । अयोध्यायां रामतीर्थे तथा चैत्रेऽवगाहनम् ॥ २७ ॥ करणीयं नरैर्भक्त्या वचनान्मम सर्वदा । सर्वेष्वपि च मासेषु प्रथमः सकलैर्जनैः ॥ २८ ॥ एतावत्कालपर्यन्तं मार्गशीर्षः प्रगीयते । अद्यारभ्य मधुश्चाय प्रथमः ख्यातिमेष्यति ॥ २९ ॥ यथा देवेषु प्रथमस्त्वं महेशस्तथा मधुः । मासेषु प्रथमश्चास्तु तथाऽयोध्या पुरीष्वपि ॥ ३० ॥ चैत्रे मासे तु संप्राप्ते सर्वे देवाः सवासवाः । बहिर्जलं समाश्रित्य तिष्ठध्वं हि ममाज्ञया ॥ ३१ ॥ प्रत्यब्दं चैत्रमासेऽत्र यथेदानीं समागताः । आगंतव्यं तथा सर्वैस्त्रैलोक्यांतरवासिभिः ॥ ३२ ॥ जरठैरातुरैः स्त्रीभिर्येपां यत्संनिधौ मम । रामतीर्थं प्रगंतव्यं सर्वत्र भुवि शंकर ॥ ३३ ॥ चैत्रमासेऽवगाहार्थं वचनान्मम सर्वदा । इति रामवचः श्रुत्वा गिरिजा प्राह जानकीम् ॥ ३४ ॥ सीते वरास्त्वया देया इदानीं वचनान्मम । नारीणां च हितार्थं हि सर्वलोकोपकारकाः ॥ ३५ ॥ पार्वत्या वचनं श्रुत्वा जानकी प्राह सादरम् । पृथिव्यां मम तीर्थानि यानि सन्ति सहस्रशः ॥ ३६ ॥ अत्रापि च महच्छ्रेष्ठं यत्र स्नातं मयाऽधुना । तेषु चैत्रतृतीया या यावद्वैशाखसंभवा ॥ ३७ ॥ सिता तृतीयाऽक्षय्याख्या तावत्स्त्रीभिस्तु सादरम् । स्नातव्यं शीतलागौरीसंज्ञकं स्थानमुत्तमम् ॥ ३८ ॥ सौभाग्यदं मासमेकं पुत्रपौत्रप्रवर्द्धनम् । सर्वत्र रामतीर्थस्य वामे तीर्थं ममास्ति हि ॥ ३९ ॥ इति दत्त्वा वरान्सीताऽऽसीत्तूष्णीं रामसन्निधौ । ततो रामं गुरुः प्राह गन्तव्यं यज्ञमडपम् ॥ ४० ॥ तद्गुरोर्वचनं श्रुत्वा तथेत्युक्त्वा रघूद्वहः । आरुरोह रथं शीघ्रं सीतयार्त्विग्जनैः सह ॥ ४१ ॥ ततो नेदुर्दुन्दुभयो भेरीणां निःस्वनास्ततः । मृदगपणवादीनां महाघोषाः समंततः ॥ ४२ ॥ वेदघोषाश्च सर्वत्र जयशब्दा द्विजेरिताः । बभूबुमंत्रशब्दाश्च ननृतुश्चाप्सरोगणाः । ४३ ॥ नानोत्सवैः पूर्ववच्च कौतुकानि समततः । पश्यन्ययौ रामचन्द्रः शनैरध्वरमंडपम् ॥ ४४ ॥ अवरुह्य रथाच्छीघ्रं नीत्वाऽग्निं प्राक्षिपत्पुनः । यज्ञकुण्डे रामचन्द्रः सीतयार्त्विग्जनैः सह ॥ ४५ ॥ पूर्णाहुतिं ततो दत्त्वा वस्त्रेराभरणेः फलैः । कृत्वाऽग्रं पूजनं चापि यज्ञपात्राणि राघवः ॥ ४६ ॥ ततो विसर्जयामास यज्ञांते दक्षिणां बहु । दातुं तानृत्विजः सर्वान् सौमित्रिं राघववोऽब्रवीत् ॥ ४७ ॥ कोशागारं लक्ष्मणाद्याः सर्वे मे ऋत्विजस्त्वया । नीत्वा दूतान्निराकृत्य तूष्णीं स्थेयं ततः परम् ॥ ४८ ॥ यथेच्छयाऽमितं येन गृहीतमुत्तमं वसु । तस्याश्रमे प्रापणीयं वाहनाद्यैश्च तत्त्वया ॥ ४९ ॥ ततो मुनिजनान् सर्वान् देयं विपुलहस्ततः । तद्रामवचनं श्रुत्वा लक्ष्मणोऽपि तथाऽकरोत् ॥ ५० ॥ ततो विसर्जयामास भोजयित्वा रघूत्तमः । ऋत्विग्जनान् संवृणीतान्वाजिमेधाख्यकर्मणि ॥ ५१ ॥ ततो रामोऽमरान्सर्वान् शिवाद्यान्विविधैर्निजैः । पूजयामास विधिवद्वस्त्रालंकारवाहनैः ॥ ५२ ॥ ददौ कोशान्सतुरगान् केषां स शिबिकां ददौ । केषां रथान्गजान्केषां ददौ वस्त्राण्यपीश्वरः ॥ ५३ ॥ एवं पृथ्वीपतींश्चापि सावरोधान् ससेवकान् । वस्त्रैराभरणैर्यानैः पूजयामास भोजनैः ॥ ५४ ॥ ततो रामः स्वशरारे दिव्यवस्त्राणि सन्दधौ । तदा तं पूजयामासुर्बलिभिर्विबुधा नृपाः ॥ ५५ ॥ सरित्समुद्रा गिरयो नागा गावः खगा मृगाः । द्यौः क्षितिः सर्वभूतानि समाजह्रुरुपायनम् ॥ ५६ ॥ सीतया समहाराजः सुवासाः साध्वलंकृतः । बंधुभिः सेव्यमानः स विरेजेऽग्निरिवापरः ॥ ५७ ॥ तस्मै जहार धनदो हैमं वीरवरासनम् । वरुणः सलिलस्रावि ह्यातपत्रं शशिप्रभम् ॥ ५८ ॥ वायुश्च वालव्यजने धर्मः कीर्तिमयीं स्रजम् । इन्द्रः किरीटमुत्कृष्टं दण्डं संयमनं यमः ॥ ५२ ॥ ब्रह्मा ब्रह्ममयं वर्म भारती हारमुत्तमम् । दशचन्द्रमसिं रुद्रः शतचन्द्रमथाम्बिका ॥ ६० ॥ सोमोऽमृतमयानश्वांस्त्वष्टा रूपाश्रयं रथम् । अग्निराजगवं चापं सूर्यो रश्मिमयानिषून् ॥ ६१ ॥ भूः पादुके योगमय्यौ द्यौः पुष्पावलिमन्वहम् । नाट्यं सुगीतं वादित्रमन्तर्धानं च खेचराः ॥ ६२ ॥ ऋषयश्चाशिषः सत्याः समुद्रः शंखमात्मजम् । सिन्धवः पर्वता नद्यो रथवीथीर्महात्मनः ॥ ६३ ॥ ततो ददुर्नृपाः सर्वे स्यन्दनांस्तुरगान् गजान् । शिबिकागोवृषान् खङ्गान् दासीर्दासोष्ट्रखेचरान् ॥ ६४ ॥ सीतायै नृपपत्न्यश्च देवपन्यः सहस्रशः । वस्त्रलंकारयानानि माङ्गल्यान्यथ कंचुकोः ॥ ६५ ॥ क्रीडोपकरणादीनि ददुस्ताः पक्षिपंजरान् । ततस्तैः पूजितः सर्वैः सीतया रघुनायकः ॥ ६६ ॥ आरुरोह रथं दिव्यं वह्निना बन्दिभिः स्तुतः । स्वस्त्रीभिर्नृपपत्नीर्विमानेन मुनीश्वराः ॥ ६७ ॥ विहायसा ययुः सर्वेऽयोध्यायां नृपतेर्गृहम् । ततो रामो रथेनैव पूर्वोक्तैरुत्सवैः शनैः ॥ ६८ ॥ विवेश नगरीं रामः स्तुतः सूतैश्च मागधैः । छत्रं दधार सौमित्रिर्मुक्ताजालविराजिरातम् ॥ ६९ ॥ भरतस्तालव्यजनं शत्रुघ्नश्चामरद्वयम् । ताम्बूलपात्र सुग्रीवस्तोयपात्रं तु वायुजः ॥ ७० ॥ नलः ष्ठीवनपात्रं च वालिजो मुकुरं वरम् । वासःकोशं राक्षसेंद्रो धूपपात्रं हि जाम्बवान् ॥ ७१ ॥ नानाफलानां पात्राणि पूजापात्राण्यनेकशः । सुगन्धद्रव्यपात्राणि ददुस्ते मंत्रिसत्तमाः ॥ ७१ ॥ एवं सुगंधवस्तूनि प्रक्षिपन् वारयोषिताम् । वृंदेषु सीतया रामो विरेजे स्यन्दने स्थितः ॥ ७३ ॥ सुगंधरागपूणैश्च जलयंत्रैः करे घृतैः । वाराङ्गनानां वस्त्राणि नृपादीनां च राघवः ॥ ७४ ॥ चित्रितान्यकरोद्रागैः किंशुकानिव माधवे । स्नेहैः सुगंधै रागाद्यैरार्द्रवस्त्रेषु राघवः ॥ ७५ ॥ क्षिप्त्वा परिमलादीनि चित्रितान्यकरोत्पुनः । नर्तत्सु वारयोषित्सु वाद्येषु निनदत्सु च ॥ ७६ ॥ स्तुवत्सु बंदिवृदेषु पुष्पवृष्टिविराजितः । ययौ राजगृहद्वारं रामो राजपथा शनैः ॥ ७७ ॥ मार्गे कुंभप्रदीपैश्च दध्योदनविनिर्मितैः । बलिदीपैः पूर्णकुंभै राजमार्गे पुरस्त्रियः ॥ ७८ ॥ चक्रुर्नीराजनं रामं स्वस्त्यर्थं सीतया युतम् । अवरुह्य रथाद्रामो सीतयाऽग्निं निजे गृहे ॥ ७९ ॥ स्थाप्य स्वीयसभां गत्वाऽऽरुरोह स्वीयमासनम् । ततस्ते पार्थिवाः सर्वे प्रणेमू रघुनंदनम् ॥ ८० ॥ राज्ञा मुकुटरत्नौघप्रभाभिः पदपंकजे । विरेजतू राघवस्य तदा सिंहासनोपरि ॥ ८१ ॥ मुकुटस्थावतंसानां परागैः पूजिते नृपैः । प्रापतुर्नितरां शोभां रक्तोत्पलनिभे परे ॥ ८२ ॥ सीमतस्थचंद्रसूर्यरत्नमाणिक्यदीप्तिभिः । सुरपार्थिवपत्नीनां सीतायाः पादपंकजे ॥ ८३ ॥ विरेजतुः परागैश्च केशवधप्रसूनजैः । सुरपार्थिवपत्नीभिः पूजिते कनकोज्ज्वले ॥ ८४ ॥ ततः सभायां श्रीरामं स्तुत्वा देवैर्महेश्वरः । श्रीरामस्तवराजेन श्रीरामेणापि पूजितः ॥ ८५ ॥ प्राप्याज्ञां रामचंद्रस्य सावरोधैः सुरादिभिः । प्रस्थानं स्वस्थलं गंतुं चकार वृषभस्थितः ॥ ८६ ॥ नृपस्त्रियोऽपि सीतायाः प्राप्याज्ञां पूजितास्तथा । यानान्यारुरुहुः सर्वास्त्वयोध्याया विनिर्ययुः ॥ ८७ ॥ अथ ते पार्थिवाद्याश्च प्राप्याज्ञां राघवस्य च । सावरिधाः ससैन्याश्च स्वीयराज्यानि वै ययुः ॥ ८८ ॥ ययौ शिवोऽपि कैलामं सत्यलोकं विधिर्ययौ । इन्द्राद्या निर्जराः सर्वे स्वर्गलोकं ययुर्मुदा ॥ ८९ ॥ अथर्त्विजो महाशीलाः सदस्या ब्रह्मवादिनः । सर्वे मुनीश्वराद्याश्च स्वधामानि ययुस्तदा ॥ ९० ॥ ततो रामः पूर्ववच्च शशास जगतीतलम् । रेमे जनकनंदिन्या चिरकालं यथासुखम् ॥ ९१ ॥ वर्षान्तरेण कालेन वाजिमेधाः पृथक् पृथक् । उत्तरोत्तरतः श्रेष्ठा विंशद्वर्षैः कृता दश ॥ ९२ ॥ इत्थं श्रीरामचंद्रेण दशमे तुरगाध्वरे । प्रतिपाल्य गुरोर्वाक्यं सर्वस्वमपि भूसुरान् ॥ ९३ ॥ दत्तं किल महाराज्ञा तथा च दिक्चतुष्टयम् । ऋत्द्विग्भ्यो दक्षिणार्थं हि दत्त चेति मया श्रुतम् ॥ ९४ ॥ ऋत्विग्भिस्तत्पुनर्दत्त राघवायैव सादरम् । कृपालुभिः पालनार्थमिति शिष्यानुश्रूयते ॥ ९५ ॥ एवं शिष्य त्वया पृष्टं रामचंद्रस्य मंगलम् । चरितं तन्मया किंचित्तवोक्तं यज्ञसंभवम् ॥ ९६ ॥ इदं यः प्रातरुत्थाय यागकाण्डं मनोग्मम् । पठिष्यति नरः पुण्यं सर्वान् कामानवाप्नुयात् ॥ ९७ ॥ पुत्रार्थी प्राप्नुयात्पुत्रं धनार्थी धनमाप्नुयात् । यागकाण्डमिदं श्रुत्वा वाजिमेधफलं लभेत् ॥ ९८ ॥ होमकाले श्राद्धकाले चातुर्मास्यादिकेष्वपि । जपध्यानार्चनारंभे पूर्वं नित्यं पठेदिदम् ॥ ९९ ॥ रम्यं पवित्रं रघुनायकस्य श्रीमच्चरित्रं तुरगाध्वरवम् । पठति शृण्वंति जनाः सुपुण्यदं लभंति नैजं खलु वांछितं हृदि ॥ १०० ॥ इति श्रीशतकोटिरामचरितांतर्गते श्रीमद् आनन्दरामायणे वाल्मीकीये यागकाण्डे रामोत्तरयात्रानगरप्रवेशो नाम नवमः सर्गः ॥ ९ ॥ यागकाण्डोद्भवाः सर्गा नवैव परिकीर्तिताः । सपादषट्शतश्लोका रामदासेन वर्णिताः ॥ १ ॥ श्रीसीतारामचन्द्रार्पणमस्तु |